श्रीमते रामानुजाय नमः।।

भगवत्पारम्यम्

डा. ए. एस्. आरावमुदन्,
मीमांसाविभागः
एल्. बि. एस्. सं. वि. नवदेहली

विष्णुपुराणे षष्ठांशे पञ्चमाध्याये श्रीपराशरेण मैत्रेयाय भगवत्तत्वम् एवमुपदिष्टम्-

शुद्धेमहाविभूत्याख्ये परे ब्रह्मणि शब्द्यते।

मैत्रेय भगवच्छब्दः सर्वकारणकारणे॥

सम्भर्तेति तथा भर्ता भकारोऽर्थद्वयान्वितः।

नेता गमयिता स्रष्टा गकारार्थस्तथा मुने॥

ऐश्वर्यस्य समग्रस्य धर्मस्य यशसश्श्रियः।

ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा॥

वसन्ति यत्र भूतानि भूतात्मन्यखिलात्मनि।

स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः॥

एवमेव महाञ्छब्दो मैत्रेय भगवानिति।

परमब्रह्मभूतस्य वासुदेवस्य नान्यगः॥

तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः।

शब्दोऽयं नोपचारेण त्वन्यत्र ह्युपचारितः॥

उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम्।

वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति॥

ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः।

भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः॥

सर्वाणि तत्र भूतानि वसन्ति परमात्मनि।

भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः॥ इति

सर्वजगत्कारणत्वं भगवतो नारायणस्यैव भवति। न्यायसहितवेदान्तवाक्यैः एतदेव अवगम्यते॥ छान्दोग्ये सदाकाश-प्राण-शब्दवाच्यानां कारणत्वं प्रतीयते।

वाजसनेयके ब्रह्मशब्दवाच्यस्य कारणत्वं प्रतीयते। सर्वशाखाप्रत्ययन्यायेन कारणवाक्यानाम् एकविषयत्वे प्रतिपादयितव्ये छागपशुन्यायेन सामान्यवाचकानां मदादिशब्दानां विशेषे ब्रह्मणि पर्यवसानं वक्तव्यम्।

एतावता उक्तन्यायेन महाशब्दवाच्यस्य तैत्तिरीयोक्त-आत्मशब्दावाच्ये पर्यवसायन्। आत्मशब्दवाच्यस्य कः? इत्याकाङ्क्षायां श्रुतिप्रसिद्धः इन्द्रो वा? अग्निः वा? सूर्यो वा? इति विचारे एतेषामपि कर्मवश्यात्वात्, परिच्छिन्नैश्वैर्यत्वात् च संहार्यत्वश्रवणात् च न एते जगत्कारणभूताः।

किन्तु श्वेताश्वतरोक्तशिवस्यैव कारणत्वं भासते। एवम् आथर्वणशाखायां शम्भुशब्दवाच्यैव ध्येयत्वं कारणत्वं च भासते। तथैव अथर्वशिरसि रुद्रशब्दवाच्यस्य सर्वात्मकता उच्यते। तैत्तिरीये हिरण्यगर्भस्य जागत्कारणत्वं प्रतीयते। अत्रापि शिवशम्भ्वादीनां हिरण्यगर्भे पर्यवसानं युज्यत एव। शिवशब्दः मङ्गलवाचकः। रुद्रशब्दः अग्निवाचकः, एवं महेश्वरादिशब्दाः अपि अन्वयशक्त्या चतुर्मुखे पर्यवस्यन्ति। कारणवाचिशब्दानां मुख्यवृत्त्या रुद्रपरत्वं कुतो न स्यादिति न शङ्कनीयम्। रुद्रस्यापि चतुर्मुखादुत्पत्तिश्रवणात् न कारणत्वम्। अतः हिरण्यगर्भादिवाच्ये चतुर्मुखादिशब्दाः पर्यवस्यन्ति॥

किं च महानारायणोपनिषत्सुबालोपनिषन्मैत्रायणीयपुरुषसूक्तनारायणा-नुवाकान्तर्यामिब्राह्मणादिषु नारायणस्यैव परमकारणत्त्वसर्वशब्दवाच्यत्वमोक्षप्रदत्व-जगच्छरीरत्वादेः प्रतिपादनात् नारायणे एव पर्यवसानं युक्तम्॥

