नाट्यशास्त्रदिशा स्थायिभावविभावानुभावसात्त्विकव्यभिचारिभावानां स्वरूपम्

डा. रचना रस्तोगी
सहायक-आचार्या, संस्कृतविभागः,
डायमण्ड हार्बर महिला विश्वविद्यालयः,सरिसा,
पश्चिम बंगाल।
Email- rachna.rastogi@gmail.com 
Mb. No – 9007834247   

शोधसारः-रसः काव्यस्य जीवितं तत्त्वम्। चेतनायां विशिष्टा परिणतिः हि रसः। नाटकादिदर्शनात् काव्यस्य च अध्ययनात् श्रवणाद् वा रसः आविर्भवति। काव्यं हि आनन्दानुभूतिसाधनम्।आनन्दानुभूतिश्च रसास्वादमूला। यथा नानाव्यञ्जनमिश्रमन्नं भुञ्जाना रसान् आस्वादयन्ति, तथैव नाना-भावाभिव्यञ्जितान् स्थायिभावान् सहृदया आस्वादयन्ति, हर्षं चानुभवन्ति। रसभावयोः परस्परं पोषकत्वम्। न भावहीनो रसः, न च रसहीनो भावः। यथा  रसः सर्वेषां भावानां मूलम्।                                       

प्रमुखाः ब्दाः- रसः, भावः, स्थायिभावः, विभावः, सात्त्विकभावः, व्यभिचारिभावः सहृदयः।

उपोद्घातः- भारतीयसाहित्यशास्त्रे रससम्प्रदायोऽत्यन्तप्राचीनतमः | रससिद्धान्तस्य संस्थापकं आचार्यभरतं सर्वप्रथमं प्रतिपादकत्वेन स्वीकरोति काव्यशास्त्रीयाचार्याः | नाट्यशास्त्रस्यावलोकनेन ज्ञायते यत् आचार्यभरतमुनेः प्राक् रससिद्धान्तस्य परम्परासीदिति। सहृदयजनस्य काव्याध्ययनस्य प्रयोजनं रसास्वादमस्ति, तेन आनन्दानुभूतिर्जायते-

`सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादनसमुद्भूतं विगलितवेद्यान्तरमानन्दम्।’[i]

आनन्दो जीवस्य धर्मः। आनन्दात् रसः न व्यतिरिच्यते। रसस्य आस्वाद्यत्वम् अनुभूतिविषयत्वं च मम्मटेन वर्ण्यते-पानकरसन्यायेन चर्व्यमाणः, हृदयमिव प्रविशन्, अन्यत्सर्वमिव तिरोदधत्, ब्रह्मास्वादमिवानुभावयन्, अलौकिकचमत्कारकारी शृङ्गारादिको रसः। सकलोऽपि प्राणभूतो व्यापारो रसाभिलाषमूलः। रसमुद्दिश्यैवाहारविहारादिप्रवृत्तिः न केवलं काव्यकालेऽपितु व्यवहारजगत्यपि च प्राणभूतः। काव्यशास्त्रीयाधारशिला रस एव ।

व्याकरणशास्त्रस्य मते रसपदस्य चतुर्विधः व्युत्पत्तिः भवति-

  • रस्यते आस्वाद्यते इति रसः।
  • रस्यतेऽनेनेति रसः।
  • रसति रसयति वा रसः।
  • रसनं रसः आस्वादः।

वैदिकयुगे ऋग्यजुस्सामाथर्वादि वेदेषु रसस्य विस्तरेण चर्चा दृश्यते। ऋग्वेदे स्पष्टं प्रतीयते यत् रसस्यार्थो द्रवरूपः वनस्पतेस्तत्त्वं सोमरसः-`सोमो अवन्ति वर्णसिर्दधान इन्द्रियं रसं अभिशस्तिपाः।’[ii] अथर्ववेदेऽपि रसशब्दस्य `आह्लादः’ इति अर्थो प्राप्यते-अकामोधीरोऽमृतः स्वयम्भूरसेनतृप्तो न कुतश्चनोनः। उपनिषत्कालेऽपि रसः व्याप्तमासीत्। यथोक्तं तैत्तिरीयोपनिषदि यत्- स अन्नादारभ्य ब्रह्मास्वादसहोदरः चिदानन्दरूपे परिणमते-रसो वै सः| रस ह्येवायं लब्ध्वाऽऽनन्दी भवति।[iii]

आचार्य आनन्दवर्धनस्य प्रामाण्येन क्रौञ्चवधविषयके श्लोके रससिद्धान्तस्य बीजमुपन्यस्तम्-

काव्यस्यात्मा स एवार्थस्तथाचादिकवेर्पुरा।

    क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः॥ [iv]

एवमेव काव्यस्य मनोहरभाषायां दार्शनिकतत्त्वस्य रमणीयं निरूपणम् उपनिषत्वाक्येऽस्मिन् दृश्यते। अत्र साहित्यिकविचारकाः रसं ब्रह्मास्वादसहोदरं मत्वा तस्याध्यात्मिकरूपं प्रदर्शितम्-

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिशष्वजाते।

               तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति॥ [v]

नाट्यशास्त्रे आचार्यभरतेनोक्तम्-

 ‘नहि रसादृते कश्चिदर्थः प्रवर्तते। तत्र विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः।’[vi]

आचार्यमम्मटस्य मते रसस्य स्वरूपम्-

कारणान्यथ कार्याणि सहकारीणि यानि च

रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः।

विभावानुभावास्तत्कथ्यन्ते व्यभिचारिणः।

व्यक्तः स तैर्विभावाद्यैः स्थायिभावो रसः स्मृतः॥[vii]

अर्थात् लोकदृष्ट्या रत्यादिं चित्तवृत्तिं प्रति यत् कारणं, यत् कार्यं, यच्च सहकारिकारणं, तान्येव काव्ये विभावादिशब्देन व्यपदिश्यन्ते इति बोध्यम् ।

 आचार्य विश्वनाथस्य मते रसस्य स्वरूपम्-

विभावेनानुभावेन व्यक्तः संचारिणा तथा।

  रसतामेति रत्यादिः स्थायी भावः सचेतसाम्॥ [viii]

