भाट्ट-अद्वैतवेदान्तसिद्धान्तशास्त्ररीत्या प्रामाण्यस्य उत्पत्तौ स्वतस्त्वविचारः  

Brahmbhatt Nachiketa Sanjaykumar
Assistant professor (guest)
Advaita Vedanta Department
Shribharatitirthshastrasamutkarshakendram
CSU Sringeri – 577139
Email- nachiketabrahmbhatt11@gmail.com

शोधसारः – प्रामाण्यवादः इत्यस्मिन् विषये बहवः दार्शनिकाः विप्रतिपद्यन्ते इति सर्वेषां विदितमेव तत्र अस्मिन् शोधपत्रे भाट्टमीमांसा-अद्वैतवेदान्तशास्त्रयोः युक्तिमादाय प्रामाण्यस्य उत्पत्तौ स्वतस्त्वं कथम् इति विचारितम् । तत्र यद्यपि उभयोः शास्त्रयोः प्रामाण्यस्य उत्पत्तौ स्वतस्त्वाभ्युपगमः तथापि उभयोः अपि प्रामाण्यजनिका सामग्री भिद्यते इति अत्र प्रतिपादितम् अस्ति ।

कुञ्चिकापदानि – प्रामाण्यम् , स्वतस्त्वम् , परतस्त्वम् , गुणः , दोषः

उपोद्घातः

सर्वव्यवहारहेतुभूतं यत् ज्ञानं तत् द्वेधा विभज्यते। प्रमा, अप्रमा चेति। तत्र [1]तद्वति तत्प्रकारकं ज्ञानं प्रमा। तदभाववति तत्प्रकारकं ज्ञानम् अप्रमा। ज्ञाने तद्द्वति तत्प्रकारकत्वम् एव प्रमात्वम्। ज्ञाने तदभाववति तत्प्रकारकत्वम् एव अप्रमात्वम्। 

तत्र प्रमीयते इति प्रमाणम्। तस्य भावः प्रामाण्यं, प्रमाणत्वम् इति यावत्। प्र उपसर्गपूर्वकस्य  मा-धातोः अर्थः प्रमा भवति। तत्त्वं प्रमात्वम्। तथा च प्रामाण्यम्, प्रमात्वम्, प्रमाणत्वं सर्वं समानम् एव। प्रमीयते इति प्रमाणं तच्च प्रमा एव अतः प्रमानिष्ठं प्रमात्वं तदेव इह प्रमाण्यम्। तदिह विचार्यते। किञ्चित् ज्ञानं प्रमात्वेन कथं गृह्यते प्रमात्वेन कथम् उत्पद्यते इति विचारः अस्मिन् प्रामाण्यवादे क्रियते। तत्रापि ज्ञाननिष्ठं यत् प्रामाण्यं तत् स्वतः गृह्यते वा परतः गृह्यते वा, स्वतः उत्पद्यते वा परतः उत्पद्यते वा इति विचारः। तर्हि तत्र जिज्ञासाप्रामाण्यं स्वतः गृह्यते, परतः गृह्यते इत्यस्य कः अर्थः इति। प्रामाण्यं स्वतः उत्पद्यते परतः उत्पद्यते इत्यस्य कः अर्थः इति च।

        प्रामाण्यस्य ग्रहे स्वतस्त्वं नाम ज्ञानग्राहकसामग्रीसमानसामग्रीग्राह्यत्वम्। ज्ञानं यया सामग्र्या गृह्यते तयैव सामग्र्या तन्निष्ठं प्रामाण्यम् अपि गृह्यते चेत् तत् प्रामाण्यं स्वतो ग्राह्यम् इति उच्यते।

        प्रामाण्यस्य ग्रहे परतस्त्वं नाम ज्ञानग्राहकसामग्रीभिन्नसामग्रीग्राह्यत्वम्। ज्ञानं यया सामग्र्या गृह्यते तद्भिन्नया सामग्र्या तन्निष्ठं प्रामाण्यं गृह्यते चेत् तत् प्रामाण्यस्य प्ररतो ग्राह्यत्वम् इति उच्यते।

