सिद्धान्तलक्षणे परम्परासम्बन्धविचाराः

डो भगीरथः त्रिवेदी
Assistant Professor
दर्शनम् संशोधन केन्द्रम्,
अहमदाबाद, गुजरात
M- 909914687
E Mail – dvltrivedi@gmail.com

दीधितिः

दण्ड्यादौ साध्ये परम्परासम्बद्धदण्डत्वादिकमेव साध्यतावच्छेदकम् अतो नाव्याप्तिः”।

तत्तद्वक्तिसामानाधिकरण्यम् । यदा पर्वते धूमेन वह्निम् अनुमिनोमि तदा तस्य पर्वतीयवह्निधूमयोः महानसीयवह्निपर्वतीयधूमयोः वा व्याप्तिनिश्चयज्ञानं न सम्भवति , पुनश्च महानसे वह्नेः व्यापकत्वं गृहीत्वा पर्वते धूमे तस्य सामानाधिकरण्यं कथयितुं  न शक्यते ।  पर्वतीयवह्निधूमयोः महानसीयवह्नि-धूमयोरेव परस्परं सामानाधिकरण्यं स्यात् ।

यत्र साध्याश्रयाः अनेकाः तत्र साध्यतावच्छेदके हेतुसमानाधिकरणाभाव-प्रतियोगितानवच्छेदकत्वस्य स्वीकारे अव्याप्तिः सम्भवति ।

 अव्याप्तिप्रकारः –

मठः दण्डिमान् दण्डिसंयोगात्” इत्यत्र साध्यं संयोगेन, हेतुश्च समवायेन बोध्यः। तत्र दण्डिसंयोगाधिकरणसमवायानुयोगित्वसम्बन्धेन मठः तन्निष्ठः अभावः भूतलीयदण्डी नास्तीत्याकारकः, तथा च हेतुः दण्डिसंयोगः साध्यः दण्डिमत्वं । यत्र यत्र दण्डिसंयोगः तत्र तत्र दण्डिमत्वम्  यथा मठः इति व्याप्तेः सत्वात् अयं सद्हेतुः ।

हेत्वधिकरणं दण्डिसंयोगाधिकरणं मठः, तद्वृतिः यः अत्यन्ताभावः भूतलीयदण्ड्यभावः तत्प्रतियोगी दण्डि, प्रतियोगितावच्छदेकं दण्डः, साध्यतावच्छेदमपि दण्डः प्रतियोगितावच्छेदकमेव भवति इति तत्सामानाधिकरण्यं सुतरां न प्रसिद्धयति इति सद्हेतौ लक्षणासमन्वयात् अव्याप्तिः दुष्परिहरा 

समाधानम् –

स्वाश्रयाश्रयात्मकपरम्परासम्बन्धेन दण्डत्वस्य साध्यतावच्छेदकत्वस्य स्वीकारे तु –  स्वं दण्डत्वं तदाश्रयो दण्डः, तदाश्रयः पुरुषः, तथा च दण्डिसंयोगाधिकरणे परम्परासम्बन्धेन दण्डत्ववान्नास्तीति वक्तुं  शक्यते, अपि तु घटत्ववान्नास्ति दण्डत्ववान्नास्तीत्येवमेव, तत्प्रतियोगितावच्छेदकं घटत्वं दण्डश्च, तत्प्रतियोगितानवच्छेदकं परम्परया दण्डत्वमेव, तदवच्छिन्नः परम्परया दण्डी तत्सामाधिकरण्यस्य दण्डिसंयोगे सत्वात् समन्वय इतितथा च “हेत्वधिकरणवृत्यभावप्रतियोगितावच्छेदकतानवच्छेदकं यत् साध्यतावच्छेदकं तदवच्छिन्नसाध्यसामानाधिकरण्यम् व्याप्तिः”

मठो   दण्डिमान्        दण्डिसंयोगात्” इत्यत्र दण्डिसंयोगात्मकहेत्व-धिकरणवृत्यभावीयप्रतियोगिता तत्तद्दण्दिनिष्ठा, तदवच्छेदकस्तद्दण्दः, तदवच्छेदकं तत्वं तद्वक्तित्वं तादृशप्रतियोगितावच्छेदतानवच्छेदकं तु दण्डत्वं, तदेव व्यापकतावच्छेददण्डावच्छेदकम्,तादृशदण्डत्वावच्छिन्नदण्डावच्छिन्न दण्डिसामा-नाधिकरण्यं हेतौ वर्तत  इति लक्षणसमन्वयः ।