एतेषामेव भावानामनुभवः खलु लौकिकजीवने सुखदुःखात्मकः संसारो भवति। यथोक्तम् दशरूपके-सुखदुःखादिकैर्भावैर्भावस्तद्भावभावनम्।

भरतेन प्रथमतया भावविवेचनं कृतम्। नाट्यशास्त्रस्य सप्तमेऽध्याये भावमेवं व्याख्यति-

‘‘भाव इति कस्मात्? किं भवन्तीति भावाः। किं वा भावयन्तीति भावाः।

  • भवन्तीति भावाः। इयं व्युत्पत्तिः सत्तार्थकाद् भूधातोः, अस्याः आशयः-स्थितिः सत्ता वेति।
  • भावयन्तीति भावाः। इयं व्युत्पत्तिः प्रेरणायां करणार्थकात् भूधातोः,अस्याः आशयः- व्यापकः कारको वेति।

 भरतेन काव्यशास्त्रप्रसङ्गेऽस्मिन् द्वितीय एवार्थो गृहीतः-

‘‘भू इति करणे धातुस्तथा च भावितं वासितं कृतमित्यनर्थान्तरम्, लोकेऽपि च प्रसिद्धम् अहो अनेन गन्धेन रसेन वा सर्वमेव भावितमिति । तच्च व्याप्त्यर्थम्। 

भरतेन निजाशयस्पष्टीकरणाय त्रयः श्लोकाश्चात्रोपस्थिताः-
                     “विभावैराहृतो योऽर्थोऽनुभावैः स्वैस्तु गम्यते ।
                   वागङ्गसत्त्वाभिनयैः स भाव इति सन्ज्ञितः ॥

 यः विभावैः र्निष्पद्यते अस्तित्वं स्थितिं वा विन्दति, वाचिकाङ्गिकसात्त्विकैरभिनयरूपैः अनुभावैः गम्यते प्रतीतियोग्यः क्रियते। भावः स पदार्थः। अत्र काव्यार्थ इति भावपदार्थः। अर्थात् वागङ्गसत्त्वोपेतान्काव्यार्थान्भावयन्तीति भावा इति ।

वागङ्गमुखरागेण सत्त्वेनाभिनयेन च।

कवेरन्तर्गतं भावं भावयन्भाव उच्यते।।

स्थायिभावाः

साहित्यशास्त्रे स्थायिभावानां निरूपणं विशुद्धमनोवैज्ञानिकाधारे कृतमस्ति। तत्र स्थायिभावाः- भावः चित्तवृत्तिविशेषः। चित्तवृत्तिरूपस्य आशुविनाशित्वेऽपि वासनात्मतया सूक्ष्मरूपेण अवस्थानात् स्थायित्वं बोध्यम्। आचार्यभोजराजेनोक्तम्- चिरं चित्तेऽवतिष्ठन्ते सम्बध्यन्तेऽनुबन्धिभिः।

रसत्वं ये प्रपद्यन्ते प्रसिद्धाः स्थायिनोऽत्र ते॥

अपरत्र दशरूपककारस्य स्थायिभावान् विषये मतमस्ति यत् यः स्वविरुद्धैः अनुकूलभावैः च न विच्छिद्यते, अपि च अन्यान् भावान् आत्मभावं नयति, स स्थायीति संमतः। अर्थात् स्थायिभावाः प्रबलतरा भवन्ति। विरुद्धा अविरुद्धा वा भावास्तं हन्तुं न प्रभवन्ति। –

विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते न यः।

  आत्मभावं नयत्यन्यान् स स्थायी लवणाकरः॥[ix]

अर्थात् स्थाय्येव रसदशां लभते। प्रतिसहृदयहृदयं हि वासनात्मतया स्थितेः स्थायिनः साधारणीकरणं सुकरं भवति। आचार्यभरतस्य मते अष्टौ स्थायिभावाः-

       रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा।
         जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः।।

  • रतिः-रतिर्नाम आमोदात्मको भावः। स च ऋतुमाल्यानुलेपनाभरणप्रियजनवरभोजनभवनानुभवनाप्रातिकूल्यादिभिर्विभावैः समुत्पद्यते। तामभिनयेत्स्मित्वदनमधुरकथनभ्रूक्षेपकटाक्षादिभिरनुभावैः।
  • हासः– हासो नाम विनोदात्मको भावः। स च परचेष्टानुकरणकुहकासम्बद्धप्रलापपौरोभाग्यमौर्ख्यादिर्विभावैः समुत्पद्यते। तमभिनयेत्पूर्वोक्तैर्हसितादिभिरनुभावैः।
  • शोकः- शोको नाम -दुःखप्रदो भावः। स च इष्टजनवियोगविभवनाशवधबन्धदुःखानुभवनादिभिर्विभावैः समुत्पद्यते। तस्याश्रुपातपरिदेवितविलपितवैवर्ण्यस्वरभेदस्रस्तगात्रताभूमिपतनसस्वनरुदिताक्रन्दितदीर्घनिःश्वसितजडतोन्मादमोहमरणादिभिरनुभावइरभिनयः प्रयोक्तव्यः।

रुदितमत्र त्रिविधम्– आनन्दजमार्तिजमीर्ष्यासमुद्भवं चेति।

  • क्रोधः-क्रोधो नाम अनिष्टकारी भावः स च प्रज्वलनात्मकः  आधर्षणाक्रोशकलहविवादप्रतिकूलादिभिर्विभावैः समुत्पद्यते। अस्य विकृष्टनासपुटोद्वृत्तनयनसन्दोष्ठपुटगण्डस्फुरणादिभिरनुभावैरभिनयः प्रयोक्तव्यः।
  • उत्साहः– उत्साहो नाम उत्कर्षकारी उत्तमो भावः उत्तमप्रकृतिनिष्ठः।

सविषादशक्तित्यागादिभिर्विभावैरुत्पद्यते। तस्य धैर्यशौर्यवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः।

