[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

स्मृतिपुराणेषु शिक्षणविचारविमर्शः

Vadiraja K S
Assistant Professor
Dayananda Sagar College of
Arts, Science & Commerce

सा विद्या या विमुक्तये इति वाक्यं विष्णुपुराणे श्रूयते । एतद्वाक्यं विद्यायाः महत्त्वं प्रतिपादयति । अत्र विद्या नाम आत्मनः मोक्षप्राप्तये या साधनभूता भवति सा निगद्यते । विमुक्तये नाम मोक्षार्थमिति यावत् । इदं वाक्यं किमर्थमुक्तम्? भूमौ प्राप्तजन्मा प्रत्येकमपि आत्मा अस्मात् संसारबन्धनात् मोचनं प्राप्नुयात् । एवं मोचनार्थं यत् सहकरोति तत् विद्या इति पदेन निगद्यते । सा एव विद्या भवति । अन्यत् सर्वम् अविद्या भवति ।

याथार्थ्येन अस्मिन् जगति विद्यमानं सर्वमपि अविद्या एव । यस्मात् अस्मिन् जगति विद्यमानं न किमपि आत्मानं संसारबन्धनात् मोचयति । सर्वः अपि आत्मा अविद्यामेव यथार्थमिति मन्वानः संसारे रमते । यस्मात् अविद्या एव अविद्यायां वर्तितुं प्रेरयति । अत्र प्रथमम् अविद्यापदम् अज्ञानम् इति यावत् । तस्य अज्ञानस्य नाशः येन ज्ञानेन क्रियते तत् विद्या इति उच्यते । यदा अज्ञानस्य नाशः भुत्वा ज्ञानमुदेति तदा आनन्दः अनुभूयते । इदम् आत्यन्तिकं सुखं भवति ।

परन्तु इदं वाक्यम् अविद्यायां जगति अपि अन्वेतुं शक्यते । लोकसामान्ये अपि द्रष्टुं शक्यते यत् अज्ञातं यदा ज्ञातं भवति तदा आनन्दः जायते । शालायां पाठः पाठ्यमाने केनचित् छात्रेण नावगम्यते । यदा नावगम्यते तदा खेदः जायते । परन्तु तेन यथावगम्येत तथा पाठ्यमाने तेन विषये अवगम्यमाने महान् आनन्दः छात्रेण अनुभूयते । एवं ज्ञानम् आनन्दं जनयति । यः पठति लिखति परिपृच्छति पण्डितान् उपाश्रयति, तस्य दिनकरकिरणैः नलिनीदलमिव विकस्यते बुद्धिः इति एकः कविः उवाच । अतः ज्ञानम् अज्ञानाद्विमोचयदानन्दं जनयति ।

शिक्षणं नाम न केवलं पुस्तकस्थविचारग्रहणम् । अपि तु येन ज्ञानेन शरीरमनसोः एकीकरणं भवति तदेव शिक्षणमिति कथ्यते । गृहे विद्यमानाः ज्येष्ठाः वाचिकमुखेन बालकान् उद्बोधयन्ति । बहुविस्तृतज्ञानभण्डारः वाचिकरूपेण एव एकस्य अनन्तरमेकस्य कृते प्रदत्तः ।[1]

विद्यामहत्त्वम्

मार्कण्डेयपुराणे एका कथा श्रूयते । नीतिमन्तः पक्षिणः विन्ध्यपर्वते एव उषितवन्तः । ते सर्वे वेदाध्ययनाय कठिणतपः आचरितवन्तः । मनसः निग्रहं कुर्वन्तः वेदाध्ययनं कृतवन्तः[2] । एते सर्वे द्रोणस्य पुत्राः । द्रोणः वेदानां वेदाङ्गानां च समग्रतया अधीतविद्यः आसीत्[3] । द्रोणः मण्डपालस्य पुत्रः आसीत् । ते सर्वे अपि कालक्रमेण ब्राह्मणवत् अध्ययने निमग्ना बभूवुः । श्वासप्रश्वासनियन्त्रणे समर्थाः बभूवुः । जैमिनिः अवोचत् यत् सरस्वती एतान् श्रेष्ठर्षेः पुत्रान् त्यक्त्वा न गच्छतीति[4]

