लघुमञ्जूषाग्रन्थरीत्या प्रथमाविभक्त्यर्थविचारः

डा. एन् .आर्. रङ्गनाथताताचार्यः
सहायकाचार्यः, व्याकरणविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः

‘प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा’ (पा. सू. २.३.४६) इति सूत्रेण प्रातिपदिकार्थादिषु प्रथमाविहिता तत्र प्रातिपदिकार्थः कः इति विषये मतभेदः जाति, लिङ्ग, संख्या, कारकशक्तिः तद्विशिष्टद्रव्यञ्चेति पञ्चकं प्रातिपदिकार्थः इति एकः पक्षः। संख्यां विहाय कारकान्तं चतुष्कं प्रातिपदिकार्थः इत्यपरः। जातिव्यक्तिलिङ्गपर्यन्तं त्रिकं प्रातिकार्थः इति तृतीयः। जातिः व्यक्तिश्च इति द्विकं प्रातिपदिकार्थः इति  चतुर्थः। जातिव्यक्त्योर्मध्ये अन्यतरदेव प्रातिपदिकश्क्यमिति पञ्चमः पक्षः। अत्र घटादिपदेभ्यः घटत्वादिविशिष्टव्यक्तिबोधः अनुभूयते। ‘घटमानय’ इति वृद्धव्यवहारेण आनयनादि क्रियायोग्यत्वं घटादिव्यक्तरेव । अतः घटादि प्रातिपदिकस्य व्यक्तिरेवार्थः इति। व्यक्तिमात्रबोधकत्वे गौः शुक्लः चलः डित्थः इत्येतेषां सह प्रयोगः नोपपद्येत। यथा घटः कलशः इति पर्यायवाचिनोः सह प्रयोगः निषिद्धः तथा व्यक्तिमात्रवाचित्वे एषां पर्यायवाचित्वात् उक्तानुपपत्तिः। तस्मात् जात्याद्यनुगतीकृतव्यक्तिषु शक्तिग्रहः वाच्यः। तथासति घटत्वेन गोत्वेन च सकलव्यक्तिबोधदर्शनात् यत् किञ्चित् व्यक्तौ घटादिपदस्य शक्तेरङ्गीकारे व्यक्त्यन्तरस्य भानानुपपत्तिः। अनेकव्यक्तिषु शक्तेरङ्गीकारे शक्त्यानन्त्यमिति आनन्त्यव्यभिचाररूपदोषश्च परिहृतः।

शक्तिग्रहश्च व्यक्त्यंशे शक्यतावच्छेदकातिरिक्तानविच्छन्नविशेष्यताजातिप्रकारकः। अनेन च जात्याश्रयसकलव्यक्तिबोधः सम्भवति। गौः शुक्लः चलः डित्थः इत्येतेषु जात्यवच्छिन्नविषयकशक्तिमान् जातिशब्दः, गुणाद्यवच्छिन्नविषयकशक्तिमान् गुणशब्दादिरिति व्यवस्था। शक्तिश्च विशेषणविशेष्ययोः  उभयोरपि शक्यतावच्छेदकत्वञ्च शक्यैकदेशे प्रकारत्वम्। शक्यनिष्ठा या विशेष्यता तदवच्छेदकताख्यप्रकारतया भासमानत्वम्। घटादिपदशक्तिग्रहे घटत्वादेरेव शक्यतावच्छेदकं न द्रव्यत्वादेः। अतः न तत्र घटपदात् द्रव्यत्वादिप्रकारकबोधः। इत्थं च जात्यादिविशिष्टव्यक्तिशक्तिग्रहेण प्रातिपदिकार्थः द्रव्यमिति सिद्ध्यति। ‘सरूप’भाष्ये द्रव्याभिधानं व्याडिरिति, तद्पक्षः भाष्यकृता प्रतिपादितः, कैयटैरपि जातेः उपलक्षणत्वेनाश्रयणाद् परित्यक्तभेदं द्रव्यमात्रं विशिष्टं जातियुक्तं शब्देनोच्यते इति तद् व्याख्यातम्। हरिरपि- ‘वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते। द्रव्यमित्युच्यते सोऽर्थः भेद्यत्वेन विवक्षितः’॥(वा. प. ३.४.३)  इति।

इदं तदिति सर्वनामपरामर्शयोग्यं द्रव्यमिति द्रव्यलक्षणं प्रत्यपादि। लक्षणान्तरमपि भेद्यत्वेन विवक्षित इत्यनेनोच्यते—भेद्यत्वेन किञ्चिन्निरूपितविशेष्यत्वेन विवक्षितः इत्यनेन शब्दार्थस्येदं लक्षणमित्युक्तम्।