दहरविद्यायां आकाशशब्दवाच्यनारायणान्तर्यामितया रुद्रस्य प्रतिपाद‌नात् दहरविद्या रुद्रपरा इति न शङ्कनीयम्। नारायणान्तर्वर्तिगुणजातस्यैव तत्र उपास्यत्वेनाभिधानात्। अतः “लिङ्गभूयस्त्वात् तद्धि बलीयः तदपि” इति सूत्रविचारेऽपि सकलब्रह्मविद्यासु अपि अस्यैव जगत्कारणत्वेन उपास्यतया अनुषज्यत्वं च सिद्धान्तितं च। अतः समस्तकल्याणगुणाकरः भगवान् श्रीनिवास एव सकलवेदोक्तः परमपुरुषः इति॥

अतः एतादृश-सकलकल्याणगुणविशिष्टस्य परमात्मनः श्रियःपतेः भगवतो नारायणस्यैव पारम्यमिति पत्रेऽस्मिन् सप्रमाणं यथामति प्रस्तूयते।

साक्षान्नारायणो देवः कृत्वा मर्त्यमयीं तनूम्।

मग्नानुद्धरते लोकान् कारुण्याच्छास्त्रपाणिना॥”

इत्युक्तरीत्या परमकारुणिको भगवान् परमात्मा संसारकूपनिपतितान् अदृष्टसन्तारोपायान् जडकल्पान् जीवान् दृष्ट्वा सञ्जातनिर्वेदः तानुद्धर्तुकामः स्वापरावतारभूताचार्यमुखेन शास्त्रनिगदितानां तत्त्वानां याथार्थ्यं प्रतिष्ठाप्य अनुगृह्णाति। शास्त्रमयेन स्थिरप्रदीपेन तेषामज्ञानान्धकारं निवर्तयति। भक्तिप्रपत्तिरूपोपायेष्वन्यतमेन यथाधिकारम् अनुष्ठितेन संसारात् उद्धरति।

स च भगवान् कः इति जिज्ञासायाम्- प्रत्यक्षानुमानागोचरतया श्रुत्या निर्णेतव्यः। श्रुतिषु च ब्रह्मा वा शिवो वा इन्द्रो वा नारायणो वेति बहुधा विप्रतिपत्तिः विद्यते।

तथा हि –

प्रजापतिर्वै प्रजाकामस्तपोऽतप्यत।”

हिरण्यगर्भः समवर्तताग्रे।”

न सन्न चासत् शिव एव केवलः।”

सर्वव्यापी च भगवान् तस्मात् सर्वगतः शिवः।”

इन्द्रो मायाभिः पुरुरूप ईयते।”

आत्मा वा इदमेक एवाग्र आसीत् सदेव सोम्येदमग्र आसीत्।”

एको ह वै नारायण आसीत्।”

एवं कारणवाक्येषु बहूनां जगत्कारणत्वप्रतिपादकतया संशय उत्पद्यते। तादृशसंशयनिवर्तनपूर्वकनिर्णयो ज्ञेयः। इतिहासपुराणाभ्यां वेदं समुपबृंहये”दित्युक्तरीत्या मन्वादिस्मृतीतिहासाद्यनुसारेणार्थो निर्णयः। नो चेत् विपरीतार्थावगमेन बुद्धिभ्रंशो जायेत।

यद्वै किञ्च मनुरवदत् तद्भेषज”मिति मनुस्मृतेः प्रमाणतमत्वेन तदानुसारेणैव अर्थो निर्णेतव्यः।

आपो नारा इति प्रोक्ता आपो वै नरसूनवः।

ता यदस्यायतनं प्रोक्तं तेन नारायणः स्मृतः॥”

अपएव ससर्जादौ तासु वीर्यमपासृजत्।

तदण्डमभवद्धैमं सहस्त्रांशुसमप्रभम्।

तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः॥”

अनेन चेतनाचेतनाभरितमण्डं चतुर्मुखं चासृजत् नारायण इति ज्ञायते। महाभारते च भगवता व्यासाचार्येण उक्तम्- पुरा नारायणो देवः स्वयम्भूः प्रपितामहः”इत्यारभ्य

ततः स भगवान् तोये ब्रह्माणमसृजत् स्वयम्।”

पद्मे द्विव्येऽर्कसंकाशे नाभ्यामुत्पाद्य मामपि

प्राजापत्यं त्वया क सर्वं मयि निवेशितम्”

