यादवाभ्युदयमनोरमाटीकायां पुरुषसूक्तस्य प्रभावः
बि. लक्ष्मीप्रवीणा
शोधच्छात्रा, अद्वैतवेदान्तविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः
ई-मेल् – praveenalakshmi990@gmail.com
शोधसंक्षेपः
महाकवेः श्रीवद्वेदान्तदेशिकस्य अद्वितीया कृतिः वर्तते यादवाभ्युदयम् नाम महाकाव्यम्। अस्येव काव्यस्य गभीरार्थं प्रकटयन् श्रीमदप्पय्यदीक्षितैः मनोरमा नाम्ना टीकां अरचयन्। एषा व्याख्या काव्यस्य पदपदार्थविवरणपर्यन्ता न स्थित्वा वैदिकवाङ्मयस्य, उपनिषदां, पुराणानां, वेदान्तसिद्धान्तानां च आलोकं काव्यार्थेषु समावेशयति। अस्मिन् काव्ये श्रीकृष्णस्य जीवनचरितं केवलं ऐतिहासिकघटनारूपेण न निरूपितम्, अपितु परब्रह्मस्वरूपस्य दिव्याविर्भावरूपेण प्रस्तूयते। एतेन इदं ज्ञायते यत् इदं काव्यं काव्यरसान्, दार्शनिकं च युगपद् बोधयति। श्रीमदप्पय्यदीक्षिताः न तु केवलं रससिक्ताः अपितु दर्शन, इतिहास, स्मृति, पुराणेषु अपि पारंगताः आसन्।
एतेषां मनोरमा टीकायां ऋग्वेदिक पुरुषसूक्तस्य बहु प्रभावः दृश्यते। इदं पुरुषसूक्तं वैदिकपरम्परायाः आधारभूतः वर्तते। यत्र विराट् पुरुषस्य दार्शनिकं स्वरूपं वर्णितमस्ति। पुरुषसूक्ते प्रतिपादितः विराट्पुरुषः, यज्ञपुरुषः, सर्वव्यापी परमात्मा च यादवाभ्युदये वर्णितस्य श्रीकृष्णस्य स्वरूपे सम्यगभिव्यज्यते। अप्पय्यदीक्षिताः स्वव्याख्याने तेषां वैदिकसिद्धान्तानां साहाय्येन काव्यस्य तात्त्विकपक्षं प्रकाशयति। अस्मिन् लेखे मनोरमाटीकायां पुरुषसूक्तस्य प्रत्यक्षपरोक्षप्रभावः, तदाधारितदार्शनिकविचाराः, तथा श्रीकृष्णस्य परब्रह्मस्वरूप प्रतिपादनं विस्तरेण परीक्ष्यते।
1.उपोद्घातः
भारतीयवाङ्मयपरम्परा नाम केवलं साहित्यनिर्माणस्य परम्परा नास्ति, सा ज्ञानस्य, दर्शनस्य, आध्यात्मिकचिन्तनस्य च अखण्डप्रवाहः अस्ति। काव्यशास्त्रपरम्परायां व्याख्याताराः कवयः केवलं शब्दार्थप्रतिपादिकाः न भवन्ति, अपितु कवेः हृदयङ्गतान् गूढार्थान् अपि प्रकाशयन्ति। यदा कश्चन मीमांसकः, वैय्याकरणः, वेदान्ती च व्याख्यातृपदमलङ्करोति, तदा तस्य व्याख्याने शास्त्राणां गम्भीरता स्वतः एव प्रस्फुटति। एतादृशः एव अपूर्वः संयोगः समधिगम्यते श्रीमद्वेतान्तदेशिकप्रणीते यादवाभ्युदयमहाकाव्ये, यस्य काव्यस्य व्याख्यानं महाशास्त्रिणा अप्पय्यदीक्षितेन स्व मनोरमा नाम्न्या टीकया विरचितम्।
वेदेषु भगवतः स्वरूपं वर्णयितुं पुरुषसूक्तं सर्वप्रधानं इति मन्यते। अप्पय्यदीक्षिताः स्वटीकायां अस्यैव पुरुषसूक्तस्य सिद्धान्तैः सह काव्यसौन्दर्यस्य तादृशं समन्वयमकुर्वन्, येन काव्यमिदं साक्षात् उपनिषत्ग्रन्थः इव भासते। श्रीकृष्ण चरितमाश्रित्य रचितेऽस्मिन् महाकाव्ये भक्ति, काव्यकौशलम्, दार्शनिकगाम्भीर्यं च समवेतरूपेण वर्तन्ते।