  • भयम्– अवरात्मको भावः स्त्रीनीचप्रकृतिकः। स च गुरुराजापराधश्वापदशून्यागाराटवीपर्वत

गहन्स्थानगजाहिदर्शननिर्भर्त्सनकान्तारदुर्दिननिशान्धकारोलूकनक्तञ्चराराश्रवणादिभिर्विभावैः समुत्पद्यते। तस्य प्रकम्पितकरचरणहृदयकम्पनस्तम्भमुखशोषजिह्वापरिलेहन

स्वेदवेपथुत्रासपरित्राणान्वेषणधावनोत्क्रुष्टादिभिरनुभावैरभिनयः प्रयोक्तव्यः।

  • जुगुप्सा– जुगुप्सा नाम घृणात्मको भाव स्त्रीनीचप्रकृतिकः। सा चाहृद्यदर्शनश्रवणादिभिर्विभावैः समुत्पद्यते। तस्याः सर्वाङ्गसङ्कोचनिष्ठीवनमुखविकूणन

हृल्लेखादिभिरनुभावैरभिनयः प्रयोक्तव्यः।

  • विस्मयः-विस्मयो नाम हृदयोल्लासकक्षेपको भावः। स च मायेन्द्रजालमानुषकर्मातिशयचित्रपुस्तशिल्पविद्यातिशयादिभिर्विभावैः समुत्पद्यते। तस्य नयनविस्तारानिमेषप्रेक्षितभ्रूक्षेपपरोमहर्षणशिरःकम्पसाधुवादादिभिरनुभावैरभिनयः प्रयोक्तव्यः।
  • निर्वेदः- तत्र निर्वेदो नाम दारिद्रयव्याध्यवमानाधिक्षेपाक्रुष्टक्रोधताडनेष्टजनवियोग-

तत्त्वज्ञानादिभिर्विभावैः समुत्पद्यते स्त्रीनीचकुसत्त्वानाम्। रुदितनिःश्वसितोच्छ्वसित-सम्प्रधारणादिभिरनुभावैस्तमभिनयेत्।

विभावाः

(वि+भू+घञ्)-विभावयति रत्यादीन् आस्वादयोग्यतां नयतीति विभावाः। नाट्यशास्त्रकारेणोक्तम् यत् विभाव इति विज्ञानार्थः। विभाव्यते अलौकिकरूपेण प्रबोध्यते अनेन स्थायिभावः इति निर्वचनात् काव्येन नाट्येन वा समर्पितः रामसीताप्रभृतिः मेघपर्वतसमुद्रप्रभृतिर्वा विभाव इति संज्ञितः।

यथोक्तम्- रसाद्युद्बोधकाः लोके विभावाः काव्यनाट्ययोः।[x]

                       ज्ञातमानतया तत्र विभावो भावपोषकृत्।

                     आलम्बनोद्दीपनत्वप्रभेदेन स च द्विधा॥[xi]

अत एव तदालम्बनम् उद्दीपनं चेति द्विविधम् ।

  • यमालम्ब्य रत्यादि: आविर्भवति, स आलम्बनविभाव इत्युच्यते।

यथा – शकुन्तलामालम्ब्य रतिराविर्भवतीति दुष्यन्तनिष्ठां रतिं प्रति शकुन्तला आलम्बनविभाव: । दुष्यन्तमालम्ब्य च रतिराविर्भवतीति शकुन्तलानिष्ठां रतिं प्रति दुष्यन्तोऽपि । यथा च – दुर्योधनमालम्ब्य क्रोध आविर्भवतीति भीमसेननिष्ठक्रोधं प्रति दुर्योधन आलम्बनविभाव: ।

  • येन आविर्भूतस्य रत्यादेरुद्दीपनं भवति, स पुन: उद्दीपनविभाव इत्युच्यते।

यथा – दुष्यन्तनिष्ठां शकुन्तलाविषयिकां शकुन्तलानिष्ठां च दुष्यन्तविषयिकां रतिमुद्दीपयतीति चन्द्रिकाभ्रमरझङ्कारप्रभृतय: उद्दीपनविभावा:।

अनुभावाः

(अनु+भू+घञ्)-अनु पश्चात् भावः इति अनुभावः। अनुभावो विकारस्तु भावसंसूचनात्मकः।[xii] रत्यादिस्थायिभावान् अनुभावयतीति अनुभावः। रत्यादे: कार्यविशेष इति यावत्, यथा – दुष्यन्तस्य शकुन्तलाविषये रतौ सम्भवन्त्यां कटाक्षविक्षेप-आलिङ्गन-अधरपान-चुम्बनादय: कार्यविशेषा: सम्भवन्ति, । एवं शकुन्तलाया अपि दुष्यन्तविषये रतौ जातायां स्वेद-रोमाञ्च-पलायनादय: सम्भवन्ति । एते अनुभावा: । अयं च अनुभाव: आन्तरिक: बाह्यश्चेति द्विविध: । तत्र स्तम्भादय: आन्तरिका:, कटाक्षविक्षेपादयश्च बाह्या इति विवेक: ।  साहित्यदर्पणकारेणोक्तम्

           उद्बुद्धं कारणैः स्वैः स्वैर्बहिर्भावं प्रकाशयन्।

लोके यः कार्यरूपः सोऽनुभावः काव्यनाट्ययोः॥[xiii]

   सात्त्विकाः भावाः

  सात्त्विकभावाः अनुभावेषु अन्तर्भुक्तीकृताः। ‘सात्त्विक’ शब्दस्य व्युत्पत्तिः अस्ति– ‘अवहितं मनः सत्त्वं तत्प्रयोजनं हेतुरस्येति सात्त्विकः’। रसस्य अन्तरङ्गं ‘सत्त्वम्’। सत्त्वे नाट्यं च प्रतिष्ठितं –

‘सत्त्वे नाट्यं प्रतिष्ठितम्’। इह हि सत्त्वं नाम मनःप्रभवम्’ तच्च समाहितमनस्त्वादुच्यते।

सात्त्विकभावानां स्वरूपं स्पष्टभावेन उक्तम् आचार्यविश्वनाथेन[xiv]