        प्रामाण्यस्य उत्पत्तौ स्वतस्त्वं नाम ज्ञानजनकसामग्रीसमानसामग्रीजन्यत्वम्। ज्ञानं यया सामग्र्या उतद्यते तया एव सामग्र्या ज्ञाननिष्ठं प्रामाण्यम् अपि उत्पद्यते चेत् तत् प्रामाण्यस्य उत्पत्तौ स्वतस्त्वम् इति उच्यते।

        प्रामाण्यस्य उत्पत्तौ परतस्त्वं नाम ज्ञानजनकसामग्रीभिन्नसामग्रीजन्यत्वम्। ज्ञानं यया सामग्र्या उतद्यते तद्भिन्नया सामग्र्या ज्ञाननिष्ठं प्रामाण्यम् अपि उत्पद्यते चेत् तत् प्रामाण्यस्य उत्पत्तौ परतस्त्वम् इति उच्यते। समानम् अप्रामाण्यमपि

भ्रमात्मकं यत् तदभावति तत्प्रकारकं ज्ञानं तदेव अप्रमा इति उच्यते। तन्निष्ठम् अप्रमात्वम्। तदेव अप्रामाण्यम् इति उच्यते।  समानम् अप्रामाण्यमपि ।  यथा प्रामाण्यस्य ग्रहे उत्पत्तौ च स्वतस्त्वं परतस्त्वं वा  कथ्यते तथा अप्रामाण्यस्य अपि ।

तत्र दार्शनिकानां मतानि कानि इति पश्यामः।

  • तत्र साङ्ख्याः प्रामाण्यम् अप्रामाण्यम् उभयपि स्वतः एव गृह्यते उत्पद्यते च इति कथयन्ति।
  • नैयायिकाः वैशेषिकाश्च प्रामाण्यम् अप्रामाण्यम् उभयमपि परतः एव गृह्यते उत्पद्यते च इति कथयन्ति।
  • बौद्धाः च प्रामाण्यं परतः गृह्यते उत्पद्यते च, अप्रामाण्यं स्वतः गृह्यते उत्पद्यते च।
  • मीमांसकाः अद्वैतिनश्च प्रामाण्यं स्वतः गृह्यते उत्पद्यते च, अप्रामाण्यं परतः गृह्यते उत्पद्यते च इति कथयन्ति।

तदुच्यते-

[2]अत्र प्रामाण्यविषये वादिनो बहुधा जगुः।

वदन्ति केचित् प्रामाण्यमप्रामाण्यमिति स्वतः॥

उभयं परतः प्राहुः अक्षपात्पक्षिलादयः।

अप्रामाण्यं स्वतस्तत्र प्रामाण्यं परतो विदुः।

बौद्धा, मीमांसकास्तत्र प्रामाण्यं तु स्वतो विदुः।

अप्रामाण्यं तु परतः तत्र चिन्ता विधीयते॥

शोधपत्रम्

मानमेयोदये प्रामाण्यवादारम्भे सङ्गतिः।

        मानमेयोदयस्य प्रमेयभागे द्रव्यविचारणावसरे भाट्टाः मीमांसकाः तमसः अभावस्वरूपत्वं निरस्य द्रव्यान्तरत्वं साधयन्ति। तदग्रे कर्तृविचारे वैदिकः ईश्वरः वेदैकगम्यः इति भाट्टमतम्। तत्र वेदस्य पौरुषेयत्वं मन्वानाः नैयायिकाः अनुमानमेव ईश्वरे प्रमाणम् इति व्यवस्थापयन्ति। तत्र च आक्षिप्यते तैः प्रमात्मकं यत् ज्ञानं तत् पुरुषगुणनिबन्धनं भवति मीमांसकमते तु वेदस्य अपौरुषेयत्वात् पुरुषगुणनिबन्धनत्वं नास्ति अतः एव वेदेन जायमानम् ईश्वरविषयकं ज्ञानं प्रमात्मकं भवितुं नार्हति। शब्दस्य स्वतः गुणनिबन्धनत्वे शब्दात् जायमानं ज्ञानं कदापि भ्रमात्मकं न स्यात् गुणजन्यत्वात्। तत्र उदाहरन्ति रामायणादिकं पुरुषकर्तृकं तस्मात् शब्दे पुरुषप्रयुक्तगुणाः वर्तन्ते। वेदे च पुरुषाभावात् पुरुषगुणास्तु दूरनिरस्ताः इति भाट्टमते वेदवेदवाक्यानाम् अप्रामाण्यम् अवसादितम्। तत्र समाधानं दत्तं स्यादिदं यदि गुणमात्रं प्रामाण्यप्रयोजकं न च एवम् अङ्गीक्रियते अस्माभिः तर्हि किं तत् प्रामाण्यप्रयोजकम् इति चेत् उच्यते “दोषाभावः” इति। वेदे गुणाः न भवेयुः नाम परन्तु वेदस्य अपौरुषेयत्वात् दोषाः अपि न सन्ति। तथा च दोषाभावः वेदजन्यज्ञानस्य(ईश्वरविषयकस्य) प्रामाण्यं प्रयोजयिष्यति। तथा च वेदात् ईश्वरसिद्धिः। अत्र प्रसङ्गात् प्रामाण्यविचारः कृतः।