2.पुरुषसूक्तस्य वैदिकमहत्वम्
ऋग्वेदस्य दशममण्डले स्थितं पुरुषसूक्तं वैदिकसाहित्यात् सर्वाधिकप्रभावशालिषु सूक्तेषु अन्यतमम् वर्तते। अत्र वर्णितः यः पुरुषः सः न तु कश्चन सामान्यजीवः, न च देवताविशेषः, सः समस्तविश्वस्य कारणभूतः, धारकः, नियन्ता च।
सूक्तस्य आरम्भे एवमुक्तम् –
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्[1]।
अत्र सहस्र इति शब्दः न तु संख्यावचकः अपितु अनन्तत्वं बोधयति। अस्यार्थः एवमस्ति, पुरुषः सर्वेषु भूतेषु वर्तमानः सन्, सर्वेषां कारणं भूत्वा, सर्वेषां आधारः अपि अस्ति इति। अस्य सूक्तस्य प्रभावः केवलं वैदिककाले एव न सीमितम्, अपितु उपनिषदः, पुराणानि, भगवद्गीता, पाञ्चरात्रागमाः, श्रीवैष्णवदर्शनं च अस्य सूक्तस्य भावान् स्वस्वरीत्या विकसितवन्तः। विशेषरीत्या श्रीवैष्णवसाम्प्रदाये उच्यते यत् पुरषसूक्तोक्तः पुरुषः साक्षात् श्रीमन्नारायणः इति। यादवाभ्युदये वर्णितः श्रीकृष्णः अपि तदेव परमपुरुषतत्त्वंवहतीति वेदान्तदेशिकानां भावः, एष एव भावः मनोरमाटीकायां विस्तरेण विवृणोति अप्पय्यदीक्षितः।
3.वेदान्तदेशिकः, यादावाभ्यदयं च
श्रीवेदान्तदेशकः श्रीवैष्णवपरम्परायाः श्रेष्ठतमेषु आचार्येषु गणनीयः। तेन संस्कृते, प्राकृते, तमिऴभाषायां च बहवः ग्रन्थाः विरचिताः। दर्शनशास्त्रे, काव्ये, भक्तिसाहित्ये, तर्के च तेषां असाधारणः प्रतिभा आसीत्। तस्य कृतिषु यादावाभ्युदयं नाम महाकाव्यं विशेषस्थानमलङ्करोति। अत्र काव्ये श्रीकृष्णस्य जन्मतः आरभ्य द्वाराकाधिपत्यपर्यन्तं चरित्रं महाकाव्यानुगुणं वर्णितमस्ति। अस्य काव्यस्य वैशिष्ट्यं केवलं कथावस्तुनि नास्ति, यतोऽहि वेदान्तदेशिकः श्रीकृष्णं केवलं ऐतिहासिकपुरुषत्वेन न पश्यति, अपितु श्रीकृष्णः स्वयं परमात्मा, वेदान्तवेद्यः पुरुषोत्तमः, पुरुषसूक्तप्रतिपादितः विराट्पुरुषः अस्ति। एतस्मात् कारणात् यादावाभ्युदयमहाकाव्यं केवलं काव्य पठनार्थं न, अपितु वेदान्तपरम्परायाः अध्ययनार्थमपि इति वक्तुं शक्यते।
4.अप्पय्यदीक्षितस्य मनोरमाटीकायाः वैशिष्ट्यम्
अप्पय्यदीक्षितस्य नाम संस्कृतजगति विशेषरूपेण स्मर्यते। सः केवलं कविः नासीत्, अपितु अद्वैतवेदान्तस्य, मीमांसायाः, व्याकरणस्य काव्यशास्त्रस्य च असाधारणः पण्डितः च आसीत्। दीक्षिताः यादवाभ्यदयस्य व्याख्यान समये केवलं पदच्छेदं वा, शास्त्रार्थं वा न निरूपयति, अपितु सः काव्यस्य पृष्ठभूमिं, वैदिकप्रमाणानि च सम्यगुपस्थापयति। मनोरमाटीकायाः विशेषता एषा यत्, तत्र व्याख्याता कवेः भावं विस्तारयति, तस्य दार्शनिकमूलानि प्रकाशयति, तथा च पाठकस्य चिन्तनक्षेत्रं विस्तीर्णं करोति।