स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू॥

अश्रुवैस्वर्यमित्यष्टौ, स्तम्भोऽस्मिन्निष्क्रियाङ्गता।

प्रलयो नष्टसंज्ञत्वम्, शेषाः सुव्यक्तलक्षणाः॥

आचार्यभरतस्य मते अष्टौ सात्त्विकभावाः सन्ति-

स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः।

वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः ताः॥”[xv]

  • स्तम्भःहर्षभयशोकविस्मयविषादरोषादिसम्भवः स्तम्भः। साहित्यदर्पणे उक्तम्-     स्तम्भचेष्टाप्रतीघातो भयहर्षामयादिभिः।
  • स्वेदः- क्रोधभयहर्षलज्जादुःखश्रमरोगतापघातेभ्यः। व्यायामक्लमघर्मैः स्वेदः सम्पीडनाच्चैव।
  • रोमाञ्चःस्पर्शभयशीतहर्षात् क्रोधाद्रोगाच्च रोमाञ्चः।
  • स्वभेदः-स्वरभेदो भयहर्षक्रोधजरारौक्ष्यरोगमदजनितः।
  • कम्पः-शीतभयहर्षरोषस्पर्शजरारोगजः कम्पः।
  • वैवर्ण्यम्-शीतक्रोधभयश्रमरोगक्लमतापजं च वैवर्ण्यम्।
  • अश्रुः-आनन्दामर्षाभ्यां धूमाञ्जनजृम्भणाद्भयाच्छोकात्। अनिमेषप्रेक्षणतः शीताद्रोगाद्भवेदश्रु॥
  • प्रलयः-श्रममूर्च्छामदनिद्राभिघातमोहादिभिः प्रलयः।

व्यभिचारिभावाः

(वि+अभि+चर्+घञ्)- विविधमाभिमुख्येन रसेषु चरन्तीति व्यभिचारिणः। व्यभिचारशीलः, परिवर्तनशीलः, अस्थिरस्वभावः लज्जासंशयप्रभृतिः। वागङ्गसत्त्वोपेताः प्रयोगे रसान्नयन्तीति व्यभिचारिणः। यानि चित्तवृत्तयः स्थायिभावैः सह चरन्ति, तानि व्यभिचारिभावाः पदैः व्यवहृयते-‘यानि सह चरन्ति तानि व्यभिचारिपदेन व्यपदिश्यन्ते।’ स काव्यार्थं वैविध्यापादनेन सम्यक् सम्यक् चारयतीति दृशा सञ्चारी इत्यपि प्रथितः। अस्मिन् विषये दशरूपककारस्य मतमस्ति यत्-

विशेषादाभिमुख्येन चर व्यभिचारिणः।

स्थायिन्युन्मग्ननिर्मग्नाः कल्लोला इव वारिधौ॥[xvi]

अर्थात् यथा वारिधौ सत्येव कल्लोला उद्भवन्ति विलीयन्ते च तद्वदेव रत्यादौ स्थायिनि सत्येवाविर्भावतिरोभावाभ्यामाभिमुख्येन चरन्तो वर्तमाना निर्वेदादयो व्यभिचारिणो भावाः।

निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमा:

आलस्यं चैव दैन्यं च चिन्ता मोह: स्मृतिर्धृति:

व्रीडा चपलता हर्ष आवेगो जडता तथा ।

गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥

सुप्तं प्रबोधोऽमर्षश्चाप्यवहित्थमथोग्रता ।

मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥

त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिण: ।

त्रयस्त्रिशंदमी भावा: समाख्यातास्तु नामत: ॥

एते त्रयस्त्रिंशद्व्यभिचारिणो भावा देशकालावस्थानुरूपेणात्मगतपरगतमध्यस्था उत्तममध्यमाधमैः स्त्रीपुंसैः स्वप्रयोगवशादुपपाद्या- “त्रयस्त्रिंशदिमे भावा विज्ञेया व्यभिचारिणः।

 १.निर्वेदः- तत्र निर्वेदो नाम दारिद्रयव्याध्यवमानाधिक्षेपाक्रुष्टक्रोधताडनेष्टजनवियोग

तत्त्वज्ञानादिभिर्विभावैः समुत्पद्यते स्त्रीनीचकुसत्त्वानाम्। रुदितनिःश्वसितोच्छ्वसित

सम्प्रधारणादिभिरनुभावैस्तमभिनयेत्।

   यथोक्तम्        “दारिद्रयेष्टवियोगाद्यैः निर्वेदो नाम जायते।

             सम्प्रसारणनिःश्वासैस्तस्य त्वभिनयो भवेत्।।

   उदाहरणम्-       यदि लक्ष्मण सा मृगेक्षणा न मदीक्षासरणिं समेष्यति।

       अमुना जडजीवितेन मे जगता वा विफलेन किं फलम्॥

२.ग्लानिः-वान्तविरिक्तव्याधितपोनियमोपवासमनस्तापातिशयमदनमद्यसेवनातिव्यायामाध्वगमनक्षुत्पिपासानिद्राच्छेदादिभिर्विभावैः समुत्पद्यते। तस्याः क्षामवाक्यनयनकपोलोदर-

मन्दपदोत्क्षेपणवेपनानुत्साहतनुगात्रवैवर्ण्यस्वरभेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः।     यथोक्तम्-   “वान्तविरिक्तव्याधिषु तपसा जरसा च जायते ग्लानिः।

             कार्श्येन साभिनेया मन्दभ्रमणेन कम्पेन॥

उदाहरणम्-     शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव।

               प्रियमागतमपि सविधे सत्कुरुते मधुरविक्षणैरेव॥

३.शङ्कासन्देहात्मिका स्त्रीनीचप्रभवा। चौर्याभिग्रहणनृपापराधपापकर्मकरणादिभिर्विभावैः समुत्पद्यते। तस्या मुहुर्मुहुरवलोकनावकुण्ठनमुखशोषणजिह्वापरिलेहनमुखवैवर्ण्यस्वरभेदवेपथुशुष्कोष्ठकण्ठायाससाधर्म्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः।  यथोक्तम्- 