परिभाषायां प्रामाण्यवादः।

परिभाषायां षड्भिः परिच्छेदैः निरूपितैः प्रत्यक्षानुमानोपमानार्थापत्यनुपलब्धिप्रमाणैः जायमानं ज्ञानं प्रमा इत्युच्यते। तत्र प्रमात्वं नाम किं इति विचारः इतः परं क्रियते। “[3]एवमुक्तानां प्रमाणानां प्रामाण्यं द्विविधम्…………. इत्यादि”। तत्र वेदान्तिभिरपि प्रामाण्यस्य उत्पत्तौ ज्ञप्तौ च स्वतस्त्वम् उक्तम्। ननु किमिदं स्वतस्त्वं स्वं प्रति स्वहेतुकत्वम् उत अन्यदेव किञ्चित्। तत्र न आद्यः पक्षः आश्रयितुं शक्यते। स्वस्य स्वहेतुकत्वाप्रसिद्धेः नहि भवति घटः घटजन्यः इति। नापि द्वितीयः अन्यस्य कारणत्वे स्वतस्त्वस्य व्याघातात्। अतः उच्यते स्वशब्दः अत्र आत्मीयार्थकः। आत्मीयश्च अर्थः इह दोषाभावसहकृतज्ञानग्राहकसामग्री (ज्ञप्तौ), दोषाभावसहकृतज्ञानजनकसामग्री (उत्पप्तौ), यद्यपि वेदान्तिभिः प्रमालक्षण “[4]अनधिगताबाधितार्थविषयकज्ञानत्वम्” इति उच्यते परन्तु ईदृशलक्षणलक्षितप्रमायाः प्रमाण्यम् इह न विचार्यते। तादृशप्रमात्वं तु परतः एव गृह्यते इति वेदान्तिनाम् आशयः। तर्हि इह कीदृशस्य प्रामाण्यस्य स्वतस्त्वादिकं चिन्त्यते इति चेत् उच्यते- स्मृत्यनुभवसाधारणं संवादिप्रवृत्यनुकूलं तद्वति तद्प्रकारकज्ञानत्वरूपं प्रमात्वं (प्रामाण्यम्) इह विचार्यते इति। संवादिप्रवृयनुकूलत्वं नाम सफलप्रवृत्तिप्रयोजकत्वम्। ईदृशं प्रामाण्यं ज्ञानसामान्यसामग्रीप्रयोज्यम्। ज्ञानसामान्यं नाम ज्ञानत्वावच्छिन्नम्। सर्वं ज्ञानम् इति यावत्। ज्ञानसामान्यस्य या सामग्री तया एव सामग्र्या ज्ञाननिष्ठं प्रामाण्यं प्रयोज्यते। अधिकसामग्रीं प्रामाण्यं स्वोत्पत्यर्थं नापेक्षते। तत्र च कारणं प्रमात्मकज्ञाने अनुगतगुणाभावः इति। प्रमायां जननीयायां एकः कश्चित् गुणः सर्वासु प्रमासु अनुगतः न उपलभ्यते इत्यर्थः। अस्तु तर्हि सर्वासु प्रामासु अनुगतः एकः गुणःन उपलभ्यते चेदपि प्रत्येकं प्रत्यक्षादिप्रमासु अनुगतः गुणः इति अस्तु येन सामग्रन्तरप्रयोज्यत्वात् ज्ञाननिष्ठप्रामाण्यस्य स्वतस्त्वं न सिध्यति तेन परतस्त्वम् आयाति इति स्थिते तत्र के गुणाः भवितुम् अर्हन्ति इति प्रसज्य प्रतिषिध्यते। तथा च प्रत्यक्षप्रमायां भूयोवयव-इन्द्रियसन्निकर्शः गुणः भवतु इति। तस्यायमाशयः यथा कतिभिश्चित् अवयवैः चक्षुरिन्द्रियस्य सन्निकर्षः चेत् घटादिप्रमाज्ञानं नोदेति यदा तु घटादिगतभूयसाम् अवयवानां चक्षुरिन्द्रियसन्निकर्षो जायते तदानीं प्रमा उत्पद्यते एव इति। तेन सिद्धम् अन्वयव्यतिरेकसहचारग्रहाभ्यां प्रत्यक्षप्रमां प्रति भूयोवयवेन्द्रियसन्निकर्षरूपस्य गुणस्य प्रयोजकत्वम्। अतः प्रत्यक्षप्रमागतं प्रामाण्यं परतो उत्पद्यते इति चेत्- मैवम्।

