प्राचीने अर्वाचीने च काले स्त्रीधनम्
लीना सुनील पाण्डे
मार्गदर्शिका : डा. शुचिता एल. दलाल
आर.टी.एम. नागपुरविश्वविद्यालयः, नागपुरम् (संस्कृतविभागः)
सारांशः
स्त्रीधनम् इति किम्? प्राचीनकाले श्रीधनस्य विषये कानि कानि मतानि आसन्, अर्वाचीनकाले श्रीधनस्य विषये कीदृशः दृष्टिकोणः अस्ति — एतेषां सर्वेषां विवेचनात्मकम् अध्ययनम् अस्मिन् शोधपत्रे कृतम्।
मम विश्वासः अस्ति यत् यदि सर्वत्र स्त्रियः आदरपूर्वकं स्थानं दीयेत, तासां स्त्रीधनं च विधिवत् पालितं चेत्, देशस्य प्रगतिः अवश्यमेव भविष्यति। एतत् प्रमाणयितुम् अयं प्रयत्नः । मम शोधपत्रस्य उद्देश्यम् एतत् एव।
प्रास्ताविकम्
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः॥
(मनुस्मृतिः ३.५६)
यत्र स्त्रियः आदरपूर्वकं व्यवहारं कुर्वन्ति, तत्र देवाः प्रसन्नाः भवन्ति। यत्र स्त्रीणाम् अनादरः भवति, तत्र सर्वाणि कर्माणि धर्माः च निष्फलाः भवन्ति। तानि कर्माणि धर्माः च पुण्यं न ददति इति अर्थः।
मनुस्मृतेः अस्य श्लोकस्य अनुसारं समाजे स्त्रीणां महत्त्वपूर्णं स्थानं भवितुमर्हति। प्राचीनकाले आधुनिककाले च स्त्रीणाम् एतत् महत्त्वपूर्णं स्थानम् आसीत् वा? मम दृष्ट्या प्राचीनकालात् आधुनिककालपर्यन्तं केषुचित् स्थानेषु महिलाः महत्त्वपूर्णस्थानानि धारयन्ति। समाजे स्त्रीभ्यः महत्त्वं न दीयते इति वक्तुं न शक्नुमः। समाजे स्त्रीभ्यः महत्त्वं दीयते। अत एव स्त्रियः उच्चपदानि प्राप्नुवन्ति, यस्य फलस्वरूपं तासां स्त्रीधनं विधीयते। एतेन न केवलं समाजे अपि तु देशे अपि प्रगतिः भवति।
प्राचीनकाले स्त्रीधनम्
प्राचीनकाले स्त्रीधनं सम्यक् आसीत्, तस्य उपयोगाय स्त्रियः स्वतन्त्राधिकाराः विदिताः आसन्। स्त्रीधनस्य विषये मनुस्मृतौ, याज्ञवल्क्यस्मृतौ, अर्थशास्त्रे च तथा अन्येषु ग्रन्थेषु अपि विस्तरेण चर्चा कृता।
मनुस्मृतौ स्त्रीधनम्
आचार्यमनुः मनुस्मृतेः नवमे अध्याये स्त्रीधनस्य विषये अत्र आह—
अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम्॥
(मनुस्मृतिः ९.१९४)
विवाहसमये पित्रा अग्निसमीपे दत्तं धनं, श्वशुरात् प्राप्तं धनं, अलङ्कारादिकं, पत्या दत्तं, पित्रा दत्तं, भ्रातुः धनं, मातुः सकाशात् प्राप्तं धनं च — एतानि षड्विधानि स्त्रीधनम् इति उच्यन्ते।
याज्ञवल्क्यस्मृतौ स्त्रीधनम्
याज्ञवल्क्येन स्वस्मृतौ (द्वितीयाध्याये, १४३ श्लोके) स्त्रीधनस्य वर्णनं कृतम्—