अत्र अवधेयाः अंशाः सन्ति यत् विद्यार्जनं न तावत् सुलभम् । तदर्थं महान् प्रयत्नः अवश्यकः । मनसः निग्रहणम् अत्यन्तं प्रधानः अंशः । मनसः एकत्र स्थिरीकरणमेव ऐकाग्र्यं भवति । अतः विद्यायाः उपरि मनः स्थिरीकृत्य विद्या सम्पादनीया । एकदा विद्या अर्जिता चेत् कठिणपरिश्रमेण तथा ऐकाग्र्येण सा विद्या अस्मान् त्यक्त्वा न गच्छति । कश्चन पुरुषः बान्धवैः त्यक्तः स्यात् । मित्रजनैः अपि त्यक्तः भवेत् । परन्तु न कदापि सन्दर्भे विद्यया त्यक्तः भवति । तादृशं शिक्षणं नैजशिक्षणं भवति । यादृशी वा दुस्स्थितिः पुरुषस्य स्यात् परन्तु विद्या न त्यजति तम् । विद्या तेन समं तिष्ठति तादृश्याः दुःस्थितेः सकाशात् बहिरागन्तुम् ।

अमूल्यं ज्ञानम्

ज्ञानं श्रेष्ठं द्रव्यमस्ति । तस्य द्रव्यस्य मूल्यं किमिति प्रश्ने न केनापि वक्तुं शक्यते । कुतः अमूल्यं तथा श्रेष्ठमिति चेत्, यत्किञ्चिद्वस्तु दीयमाने रिक्ततां याति । परन्तु ज्ञानरूपे द्रव्ये दीयमाने वर्धनं जायते । अतः इदं अमूल्यं श्रेष्ठं च वर्तते । प्राचीनकाले इयं विशिष्टा पद्धतिः आदृता आसीत् यत् विद्याप्राप्तये धनप्रदानं न आसीत् । यस्मात् विद्या व्यापारविषयभूता न आसीत् । निःशुल्कं ज्ञानम् दीयते स्म । विद्योपदेशः इत्येतत् छात्राचार्ययोः मध्ये विद्यमानः प्रधानः अंशः यश्च न केनापि मूल्येन क्रेतुं शक्यः । यदि कश्चन गुरुः एकम् अक्षरं वा बोधयति, तस्य ऋणापाकरणाय अस्मिन् जगति अन्यद् किञ्चित् नास्त्येव[5]

नैको गुरुः-नैकं ज्ञानम्

किञ्च एकस्माद् एव गुरोः विद्याप्राप्तिः नालं भवति । अनेकेषां गुरूणां निकटे विद्या प्राप्तव्या । यस्मात् एकस्माद् गुरोः अपरः गुरुः भिद्यते । प्रत्येकं गुरोः अपि वैशिष्ट्यं भवति । अनुभवः विशिष्टः भवति । यदि एकस्मादेव गुरोः विद्या अर्ज्यते, तर्हि ज्ञानसीमा परिमिता भवति । चिन्तनशैली अपि एकरूपा भवति । यदि भिन्नभिन्नगुरूणाम् अन्तिके विद्या प्राप्यते तर्हि अनेकं ज्ञानं भवति । विविधरीत्या चिन्तनाय शक्यते । ज्ञानसीमा असीमा भवति[6] । पुनश्च एकस्माद् गुरोः अधीतं ज्ञानं सुस्थिरं भवेत् न भवेत् वा । बहुभ्यः गुरुभ्यः प्राप्तं ज्ञानं सुस्थिरं भवति । यस्मात् यदा अनेके अंशाः अधीताः तदा अधीतानां विषयाणामेव मध्ये परस्परं चिन्तनं कर्तुमारभते । तदा ज्ञानं सुस्थिरं भवति । अनेकेषां गुरूणाम् अन्तिके अध्ययनेन ज्ञानम् अपि सुपुष्कलं भवति ।

गुरुणा सह छात्रव्यवहारः

यदा गुरुः भवति तदा गुरोः कृते स्थानं कल्पयेत् छात्रः । गुरोः आगमनकाले छात्रः उत्थाय गौरवं समर्पयेत् तदनुकूलव्यापारयुक्तः सन् । गुरुः यत्र यत्र गच्छति गुरुणा सह गच्छेत् । गुरुणा सह सम्भाषणकाले सगौरवं सविनयं सम्भाषणं कुर्यात् । गुरोः यद्दुश्चरितं भवति तद्विषये न सम्भाषेत । यदि अन्ये जनाः गुरुविषये निन्दनं कुर्वन्ति तर्हि छात्रः तेषां वचः न श्रुणुयात्[7]