तत्र भूयोवयवसन्निकर्षस्य प्रामाण्यप्रयोजकत्वे उभयतो व्यभिचारः। उभयतो व्यभिचारो नाम अन्वययभिचारः, व्यतिरेकव्यभिचारः च इति। अन्वयव्यभिचारो नाम “कारणसत्वे (प्रयोजकसत्वे) कार्याभावः(प्रयोज्याभावः) इति। व्यतिरेकव्यभिचारो नाम “कारणाभावे(प्रयोजकाभावे)  कार्यसत्वम्(प्रयोज्यसत्वम्) इति। अन्वयव्यतिरेकव्यभिचारग्रहाभ्याम् अन्वयव्यतिरेकसहचारग्रहौ प्रतिबध्येते इतिकृत्वा प्रामाण्यप्रयोजकत्वं भूयोवयवेन्द्रियसन्निकर्षस्य साधयितुं न शक्यते। तथा हि भूयोवयेन्द्रियसन्निकर्षस्य अभावे अपि प्रत्यक्षप्रमा उत्पद्यते एव यथा रूपप्रत्यक्षम् आत्मप्रत्यक्षं च। रूपादीनां तु गुणत्वात् निरवयवत्वम् अस्ति तर्हि निरवयवेण रूपेण सह यः रूपप्रत्यक्षप्रमाजनकः सन्निकर्षः सः भूयोवयवेन्द्रियसन्निकर्षः तु न भवितुम् अर्हति। एवमेव आत्मा अपि नित्यः इति कृत्वा तस्यापि निरवयवत्वम् अस्ति। अतः एव आत्मना सह यः आत्मप्रत्यक्षप्रमाजनकः सन्निकर्षः सः भूयोवयवेन्द्रियसन्निकर्षः न भवितुमर्हति। अतः भूयोवयवेन्द्रियसन्निकर्षरूपकारणाभावे अपि रूपादिप्रत्यक्षरूपम्, आत्मप्रत्यक्षरूपं च कार्यम् उत्पद्यते इत्यतः व्यतिरेकव्यभिचारः। तेन व्यतिरेकव्यभिचारेण कारणताग्रहप्रतिबन्धो भवति।

तथैव अन्वयव्यभिचारोऽपि घटते। यथा “पीतः शङ्खः” इति भ्रमः अत्र शुक्लरूपविशिष्टेन शङ्खेन सह यः ज्ञानजनकसन्निकर्षः सः भूयोवयसन्निकर्षः एव तथापि एवं सन्निकर्षे सत्यपि शङ्खः पीतः इति भ्रमात्मकं ज्ञानमेव जायते न प्रमात्मकं ज्ञानम्। अतः भूयोवयवेन्द्रियसन्निकर्षरूपस्य कारणस्य सत्वेऽपि प्रत्यक्षप्रमारूपं कार्यं तु नैव जायते तद्विपरीततया भ्रमात्मकमेव ज्ञानमेव जायते। एवं अन्वयव्यभिचारात् कारणताग्रहप्रतिबन्धो जायते। तस्मात् सिध्यति यत् प्रत्यक्षप्रमायाम् अनुगतः कश्चित् गुणः प्रतिपादयितुं न शक्यते इति।