चौर्यादिजनिता शङ्का कार्या ह्यात्मसमुत्था च परसमुत्था च।

प्रियव्यलीकजनिता तथा शृङारिणी मता॥

द्विविधा शङ्का कार्या ह्यात्मसमुत्था च परसमुत्था च।

या तत्रात्मसमुत्था सा ज्ञेया दृष्टिचेष्टाभिः॥

उदाहरणम्-  “विधिवञ्चितया मया न यातं सखि संकेतनिकेतनं प्रियस्य।

           अधुना बत किं विधातुकामो मयि कामो नृपतिः पुनर्न जाने॥

४. सूयाअसूया नाम नानापराधहेतुको भावः। सा च परैश्वर्यसौभाग्यमेधाविद्यालीलादिषु द्वेषदर्शनादिभिर्विभावैः समुत्पद्यते। तस्याश्च परिषदि दोषप्रख्यापनगुणोपघातेर्ष्याचक्षुः प्रदानाधोमुखभ्रकुटीक्रियावज्ञानकुत्सनादिभिरनुभावैरभिनयः प्रयोक्तव्यः। यथोक्तम्-      “परसौभाग्येश्वरतामेधालीलासमुच्छ्र्यान्दृष्टा।

                 उत्पद्यते ह्यसूया कृतापराधो भवेद्यश्व॥

उदाहरणम्–             कुत्र शैवं धनुरिदं, क्व चायं प्राकृतः शिशुः।

                      भङ्गस्तु सर्वसंहर्त्रा कालेनैव विनिर्मितः॥

  • दः- मदोनाम-मद्योपयोगादुत्पद्यते। स च त्रिविधः पञ्चविधभावश्च। यथोक्तम्-

ज्ञेयस्तु मदस्त्रिविधस्तरुणो मध्यस्तथावकृष्टश्च।

करणं पञ्चविधं स्यात्तस्याभिनयः प्रयोक्तव्यः॥

कश्चिन्मत्तो गायति रोदिति कश्चित्तथा  हसति कश्चित्।

परुषवचनाभिधायी कश्चित्कश्चित्तथा स्वपिति।।

   उदाहरणम्-       मधुरतरं स्मयमानः स्वस्मिन्नेवायं शनैः किमपि।

                   कोकनदयंस्त्रिलोकीमालम्बनशून्यमीक्षते क्षीबः॥

  • श्रम:अध्वव्यायामसेवनादिभिर्विभावैः समुत्पद्यते। तस्य गात्रपरिमर्दनसंवाहनिःश्वसित

विजृम्भितमन्दपदोत्प्रेक्षणनयनवदनविकूणनसीत्करादिभिरनुभावैरभिनयः प्रयोक्तव्यः। यथोक्तम्-       नृत्ताध्वव्यायामान्नरस्य सञ्जायते श्रमो नाम।

निःश्वासखेदगमनैस्तस्याभिनयः प्रयोक्तव्यः ॥

उदाहरणम्-            विधाय सा मद्वदनानुकूलं कपोलमूलं हृदये शयाना।

                चिराय धत्ते लिखितेव तन्वी, न स्पन्दितुं मन्दमपि क्षमाऽऽसीत्॥

७. आलस्यम्-खेदव्याधिगर्भस्वभावश्रमसौहित्यादिभिर्विभावैः समुत्पद्यते स्त्रीनीचानाम्। तदभिनयेत्सर्वकर्मानभिलाषशयनासननिद्रातन्द्रीसेवनादिरनुभावैः। यथोक्तम्-

आलस्यं त्वभिनेयं खेदोषगतं स्वभावजं चापि।

आहारवर्जितानामारम्भाणामनारम्भात्॥

उदाहरणम्-              निखिलां रजनीं प्रियेण दूरादुपायेन विबोधिता कथाभिः।

              अधिकं नहि पारयामि वक्तुं सखि मा जल्प तवायसी रसज्ञा॥

८. दैन्यम्-दैन्यं नाम-दौर्गत्यमन्स्तापादिभिर्विभावैः समुत्पद्यते। तस्याधृतिशिरोरोगगात्रगौरवान्यमनस्कतामृजपरिवर्जनादिभिरनुभावैरभिनयः प्रयोक्तव्यः॥ यथोक्तम्-         चिन्तौत्सुक्यसमुत्था दुःखाद्या भवति दीनता पुंसाम्।

               सर्वमृजापरिहरैर्विविधोऽभिनयो भवेत्तस्य॥

उदाहरणम्-      हतकेन मया वनान्तरे वनजाक्षी सहसा विवासिता।

              अधुना मम कुत्र सा सती, पतितस्येव परा सरस्वती॥

  • चिन्ता चिन्ता नाम ऐश्वर्यभ्रंशेष्टद्रव्यापहारदारिद्रयादिभिर्विभावैरुत्पद्यते। तामभिनयेन्निःश्वसितोच्छ्वसितसन्तापध्यानाधोमुखचिन्तनतनुकार्श्यादिभिरनुभावैः॥

यथोक्तम्–               ऐश्वर्यभ्रंशेष्टद्रव्यक्षयजा बहुप्रकारा तु।

   हृदयवितर्कोपग्रता नॄणां चिन्ता समुद्भवति॥ 

उदाहरणम्-        “अधरद्युतिरस्तपल्लवा मुखशोभा शशिकान्तिलङ्घिनी।

                 अकृतप्रतिमा तनुः कृता विधिना कस्य कृते मृगीदृशः॥

  •  मोह:मोहो नाम दैवोपघातव्यसनाभिघातव्याधिभयावेगपूर्ववैरानुस्मरणदिर्विभावै समुत्पद्यते। तस्य निश्चैतन्यभ्रमणपतनाघूर्णनादर्शनादिभिरनुभावैरभिनयः प्रयोक्तव्यः। यथोक्तम्अस्थाने तस्करान्दृष्ट्वा त्रासनैर्विविधैरपि।