इति चतुर्मुखं सृष्ट्वा नारायणो प्रजासृष्टिकार्यं तस्मिन् न्यस्तवानिति।

परदेवतापारमार्थ्यवेदिना पराशरेणाप्युक्तं, भगवतो नारायणस्यैव सृष्टिस्थित्यादिकर्तृत्वं- तथा हि-

विष्णोः सकाशादुद्भूतं जगत् तत्रैव च स्थितम्। स्थितिसंयमकर्तासौ जगतोऽस्य जगच्च सः॥” इतिएवं श्रुतावपि-

यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहोणोति तस्मै।

तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये॥

इति चतुर्मुखं सृष्ट्वा तस्मै वेदानुपदिदेश मधुकैटभादिहन्ता नारायणः, येन प्रजासृष्टिसामर्थ्यं स्यादिति॥

एवं शिवस्यापि नारायणादुत्पत्तिः पुराणेषु प्रसिद्धम्

तथा हि –

आद्यो नारायणो देवः तस्माद् ब्रह्मा ततो भवः।

परो नारायणो देवः तस्माज्जातश्चतुर्मुखः।

तस्माद्भुद्रोऽभवदिवि।”

अत्र शिवस्य नारायणपौत्रत्वे स्पष्टम्।

रामायणे चोक्ते-

“संक्षिप्य च पुरा लोकान् मायया स्वयमेव हि।

महार्णवे शयानोऽप्सु मां त्वं पूर्वमजीजनः॥”

अत्र समुद्रशायी नारायणः आदिसर्गे ब्रह्माणं सृष्टवानिति उपवर्णितम्।

एवं पुराणादिभिः ब्रह्मादीनाम् उत्पत्तिः नारायणादेवेति निश्चिते,

नारायणात् ब्रह्मा जायते। नारायणाद्रुद्रो जायते। नारायणादिन्द्रो जायते। नारायणात् प्रजापतयः प्रजायन्ते। नारायणाद् द्वादशादित्या रुद्रा वसवः सर्वाणि च छन्दांसि। नारायणादेव समुत्पद्यन्ते। नारायणे प्रवर्तन्ते। नारायणे प्रलीयन्ते।

इति श्रुतेरपि तदानुगुण्येनार्थो वक्तव्य इति नारायणस्यैव जगत्कारणत्वं सिद्धम्।

ब्रह्मरुद्रावपि स्वोत्पत्तिं नारायणादेवेति स्वयम् अभ्युपगतवन्तौ- तथा हि-

क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम्।

आवां तवाङ्गे सम्भूतौ तस्मात् केशवनामवान्”

इति केशवशब्दार्थनिरूपणेन भगवतो नारायणस्य परत्वं स्पष्टं भवति।

ब्रह्मादिस्तम्बपर्यन्तानां सर्वेषां चेतनाचेतनानां कर्मवश्यत्वं

आब्रह्मस्तम्बपर्यन्ताः जगदन्तर्व्यवस्थिताः।

प्राणिनः कर्मजनिताः सर्वे संसारवशवर्तिनः।

ब्रह्माद्याः सकला देवाः मनुष्या पशवस्तथा।

विष्णुमायामहावर्तमोहान्धतमसा वृताः।।

इत्यनेन ब्रह्मादीनां मनुष्यपश्वादीनां च स्वस्वकर्मानुरूपेण लोके उत्पत्तिमत्वं संसारित्वं च स्पष्टमुक्तं दृश्यते। ब्रह्मादिदेवानां भगवदाराधनेन स्वस्वाधिकारप्राप्तिः। तथाहि-

युगकोटिसहस्राणि विष्णुमाराध्य पद्मभूः।

पुनस्त्रैलोक्यधातृत्वं प्राप्तवानिति शुश्रुम।

एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ

तदादर्शितपन्थानौ सृष्टिसंहारकारकौ॥

इत्यनेन चतुर्मुखस्य सृष्टिकर्तृत्वं शिवस्य च लयकर्तृत्वं नारायणाधीनमिति व्यक्तं भवति ।

त्रैलोक्यं त्रिदिशश्रेष्ठ न सन्त्यक्षामि वासव।

दत्तो वरो मयाऽयं ते स्तोत्राराधनतोषिता॥”

इति विष्णुपुराणे लक्ष्म्यनुग्रहेण इन्द्रस्य स्वस्थानप्राप्तिः स्पष्टा। अपि च वामनावतारे बलिनिग्रहपूर्वकं राज्यमाहृत्य इन्द्राय दत्तवान् हरिरिति पुराणे प्रसिद्धम्।