दण्डिमान् दण्डिसंयोगात्” इत्यत्र तु  साध्यतावच्छेदकत्वम् एकं न अपितु अनेकमस्ति  । अतः तेषां अनेकत्वेन हेत्वधिकरणतवृत्तितायाः अवच्छेदकः न एकः सम्भवति, अतः न त्वेषां साध्यतावच्छेदकमपि सम्भवति । चालनीन्यायेन हेत्वधिकरणे दण्डिसंयोगाधिकरणे वृत्यभावप्रतियोगितावच्छेदके दण्डव्यक्तौ अवच्छेदकत्वस्य अभावः न प्राप्यते । यः अभावः विशिष्टवृत्तिः विशिष्टानुयोगिकः वर्तते तस्य स्वीकारो न भवति ।

साध्यसम्बन्धयुक्तस्यैव साध्यतावच्छेदकत्वं सम्भवति । अतः दण्डस्य साध्यतावच्छेदकत्वात् साध्यस्य च प्रतियोगिनवच्छेदकत्वात् न दोषः इति ।

“दण्डिमान् दण्डिसंयोगात्” इत्यत्र हेत्वधिकरणदण्डिसंयोगा-धिकरणवृत्त्यभावः तत्तदण्ड्यभावः प्रतियोगितायाः अवच्छेदकं तत्त्वविशिष्टो दण्डः अनवच्छदकन्तु दण्डत्वविशिष्टस्य वर्तते । एवमेव “वह्निमान् धूमात्”इत्यत्र  हेतुभुतधूमाधिकरणाभावप्रतियोगितावच्छेदकत्वं महानसीयवह्नित्वम् अनवच्छेदकन्तु शुद्धवह्नित्वम् भवति । प्रकृतेऽपि दण्डत्वस्य प्रतियोगितानवच्छदेकसाध्यतावच्छेदकत्वात् न परंपरासम्बन्धस्वीकारः इति ।

अवच्छदेकस्थलेषु सर्वत्र च अवच्छेदकतापर्याप्तिः इति मनसि निधाय एव इयमाशङ्का विहिता ।

तद्दण्डी नास्ति इत्यस्मिन् ज्ञाने तत्ताविशिष्टात्मके दण्डे प्रतियोगितावच्छेदकतापर्याप्तिः न भवति अपितु  तत्त्वोपलक्षिते एव दण्डे  पर्याप्तिः प्राप्यते । लघुधर्मस्यावच्छदेकत्वसम्भवेन गुरुधर्मस्यावच्छेकत्वेन लोभो न स्यात्  । तत्त्वांशे अवच्छदकत्वं न स्वीक्रियते यतोहि त्तत्वोपलक्षितदण्डे दण्ड्यभावेन अनतिप्रसक्तिसंभवात् । “विशिष्यवृत्तिधर्मप्रतियोगिकविशिष्टानुयोगिकाभावस्य अप्रामाणिकत्वात्” “अत्र उपलक्षणत्वं प्रतियोगातावच्छेदकांशे भासमानत्वे सति अनवच्छेदकत्वम् । विशेषणत्वं भासमानत्वे सति अवच्छेदकत्वम्”।

“वह्निमान् धूमात्” इत्यत्र तु साध्याभावः वह्यभावः तादृशाभावप्रतियोगितानवच्छेदकं शुद्धवह्नित्वमेव,  तेन महानसीयवह्न्यभावप्रतियोगितायाः अवच्छेदकं महानसीयवह्नित्वं न तु शुद्धवह्नित्वम् । अतः अतिव्याप्तिः न सम्भवति ।

प्रकृतस्थले तत्त्वविशिष्टात्मकदण्डस्यैव अवच्छेदकत्वं स्वीकार्यम् । अन्यथा दण्ड्यभावप्रतियोगितारहितदण्डान्यतरवति अपि पुंसि दण्डत्वविशिष्टदण्डस्य वर्तमानत्वात् अतिव्याप्तिः स्यात् । अतः प्रतियोगितावच्छदकत्वं दण्डत्वस्यैव न तु दण्डत्वस्य व्यापकतावच्छेदकतापर्याप्तिः तेन च न लाभः । तत्त्ताविशिष्टस्य उपलक्षणस्वीकारेऽपि प्रतियोगितावच्छेदकतायाः अन्तर्भावः स्वीकार्यः एव ।

“स्वरूपतः भासमानस्यैव स्वरूपतः अवच्छेदकत्वात्”। स्वरूपतः अवच्छेदकत्वं सखण्डधर्मस्य न भवति । दण्डस्य सखण्डधर्मत्वात् तस्य अवच्छेदकत्वं न स्यात् । स्वीकारपक्षे तु अतिव्याप्तिस्सम्भवति । अतः त्तत्ताविशिष्टस्यैव सर्वदा अच्छेदकत्वं ग्राह्यम्  न तु स्वरूपतः । दण्डत्वस्य तत्त्वस्य उपलक्षत्वादेव इयमापत्तिः स्यात् ।

