स्फोटध्वनिसम्बन्धः
ननु जन्यजनकयोरेव नियतत्वं दृश्यते। यथा – तन्तुभिरेव पटः कपालाभ्यामेव घटः इत्यादिः न तु व्यङ्ग्यव्यञ्जकयोः नियतत्वं दीपेनापि घटव्यञ्जकेन पटादेरभिव्यक्तेः। किञ्च यदभिव्यङ्ग्यं भवति न तन्नियतमाभिव्यञ्जकम् अपेक्षते। यथा घटादयः मणिप्रदीप-उपाधिग्रहनक्षत्रैः सर्वैः एव अभिव्यज्यन्ते। एवं च यदि ध्वनिशब्दयोः व्यङ्ग्यव्यञ्जकभावः स्यात् तदा कन्ठाभिघातजेन ध्वनिना अकार एवेति नियमो न स्यात्, दृश्यते तु नियमः अतो ध्वनिशब्दयोः जन्यजनकभाव एव न व्यङ्ग्यव्यञ्जकभाव इत्याशङ्कायामाह –
ग्रहग्राह्ययोः सिद्धिनियता योग्यता यथा।
व्यङ्ग्याव्यञ्जकभावेन तथैव स्फोटनादयोः॥ (१। । )
अयं भावः – गृह्यते येन तद्ग्रहणं बाह्यरूपादिग्राहकं चक्षुरादि-इन्द्रियगतं रूपादिकं ग्राह्यं च बाह्यं रूपादिकं तयोः व्यङ्ग्य-व्यञ्जकभावेन नियता योग्यता सिद्धा। तद्यथा – चक्षुःसमवेतं रूपमेव भास्वरत्वात् स्वसमानजातीयस्य बाह्यरूपस्य ग्राहकं, न चक्षुःसमवेतानि गुणान्तराणि नापि इतराणि इन्द्रियाणि नेन्द्रियान्तराय गुणाः तथा स्फोटनादयोरपि नियत-अभिव्यङ्ग्याभिव्यञ्जक भावप्रयोजिका योग्या सिद्धा भवतीति।
ननु केचित् विसदृशग्रहणग्राह्या यथा- घटादयः, केचित् सदृश-इन्द्रियग्राह्या यथा- शब्दादयः। इदं तात्पर्यं द्विविधानीन्द्रियाणि कानिचित् स्वसजातीय द्रव्यम् । अत्र समवेतगुणग्राहकानि यथा- घ्रानं श्रोत्रं च, कानिचित् स्वसजातीय विजातीय द्रव्यगतगुण-ग्राहकानि यथा- चक्षुः रसना त्वक् च। चक्षुर्हि स्वसजातीयस्य तेजसः इव विजातीयपृथिव्यादेरपि रूपस्य ग्रहणमेवं रसोऽपि। जलस्य इव पृथिव्या अपि रसस्य ग्राहिका। घ्राणश्रोत्रे च स्वसजातीय पृथिव्याकाशसमवेतयोरेव गन्धशब्दगुणयोः ग्राहके इति ते सदृशग्राहके अन्यानि विसदृशग्राहकानि, ततश्च रूपरस्पर्शाः विसदृशेन्द्रियग्राह्याः। गन्धशब्दौ सदृशेन्द्रियग्राह्यौ तत्र सदृशेन्द्रियग्राह्ये गन्धे अभिव्यञ्जकनियमो नास्ति इति तादृशे शब्दिपि अभिव्यञ्जकनियमो न स्यात्, भवति तु सः इति शब्दः नाभिव्यङ्ग्यः किन्तु उत्पाद्यः इत्याशंका समाधीयते-
सदृशग्रहणानां च गन्धादीनां प्रकाशकम्।
निमित्तं नियतं लोके प्रतिद्रव्यमवस्थितम्॥ (१। । )
अयं भावः – न केवलं ध्वन्यभिव्यङ्ग्ये शब्द एव नियत-अभिव्यञ्जकापेक्षानियमः उपलभ्यते, किन्तु घ्राणादिग्राह्येषु गन्धादिष्वपि अभिव्यङ्ग्येषु तद्यथा कुङ्कुमगन्धः स्वाश्रयसंयोगि-गोघृतगन्धेनैव अभिव्यज्यते, यथा जलस्य मधुरो रसो हरीतक्या रसेन मधुरेणैव अनुद्भूतेन अभिव्यज्यते।
ननु अभिव्यञ्जकदीपादीनां वृद्धिह्रासाभ्याम् अभिव्यङ्ग्यस्य घटस्य वृद्धिह्रासौ न भवतः, न वा दीपसहस्रेण घटस्य नानात्वं दृष्टं, इह तु अभिव्यञ्जकस्य ध्वनेः वृद्धिह्रासाभ्याम् अभिव्यङ्ग्यस्य स्फोटस्य वृद्धिह्रासौ प्राकृतध्वनिभेदे एकस्यैव स्फोटस्य घट इति पट इति भेदश्च अनुभूयते इति अभिव्यङ्ग्यधर्माभावात् स्फोटो न अभिव्यङ्ग्यः किन्तु उत्पाद्य एवेति स्फोटस्य न नित्यता स्यादित्याशङ्कायामाह-
प्रकाशकानां भेदांश्च प्रकाश्योऽर्थोऽनुवर्तते ।
तैलोदकादिभेदे तत् प्रत्यक्षं प्रतिबिम्बके ॥( । । )
अभिव्यङ्ग्योऽर्थः अभिव्यञ्जकां धर्मभेदान् अनुसरति। प्रकाश्यार्थस्य प्रकाशधर्मानुवर्त्तित्वं तैलोदकादि भेदे अभिव्यञ्जकानां तैलोदक-आदीनां भेदे सति तदभिव्यङ्ग्ये मुखादि प्रतिबिम्बके प्रत्यक्षं दृष्टम्। यथा तैले श्यामं, जले रक्तं, वज्रमणौ लघु, खड्गे दीर्घं मुकुरे वर्तुलमिति अभिव्यञ्जकवृद्धिहासयोः अभिव्यङ्ग्यमुखस्य वृद्धिह्रासौ अभिव्यञ्जकदर्पणपात्रादेश्च नानात्वे अभिव्यङ्ग्य-मुखप्रतिबिम्बस्य नानात्वमिति। एवञ्च अभिव्यञ्जक वृद्धौ अभिव्यङ्ग्यवृद्धेः तद्भेदे तद्भेदस्य दृष्टत्वात् अभिव्यञ्जकध्वनिभेदे वृद्धौ च अभिव्यङ्ग्यस्य स्फोटस्य भेदो वृद्धिश्च न स्फोटस्य अभिव्यङ्ग्यताविघातकौ इति भावः।