सर्वरक्षकत्वं भगवतः-

रुद्रं समाश्रिता देवाः रुद्रो ब्रह्माणमाश्रितः।

ब्रह्मा मामाश्रितो राजन् नाहं कञ्चिदुपाश्रितः॥

अत्र सर्वेषां देवानां रक्षणं स्वायत्तं, स्वरक्षणं च अन्यानपेक्षतया स्वेनैव क्रियते इति भगवतैवोक्तम्। रावणकंसादिभयत्रस्ता देवाः क्षीरसमुद्रशायिनं नारायणं शरणमुपागमन्, तेषां संरक्षणार्थं रामकृष्णाद्यवतारमकरोद्भगवानिति रामायणभागवतादिषु सुस्पष्टतया वर्णितम्।

सर्वान्तरात्मत्वं नारायणस्यैव-

अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा”

अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः॥”

य आत्मनि तिष्ठन्, यः सर्वेषु भूतेषु तिष्ठन् अन्तरो यमयति।

एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः।”

इति सर्वप्राणिष्वन्तःप्रविश्य तान् नियमयति। अन्तर्बहिश्च सर्वत्र व्याप्तत्वेन सर्वव्यापी च भगवान् नारायणः, अत एव सर्वात्मा इति सुबालादिषु श्रुतिषु प्रसिद्धम्।

तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः।

सर्वेषां साक्षिभूतोऽसौ”

इति ब्रह्मरुद्रयोः संवादेन सर्वान्तरात्मत्वं भगवतो नारायणस्य सुस्पष्टम्।

पुरुषोत्तमत्वं भगवतः

यस्मात् क्षरमतीतोऽहं अक्षरादपि चोत्तमः।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥

इति गीतायां बद्धमुक्तजीवादन्यो निरूप्यते- पुरुषोत्तमः इति। नारायणवासुदेवविष्णुशब्दादिभिः स एवोच्यते।

मर्त्यत्वं देवानां-

“ब्रह्मा शम्भुस्तथैवार्कः चन्द्रमाश्च शतक्रतुः।

एवमाद्यास्तथैवान्ये युक्ता वैष्णवतेजसा।

जगत्कार्यावसानेषु वियुज्यन्ते च तेजसा।

वितेजसश्च सर्वे ते पञ्चत्वमुपयान्ति वै॥”

इति ब्रह्मादयो देवा क्षीणपुण्याः स्वस्वकार्यावसानेषु मरणमुपयान्तीति स्पष्टम्। गीतायां च “क्षीणे पुण्ये मर्त्यलोकं विशन्ति” इतीरितम्।

न च “ब्रह्मविष्णुरुद्रेन्द्राः ते सर्वे संप्रसूयन्ते” इति श्रुत्या ब्रहादिवत् भगवतो नारायणस्यापि कर्माधीनोत्पत्तिः श्रूयते। अत एव सृष्टिस्थितिलयकर्तारः त्रिमूर्तयः इति च लोके वादः सङ्गच्छते, इत्यत्र च त्रिषु मूर्तिषु न्यूनाधिकभावो नास्तीति ज्ञायत इति वाच्यम्।

ब्रह्मरुद्रेन्द्रादीनां देवानां यादृशी उत्पत्तिः तादृशी नारायणस्य नास्ति। “अजायमानो बहुधा विजायते” इति पुरुषसूक्ते सुस्पष्टम्। उत्पत्तिरहितत्वेऽपि उत्पद्यत इति विरुद्धार्थनिवारणार्थं, कर्माधीनोत्पत्तिरहितः स्वेच्छया दुष्टनिग्रहशिष्टसंरक्षणार्थम् अवतरतीत्यर्थो विपश्चिद्भिः उपवर्णितः तदुक्तं गीतायाम्-

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्।

प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया॥”

न जायते इत्यजः कर्माधीनतया न जायत अत एव अजः, भूतानामीश्वर एव सन् अवतरतीत्यर्थः- इति श्रीभाष्यकारैरुपवर्णितः-

परित्राणाय साधूनां विनाशाय च दुष्कृताम्।

सम्भवाम्यात्ममायया।”