तथा च “दण्डिमान् दण्डिसंयोगादि”त्यत्र  अव्याप्तिवारणाय तु व्यापकतावच्छेदकस्य स्वीकारो कृतः । एवञ्च अन्यत्र पृथिवीत्वव्याप्यजातिमद्वान् समवायेन पृथिव्याः इत्यत्र अव्याप्तिवारणाय परम्परासम्बन्धस्य व्यापकतावच्छेदकत्वपर्यन्तम् अनुधावनं कृतमिति दीधितिकाराणाम् अभिप्रायः ।

एवं “पृथिवीत्वव्याप्यजातिमद्वान् समवायेन पृथिव्याः” इत्यत्र हेतुः समवायेन पृथिव्याः, तदधिकरणे घटात्मके पृथिव्यधिकरणे कपाले पटो नास्ति इति प्रतीति साक्षिकः पटत्वावच्छिन्नपटाभावः तत्प्रतियोगितावच्छेदकं पटत्वम् । एवं समवायसम्बन्धेन पटात्मके पृथिव्यधिकरणे तन्तौ वर्तमानः घटो नास्तीति प्रतीति साक्षिकः घटत्वावच्छिन्नघटाभावः तत्प्रतियोगितावच्छेदकं घटत्वम्,  इत्येवं प्रकारेण सर्वासामेव पृथिवीत्वव्याप्यजातीनां साध्यतावच्छदकावच्छिन्नसाध्यस्य हेत्वधिकरणप्रतियोगितावच्छेकत्वात् तदनवच्छेदकस्य असत्वात् अव्याप्तिः दुष्परिहरा ।

अव्याप्तिं वारयितुं परम्परासम्बन्धमुपादाय पृथिवीत्यव्याप्यजातित्वस्य व्यापकतावच्छेदकत्वपर्यन्तं अनुधावनम् कर्तव्यम् । तथा च न उक्तदोषः । “पृथिवीत्वव्याप्यजातिमद्वान् पृथिवीत्वात्”इत्यत्र घटत्वावच्छिन्नघटाभावस्य पटत्वावच्छिन्नपटाभावस्य च हेत्वधिकरणे पृथिव्यधिकरणे वर्तमानेऽपि पृथिवीत्वव्याप्यजातिमान्नास्तीति प्रतीति साक्षिकास्य अभावस्य कुत्रापि हेत्वधिकरणे असत्वेन पृथिवीत्वव्याप्यजातित्वस्य एव व्यापकतावच्छेदकत्वम् सम्भवतीति न व्याप्तिदोषः ।

पूर्वं प्रतिपादितं यत् दण्डस्य  सखण्डधर्मत्वात् तद्दण्डी नास्तीत्यत्र अभावस्य प्रतियोगितावच्छेत्वं स्वरूपतः न सम्भवति । अतः स्वपरूपसम्बन्धेमन प्रतियोगितवच्छेदकत्वस्य असत्वात् तत्ताविशिष्टस्यैव अनवच्छेदकं स्वीकर्तव्यम् आसीत् । प्रकृतस्थले घटत्वपटत्वादीजातिनां स्वरूपत एव अवच्छेदकत्वं प्राप्यते अनवच्छेदकत्वधर्मस्तु तादृशजातित्वविशिष्टेऽपि वर्तत एव इति आशयः ।

पूर्वोक्तप्रकारेण तद्दण्डी नास्तीत्यत्र अतिव्याप्तिवारणाय एव तत्ताविशिष्टस्यैव अवच्छेदकत्वं स्वीकृतमस्ति । तत्र दण्डे प्रतियोगितावच्छेदकतानवच्छेदकत्वं तत्त्वविशिष्टदण्डस्यैव भवतीति सारः ।  

अन्ये —-

तद्दण्डवान् नास्ति इति प्रत्यये तु भासमानः दण्डः साक्षादेव प्रतियोगितावच्छेदकत्वेन वर्तते । दण्डस्य विशेषणत्वेन तु तादृशाभावस्य प्रतियोगितावच्छेदकतावच्छेदकमेव भवति तत्ताविशिष्टत्वेन प्रतियोगितावच्छेदकत्वं न जायते । तद्दण्डिनास्तीति प्रतीति सिद्धाभावस्य प्रतियोगि तद्दण्ड्यभावः तादृशाभावनिष्ठा प्रतियोगिता तद्दण्डिनिष्ठा तदनधिकरणस्य प्रतियोगितावच्छेदकत्वं न सम्भवति । पुश्च दण्डस्य स्वरूपतः अवच्छेदकत्वमपि न इष्टमस्ति । तत्त्वनविशिष्टदण्डस्यैव अवच्छेदकत्वेन स्वीकारः इष्टः  । एवञ्च हेत्वधिकरणाभावप्रतियोगितावच्छेदकतायाः अनवच्छेदकत्वं दण्डत्वविशिष्टात्मक-दण्डस्यैव वर्तत इति न दोषः ।  

“हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकम् इत्यत्र यदवच्छेदकत्वं प्रविष्टम् । तत्र किञ्चिदनवच्छिन्नत्वं निवेश्यम् । तथा च तुसमानाधिकरणाभाव-प्रतियोगितानिरूपितनिरवच्छिन्नावच्छेदकत्वाभाववत्साध्यतावच्छेदका-वच्छिन्नसामानाधिकरण्यं व्याप्तिरिति समुदितार्थः” । एवं च “दण्डिमान् दण्डिसंयोगात्”इत्यत्र साध्याभावः तद्दण्डी नास्ति इति प्रतीतिसिद्धः तद्दण्ड्यभावः, न तु दण्ड्यभावः इति । अतः हेत्वधिकरणाभावप्रतियोगितावच्छेदकत्वस्य वर्तमानत्वेऽपि तादृशाभाव-प्रतियोगितायां सखण्डस्य दण्डात्मकतत्त्वावच्छिन्नस्यैव अवच्छेदकत्वं भवति । तादृश अभावप्रतियोगितानिरूपितनिरवच्छिन्ना अवच्छेदकत्वाभावत्वं वर्तत इति आशयः । तद् दण्डेषु अवच्छिन्न सहिता एव अवच्छेदकता विद्यते । निरवच्छिन्ना अवच्छेदकता  कदापि न भवति इति भावः ।

“दण्डिमान् द्रव्यत्वादि” यत्र हेत्वधिकरणं द्रव्यत्वाधिकरणं दण्डिपरहितभूतलं, तादृशभूतले विद्यमानः अभावः दण्ड्यभावः वर्तते चेत् अपि  तादृशाभावप्रतोयोगितायां सखण्डदण्डस्य स्वरूपतः अवच्छेदकत्वं न सम्भवति । तथा च अवच्छेदकत्वं यदि दण्डत्वमेव भवति चेत्  हेतुत्वधिकरणाभावप्रतियोगितानिरूपिता या निरवच्छिन्नावच्छेदकता वर्तते तस्य अभावत् अत्र अतिव्याप्तिः भवति  ।

महानसीयवह्यभावस्थले तु इत्थं लक्षणं क्रियते- महानसीयवह्रिर्नास्तीति इत्यत्र तु महानसीयत्वम् वह्नित्वम् अनयोः साक्षात् विशषणत्वेन स्वीकारः, तेन च महानसीयत्वस्य च अन्तर्भावात् अभावस्य प्रतियोगितावच्छेदकत्वं प्राप्यते । तथा च वह्नित्वस्य अवच्छेदकत्वं न भवति परन्तु महानसीयत्वस्य  वह्नित्वावच्छेदकतायाः अवच्छेदकत्वेन स्वीकारो कृतः । 

पुनश्च “वह्निमान् धूमात्”इत्यत्र अव्याप्तिः भवति । तत्र विशेषणस्यैव प्रतियोगितावच्छेदकत्वं तद्विशेषणविशेणस्य तु तदवच्छेदकतावच्छेदकत्वं स्वीकरात् प्रतियोगिविशेषणतया भासमान  एव प्रतियोगितावच्छेदकतापर्याप्तिः भासते, तद्विशेषणे तु तदवच्छेदकतावच्छेदकत्वमेव न तु तदन्तर्भावेण प्रतियोगितावच्छेदकत्वपर्याप्तिः । प्रतियोगिताव्यधिकरणस्य प्रतियोगितावच्छेदकत्वासम्भावादिति ।  

महानसीयवह्न्यभावपक्षे तु प्रतियोगी महानसीयवह्निः, प्रतियोगितायाः अवच्छेदकत्वं महानसीयवह्नित्वम्, तस्य महानसीयत्वस्य प्रतियोगिता-वच्छेदकतायाः अवच्छेदकत्वस्य वर्तमानत्वेपि प्रतियोगिता-वच्छेदकतायाः अवच्छेदकत्वं न भवतीति  । शुद्धवह्नित्वम् एव प्रतियोगितावच्छेदकतायाः अवच्छेदकं साध्यतावच्छेदकमपि भवति तादृशाभावस्य अनवच्छेदकं शुद्धवह्नित्वे न भवतीति अव्याप्तिः भवति । अव्याप्तिवारयितुं व्यासज्यवृत्तिनिष्ठा या अवच्छेदकता तस्याः अनवच्छेदकत्वस्वीकारे न दोषः । समानाधिकरणत्वात् महानसीयवह्नित्व-विशिष्टशुद्धवह्नित्ववान् न भवतीति भावः  ।