पितृमातृपतिभ्रातृदत्तमध्यग्न्युपागतम्।
आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम्॥
(याज्ञवल्क्यस्मृतिः २.१४३)
अर्थात् — यत् पित्रा, मात्रा, पुत्रेण, भ्रात्रा वा स्त्रियै दत्तं, यत् विवाहानन्तरं प्राप्तं, यत् च अधिष्ठानसम्बन्धेन आगच्छति, तत् स्त्रीधनम् इति।
चाणक्ये स्त्रीधनम्
आचार्यचाणक्यः अर्थशास्त्रे तृतीये अधिकरणे द्वितीयेऽध्याये ५९ अध्याये च स्त्रीधनविषये चर्चां कृतवान्। तस्य मते—
वृत्त्याबन्ध्यं वा स्त्रीधनम् ॥१४॥
परिद्विसाहस्रा स्थाप्या वृत्तिराबन्ध्यानियमः ॥१५॥
(कौटिलीयार्थशास्त्रम् ३.२.१४-१५)
स्त्रीधनं द्विविधम् — एका वृत्तिः (व्यवहारार्थं धनम्), अपरः आबन्ध्यः (आभूषणम्)। वृत्तिस्त्रीधनं यत् स्त्रियाः नाम्ना विनियुज्यते, न्यूनातिन्यूनं द्विसहस्ररूप्यकाणि भवितुमर्हन्ति। आबन्ध्यस्त्रीधनस्य परिमाणस्य सीमा नास्ति।
तदात्मपुत्रस्नुषाभरणिप्रवासाप्रतिविधाने च भार्यया भोक्तुमदोषः प्रतिरोधकव्याधिदुर्भिक्षभयप्रतीकारे धर्मकार्ये च पत्युः॥
(कौटिलीयार्थशास्त्रम् ३.२.१६)
अर्थात् — यदि पतिः विदेशं गच्छति, तत्र किमपि प्रबन्धनं न विद्यते चेत्, तस्मात् धनात् (स्त्रीधनात्) स्त्री पुत्रस्य स्नुषायाः च आजीविकायै व्ययितुं शक्नोति। कस्यापि विपदः, व्याधेः, दुर्भिक्षस्य, अन्यस्य वा कुलविपदः प्रतिक्रियार्थं सा अपि तत् व्ययितुं शक्नोति। उत्पन्नस्य भयस्य प्रतिकारार्थं, धर्मकार्यार्थं च पतिः अपि तत् धनं व्ययितुं शक्नोति, तस्मिन् कोऽपि दोषः नास्ति।
संभूय वा दम्पत्योर्मिथुनं प्रजातयोः ॥१६॥
त्रिवर्षोपभुक्तं च धर्मिष्ठं त्रिविवाहेषु नानुयुञ्जीत ॥१७॥
(कौटिलीयार्थशास्त्रम् ३.२.१६-१७)
अर्थात् — दम्पती यदि एकत्र धनं व्ययीकुरुतः (अर्थात् द्वयोः बालकयोः जन्मनः अनन्तरं), तर्हि तस्मिन् हानिः न भवति। न च सन्तानं जातं चेदपि पूर्वचतुर्णां विवाहानां कस्मिन् अपि धर्मानुसारेण विवाहिता दम्पती तस्मात् वर्षत्रयं व्ययीकर्तुं शक्नुतः।
गान्धर्वासुरोपभुक्तं सर्वं द्विकमूल्यं दाप्येत, राक्षसपैशाचोपभुक्तं स्तेयं दद्यात् ॥१८॥
(कौटिलीयार्थशास्त्रम् ३.२.१८)
अर्थात् — गान्धर्व-असुर विवाहानां स्त्रियः यत् स्त्रीधनं व्ययीकुर्वन्ति, तर्हि तासां कृते मूल्येन सह द्विगुणं दाप्यम्। यदि राक्षस-पैशाचविवाहानां स्त्रियः धनं व्ययीकुर्वन्ति, तर्हि चौर्यस्य दण्डः भवति।
आधुनिककाले स्त्रीधनम्