अध्ययनप्रणाली

अध्ययनं नाम ज्ञानस्य आरम्भतः अन्तपर्यन्तं विद्यमानस्य प्राप्तिः । न तु केवलम् एकस्य भागस्य । अथवा यः भागः जीविकाप्राप्तये सहकारभूतः भवति केवलं न तस्य अध्ययनम् । तादृशम् अध्ययनम् अध्ययनमेव न भवति । पुनश्च अल्पः भागः अधीयमाने न ज्ञानमुत्पद्यते । एकस्य विषयस्य समग्रतया अध्ययने क्रियमाणे एव ज्ञानम् उदेति । तेन ज्ञानेन यत्किञ्चिदग्रे साधयितुं शक्यते । यथा वा वाहनस्य समग्रस्य विषये ज्ञाते वाहनचालनमित्यादि शक्यम् । केवलं चक्रज्ञानेन न समग्रवाहनज्ञानं साध्यम् ।

प्राचीनकाले अध्ययनं नाम न केवलम् एकस्य ग्रन्थस्य अथवा एकस्य भागस्य अध्ययनम् इति नासीत् । केवलं वेदस्य वा शास्त्राणां वा केवलम् अध्ययनं न असीत् । किन्तु ज्ञानराशेः समग्रस्य अध्ययनमेव अध्ययनमिति शब्दवाच्यमासीत् । वेदानाम् अध्ययनेन सह उपनिषदां च शास्त्राणाम् अध्ययनं कर्तव्यमिति स्मृत्या ज्ञायते । वेदानाम् गुरुमुखोच्चारणानूच्चारणभागः एकः । परन्तु वेदानाम् अर्थज्ञानाय तदङ्गानामपि शास्त्राणाम् अध्ययनम् अनिवार्यमेव । अतः प्राचीनकाले एवं क्रमः आदृतः इति कारणात् अध्ययनसमाप्तेरूर्ध्वं प्रत्येकोपि छात्रः ज्ञानी भवति स्म[8]

प्रवेशपरीक्षा

यः वेदान् अध्येतुमिच्छति सः प्रसिद्धमाचार्यमुपसर्पेत् तस्य शिष्यत्वप्राप्तये । आचार्यः तस्य जिज्ञासोः परीक्षार्थं कांश्चन प्रश्नान् पृच्छति । तस्य परिवारविषये अपि पृच्छति । परन्तु तेषु प्रश्नेषु धनदानविषये वा आर्थिकसम्बद्धतया वा न भवति । छात्रः मानसिकनैतिकपरीक्षायामपि भागभाक् भवेत् प्रवेशार्थम्[9]

एतेषाम् अंशानाम् अवलोकनेन केचन विचाराः स्पष्टीभवन्ति । छात्रः विद्याप्राप्तये सुखं त्यजेत् । यदि सुखी एव भवति तर्हि विद्याप्राप्तिः कष्टकरी स्यात् । गुरोः निकटे वासकरणात् गृहस्य सम्बन्धः न भवति । पित्रोः आश्रयः सर्वदा रक्षारूपः सुखरूपः च भवति । पुनश्च भावनत्मकतया दार्ढ्यमपि सम्पाद्यते । प्राचीना पद्धतिः न केवलं बुद्धिपूरणाय आसीत् परन्तु समग्रव्यक्तित्ववर्धनाय आसीदिति सम्यक् अवगम्यते ।

गुरुकुलशिक्षणजीवनं गुरुकुलशिक्षणादनन्तरजीवनस्य आधारभूतं भवति । यतो हि गुरोः सेवाकरणं, वृद्धनां नमनम् इत्यादिकं संस्कारान् जनयति । एतेन समाजे कथं वर्तनं भवेदिति सम्यक् अवगम्यते । गुरोः गृहे प्रातरारभ्य रात्रिपर्यन्तं कार्यकरणेन कार्यसाधनक्षमता अभिवर्धिता भवति । एवं च प्राचीना शिक्षणपद्धतिः सम्पूर्णात्मविकसनाय सहकरोति ।