5.अजायमाने बहुधा विजायते इति जन्मरहस्यम्
अजायमानो बहुधा विजायते[2]।
यादवाभ्युदय प्रथमसर्गे भगवतः श्रीकृष्णस्य जन्मप्रसङ्गः माधुर्येण वर्णितः। तत्र यद्यपि कृष्णस्य जन्म देवक्याः गर्भतः इति दृश्यते, तर्हि अत्र प्रश्नः उदेति – परमात्मनः जन्म कथं सम्भवति? यतोऽहि सः जन्मरहितः नित्यसिद्धः वर्तते।
दीक्षितानां समाधानमत्र एवम्भवति – भगवतः जन्म न तु प्राकृतं कर्मजन्यं वा, अपितु स्वेच्छया गृहीतं रूपमस्ति। अस्य समर्थनार्थं ते पुरुषसूक्तस्य प्रसिद्धं मन्त्रं उद्धरन्ति यथा – अजायमानो बहुधा विजायते[3] इति। अत्र टीकायां अस्यैव दार्शनिकं रहस्यं दर्शितम् यत्, परमात्मा अजः नाम जन्मरहितः सन् अपि जगदुद्धाराय बहुधा नाम मत्स्य, कूर्म, वराह, नरसिंह इत्यादयः अनेकेषु रूपेषु प्रकटीभवति। एतेन कवेः वर्णनं साक्षात् श्रुतिमूलकत्वं सिद्धं भवति।
6.विश्वरूपदर्शने सहस्रशीर्षत्व विमर्शः
काव्ये श्रीकृष्णस्य, विश्वरूपधारण प्रसङ्गः उच्यते यथा – यशोदायाः पुरतः मुखे ब्रह्माण्डप्रदर्शम् , तथैव सभायां विराट्रूप प्रदर्शनम्। दीक्षिताः अस्मिन् सन्दर्भे मनोरमा टीकायां प्रतिपादयन्ति यत्, यः कृष्णः यशोदायाः अङ्के क्रीडति, सः एव पुरुषसूक्तोक्तः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् इति। अत्र टीकायाः वचनं एवमस्ति, यद्यपि परिच्छिन्नवपुषा अयं दृश्यते, तथापि अस्यैव महिम्ना निखिलं जगत् व्याप्तमिति। अत्र ते स भूमिं विश्वतोवृत्वा अत्यतिष्ठद्दशाङ्गुलम्[4]। इति मन्त्रार्थं व्याख्याय श्रीकृष्णस्य सर्वव्यापकत्वं प्रतिपादयन्ति। अत्र वर्णितः पुरुषः समस्तविश्वस्य अन्तर्बहिश्च व्याप्नोति, तस्य शिरांसि, नेत्राणि, चरणाश्च अनन्तरूपेण सर्वत्र व्यप्ताः सन्ति। मनोरमाटीकायां दीक्षिताः कथयन्ति यत् – श्रीकृष्णस्य प्रत्येकमपि लीला द्विधा स्वीकर्तव्यमिति, लौकिक, पारमार्थिकरूपेण इति। यदि लौकिकदृष्ट्या पश्यामश्चेत् तस्य कर्माणि मानुषाणीव दृश्यन्ते, किन्तु तेषामन्तः परमात्मस्वरूपस्य अनन्तशक्तिः निहितं भवति।
7.यज्ञपुरुषत्वम्
पुरुषसूक्तस्य मुख्य विषयः मानसयज्ञः। विश्वस्य उत्पत्तिः, स्थितिः, विकासश्च यज्ञात्मकप्रक्रियारूपेण अत्र निरूपिताः सन्ति। पुरुषसूक्ते उक्तं यत् – यत्पुरुषेण हविषा देवा यज्ञमतन्वता[5] इति। अर्थात् देवाः पुरुषमेव हविः कृत्वा सृष्टिचक्रं प्रवर्तितवन्तः इति। यादवाभ्युदये यदा यज्ञानां वर्णनं भवति, तत्र विशेषतः गोवर्धन पूजा प्रसङ्गे आर्षपरम्परायाः यज्ञीयभावनायाः च वर्णनं भवति। जगत्प्रक्रियां यज्ञात्मिकां मत्वा दीक्षिताः प्रतिपादयन्ति यत् सर्वे