एवमेव अनुमितिप्रमायाम् अपि न कश्चित् गुणः वक्तुं शक्यः। ननु सल्लिङ्गकपरामर्शादिकम् अनुमितिप्रमायां गुणः भवतु। तथा च सल्लिङ्गकपरामर्शसत्वे अनुमितिप्रमा तदभावे प्रमायाः अभावः इति अन्वयव्यतिरेकसहचारग्रहाभ्यां अनुमितौ सल्लिङ्गकपरामर्शस्य गुणत्वं सिध्यति इति चेत्-। मैवम्। धूलिपटले धूमोऽयम् इत्याकारकः भ्रमः जातः। ततः भ्रमात्मकेन ‘पर्वतो धूमवान्’ इत्याकारकपक्षधर्मताज्ञानेन व्याप्तिस्मरणपरामर्शादिद्वारा “पर्वतो वह्निमान्” इत्याकारकानुमितिः जाता। किमस्याः अनुमितेः अप्रमात्वमुच्यते। नेति वदामः। तत्र पर्वते जायमानं यत् अनुमित्यात्मकं ज्ञानं तत्र वह्निरूपविषयस्याबाधेन प्रमात्वमेवाङ्गीकृतमस्ति तथा च व्यतिरेकव्यभिचारः। सल्लिङ्गकपरामर्शात्मककारणाभावदशायामपि अनुमितिप्रमायाः उत्पद्यमानत्वात्। अतः अनुमितौ अपि कश्चित् अनुगतः गुणः वक्तुं न शक्यते।

ननु एवं सति प्रमाभ्रमयोः अविशेषापत्तिः भवति। तथा हि प्रमायाः ज्ञानसामान्यसामग्रीजन्यत्वात् अप्रमायाः अपि ज्ञानसामान्यसामग्री जन्यत्वात् कारणाविशेषप्रयुक्तः कार्याविशेषरूपदोषः। अत्रोच्यते ज्ञानसामान्यसामग्रीजन्यत्वं प्रमायाः इति न वदामः किन्तु दोषाभावसहकृतज्ञानसामान्यसामग्रीजन्यत्वम् इति। ननु दोषाभावस्य अतिरिक्तत्वेन तज्जन्यायाः प्रमायाः परतस्त्वं स्यात् अतिरिक्तसामग्रीजन्यत्वात् इति चेत्- न- यदा कश्चन आगन्तुकभावकारणं कारणसामग्र्यां प्रविशति तदा एव अतिरिक्तसामग्रीजन्यत्वं निरूपयितुं शक्यते तदा एव प्रामाण्यस्य उत्पत्तौ परतस्त्वमिति दोषः आयाति । आगन्तुकभावकारणं नाम असाधारणं भावकारणमित्यर्थः । अत्र यदि आगन्तुकमिति न उच्यते तर्हि साधारणकारणस्य अपि परिग्रहः संभवति येन साधारणकारणजन्यत्वम् अप्रमायाः अपि प्रामाण्यापत्तिः स्यात् इति दोषः इति कृत्वा आगन्तुकमिति वक्तव्यम् ।

प्रामाण्यस्य उत्पत्तौ मीमांसकानाम् अभिप्रायः-

नैयायिकानाम् आशयं पूर्वपक्षत्वेन स्वीकृत्य मानमेयोदयग्रन्थे किञ्चित् प्रतिपादन कृतं वर्तते । अत्र विकल्पं कृत्वा प्रश्नः निरूपयते । [5]यदि ज्ञानस्य प्रामाण्यम् अप्रामाण्यं वा स्वस्य (प्रामाण्यस्य अप्रामाण्यस्य च) उत्पत्तौ हेत्वन्तराधीनम् इति उच्यते तर्हि अन्येन हेतुना यदा प्रामाण्यादि न उत्पादितं तदा ज्ञानस्य किं स्वरूपं भवति ? तदा अपि ज्ञानस्य प्रामाण्याप्रामाण्यस्वरूपत्वमेव वक्तव्यम् । ज्ञानस्य सर्वदा भ्रमप्रमासाधारणनिर्वचनात् इति भावः । तथा च ज्ञानजनकभिन्नेन हेतुना प्रामाण्यं तु न जन्यते इति । ननु प्रामाण्य-उत्पत्तेः प्राक् ज्ञानस्य संशयरूपत्वमेव अस्तु इति न वाच्यम्।