छात्राचारः

छात्रः गुरुं विना किमपि साधयितुं न शक्नोति । गुरोः अनुग्रहपात्रभाक् भवेत् । तदर्थं यद्यदपेक्षितं कर्तव्यं भवति तत् सर्वं तेन कर्तव्यम् । गुरोः कृपा केवलं भवति चेत् साधनमार्गः प्रशस्तः भवति । गुरुः अपि सर्वदा छात्रस्य हितमेव आलोचयति । अतः तदर्थं यद्यद् करोति तत्सर्वमपि छात्रेण अङ्गीकर्तव्यम् । कदाचित् दोषदूरीकरणाय कठोरवचनानि वदेत् । तदा छात्रः तानि वचनानि येन प्रकारेण चिन्तयन् स्वीकरोति अथवा त्यजति तेन प्रकारेण तस्य जीवनस्य उपरि परिणमं जनयति । यदि छात्रः स्वहितार्थमिति चिन्तयन् विवेकपुरस्सरं प्रवर्तते तर्हि तेन सः लाभं प्राप्नोति । यदि छात्रः गुरोः द्वेषं करोति तर्हि तस्य परिणामं स्वयम् अनुभवति । तस्य दुष्परिणामः एव जायते । अतः गुरोः विषये न कदापि द्वेषः कार्यः ।

स्वास्थ्यपरिपालनम् अत्यवश्यकं भवति । अत्र द्विधा वक्तुं शक्यते । प्रथमं मानसिकस्वास्थ्यम् । द्वितीयं दैहिकं स्वास्थ्यम् । मनः अत्र प्रधानं भवति । मनसि स्वस्थे सर्वं स्वस्थं भवति । मानसिकस्वास्थ्यनिर्वहणाय विद्यमानः मार्गः अस्ति यत् असाधुचिन्तनानां दूरीकरणपूर्वकं साधुचिन्तनानामाधानम् । सर्वदा सच्चिन्तनमेव कर्तव्यम् । अतः अन्येषां गुणाः आविष्करणीयाः । न तु अन्येषां दोषाणां विषये चिन्तनं वा आविष्कारः कार्यः । पुनश्च दैहिकस्वास्थ्यपरिपालनाय नित्यं योगः अनुष्ठातव्यः[10]

छात्रः यदा यौवनावस्थां प्रविशति तदा परिवर्तनान्यनेकानि दृश्यन्ते । चिन्तनानि अपि भिद्यन्ते । बाल्यावस्थायां कौमारावस्थायां च यत्किञ्चित् कर्तुं पितरं वा ज्येष्ठान् वा पृच्छामि इत्याकारकवृत्तिः मनसि उदेति । परन्तु यौवनावस्थायां न तथा चिन्तनं भवति । अर्थात् स्वातन्त्र्यमिच्छति । स्वेच्छया भवितुम् इच्छति । न कस्यापि अधीने भवितुम् इच्छति । परन्तु सा समस्या भवति ।

तस्यामवस्थायामर्थात् छात्रावस्थान्तर्गतयौवनावस्थायां तु छात्रः गुरोः अधीने भवेत् । गुरोः आश्रये स्वात्मानं वर्धयेत् । यस्मात् तदवस्थायां मनसि विकल्पाः उदीयन्ते । विवेकः शून्यः भवति । किं कर्तव्यं किं न कर्तव्यमिति विषये संशयापन्नः भवति । अतः समीचीने मार्गे अग्रे सर्तुं नितराम् आचार्यमार्गदर्शनम् अवश्यकमेव[11]

छात्रदण्डने गुरुनियमः

मनुष्यः न सम्पूर्णतया परिपूर्णः । मनुष्ये दोषाः गुणाः च भवन्ति । दोषाणां परिमार्जनपूर्वकं गुणानाम् आधानं कृत्वा पूर्णतायाः दिशि अग्रे सर्तव्यम् । दोषाणां कारणेन छात्रः अनुचितं करोति । दोषान् आचरति । छात्रेण दोषे क्रियमाणे गुरुः तस्य दोषस्य दूरीकरणाय यत्नः विधेयः । दोषाणां दूरीकरणार्थं गुरुः विविधानि विधानानि अनुसरेत् । येन च छात्रस्य दोषः मार्जितः स्यात् न तु छात्रे ऋणात्मकपरिणामः स्यात् । दोषाणां छात्रस्य च आधारेण गुरुणा विधानम् अनुसर्तव्यम् ।