यज्ञाः तस्य परब्रह्मणः श्रीकृष्णस्यैव रूपाणि सन्ति इति। यज्ञस्य लक्ष्यं, यज्ञस्य भोक्ता, यज्ञस्य फलदाता, च एक एव भगवानस्ति। अयं विचारः भगवद्गीतायाः अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च[6] इति सिद्धान्तेन सह संगच्छते। अतः मनोरमाटीकायां यज्ञपुरुषत्वस्य निरूपणं पुरुषसूक्तीयदृष्टेः प्रभावस्य महत्वपूर्णं प्रमाणं मन्यते।
अप्पय्यदीक्षितानां व्याख्याने अन्यतमं वैशिष्ट्यं वर्तते यत्, ते केवलं एकाङ्गीविवेचनं न कुर्वन्ति। मनोरमाटीकायां ते पुरुषसूक्तस्य आधारेण जीव-ब्रह्मणोः सम्बन्धमपि निरूपयन्ति। पुरुषसूक्ते उक्तं यथा – पादोऽस्यविश्वा भूतानि त्रिपादस्यामृतं दिवि[7] इति। अस्यैव मन्त्रस्य व्याख्यानसमये दीक्षिताः प्रतिपादयन्ति यत् – दृश्यमानः सर्वोऽपि प्रपञ्चः तु भगवतः अंशमात्रमस्ति। तस्य वास्तविकं स्वरूपं तु देशातीतं कालातीतं च वर्तते। अयं सिद्धान्तः वेदान्तदर्शने विशेषमहत्वं धारयति। दृश्यजगत् यद्यपि विशालमिति भाति, तथापि तस्य सत्ता परमात्ममहिम्नः अल्पांशमात्रमेव। मनोरमाटीकायां दीक्षिताः अस्य भावं प्रतिपादयन्वदन्ति यत् – श्रीकृष्णस्य व्रजलीलाः, मथुराविहारः, द्वारकाचारित्रं च यद्यपि लौकिकदृष्ट्या दृश्यन्ते, तथापि तानि परमात्ममहिम्नः केवलं लघुप्रकाशमात्राः इति।
8.जीवब्रह्मसम्बन्धः पुरुषसूक्तदृष्ट्या
मनोरमाटीकायाः अन्यत् महत्वपूर्णं वैशिष्ट्यं जीवब्रह्मसम्बन्धस्य सूक्ष्मविवेचनम्। यद्यपि यादवाभ्युदयं मुख्यतया काव्यग्रन्थः, तथापि तस्य व्याख्याने दीक्षिताः दार्शनिक चर्चायाः अवसरं न परित्यजति। पुरुषसूक्ते प्रतिपादितः परमात्मा समस्तभूतानां आधारः, जीवाः तस्मादेव उत्पद्यन्ते, तेनैव धार्यन्ते। अन्ते च तस्मिन्नेव प्रतिष्ठां यान्ति इति। मनोरमाकारस्य विवेचने कृष्णः केवलं आराध्यदेवः न, अपितु समस्तजीवानां अन्तरात्मा, आश्रयः, परमगन्तव्यं च अस्ति। जीवस्य परमार्थसिद्धिः तदा एव सम्भवति। यदा सः स्वस्य अन्तर्निहितं परमात्मानं शरणं गच्छति।
उपर्युक्तविमर्शात् ज्ञायते यत् मनोरमाटीकायां पुरुषसूक्तस्य प्रभावः बहुस्तरीयः अस्ति। कदाचित् सः प्रत्यक्षमन्त्रउद्धरणरूपेण दृश्यते, कदाचित् तात्त्विकसिद्धान्तरूपेण, कदाचित् श्रीकृष्णस्य स्वरूपविवरणे, कदाचित् जीवब्रह्मसम्बन्धचर्चायाम्। विश्वरूपदर्शनम्, सहस्रशीर्षपुरुषत्वं, यज्ञपुरुषभावना, जगतः अंशत्वविचारः तथा जीवब्रह्मसम्बन्धः। एते सर्वे विषयाः पुरुषसूक्तस्य मूलभावानामेव विस्तारितपूपाणि सन्ति। मनोरमाटीकायां तेषां सम्यक् समन्वयः दृश्यते, यः काव्यव्याख्यानं केवलं साहित्यिकपरिसरे न स्थापयति, अपितु वैदिकदार्शनिकपरम्परायामपि प्रतिष्ठापयति।