प्राचीने काले स्त्रीधनं यथा आसीत्, तस्य नियमाः च परिवर्तिताः। अस्माकं संस्कृतिः पुरुषप्रधानत्वात् पुरुषाः परिवारस्य पोषणस्य दायित्वं स्वीकुर्वन्ति स्म, महिलाः तु गृहकार्ये नियुक्ताः आसन्। प्राचीने काले एषा उक्तिः आसीत् — “कृषिः श्रेष्ठा, व्यापारः मध्यमः, उद्योगः तु निकृष्टः” इति। कृषिः प्राधान्येन पुरुषैः क्रियते स्म।
आधुनिके काले समाजे परिवर्तनं दृश्यते — “उत्तमः उद्योगः, मध्यमं वाणिज्यं, निकृष्टा कृषिः” इति। उत्तमोद्योगस्य प्राप्त्या बालानाम् अध्ययनम् आरभ्यते, फलितः बालिकानां शिक्षायाः अधिकाराः प्राप्ताः। परिवारजनाः स्वपुत्रीणां स्नुषाणां च शिक्षणम् आरब्धवन्तः। उत्तमशिक्षायाः कारणात् महिलाः उच्चपदानि प्राप्तुम् आरब्धवत्यः। उदाहरणार्थम् —
१. चिन्ता घोषर् (ICICI वित्तकोषस्य प्रमुखकार्यकारिणी)
२. अरुन्धती भट्टाचार्य (स्टेट् बैङ्क् आफ् इण्डिया-संस्थायाः अध्यक्षा)
३. किरण मजुमदार्-शा (बायोकॉन् लिमिटेड् इत्यस्याः कार्यकारिणी अध्यक्षा)
एताः महिलाः उच्चपदानि धारयन्ति। तासां धनं किं स्त्रीधनम् इति नाम्ना भवितुमर्हति? मम दृष्ट्या आधुनिके काले अपि स्त्रीधनम् इति वक्तुं शक्यते। एतत् धनं स्त्रियाः एव अस्ति, तस्याः तस्मिन् अधिकारः अस्ति। प्राचीने काले पुरुषप्रधानसंस्कृतेः कारणात् एतादृशस्य स्त्रीधनस्य विशेषा चर्चा न भवति स्म।
आधुनिके काले स्त्रीधनं दृष्ट्वा वयं वक्तुं शक्नुमः यत् प्राचीने काले स्त्रीधनस्य प्रसारः अद्यत्वे विद्यते। अधुना वयं समानताविचारेषु एव स्थिताः स्मः, तथापि स्त्रीधनस्य गौरवं वर्धयितुं शक्नुमः। प्राचीनकाले ये नियमाः स्त्रीधनसम्बद्धाः आसन्, ते एव नियमाः अद्यत्वे अपि प्रयोक्तुं शक्यन्ते। तेषु नियमेषु परिवर्तनं न कर्तव्यम् इति अहं मन्ये; वर्तमानपरिस्थितिं दृष्ट्वा स्त्रियः स्वपरिवारस्य हिताय निर्णयं कुर्वन्तु। यतः आधुनिककाले परिवारस्य आवश्यकतानां पूर्तये स्त्रीपुरुषौ उभावपि अत्यावश्यकौ स्तः।
निष्कर्षः
प्राचीनकाले स्त्रीधनस्य अवधारणा आसीत्, तस्याः उपरि स्त्रियाः पूर्णाधिकारः आसीत्, येन ताः यथेच्छन्ति तथा व्ययीकर्तुं शक्नुवन्ति स्म।