विधानानि अनुसर्तव्यानि यस्मात् छात्रेषु अपि प्रत्येकं भिद्यते । केचन छात्राः वचसा उच्यमाने शृण्वन्तः स्वदोषान् जानन्ति । अङ्गीकृत्य तत्परिमार्जनाय यत्नं कुर्वन्ति च । केषाञ्चन छात्राणां परिवर्तनाय कठोरं वचः उपयोक्तव्यम् । केचन छात्राः कदाचित् शाठ्यमाचरन्ति । तदा ताद्शानां नियन्त्रणं कष्टकरं भवति । तस्मिन् समये ताडनप्रयोगः आचरणीयः भवति । ताडनार्थं कृशा रज्जुः अथवा वेणुवृक्षदण्डः उपयोक्तव्यः । न कदापि घनवस्तुना घनदण्डेन अथवा हस्तेन वा छात्राः ताडनीयाः । यदि कश्चन गुरुः तादृशवस्तूनां उपयोगं करोति, तर्हि सः दण्डनयोग्यः भवति । स्वयं राजा गुरुं दण्डयति । अतः अयं नियमः पालनीयः भवति गुरुणा[12]

[1] Education in ancient India, Mitali Chatterji,

[2] यावदद्य स्थितास्तस्मिन्नचले धर्म्मपक्षिणः ।

तपःस्वाध्यायनिरताः समाधौ कृतनिश्चयाः ॥ मार्कण्डेयपुराणम् ३-८५

[3] तेषां जघन्यो धर्मात्मा वेदवेदांगपारगः ।

उपमेये स तां तार्क्षीं कन्धरानुमते शुभाम् ॥ मार्कण्डेयपुराणम् २-३३

[4] त्यक्त्वा गच्छति तत्सर्वं न जहाति सरस्वती ॥ मत्स्यपुराणम् ४-६

[5] एकमप्यक्षरं   यस्तु   गुरुः  शिष्यं   प्रबोधयेत् ।
पृथिव्यां  नास्ति  तद्द्रव्यं  यद्दत्वा  सोSनृणी  भवेत् ॥ चाणक्यनीतिः-१५-२

[6] न ह्येकस्माद् गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् ।
ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभि: ॥ भागवतपुराणम् ११-९-३१

[7] दुष्कृतं न गुरोरुरुयात् कृद्धं चैनं प्रसादयेत् ।

परिवादं न श्रुणुयात् अन्येषामपि कुर्वताम् ॥ मत्स्यपुराणम् – ३४-३८

[8] तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः ।

वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ।। मनुस्मृतिः २-१६५

यो विद्याच्चतुरो वेदान् सांगोपनिषदान् द्विजः ।

न चाख्यनमिदं विद्यान्नैव स स्याद्विचक्षणः ॥ महाभारतम् १-३८-१७

सांगोपनिषदान् वेदान् विप्राश्चाधीयते तदा ॥ महाभारतम् १-५८-१७

ब्राह्मणेन निष्कारणो धर्मः षडंगः वेदः अध्येयः ज्ञेय इति । महाभाष्यम् –

[9] विद्या ब्राह्मणमेत्याह शेवधिस्तेsस्मि रक्ष माम् ।

असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा ॥ (मनुस्मृतिः – २/११४)

यमेवतु शुचिं विद्यान्नियतब्रह्मचारिणम् ।

तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ॥ (मनुस्मृतिः – २/११५)

[10] कृतज्ञाद्रोहिमेधाविशुचिकल्पानसूयकाः ।

अध्याप्याधर्मतः साधु शक्ताप्तज्ञानवित्तदाः ॥ याज्ञवल्क्यस्मृतुः -१-२८

[11] अस्वतन्ताः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः ।

अस्वतन्त्रः स्मृताः शिष्यः आचार्येतु स्वतन्त्रता ॥ नारदस्मृतिः २-१-३०

[12] शिष्यशिष्टिरवधेन ।। गौतमधर्मसूत्रम् – २-४८

अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् ॥ गौतमधर्मसूत्रम् – २-४९

अन्येन घ्नन् राज्ञा शास्यः ॥ गौतमधर्मसूत्रम् – २-५०

[/vc_column_text][/vc_column][/vc_row]