           तत्प्रतीकारशून्यस्य मोहः समुपजायते॥

उदाहरणम्-विरहेण विकलहृदया विलपन्ती दयित! दयितेति।

         आगतमपि तं सविधे परिचयहीनेव वीक्षते बाला॥

  • स्मृतिः- स्मृतिर्नाम सुखदुःखकृतानां भावानामनुस्मरणम्। सा च स्वास्थ्यरात्रिजघन्यभागनिद्राच्छेदसमानदर्शनोदाहरणचिन्ताभ्यासादिभिर्विभावैः समुत्पद्यते। तामभिनयेच्छिरःकम्पनावलोकनभ्रूसमुन्नमनादिभिरनुभावैः।
  • धृतिः- धृतिर्नाम-शौर्यविज्ञानश्रुतिविभवशौचाचारगुरुभ्क्त्यधिकमनोरथार्थलाभक्रीडादिभि

र्विभावैः समुत्पद्यते। तामभिनयेत्प्राप्तानां विषयाणामुपभोगादप्राप्तातीतोपहत

विनष्टानामननुशोचनादिभिरनुभावैः।

  • व्रीडा व्रीडा नाम-अकार्यकरणात्मिका। सा च गुरुव्यतिक्रमणावज्ञानप्रतिज्ञातानिर्वहण

पश्चात्तापदिभिर्विभावैः समुत्पद्यते। तां निगूढवदनाधोमुखविचिन्तनोर्वीलेखन

वस्त्राङ्गुलीयकस्पर्शन-नखनिकृन्तनादिभिरनुभावैरभिनयेत्।

  • चपलता  चपलता नाम रागद्वेषमात्सर्यामर्षेर्ष्याप्रतिकूलादिभिर्विभावैः समुत्पद्यते। तस्याश्च वाक्पारुष्यनिर्भर्त्सनवधबन्धसम्प्रहारताडनादिभिरनुभावैरभिनयः प्रयोक्तव्यः।

     उदाहरणम्-   “अहितव्रत पापात्मन्! मैवं मे दर्शयाननम्।

                 आत्मानं हन्तुमिच्छामि येन त्वमसि भावितः॥

  • र्षः-हर्षो नाम मनोरथलाभेष्टजनसमागमनमनः परितोषदेवगुरुराजभर्तृप्रसादभोजनाच्छादनलाभोपभोगादिभिर्विभावैः समुत्पद्यते। तमभिनेयन्नयनवदनप्रसादप्रियभाषणालिङ्गनकण्टकितपुलकितास्रस्वेदादिभिरनुभावैः।
  • आवेगः- आवेगो नाम-उत्पातवातवर्षाग्निकुञ्जोद्भ्रमणप्रियाप्रिय-श्रवणप्रकृतिव्यसनाभिघातादिभिर्विभावैः समुत्पद्यते। तत्रोत्पातकृतो नाम विद्युदुल्कानिर्घातप्रपतनचन्द्रसूर्योपरागकेतुदर्शनकृतः। तमभिनेयत्सर्वाङ्गस्रस्ततावैमनस्य

        सुखवैवर्ण्यविषादविस्मयादिभिः। वातकृतं     पुनरवगुण्ठनाक्षिपरिमार्जनवस्त्रसङ्गूहनत्वरित

       गमनादिभिः। अग्निकृतं तु धूमाकुलनेत्रताङ्गसङ्कोचनविधूननातिक्रान्तापक्रान्तादिभिः।      कुञ्जरोद्भ्रमणकृतं नाम त्वरितापसर्पणचञ्चलगमनभयस्तम्भवेपथुपश्चादवलोकनविस्मयादिभिः।  प्रियश्रवणकृतं नामाभ्युत्थानालिङ्गनवस्त्राभरणप्रदानाश्रुपुलकितादिभिः। अप्रियश्रवणकृतं नाम भूमिपतनविषम विवर्तनपरिधावनविलापनाक्रन्दनादिभिः।

उदाहरणम्-लीलया विहितसिन्धुबन्धनः सोऽयमेति रघुवंशनन्दनः।

         दर्पदुर्विलसितो दशाननः कुत्र यामि निकटे कुलक्षयः॥

  • जडता जडता नाम- सर्वकार्याप्रतिपत्तिः। इष्टानिष्टश्रवणदर्शनव्याध्यादिभिर्विभावैः समुत्पद्यते। तामभिनयेदप्रतिकथनाभिभाषणतूष्णीम्भावाप्रतिभाऽनिमेषनिरीक्षण

परवशत्वादिभिरनुभावैः।

उदाहरणम्-“यदवधि दयितो विलोचनाभ्यां सहचरि दैववशेन दूरतोऽभूत्।

         तदवधि शिथिलीकृतो मदीयैरथ करणैः प्रणयो निजक्रमासु॥

  •  गर्वः-गर्वो नाम ऐश्वर्यकुलरूपयौवनविद्याबलधनलाभादिभिर्विभावैः समुत्पद्यते। तस्यासूयावज्ञाधर्षणानुत्तरदानासम्भाषणाङ्गावलोकनविभ्रमाहसनवाक्पारुष्यगुरुव्यतिक्रमणाधिक्षेपवचनविच्छेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः।

उदाहरणम्-      “आमूलाद्रत्नसानोर्मलयवलयिता च कूलात्पयोधेः,

                       यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु

                      मद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाग्यभाजां,

वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः॥

  • विषादः- कार्यानिस्तरणदैवव्यापत्तिसमुत्थः। तमभिनयेत्सहायान्वेषणोपायचिन्तनोत्साह

विघातवैमनस्यनिःश्वसितादिभिरनुभावैःरुत्तममध्यमानाम्। अधमानां तु विपरिधावनलोकन

मुखशोषण सृक्वपरिलेहननिद्रा निःश्वसित ध्यानादिभिरनुभावैः।

उदाहरणम्-           “भास्करसूनावस्तं याते जाते च पाण्डवोत्कर्षे।

                   दुर्योधनस्य जीवित! कथमिव नाद्यापि निर्यांसि॥

  • औत्सुक्यम्- औत्सुक्यम् नाम- इष्टजनवियोगानुस्मरणोद्यानदर्शनादिभिर्विभावैः समुत्पद्यते। तस्य दीर्घनिःश्वसिताधोमुखविचिन्तननिद्रातन्द्री