आधुनिककाले वयं पश्यामः यत् महिलाः शिक्षिताः भूत्वा कार्येषु उच्चपदवीं धारयन्ति। तासां धनं “स्त्रीधनम्” इति अवधारणायाम् अपि समावेष्टुं शक्यते। अतः वयं वक्तुं शक्नुमः यत् आधुनिककाले स्त्रीधनस्य मूल्यं महतीं वृद्धिम् अगच्छत्। स्त्रीधनस्य मात्रा अपि महतीं वृद्धिम् अगच्छत्। पूर्वं स्त्रीधनस्य परिमाणं सीमितम् आसीत्, अतः महिलाभिः अतीव जागरूकतापूर्वकं तस्य प्रबन्धनं कर्तव्यम् आसीत्। परन्तु अधुना महिलाः प्रत्येकं क्षेत्रे प्रगतिं साधयन्ति, अतः ताः प्रभावीरूपेण पूर्णं कर्तुं शक्नुवन्ति। अहं मन्ये यत् सर्वकारेण महिलासशक्तीकरणस्य विषये अधिकं ध्यानं दातव्यम्। ननु अस्माकं भारतीयसंस्कृतौ यदुक्तं तत् सत्यम् —
यत्र नार्यस्तु पूज्यन्ते, रमन्ते तत्र देवताः।
अहं गवेषणया वक्तुं शक्नोमि यत् यदि वयं लोकतन्त्रे एतस्य सिद्धान्तस्य उपयोगः भवति, तर्हि वयमपि अपारं सम्मानं प्राप्नुमः। यदि प्रधानमन्त्री नरेन्द्रमोदी महिलानां सम्मानं करोति, तर्हि तस्य स्वकीया प्रतिष्ठा, यशः, भारतीयप्रजातन्त्रे राष्ट्रस्य गौरवं च वर्धते। अधुना यदा मोदीसर्वकारस्य मन्त्रिमण्डलस्य विस्तारः अभवत्, तदा सप्त महिलासंसदानां कृते कार्यं कर्तुम् अवसरः दत्तः इति समाचारः उत्साहवर्धकः आसीत्। एताः सप्त महिलाः सन्ति — श्रीमती मीनाक्षी लेखी, अनुप्रिया सिंह पटेल, दर्शना विक्रम, अन्नपूर्णा देवी, भारती प्रवीण पवार, प्रतिभा भौमिक, शोभा करन्दलाजे च। अस्माकं मोदीमन्त्रिमण्डलस्य वरिष्ठतमसदस्यानां निर्मला सीतारमणमहोदयया, स्मृति इरानीमहोदयया च सह समूहचित्रे एताः सप्त महिलाः सम्मानिताः — तदपि अधिकम् उत्साहवर्धकम् आसीत्। अस्य चित्रस्य देशे सर्वत्र बहुप्रशंसा जाता। सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् सप्तापि महिलाः आदर्शभारतीयकुटुम्बात् आगताः सन्ति। सर्वदा पश्यामः यत् स्त्रियाः षष्ठम् इन्द्रियं धारयन्ति, स्वगृहस्य प्रबन्धनं च कुर्वन्ति। ताः अतीव सतर्काः भवन्ति। स्त्रीणां समानरूपेण व्यवहारः, तासां सम्मानं च — एतत् अस्माकं संस्कृतेः गौरवस्य विषयः अस्ति।
अतः अहं पूर्णविश्वासेन वक्तुं शक्नोमि यत् स्त्रीधनवृद्ध्या देशस्य प्रगतिः वर्धते इति।
सन्दर्भग्रन्थसूची
१. त्रिवेदी पं. ताराप्रसाद, मनुस्मृतिः — मुंशी नवलकिशोर सी. आई. ई., लखनऊ, १९१७।
२. बापू शेषराजशास्त्री, श्रीयाज्ञवल्क्यस्मृतिः — श्रीगजानन बुक् डेपो, भरतनाट्यमन्दिरसमोर, पुणे, १९३०।
३. गंगले प्रा. र. पं., कौटिलीयम् अर्थशास्त्रम् — युनिव्हर्सिटी आफ् बॉम्बे, १९६०।
४. रैन्मी आचार्य शेषराजशर्मा, साहित्यस्पर्शम् — चौखम्बा कृष्णदास अकादमी, वाराणसी, २०१९।