“महानसीयत्वविशिष्टवह्नित्ववान् धूमात्” इत्यत्र हेत्वधिकरणाभावस्य प्रतियोगितावच्छेदकत्वं महानसीयत्वविशिष्टवह्नित्वोभयनिष्ठत्वात् शुद्धवह्नित्वस्य अनवच्छेदकत्वं न भवतीति अतिव्याप्तिः । तथा च उक्तातिव्याप्ति निराकर्तुं गुरधर्मभूतं प्रतियोगितावच्छेदकं स्वीकर्तव्यम् । तथा च हेत्वधिकरणाभाव-प्रतियोगितावच्छेदकत्वम् स्वविशिष्टसम्बन्धिनिष्ठाभावस्य प्रतियोगिता-नवच्छेदकत्वम् स्वीकर्तव्यम् । लक्षणस्थं यत् स्वपदमस्ति तत्  यादृशधर्मविशिष्टत्वम् अच्छेदकत्वं प्राप्यते तादृशधर्मस्य अवच्छेदकत्वं पारिभाषिकत्वं भवतीति तेन च अतिव्याप्तिः वार्यते । एवं च “वह्निमान् धूमात्” इत्यत्र हेत्वधिकरणाभावत्वेन महानसीयत्वविशिष्टवह्नित्ववान् न भवतीति अभाव स्वीकारेऽपि तत्र लाधवात् स्वरूपसम्बन्धेम विशिष्टवह्नित्वस्य वर्तमानत्वेपि न दोषः इति ।

विशिष्टशुद्धयोः अनतिरेकात् इति न्यायेन शुद्धवह्नित्वस्य विशिष्टवह्नित्वस्य च ऐकत्यात् अव्याप्तिस्यात् । तत्र अव्याप्तिवारणाय अविषयकप्रतीतिविषयत्वमेव उपादेयम् । तेन च वह्नित्वस्यैव केवलं अविषयकप्रतितिविषयकत्वात् न उक्तदोषापत्तिरिति भावः ।

पारिभाषिकावच्छेदकस्थले तु स्वपदस्य अवच्छदेकत्वेन ग्रहणं कर्तव्यम् ।  विशिष्टस्य अवच्छेदकत्वविशिष्टत्वेन ग्रहणं कर्तव्यम् ।  शद्धदण्डस्य तु  अखण्डोपाधिरूपेण प्रतियोगितायाः विशेषणत्वेन स्वीकारः ।  तत्ताविशिष्टस्यैव अवच्छेदकत्वं स्वपदेन ग्राह्यमित्यर्थः ।

तथा च स्वपदस्य प्रत्येकमात्रपरतया यत्ककिञ्चित् पदार्थभेदस्य स्वीकारे तु अतिव्याप्तिः स्यात् ,अतः तत्र स्वपदं भेदसमूदायत्वेन तत् अभावकूयस्य च स्वीकारे तु पारिभाषिकतावच्छेदकत्वं न ग्राह्यम् । । किन्तु गुरुधर्मसाधारणत्वं स्वरूप-सम्बन्धरूपावच्छेदकत्वेन स्वीक्रियते । महानसीयवह्नित्वविशिष्टवह्नित्ववान् न भवतीत्यत्र तु हेत्वधिकरणाभावप्रतियोगितावच्छेदकत्वमेव साध्यतावच्छदके वर्तत इति न उक्त अतिव्याप्तिसम्भवति इति । गुरुधर्मस्य स्वरूपसम्बन्धत्वेन साधारण्यं ग्राह्यम् इत्यर्थः ।

अभावयोः प्रतियोगितावच्छेदकसम्बन्धस्य भेदेन एव परस्परं धर्भिभेदो जायते । सामानाधिकरण्यसम्बन्धेन महानसीयत्वविशिष्टवह्नित्वावच्छिन्नस्य अभावात् तादृशाभावस्य वैलक्ष्यमावश्यकं भवती । । यथा घटत्वावच्छिन्नाभावस्य पटत्वावच्छिन्नाभावस्य च   संयोगसम्बन्धेन घटाभावः, समवायसम्बन्धेन घटाभावयोः च  । अत्र तावत् महानसीयविशिष्टवह्नित्वस्यैव प्रतियोगिता-वच्छेदकत्वात् न तु शुद्धसमवयास्य । तस्य च  प्रतियोगितावच्छेदकत्वं भवततीति । अनयोरभावयोः वैलक्षण्यं विलसति इति ।  

विशिष्टसमवायसम्बन्धावच्छिन्नस्यैव विशिष्टधर्मावच्छिन्नाभावस्य यः प्रतियोगितावच्छेदकतासम्बन्धः तस्य एव  शद्धसमवायत्वेन ग्रहणीयम् इति भावः। हेत्वधिकरणाभावप्रतियोगितावच्छेदकतायां साध्यतावच्छेदकतासम्बन्धावच्छिन्नत्वं उपादेयमेव । अन्यथा “रूपवान् पृथिवीत्वात्”इत्यत्र अव्याप्तिः स्यात्, तद्यथा –  हेत्वधिकरणं पृथिवीत्वाधिकरणं घटः, तत्र रूपत्वविशिष्टज्ञानाभावस्य विषयितासम्बन्धेन स्वीकारात् इति ।