इत्यत्र स्वसङ्कल्पेन, अन्यानधीनतयाऽवतरतीत्यर्थः समञ्जसो भवति। छत्रवत्सु तथा तद्रहितेषु च जनेषु गच्छत्सु, छत्रिणो गच्छन्तीति व्यवहारो यथा लोके दृष्टः तथा कर्माधीनोत्पत्तिमत्सु देवेषु तदधीनोत्पत्तिमन्तं भगवन्तं नारायणं मिलित्वा कृतोऽयं व्यवहारो भगवन्नारायणांशे गौण एव। अत एव “नारायणाद् ब्रह्मा जायते, नारायणाद्रुद्रो जायते, नारायणादिन्द्रो जायते, नारायणाद् द्वादशादित्या रुद्रा वसवः सर्वाणि च छन्दांसि।”

इत्यथर्वशिरसि नारायणादेव सर्वेषामुत्पत्तिकथनं समीचीनं भवति पूर्वोक्तस्मृतीतिहासादीनाम् ऐककण्ठ्यं च भवति।

अत्रेवं श्रुतिः-

“भूतानां पतिः संवत्सर उषसि रेतोऽसिञ्चत्। संवत्सरे कुमारोऽजायत।

सोऽरोदीत् प्रजापतिरब्रवीत्। कुमार किं रोदिषि। यच्छ्रमात् तपसोऽधिजातोऽसि।

सोऽब्रवीदनपहतपाप्माहम्। अनाहितनामा। नाम मे देहि पाप्मनो अपहत्या।

तं प्रजापतिरब्रवीत्। रुद्रोऽसीति।”

एभिः श्रुतिवाक्यैः रेतसा शिवस्योत्पत्तिः स्पष्टो भवति। ईदृशी उत्पत्तिः नारायणस्य यत्र कुत्रापि श्रुतौ श्रुतं वा? अन्यत्र दृष्टं वा? नैव श्रुतं नैव दृष्टम्। “एष आत्मा अपहतपाप्मा दिव्यो देव एको नारायणः” इति पापलेशसम्बन्धोऽपि नास्तीति अपहतपाप्मा इति सुस्पष्टमुक्तम्। शिवस्य तु अनपहतपाप्माहम्, इति स्वेनैवोक्तम्।

एको ह वै नारायण आसीत् न ब्रह्मा नेशानः नेमे द्यावापृथिवी”

इति श्रुत्या जगत्सृष्ट्यादौ नारायणव्यतिरिक्तब्रह्मरुद्रादीनामनवस्थितिः नारायणस्यैव स्थितिश्च ज्ञायते। अनेनापि भगवतो नारायणस्य परत्वं सिद्धं गीतायां च- विश्वरूपदर्शनेन सन्तुष्टोऽर्जुनः-

कस्माच्च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणोऽप्यादिकत्रै”

इति ब्रह्मशिवादिभ्योऽपि अधिकत्वं भगवतः कृष्णस्य प्रकटितवान्।

न वासुदेवात् परमस्ति दैवतम्।” “न दैवं केशवात्परम्”

इत्यादिभिः प्रमाणैः भगवतो नारायणस्य पारम्यं स्पष्टीक्रियते।

अमृतत्वप्राप्तिसाधनम्-

अमृतस्यैष सेतुः।”

तमेवं विद्वान् अमृत इह भवति।”

“नान्यः पन्था अनयाय विद्यते।”

इत्यादिभिः श्रुतिभिः भक्त्या प्रीतो भगवानेव अमृतत्वसाधनमिति स्पष्टम्। भक्तिक्रीतो जनर्दनः।

भक्त्या त्वनन्यया लभ्यः।”

पशवः याशिताः पूर्वं परमेण स्वलीलया।

तेनैव मोचनीयास्ते नान्यैर्मोचयितुं क्षमा॥”

एवं गीताद्युपबृंहितवाक्यानि च भक्त्या प्रसन्नो भगवान् संसारबन्धनविमोचनपूर्वकामृतत्वप्राप्तिसाधनमिति प्रकटयन्ति।

मुमुक्षूपास्यत्वम्-

कारणं तु ध्येयः।”

“ध्येयो नारायणस्सदा।”

विज्ञाय प्रज्ञां कुर्वीत्।”

आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः।”

“आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति?”