तथाविधस्य अनुभवस्य अभावात्, नहि उत्पद्यमानं सर्वं ज्ञानं संशय इति उत्पद्यते । किञ्च संशयस्य अप्रमायाम् अन्तर्भावः अस्ति इति कृत्वा यदि उत्पद्यमानं ज्ञानं संशयरूपम् इति उच्येत तर्हि ज्ञानस्य अप्रामाण्यं स्वतः गृह्यते इति स्यात् । इदं नैयायिकस्य अभिमतं नास्ति ।

 ननु यदि ज्ञाननिष्ठस्य प्रामाण्यस्य उत्पत्तौ स्वतस्त्वं प्रतिपाद्यते तर्हि शुक्तिरजतादि- ज्ञानेषु अपि ज्ञानजनकसामान्यसामग्रीजन्यत्वात् तेषां प्रामाण्यं स्यात् इति । इमं दोषं तावत् भाट्टाः मीमांसकाः इष्टापत्तिमुखेन वारयन्ति । शुक्तिरजतादि-ज्ञानेषु पुरोवर्तित्व-शुक्लत्व- भास्वरत्वादि-अंशेषु जायमानस्य ज्ञानस्य प्रामाण्यं स्वीक्रियते एव । तथा च शुक्तिरजतादि-ज्ञानेषु प्रामाण्यस्य अदोषत्वमेव ।                 

अत्र उदयनाचार्याणाम् अनुमानप्रयोगः प्रदर्श्यते- [6]“प्रमा ज्ञानहेत्वतिरिक्ताहेत्वधीना कार्यत्वे सति तद्विशेषात् अप्रमावत् ” इति यथा अप्रमायाः कार्यत्वे सति तद्विशेषात् अप्रमात्वात् ज्ञानहेत्वतिरिक्तदोषरूपहेत्वधीनत्वं भवति तुल्यया रीत्या प्रमायाः अपि कार्यत्वे सति तद्विशेषात् प्रमात्वात् ज्ञानहेत्वतिरिक्तगुणरूपहेत्वधीनत्वं सिद्ध्यति इति ।

अत्र भाट्टाः अनुमानं प्रयुञ्जते – “[7]प्रमा गुणदोषाभावयोः अन्यतराधीना न भवति ज्ञानत्वात् अप्रमावत्” इति  । अयं भावः – यथा ज्ञानत्वात् अप्रमायाः गुणदोषाभावयोः अन्यतराधीनत्वं नास्ति, अप्रमा गुणाधीना अथ दोषाभावाधीना न भवति इति, तुल्यया रीत्या प्रमायाः अपि ज्ञानत्वात् गुणदोषाभावयोः अन्यतराधीनत्वं न संभवति इति प्रमा गुणजन्या दोषाभावजन्या वा न भवति इति भावः । 

 अत्र च अनुमानेन प्रमायाः अन्यतराधीनत्वं निराक्रियते । तथा पूर्वोक्तस्य् अनुमानस्य बाधितविषयत्वम् आपद्यते । बाधितः नाम प्रमाणान्तरेण पक्षे साध्याभावः । अत्र च भिन्नेन अनुमानेन “प्रमा गुणदोषाभावयोः अन्यतराधीना न भवति ज्ञानत्वात् अप्रमावत्” इति प्रमाणान्तरेण, पक्षे – प्रमायाम्, साध्यं – अन्यतराधीनत्वम् , तदभावः अन्यतराधीनत्वाभावः साध्यते अतः पूर्वोक्तमनुमानं बाधितविषयकं भवति इति ।