तथा च “महानसीयत्वविशिष्टवह्नित्ववान् धूमात्” इत्यत्र हेत्वधिकरणः धूमसमानाधिकरणः महानसीयत्वोपलक्षितवह्नित्वावच्छिन्नाभावः न भवति ,  अपि तु महानसीयत्वविशिष्टवह्नित्वावच्छिन्नाभावः एव सम्भवति । तत्र प्रतियोगितावच्छेदकविशिष्टसमवयासम्बन्धावच्छिन्ना न भवति परन्तु शुद्धसमवाय-समबन्धावच्छिन्ना एव इति । तेन सम्बन्धेन हेत्वधिकरणाभावस्य प्रतियोगितावच्छेदकं घटत्वम् अनवच्छेदत्वं तु वह्नित्वमति न उक्तदोष इति  ।

अभावप्रतियोगितावच्छेदस्थले तावत्  यस्य उपलक्षणत्वेन स्वीकारः  तस्य प्रतियोगितावच्छेदकतावच्छेदकत्वेन स्वीकारः न भवति परन्तु यस्य विशेषणत्वेन ग्रहणं तस्य प्रतियोगितावच्छेदकतावच्छेदकत्वम् ग्रहणं कर्तव्यमति । पूर्वप्रतिपादितायोरभावयोः वैलक्ष्यं तु विशिष्टसम्बन्धावच्छिन्ना या अवच्छेदकता शुद्धसमन्धावच्छिन्ना या अवच्छेदकता इत्यनयोरभावयोः भेदत्वं न उचितमिति ।   । “उपलक्षणतया अवच्छेदकत्वं नाम अभावप्रतियोगितावच्छेदकताघटक-संसर्गप्रतियोगितानवच्छेदकत्वे सति तत्समानाधिकरणत्वम् । विशेषणविधया अवच्छेदकत्वं नाम अभावप्रतियोगितावच्छेदकता-घटकसंसर्गप्रतियोगितावच्छेदकत्वे सति तत्समानाधिकरणत्वमिति पर्यवसितम्” ।

क्वचित् विशिष्टसम्बन्धः प्रसिद्धः न भवति । तत्र  अभावद्वयोः वैलक्षण्योपादाय भिन्नप्रकारेण वैलक्षण्यं स्वीकार्यम् । लक्षणे प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यसामानाधिकरण्यनिवेशेऽपि “विशिष्टसत्तावान् जातेः”  इत्यत्र अतिव्याप्तिः भवति ।             हेत्वधिकरणे जात्यधिकरणे विद्यमानः अभावः विशिष्टसत्ताभावः तस्य प्रतियोगितावच्छदेकं शुद्धवह्नित्वं तेन च नातिव्याप्तिः । परन्तु  सत्तारूपप्रतियोगिनः समानाधिकरणतया अभावान्तरमादाय तत्रातिव्याप्तिः स्यादेव ।  तद्वारयितुं  प्रतियोगितावच्छेदविशिष्टसमानाधिकरणाभावस्य प्रतियोगितानवच्छदेकं ग्राह्यमति दीधितेराशयः ।  । तथा  च न सर्वत्र विशिष्टलक्षणावच्छेदकेन प्रतियोगितानवच्छेदकं ग्राह्यम् अपितु सम्बन्धेनापि ग्रहितुं योग्यमित्यभिप्रायः ।

“दण्डिमान् दण्डिसंयोगात्” इत्यत्र साध्यतावच्छेदकव्यापकतावच्छेदम् असम्भवमस्ति । हेत्वधिकरणं दण्डिसंयोगाधिकरणं भूतलम्, तत्र एतत्भूतलनिष्ठपुरुषस्य अभावः स्वीक्रियते । तन्निष्ठा प्रतियोगितावच्छेदकता च तत्ताविशिष्टे शुद्धदण्डे एव भवति ।  साध्यतावच्छेदकतावच्छेदकशुद्धसंयोग-सम्बन्धावच्छिन्ना या प्रतियोगिता तदनवच्छेदकं दण्डत्वस्यैव वर्तत इति व्यापकतावच्छेदकपर्यन्तमनुधावनं कर्तव्यमिति दीधितिकाराणां आवश्यकमिति भावः ।

“यद्रूपावच्छिन्नं हेतुसमानाधिकरणाभावप्रतियोगितानवच्छेदकम्, यद्रूपं वा हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकतानवच्छेदकं च तद्रूपविशिष्टावच्छिन्न-सामानाधिकरण्यं तद्रूपविशिष्टावच्छिन्ननिरूपिता व्याप्तिरिति रीत्या निर्वचनीयेत्यर्थः”। 