9.मनोरमाटीकायां पुरुषसूक्तमन्त्राणां प्रत्यक्षपरोक्षप्रभावः
मनोरमाटीकायाः सूक्ष्मपठनात् ज्ञायते यत् अप्पय्यदीक्षितः केवलं काव्यव्याख्याने प्रवृत्तः नासीत्, अपितु सः वैदिकपरम्परायाः एकः प्रतिनिधिरपि आसीत्। तेन बहुषु स्थलेषु पुरुषसूक्तस्य मन्त्रार्थाः प्रत्यक्षतया, क्वचित् परोक्षतया च व्याख्याने समाविष्टाः।
यदा कृष्णस्य ऐश्वर्यं वर्ण्यते, तदा सहस्रशीर्षा पुरुषः इत्यस्य भावः पृष्ठभूमौ दृश्यते। यदा तस्य सर्वव्यापकत्वं निरूप्यते, तदा स भूमिं विश्वतो वृत्वा इति मन्त्रः श्रूयते। यदा विश्वस्य परमात्मन्याश्रितत्त्वं विविच्यते, तदा पादोऽस्य विश्वा भूतानि इति मन्त्रार्थः स्वयमेव स्मरणमायाति। अतः मनोरमाटीका केवलं साहित्यिकव्याख्या नास्ति, सा वैदिकदृष्ट्या काव्यस्य पुनर्पाणः इति वक्तुं शक्यते। अत्र दीक्षिताः काव्यस्य अन्तर्निहिताः वैदिकसंस्काराः सम्यक्प्रतिपादितवन्तः।
10.उपनिषदां प्रभावः तथा पुरुषसूक्तस्य तात्त्विकविस्तारः
पुरुषसूक्तस्य प्रभावः केवलं वेदसंहितासु न सीमितः वर्तते, अपितु उपनिषदः अपि तस्य भावान् अधिकं विकसन्ति। “सर्वं खल्विदं ब्रह्म[8]“, “तत्त्वमसि[9]“, “अयमात्मा ब्रह्म”, “नेह नानास्ति किञ्चन[10]“ इत्यादीनि महावाक्यानि पुरुषसूक्तप्रतिपादितस्य एकात्मदर्शनस्यैव विस्तारितरूपेण मन्यन्ते। मनोरमाटीकायां दीक्षिताः एतामेव परम्परामनुसरन्ति। तेषां व्याख्याने श्रीकृष्णः न केवलं देवताविशेषः, न केवलं अवतारपुरुषः, अपितु समस्तसत्तायाः मूलभूतं तत्त्वमिति प्रतिपाद्यते। यदा काव्ये कृष्णस्य बाल्यलीलाः वर्ण्यन्ते, तदा ताः केवलं मनोरञ्जनाय न भवन्ति, अपितु तासु अपि परमात्मस्वरूपस्य प्रकाशः अन्तर्निहितः अस्ति। एवं रूपेण काव्यस्य प्रत्येकः प्रमुखः प्रसङोऽपि तात्त्विकमहत्वेन युक्तः भवति।
11.श्रीवैष्णववेदान्तदृष्ट्या पुरुषसूक्तस्य स्थानम्
श्रीवैष्णवसाम्प्रदाये पुरुषसूक्तं विशेषमहत्वं धारयति। यज्ञेषु, आराधनाविधिषु, नित्यपारायणेषु च अस्य सूक्तस्य विशिष्टं स्थानं दृश्यते। श्रीरामानुजाचार्यस्य परम्परायां पुरुषसूक्तोक्तः पुरुषः नारायणस्वरूपः इति प्रतिपादितम्। वेदान्तेदेशिकोऽपि तस्मिन्नेव परम्परायां प्रतिष्ठितः आचार्यः आसीत्, अतः यादवाभ्युदये श्रीकृष्णस्य स्वरूपवर्णनं पुरुषसूक्तीयनारायणतत्त्वस्य अनुगुणमेव वर्तते।
मनोरमाटीकायामपि दीक्षितः एतस्य भावस्य समर्थनं करोति, यद्यपि सः अद्वैतपरम्परायां प्रसिद्धः तथापि व्याख्यानावसरे मूलकवेः अभिप्रायं सम्यगनुसरति। तेन श्रीकृष्णस्य परमपुरुषत्वं, विश्वाधारत्वं, सर्वनियन्तृत्वं च सविशेषं प्रकाश्यते। अत्र विशेषतया द्रष्टव्यं यत् व्याख्याता साम्प्रदायभेदान् अतिक्रम्य मूलग्रन्थस्य तात्पर्यं ग्राहयितुं प्रयत्नमकरोत्। एषा तस्य व्याख्यानकौशलस्य उत्कृष्टा विशेषता च मन्यते।