तथा च भाट्टमतमनुसृत्य ज्ञानस्य प्रामाण्यं स्वतः एव उत्पद्यते इति निरूपणं कृतम्।

मीमांसाशास्त्र-अद्वैतवेदान्तशास्त्रयोः प्रामाण्यस्य उत्पत्तौ साम्यं वैलक्षण्यं च ।

साम्यनिरूपणम्

  • ज्ञानस्य प्रामाण्यं स्वतः एव उत्पद्यते इति
  • ज्ञानं यया सामग्र्या उत्पद्यते तया एव सामग्र्या तन्निष्ठं प्रामाण्यम् अपि उत्पद्यते इति
  • अप्रामाण्यं तु दोषसहकृतज्ञानसामान्यसामग्रीजन्यं भवति ।

     वैलक्षण्यनिरूपणम्

  • ज्ञानस्य प्रामाण्यजनिका सामग्री उभयोः शास्त्रयोः भिद्यते । अद्वैतवेदान्तशास्त्रे तु दोषाभावसहकृतज्ञानसामान्यसामग्रीजन्यत्वं प्रामाण्यस्य भवति इति उक्तम् । तत्र च स्वरूपकथनावसरे यदि दोषाभावः इति न निवेश्यते तर्हि ज्ञानजनकसामान्यसामग्रीजन्यत्वं तावत् अप्रामाण्यस्य अस्ति इति कृत्वा अप्रमा अपि प्रमा स्यात् इति दोषः आक्षिप्तः तत्र च समाधानार्थं लक्षणे दोषाभावसहकृतत्वं निवेशितम् । अप्रमायाः दोषजन्यत्वात् तत्र लक्षणं न व्याप्नोति इति । तत्रापि अतिरिक्तसामग्रीजन्यत्वात् परतस्त्वं स्यात् इति आक्षेपे आगन्तुकभावकारणस्य अभ्युपगमे एव परतस्त्वं भवति इति परिहारः कृतः ।
  •  अत्र तु भाट्टाः मीमांसकाः अभिप्रयन्ति यत् ज्ञानस्य प्रामाण्यं तु ज्ञानजनकसामान्यसामग्रीजन्यं भवति । तत्र च दोषाभावसहकृतत्वनिवेशे तावत् परतस्त्वं स्यात् एव । एवं सति अप्रमा अपि प्रमा स्यात् इति आक्षेपस्य परिहारः तैः एवं क्रियते – शुक्तिरजतादिविषयकभ्रमज्ञानेषु इदन्त्वम्, पुरोवर्तित्वम्, चाकचिक्यम्, भास्वरत्वम् इति एतेषां विषयाणां बाधः नास्ति इति कृत्वा तत्रापि तत्तदंशेन प्रामाण्यं तावत् स्वीकर्तव्यमेव ।तैः अयं दोषः इष्टापत्तिमुखेन परिह्रियते इति द्वयोः अपि शास्त्रयोः इदं वैलक्षण्यम् ।

सन्दर्भग्रन्थसूची

  • वेदान्तपरिभाषा सविवरण प्रकाश हिन्दीव्याख्योपेता , गजाननशास्त्री मुसलगांवकर , चौखम्बा विद्याभवन वाराणसी , १९८३.
  • वेदान्तपरिभाषा रामकृष्णाध्वरिकृतशिखामणिव्याख्योपेता ,श्रीवेङ्कटेश्वर मुद्रालय मुम्बई , १९०३
  • मानमेयोदयः नारायणद्वयप्रणीतः , षड् दर्शनप्रकाशनप्रतिष्ठानम् वाराणसी ,  १९७८
  • श्लोकवार्तिकम् , कुमारिलभट्टविरचितम् , कामेश्वरसिंह दरभङ्गा संस्कृतविश्वविद्यालयः , १९७९

[1] तर्कसंग्रहः –

[2] मानमेयोदयः\प्रमेयभागः\श्लो.सं १७,१८,१९॥

[3] वेदान्तपरिभाषा – विषयपरिच्छेदः

[4] वेदान्तपरिभाषा – प्रत्यक्षपरिच्छेदः

[5] किमात्मकं हि भवेत् ज्ञानं स्वभावद्वयवर्जितम् इति श्लोकवार्तिकम्

[6] मानमेयोदयः – प्रमेयभागः

[7] मानमेयोदयः – प्रमेयभागः