  • सहायकग्रन्थाः
  1. श्रीमद्गदाधरभट्टाचार्यचक्रवर्तिविरचिता ‘गादाधरी’ श्रीगङ्गेशोपाध्यायविरचितत्त्वचिन्तमणिना रधुनाथशिरोमणिनाविरचित-दीधित्या च गर्भिता । सम्पादकाः–म.म. विन्ध्येश्र्वरीप्रसादद्विवेदी, म.म. वामचरणभट्टाचार्यः,पं.रामशास्त्री, पं. श्रीढुण्ढिरशास्त्री, द्वितीयं संस्करणम् ख्रीष्टाब्दः 1970
  2. श्रीविश्वनाथपञ्चाननभट्टाचार्यविरचिता ‘न्यायसिद्धान्तमुक्तावली’ श्रीमहादेवभट्टारब्धेन श्रीदिनकरभट्टप्रपूरितेन दिनकरी(प्रकाश) व्याख्यानेन श्रीरामरुद्रभट्टाचार्यारब्धेन पण्डितराजश्रीराजेश्र्वरशास्त्रिप्रपूरितेन रामरूद्री(तरङ्गिणी) व्याख्यानेन च विभूषिता । सम्पादकः- पं.हरिरामशुक्लः न्यायाचार्यः । प्रकाशनम् – चौखम्बा प्रकाशन, वाराणसी, वि.सं.-2068
  3.  डा.पीयूषकान्तदीक्षितविरचित ‘व्याप्तिसप्तकसारः’ (मूल-भूमिका-सहितः),( चिन्तामणि-माथुरी-दीधिति-गादाधरी-जागदीशी-तत्त्वालोक-टिप्पणीसहितः, सम्पादकः- मानितविश्र्वविद्यालयः- नवदेहली । प्रकाशनम्- नागप्रकाशकः दिल्ली,प्रथमं संस्करणम् , ख्रीष्टाब्दः – 1997
  4. ‘सिद्धान्तलक्षणम्–न्यायरत्नसहितम्’ । प्रधानसम्पादकः – आ.हरेकृष्णशतपथी, सम्पादकः-टिप्पणीकारश्च – डा.का.इ.मधुसूदनः, प्रकाशनम्- राष्ट्रियसंस्कृतविद्यपीठम् – तिरुपतिः आन्ध्रप्रदेशः, प्रथमं संस्करणम्, ख्रीष्टाब्दः – 2011
  5. श्रीजगदीशतर्कालङ्कारकृतं ‘सिद्धान्तलक्षणम्’ श्रीशिवदत्तमिश्रगौडेन विरचितया समूलजागदीशीव्याख्यानसनाथक्रोडपत्ररूपया गङ्गाख्यव्याख्यया बृहद्क्रोडपत्रसङ्ग्रहापराभिधया विषमस्थलटिप्पण्या च संवलितम् । संशोधकः- पं.ढुण्ढिराजशास्त्री । प्रकाशनम्- चौखम्बा संस्कृत संस्थान, वाराणसी, वि.सं – 2047
  6. श्रीमहामहोपाध्याय भीमाचार्येणविरचितः ‘न्यायकोशः’ । संशोधकः – महोमहोपाध्याय वासुदेवशास्त्री, प्रकाशनम् –  चौखम्बा सुरभारती प्रकाशनम् वाराणसी, तृतीयं संस्करणम्, ख्रीष्टाब्दः 2011
  7. श्रीगङ्गेशोपाध्यायविरचिता ‘पक्षता’ श्रीरधुनाथशिरोमणि विरचिता दीधित्या श्रीगदाधरभट्टाचार्यकृतया दीधितिप्रकाशिकया च अलंकृता । प्रकाशनम्- केन्द्रियसंस्कृतविद्यापीठम् तिरुपतिः, द्वितीयं मुद्रणम्, ख्रीष्टाब्दः – 1985
  8. श्रीगङ्गेशोपाध्यायवरचितं ‘सिद्धान्तलक्षणम्’ श्रीरघुनाथशिरोमणि-विरचितया दीधित्या श्रीजगदीशतर्कालङ्कारकृता जागदीश्या श्रीवामाचरणभट्टाचार्यविरचितया विवृत्या, श्रीगुरुप्रासद-शास्त्रिसङ्कलितया दीपिकया, कालीशङ्करीविवेचनया च समुद्भासितम् । सम्पादकः – श्रीगुरुप्रसादशास्त्री, प्रकाशनम्- मास्टर खेलाडीलाल ऐण्ड सन्स, काशी । ख्रीष्टाब्दः- 1933
  9. श्रीमद्भारद्वाजोद्योत्कर विरचितम् ‘न्यायवार्तिकम्’  , सम्पादकः- डा. सुधाकर मलाविया, प्रकाशनम्- चौखम्बा संस्कृत भवन, प्रथमं संस्करणम् वि. सं. 1996 , पुनर्मुद्रणम् – वि. सं 2064