12. मनोरमायाः व्याख्यानपद्धतिः – वैदिकदृष्टेः साहित्ये समावेशः
भारतीयव्याख्यानपरम्परायां बहवः व्याख्यातारः दृश्यन्ते। केचन केवलं पदच्छेदं कुर्वन्ति, केचन व्याकरणदृष्ट्या विवेचनं कुर्वन्ति, अन्ये तात्पर्यनिर्णये प्रवर्तन्ते। अप्पय्यदीक्षितस्य विशेषता तु एषा यत् सः काव्यं बहुशास्त्रीयदृष्ट्या पश्यति। मनोरमाटीकायां उपनिषदः, पुराणानि, स्मृतयः दर्शनशास्त्राणि च परस्परं संवादं कुर्वन्तीव दृश्यन्ते। पुरुषसूक्तस्य प्रभावः अपि अस्य व्यापकदृष्टेः फलरूपेण अवगन्तव्यः। काव्ये यः भावः सूक्ष्मरूपेण निहितः भवति, व्याख्याता तं विस्तरेण उद्घाटयति। एतादृशी शैली पाठकस्य बौद्धिकानुभवं समृद्धं करोति। अतः मनोरमा केवलं टीका न, अपितु वेदान्तदर्शनस्य अवबोधकः सरलकृतिः इत्यपि वक्तुं शक्यते।
13. साहित्यदर्शनयोः समन्वयः
यादवाभ्युदय तथा मनोरमटीकायाः अध्ययनात् भारतीयवाङ्मयस्य एकः मूलभूतः स्वभावः प्रकाशते, अत्र साहित्यं दर्शनात् पृथक् नास्ति, दर्शनं च साहित्यरहितं नास्ति। वेदान्तदेशिकस्य काव्ये यः रसः, सः रसः तत्त्वेन संयुक्तः अस्ति। अप्पय्यदीक्षितस्य व्याख्याने यः तत्त्वविमर्शः, सः काव्यसौन्दर्येन समन्वितः अस्ति। एतस्मात् कारणात् उभयोरपि कृत्योः अध्ययनं केवलं साहित्यशास्त्रस्य क्षेत्रे न सीमितं भवति, तत् भारतीयबौद्धिकपरम्परायाः समग्रस्वरूपं बोधयति। पुरुषसूक्तस्य प्रभावः अस्मिन् समन्वये
महत्वपूर्णं स्थानं धारयति। पुरषसूक्तं वैदिकदर्शनस्य प्रतिनिधित्वं करोति, यादवाभ्युदयं काव्यपरम्परायाः, मनोरमा तु उभयोरपि सेतुरूपेण कार्यं करोति।
14. उपसंहारः
एतेन स्पष्टं भवति यत् श्रीमदप्पय्यदीक्षित प्रणीत मनोरमा व्याख्या केवलं काव्यटीका न वर्तते, अपितु श्रुतिप्रस्थानस्य दीपशिखास्ति। वेदान्तदेशिकानां काव्यमयीं भाषां वैदिकाधारे संस्थाप्य दीक्षितेन्द्रैः यादवाभ्युदयस्य गरिमा द्विगुणीकृतवन्तः। अत्र पुरुषसूक्तस्य प्रभावः केवलं शाब्दिकं न, अपितु दार्शनिक तात्त्विक रूपेण सर्वत्र व्याप्तः विद्यते।
सन्दर्भग्रन्थसूची
ऋग्वेदसंहिता, तैत्तरीयारण्यकम्
बृहदारण्यकम्, छान्दोग्योपनिषद्
यादवाभ्युदयम्, मनोरमाटीका
श्रीभाष्यम्, भगवद्गीता
[1] ऋग्वेद 10 मण्डलं, 10 सूक्तम् 1मन्त्रः
[2] तैत्तरीयारण्यकम् 3 प्रपाठके, 13 अनुवाके
[3] तैत्तरीय 3.13
[4] ऋग्वेदसंहिता 10.90.1
[5] ऋग्वेदसंहिता 10.90.6
[6] भगवद्गीता 9.24
[7] ऋग्वेदसंहिता 10.90.3
[8] छान्दोग्य 3.14.1
[9] छान्दोग्य 6.8.7
[10] बृहदारण्यक 4.4.19