शयनाभिलाषादिभिरनुभावैरभिनयः प्रयोक्तव्यः।

उदाहरणम्-      निपतद्वाष्पसंरोध-मुक्तचाञ्चल्यतारकम्।

               कदा नयनीलाब्जमालोकेय मृगीदृशः॥

  •  निद्रानिद्रा नाम दौर्बल्यश्रमक्लममदालस्यचिन्ताऽत्याहारस्वभावादिभिर्विभावैः समुत्पद्यते। तामभिनयेदवदनगौरवशरीरप्रतिलोलननेत्रघूर्णनगात्रमोटनविजृम्भणमान्द्योच्छ

सितसन्नगात्रताऽक्षिनिमीलनादिभिरनुभावैः।

उदाहरणम्-     “सा मदागमनबृंहिततोषा जागरेण गमिताखिलदोषा।

              बोधिताऽपि बुबुधे मधुपैर्न प्रातराननजसौरभलुब्धैः॥

  • पस्मारः-अपस्मारो नाम देवयक्षनागब्रह्मराक्षसभूतप्रेतपिशाचग्रहणानुस्मरणोच्छिष्ट

शून्यागारसेवनाशुचिकालान्तरापरिपतनव्याध्यादिभिर्विभावैः समुत्पद्यते। तस्य स्फुरितनिःश्वसितोत्कम्पितधावनपतनस्वेदस्तम्भनवदनफेनजिह्वापरिलेहनादिभिरनुभावैरभिनयः प्रयोक्तव्यः।

उदाहरणम्-         “हरिमागतमाकर्ण्य मथुरामन्तकान्तकम्।

  कम्पमानः श्वसन् कंसो निपपात महीतले॥

२३.सुप्तम्-सुप्तं नाम-निद्रासमुत्थम्। तच्च निद्राभिभवेन्द्रियोपरमणविषयोपगमन

मोहनक्षितितलशयनप्रसारणानुकर्षणादिभिर्विभावैःसमुत्पद्यते।तदुच्छ्वसितसन्नगात्राक्षिनिमीलनसर्वेन्द्रियसम्मोहनोत्स्वप्नायितादिभिरनुभावैरभिनयेत्।

      उदाहरणम्-   “अकरुण! मृषाभाषासिन्धो! विमुञ्च ममाञ्चलम्।

                   तव परिचितः स्नेहःसम्यङ्मयेत्यनुभाषिणीम्।

                    अविरलगलद्वाष्पां तन्वीं निरस्तविभूषणाम्,

                   क इह भवतीं भद्रे! निद्रे! विना विनिवेदयेत् ॥

२४.विबोधः-विबोधो नाम- आहारपरिणामनिद्राच्छेदस्पर्शस्व्प्नान्ततीव्रशब्द श्रवणादिभिर्विभावैः  समुत्पद्यते।तमभिनयेज्जृम्भणाक्षिपरिमर्दनशयनमोक्षणादिभिरनुभावैः।

उदाहरणम्-“नितरां हितयाद्य निद्रया मे वत यामे चरमे निवेदितायाः।

         सुदृशो वचनं शृणोमि यावन्मयि तावत् प्रचुकोप वारिवाहः॥’’

२५.अमर्षः-अमर्षो नाम-विद्यैश्वर्यशौर्यबलाधिकैरधिक्षिप्तस्यावमानितस्य वा समुत्पद्यते। तमभिनयोच्छिरःकम्पनप्रस्वेदनाधोमुखचिन्तनध्यानाध्यवसायोपायसहायान्वेषणादिभिरनुभावैः।

उदाहरणम्-“वक्षोजाग्रं पाणिनामृष्य दूरे यातस्य द्रागाननाब्जं प्रियस्य।

        शोणाग्राम्यां भामिनी लोचनाभ्यां जोषं जोषं जोषमेवावतस्थे॥

२६. अवहित्थम्- अवहित्थं नाम-आकारप्रच्छादनात्मकम्। तच्च लज्ज-भयापजयगौरवजैह्म्यादिभिर्विभावैः समुत्पद्यते।तस्यान्यथाकथनावलोकितकथाभङ्ग

कृतकधैर्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः।
उदाहरणम्-          “प्रसङ्गे गोपानां गुरुषु महिमानं यदुपतेः,

उपाकर्ण्य स्विद्यत्पुलकितकपोला कुखत्वधूः।

विषज्वालाजालं झगिति वमतः पन्नगपतेः,

फणायां साश्चर्यं कथयतितरां ताण्डवविधिम्॥’’


२७. उग्रता-
उग्रता नाम-चौर्याभिग्रहणनृपापराधासत्प्रलापादिभिर्विभावैः समुत्पद्यते। तां च वधबन्धनताडननिर्भर्त्सनादिभिरनुभावैरभिनयेत्।

उदाहरणम्-अवाप्य भङ्ग खलु सङ्गराङ्गणे नितान्तमङ्गाधिपतेरमङ्गलम्।

        परप्रभावं मम गाण्डीवं धनुर्विनिन्दितस्ते हृदयं न कम्पते॥

२८. मतिः- मतिर्नाम नानाशास्त्रविचिन्तनोहापोहादिभिर्विभावैः समुत्पद्यते। तामभिनेयच्छिष्योपदेशार्थविकल्पनसंशयच्छेदादिभिरनुभावैः।

उदाहरणम्-निखिलं जगदेव नश्वरं पुनरस्मिन् नितरां कलेवरम्।

         अथ तस्य कृते क्रियानयं क्रियते हन्त मया परिश्रमः॥

२९. व्याधिः-वातपित्ताकफसन्निपातप्रभवः। तस्याः ज्वरादयो विशेषाः। ज्वरास्तु द्विविधः सशीतः सदाहश्च। १. तत्र सशीतो नाम- प्रवेपितसर्वाङ्गोत्कम्पननिकुञ्चनाग्न्यभिलाषरोमाञ्चहनुवलननासाविकूणनमुखशोषणपरिदेवितादिभिरनुभावैरभिनेयः। २. तत्र सदाहो नाम-विक्षिप्ताङ्गकरचरणभूम्यभिलाषानुलेपन