  10. श्रीजयन्तभट्टकृता ‘न्यायमञ्जरी(गौतमसुत्रतात्पर्यविवृतिः)’ विषमस्थलविवरणेन विभूषिता , विवरणकारः- पं. श्रीसूर्यनारायणशुक्ला, प्रकाशनम्- चौखम्बा प्रकाशन वाराणसी, वि. सं. 2064
  11. श्रीवाचस्पतिमिश्रविरचिता  ‘न्यायवार्तिकतात्पर्यटीका’ , सम्पादकः- पं. राजेश्र्वरशास्त्री द्रविडः, प्रकाशनम्- चौखम्बा संस्कृत संस्थान वाराणसी,   वि. सं  – 2045
  12. ‘षट्दर्शनसूत्रसंग्रहः’ –(मीमांसा-वेदान्त-सांख्य-योग-न्याय-वैशेषिकाणाम्), सम्पादकः- जे.एल.गुप्ल.,चैतन्य, प्रकाशकः, चौखम्बा संस्कृत प्रतिष्ठान दिल्ली, ख्रीष्टाब्दः – 2004
  13. ‘चतुर्दशलक्षणी’ रघुनाथशिरोमणिकृतया दीधित्या गदाधरभट्टाचार्यकृतया दीधितिप्रकाशिकया तर्कवाचस्पति-पण्डितरत्न-तर्कवाचस्पति-चतुश्शास्त्रप्रवीणादिबुरुदालङ्कृतेन महामहोपाध्यायेन डा. एन. एस. रामानुजताताचार्येण कृतया विवरणाख्याव्याख्यया समलङ्कृता । सम्पादकः- श्रीरामानुजाचार्याणाम् अनुग्रहलाभधन्यः डा. एन्. वीझिनाथः, प्रकाशनम्- राष्ट्रीयसंस्कृतविद्यापीठम्(मानितविश्वविद्यालयः) तिरूपतिः- आन्ध्रप्रदेशः । खीष्टाब्दः- 2001 ।
  14. श्रीगङ्गेशोपाध्यायविरचितं ‘सिद्धान्तलक्षणम्’ – तत्त्वचिन्तामणि-दीधिति-गदाधरीय-विवृतिसहितम् । सम्पादकः- प्रो.डि.प्रह्लादाचार्यः, प्रकाशनम् – राष्ट्रीयसंस्कृतविद्यापीठम्(मानितविश्वविद्यालयः) तिरूपतिः- आन्ध्रप्रदेशः । प्रथमसंस्करणम्, खीष्टाब्दः- 2002 ।
  15. ‘पञ्चलक्षणी सिंहव्याघ्रलक्षणे च’ रघुनाथशिरोमणिकृतया दीधित्या गदाधरभट्टाचार्यकृतया दीधितिप्रकाशिकया डा. एन. एस. रामानुजताताचार्येण कृतया दीधितिप्रकाशिकाव्याख्यया बालबोधिन्या च सह । सम्पादकः- डा. एन. एस. रामानुजताताचार्यः, प्रकाशनम् – क्रेन्द्रीययसंस्कृतविद्यापीठम्, तिरूपतिः- आन्ध्रप्रदेशः, खीष्टाब्दः- 1978, प्रथमं संस्करणम् ।
  16. जयन्तभट्ट कृता ‘न्यायमञ्जरी (प्रथमो भागः)’ , हिन्दीभाषानुवादकः- पं.आनन्द झा । सम्पादकः- डा. किशोर नाथ झा , प्रकाशनम्- कामेश्र्वर-सिंह-दरभङ्गा-संस्कृत-विश्र्वविद्यालयः दरभङ्गा, खीष्टाब्दः- 2001, प्रथम-संस्करणम् । 
  17. श्रीविश्वनाथपञ्चाननभट्टाचार्यप्रणीता ‘न्यायसिद्धान्तमुक्तावली’ किरणाली समाख्यव्याख्योपेता । व्याख्याकारः- पं.श्रीकृष्णवल्लभाचार्यः, प्रकाशनम्-चौखम्बा संस्कृत संस्थान, वारणसी, पुनर्मुद्रितः वि.सं.2068
  18. श्रीमत्सायणाचार्यमाधवप्रणीतः  ‘सर्वदर्शनसंग्रहः’ महामहोपाध्याय-अभ्यंकरोपाह्ववासुदेवशास्त्रिविरचितया दर्शनाङ्कुराभिधया व्याख्यया समेतः । प्रकाशनम्- पाच्यविद्यासंशोधनमन्दिरम्, पुण्यपत्तनम् । ख्रीष्टाब्दः 1924
  19. पाणिनी-विरचिता अष्टाध्यायी ( पदच्छेद-वृत्ति-वार्तिक-टिप्पणी-सहित ) परिष्कर्ता-पण्डितराज डा.श्रीगोपालशास्त्री । सम्पादकः-श्रीगोपालदत्तपाण्डेयः । प्रकाशनम्-चौखम्बा सुरभारती प्रकाशनम्, वारणसी । ख्रीष्टाब्दः-2004