जगत्कारणीभूतानन्दस्वरूपो भगवान्नारायण एव मुमुक्षुभिर्ध्यातव्यः। तदुक्तम्-

आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः।

इदमेकं सुनिष्पन्नं ध्येनो नारायणः सदा।”

ननु “शम्भुराकाशमध्ये ध्येयः।” इति शिवस्य उपास्यत्वमुक्तम्। तथा

“मामेव विजानीहि। एतदेवाहं हिततमं मन्ये। यन्मां विजानीयात्।

त्रिशीर्षाणं त्वाष्ट्रमहनं अरुन्मुखान् यतीन् सालवृकेभ्यः प्रायच्छम्।”

इत्यादिना इन्द्रस्य उपास्यत्वं श्रूयते। तत्कथं नारायणस्यैवोपास्यत्वमिति चेन्न- भूयसीषु परविद्यासु श्रुतान् ब्रह्मेन्द्रशिवादीन् अनूद्य, तेषां नारायणत्वं विधीयते। तथा हि- “स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमस्वराडि”ति अतो ब्रह्मादिशब्दैः नारायण एवाभिधीयते स एवोपास्यः इति सिद्धम्।

गीतायां च परमात्मना श्रीकृष्णेन स्वयमेवोक्तम्-

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।

मामेवैष्यसि सत्यं(भद्रं) ते प्रतिजाने प्रियोऽसि मे।।”

“ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः।

अनन्येनैव योगेन मां ध्यायन्त उपासते।

तेषामहं समुद्धर्ता मृत्युसंसारसागरात्।”

मृत्युतुल्यसागरात् तितीर्षूणां मुमुक्षूणाम् अहमेवोपास्यः इति च अत्र “मद्भक्तः सन् मन्मना भव” इत्यन्वयेन स्वस्यैव अन्वययोग्यत्वं, तेषामहं समुद्धर्ता” इत्यनेन संसारतारकत्वं वासुदेवस्यैवेति स्पष्टम्।

मुक्तानामपि प्राप्यत्वं नारायणस्यैव-

ब्रह्म वेद ब्रह्मैव भवति।”

ब्रह्मविदाप्नोति परम्।”

वेदाहमेतं पुरुषं महान्तं, आदित्यवर्णं तमसः परस्तात्”

“तमेवं विद्वानमृत इह भवति।”

सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतपुरुषो ह्यव्ययात्मा।”

यः पुनरेतं त्रिमात्रेण ओमित्येकेनैवाक्षरेण परमपुरुषमभिध्यायीत….।।”

स एतस्मात् जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते”

एवमादिभिः श्रुतिभिः परमपुरुषोपासकस्तमसः परस्तात् वैकुण्ठलोके विद्यमाने पुरुषशब्दवाच्यं नारायणं प्राप्नोति इत्यर्थः सिद्धो भवति।

प्राणिनः सर्व एव गुहाशयस्येति सर्व हृदयान्तर्वर्तिनारायण एव।”

इत्यन्तर्यामिब्राह्मणे सुप्रसिद्धम्।

पुरुषशब्दश्च भगवति वासुदेवे रूढः- तदुक्तम्-

भगवानिति शब्दोऽयं तथा पुरुष इत्यपि।

निरुपाधी च वर्तेत वासुदेवे सनातने”

इत्यनेन पुरुषशब्देन वासुदेव एवोच्यते॥

नारायणाय विद्महे वासुदेवाय धीमहि। तन्नो विष्णुः प्रचोदयात्।”

इति विष्णुगायत्र्यां, नारायणवासुदेवविष्णुशब्दाः पर्यायेण पठिताः। अतः नारायणः विष्णुरेव स एव वासुदेवः। अत्र केचन कथयन्ति यत्- “सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्।” इत्यत्र श्रूयमाणविष्णोः पदमित्यनेन कार्यवैकुण्ठ एवेति। रावणकुम्भकर्णादिभिः पीड्यमानाः देवाः रक्षणार्थं विष्णुं वैकुण्ठस्थं शरणमगच्छन्। तैः प्रार्थ्यमानो विष्णुः रामकृष्णाद्यवतारं कृत्वा तान् संहृत्य धर्मसंस्थापनमकरोदिति पुराणेषु। एवं देवानां गमनागमने योग्यं स्थानं, प्राकृतमेव स्यात्। अतो विष्णोः पदं न मुक्तिस्थानमिति।

तदयुक्तम्-

आदित्यवर्ण तमसः परस्तात्।”

सूर्यद्वारेण ते विरजाः प्रयान्ति, यत्रामृतः पुरुषो ह्यव्ययात्मा।”