शीताभिलाषपरिदेवनमुखशोषोत्क्रुष्टादिभिरनुभावैः। ये चान्ये व्याधयस्तेऽपि खलु मुखविकूणनगात्रस्तम्भस्रस्तताक्षिनिमीलननिःश्वसनस्तनितोत्क्रुष्टवेपनादिभिरनुभावैरभिनेयाः।

उदाहरणम्- “हृदये कृतशैवलानुषङ्गा मुहुरङ्गानि यतस्ततः क्षिपन्ती।

         तदुदन्तपरे मुखे सखीनामतिदीनामियमादधाति दृष्टिम्॥

३०. उन्मादः- उन्मादो नाम इष्टजनवियोगविभवनाशाभिघातवातपित्तश्लेष्म

प्रकोपादिभिर्विभावैरुत्पद्यते।तमनिमित्तहसितरुदितोत्कुष्टासम्बद्धप्रलापशयितोपविष्टोत्थितप्रधावितनृत्तगीतपठितभस्मपांस्ववधूलनतृणत्रोटननिर्माल्यकुचेलचीरघटकपालशरावाभरणधारणोपभोगैरनेकैश्चानवस्थितैश्चेष्टानुकरणादिभिरनुभावैरभिनयेत्।

उदाहरणम्-    “अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम्।

            इत्यालपति कराम्बुजमादायालीजनस्य विकला सा॥

३१.मरणम्- मरणं नाम- व्याधिजमभिघातञ्च। तत्र यदान्त्रयकृच्छूलदोषवैषम्य

गण्डपिटकज्वरविषूचिकादिभिरुत्पद्यते तद्वयाधिप्रभवम्। अभिघातजन्तु शस्त्राहिदंशविषपान

श्वापदगजतुरगरथपशुयानपातविनाशप्रभवम्। एतयोरबिनयविशेषान्वक्ष्यामः-तत्र व्याधिजं विषण्णगात्राव्यायताङ्गविचेष्टितनयननिमीलिनहिकोर्ध्वश्वासोपेतपरिजनानवेक्षिता

व्यक्ताक्षरकथनदिभीरनुभावैःरभिनयेत्।

उदाहरणम्-“दयितस्य गुणाननुस्मरन्ती शयनेसंप्रति या विलोकिताऽऽसीत्।

        अधुना किल हन्त सा कृशाङ्गी, गिरमङ्गी कुरुते न भाषिताऽपि॥

३२.त्रासः-त्रासो नाम विद्युदुल्काशनिपातनिर्घाताम्बुधरमहासत्त्वपशुरवादिभिर्विभावैरुत्पद्यते। तमभिनयेत्संक्षिप्ताङ्गोत्कम्पनवेपथुस्तम्भरोमाञ्चगद्गदप्रलापादिभिरनुभावैः।

उदाहरणम्-   “आलीषु केलीरभसेन बाला मुहुर्ममालापमुदाहरन्ती।

            आरादुपाकर्ण्य गिरं मदीयां सौदामनीयां सुषमामयासीत्॥’’

३३.वितर्कः- वितर्को नाम- सन्देहविमर्शविप्रतिपत्त्यादिभिर्विभावैरुत्पद्यते। तमभिनयेद्विविधविचारितप्रश्नसम्प्रधारणमन्त्रसंगूहनाभिरनुभावैः।

       उदाहरणम्-  “यदि सा मिथिलेन्द्रनन्दिनी नितरामेव न विद्यते भुवि।

           अथ मे कथमस्ति जीवितं न विनालम्बनमाश्रितस्थितिः॥

     भावश्चैकोनपञ्चाशत् संख्याताः। अष्टौ स्थायिभावाः, त्रयस्त्रिंशत्सञ्चारिभावाः,

   अष्टौ च सात्त्विकभावाः। यथोक्तम्- ‘एवमेते काव्यरसाभिव्यक्तिहेतवः एकोनपञ्चाशद्भावाः प्रत्यवगन्तव्याः।’ इति

सन्दर्भ-ग्रन्थ-सूची-

  • काव्यप्रकाशः, आचार्य विश्वेश्वर सिद्धान्त शिरोमणि, चौखम्बा सुरभारती प्रकाशन, २०२३।
  • काव्यप्रकाशः, श्री हरिशंकर शर्मा, चौखम्बा प्रकाशन, २०२२।
  • नाट्यशास्त्र, बाबूलाल शुक्ल, चौखम्बा संस्कृत संस्थान, वाराणसी २०२३।
  • नाट्यशास्त्रम्, डा. सुधाकर मालवीय, कृष्णदास अकादमी, वाराणसी, १९९७।
  • साहित्यदर्पणम्, आचार्यशेषराज शर्मा रेग्मी, चौखम्बा कृष्णदास अकादमी, वाराणसी, २०१५।
  • ध्वन्यालोकः, आचार्य जगन्नाथ पाठक, चौखम्बा विद्याभवन वाराणसी, १९६५।
  • ध्वन्यालोकः, राम सागर त्रिपाठी, मोतीलाल बनारसीदास, वाराणसी, १९६३।

पादटिप्पणी-


[i] काव्यप्रकाशः,१/३

[ii] ऋग्वेदः, ९.६.६

[iii] तैत्तिरीयोपनिषद्,२/७

[iv] ध्वन्यालोकः, १.५

[v] ऋग्वेदः, १.१६४.२०

[vi] नाट्यशास्त्रम्, ६.३२

[vii] काव्यप्रकाशः, ४.२७, २८

[viii] साहित्यदर्पणम्, ३.१

[ix] दशरूपकम्, ४/३४

[x] साहित्यदर्पणम्,३/१४

[xi] दशरूपकम्,४/२

[xii] वही, ४/३

[xiii] साहित्यदर्पणम्, ३/१३२

[xiv] स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः।

  वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विकाः स्मृताः॥-

[xv] नाट्यशास्त्रम्, ७.९५

[xvi] दशरूपकम्, ४/७