इत्यादिभिः श्रुतिभिः प्राकृतलोकादतिरिक्तं, प्रकाशमयं लोकं परमपदाभिधेयं वैकुण्ठलोकमेव विष्णुसूक्ते (नारायणसूक्ते) च- तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः।” इत्यादिभिश्च सूरिभिः सेव्यमानम् अन्यैरनवाप्यमिति स्पष्टमभिहितम्।

परिमितफलप्रदत्वं ब्रह्मादीनां-

ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः।

प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम्॥”

इति परिमितफलप्रदत्वात् ज्ञानिनः ब्रह्मादीन् नाश्रयन्ते इत्यर्थः।

अन्तवसु फलं तेषां तद्भवस्पल्पचेतसाम्।”

देवान् देवराजो यान्ति, मद्भक्ता यान्ति मामपि”,

मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते।”

इति नश्वरफलप्राप्तिः। देवतान्तराश्रयणेन। भगवदाश्रितानां मोक्षप्राप्तिरिति च गीतायामुक्तम्। प्राप्तिस्थानम् अण्डाद् बहिरवस्थितं श्रीवैकुण्ठमेव।

अपरिमितफलपदत्वं भगवतो नारायणस्य-

अपरिमितफलं च मोक्ष एव। स च अप्राकृतलोकस्य परमपुरुषस्थानप्राप्त्या एव। तथा हि-

यः पुनरेतं त्रिमात्रेण ओमित्यनेनैवाक्षरेण परमपुरुषमभिध्यायीत।

स पाप्मना विनिर्मुक्त एतस्मात् जीवधनात् परात्परं पुरिशयं पुरुषमीक्षते”,

तदा विद्वान पुण्यपापे विधूय निरञ्जनः परमसाम्यमुपैति”

सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम।”

इत्यादिश्रुतिभिः सर्वपापनिवृत्तिपूर्वकबद्धमुक्तजीवादतिरिक्तं परमपुरुषं नारायणं भगवन्तमवाप्नोतीत्यर्थः सिद्धो भवति।

गीतायां “आब्रह्मभुवनालोकाः पुनरावर्तिनोऽर्जुन।”

“मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते।” इति भगवता गीताचार्येणोक्तम्।

स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न पुनरावर्तते।”

इत्यादिभिश्च पुनरावृत्तिरहितब्रह्मप्राप्तिरुच्यते। एतादृशपरमपदप्रातिरेव हि मोक्षः।

एतत्सर्वं समभिहार्यं कवितार्किकसिहः श्रीमन्निगमान्तमहादेशिकैः श्रीमद्रहस्यत्रयसारे परदेवतापारमार्थ्याधिकारे स्पष्मेवमभिहितम्-

आत्मेक्यं देवतैक्यं त्रिकसमधिगता तुल्यतैक्यं त्रयाणाम्,

अन्यत्रैश्वर्यमित्याद्यनिपुणफणितीराद्रियन्ते न सन्तः।

त्रय्यन्तैरेककण्ठैस्तदनुगुणमनुव्यासमुख्योक्तिभिश्च

श्रीमन्नारायणो नः पतिरखिलतनुः मुक्तिदो मुक्तभोग्यः॥

तस्मात् इदमनेन निष्पद्यते यत्- कार्यत्व-कर्मवश्यत्व-परमात्मलब्धाधिकारित्व-मर्त्यत्व-रक्ष्यत्व-अल्पफलप्रदातृत्व-व्याप्यत्वादिभिर्धर्मैः ब्रह्मरुद्रेन्द्रादयो देवता अवरा एव, कारणत्वापहतपाप्मत्वस्वतन्त्रत्वस्वाधीनसर्वलोकाधिपतित्वाजत्वप्रापकत्वमोक्षप्रदातृत्वादि-भिर्धर्मैः भगवान् नारायण एव पर इति सिद्धम्।

सोऽयं भगवान् नारायणः-

अखिलभुवनजन्मस्थेमभङ्गदिलीले

विनतविविधभूतव्रातरक्षैकदीक्षे।

श्रुतिशिरसि विदीप्ते ब्रह्मणि श्रीनिवासे

भवतु मम परस्मिन् शेमुषी भक्तिरूपा॥

इति भगवच्छ्रीभाष्यकार-मुखारविन्द-निःसृत-वचनैः प्रमाणसहितैरत्र मुमुक्षुभिर्जिज्ञास्यं परं ब्रह्मेति निरवद्यम्।