जातिरेव प्रातिपदिकार्थ इति मतनिरूपणम्

जातिव्यक्त्योः विशेषणविशेष्ययोः उभयत्र शक्तिकल्पने गौरवम्। एवं व्यक्तौ शक्तेः जातौ तदवच्छेदकत्वस्य कल्पने च । अतः जातिरेव शक्यः, व्यक्तिभानन्तु शक्तिग्रहविशेष्यत्वात् । त्वन्मते व्यक्तिशक्तिग्रहे शक्यतावच्छेदकत्वेन जातिभानमिव भवति। शक्तिग्रहश्च गौः गोपदशक्यः इत्येव।  स च ‘शिखीद्धस्त’ इति वत् ‘नागृहीतविशेषणबुद्धिः विशेष्ये उपजायत इति’  न्यायसहकृतलाघवेन जातिमात्रे भवति। ‘गामानये’त्यादौ च आनयनादि क्रिया केवलायां जातौ असंभवन्ती व्यक्तिसाहाय्येन निष्पाद्यते। यथा अग्निरानीयतामित्युक्ते केवलस्य अग्नेः आनयनासम्भवात् अचोदितमपि पात्रं आनीयते, तथा च पात्रस्थाग्नेरानयनम्। एवमेव सर्व एव आकृतेः (जातेः) आनयनादि क्रियायोगः अन्तर्भावितद्रव्यद्वारकः सम्पद्यते इति कैयटः—‘सरूपसूत्र’भाष्ये प्रत्यपादयत्। हरिरपि ‘व्यक्तौ कार्याणि संसृष्टा जातिस्तु प्रतिपद्यते’(वा. प. १.६९) इति। वस्तुतः जातिव्यक्त्योः अविनाभावसम्बन्धात् व्यक्तेः भानमुपपद्यते। अथवा जातिव्यक्त्योः अभेदादपि जातेरेव प्राधान्येपि ‘गोत्वं वाह्य’ इत्याद्यन्वयः घटते। जातिव्यक्त्योः भेद एव विवक्षितः तदा भावप्रधाननिर्देशः इति व्यवहारः। ‘समर्थसूत्रेपि’ भाष्यकैयटयोः ‘अवाच्यमपि द्रव्यं द्वारीकृत्य यथा विशेषणविशेष्यभावः जातिवादे’ इति वचनेन जातिरेव शक्या इति सिद्ध्यति। इत्थं जातिव्यक्त्युभयं तयोरन्यतरद्वा प्रातिपदिकार्थः इति पक्षः प्रतिपादितः।

लिङ्गमपि प्रातिपदिकार्थ इति मत निरूपणम्

पुंस्त्वादिलिङ्गमपि प्रातिपदिकार्थः न तु प्रत्ययार्थः। प्रत्ययार्थत्वे ‘प्रकृतिप्रत्ययोः प्रत्ययार्थं प्रत्ययः प्राधान्येनेति’ स्मृत्या प्राधान्यापत्तेः। दधिमधुवागादिशब्देभ्यः प्रत्ययं विनापि लिङ्गबोधाच्च प्रकृतावेव दृश्यते। अत एव ‘ह्रस्वो नपुंसके प्रातिपदिकस्य’ (पा. सू. १.२.४७), ‘स्वमोर्नपुंसकात् (पा. सू. ७.१.२३), नपुंसकस्यझलचः’ (पा. सू. ७.१.७२) इत्यादि सूत्राणि सङ्गच्छते । ‘स्त्रियां’ (पा. सू. ४.१.३) इत्यस्य स्त्रियां वर्तमानात् प्रातिपदिकात् इत्यर्थः। एवं ‘प्रातिपदकार्थलिङ्गे’ति सूत्रेपि लिङ्गेत्यस्यापि तत्र वर्तमानात् प्रातिपदिकादित्यर्थः। प्रथमायाः विभक्तेः लिङ्गार्थत्वाभ्युपपगमे तु घटेनेत्यादौ तृतीयादौ प्रथमायाः अभावात् पुंल्लिङ्गादि प्रतीत्यनुपपत्तिः। लिङ्गस्वरूपञ्च भाष्यकृता इत्थं प्रतिपादितम्— ‘सत्वरजस्तमसां प्राकृतगुणानां वृद्धिः पुंस्त्वं, अपचयः स्त्रीत्वं साम्यावस्थारूपस्थितिमात्रं नपुसकत्वमिति’, अत एव ‘सामान्येनपुंसकम्’ इत्युद्घोषः। एतदवस्थात्रयस्य पदार्थमात्रे सत्त्वात् अयं पदार्थः इयं व्यक्तिः इदं वस्तु इत्यादि व्यवहारः भवति। इदं च लिङ्गं अर्थनिष्ठम्। तत्र कश्चिद् शब्दः एकलिङ्गविशिष्टार्थ एव शक्तः। कश्चिद् लिङ्गद्वयविशिष्टे, कश्चिच् लिङ्गत्रयविशिष्टे इति लिङ्गानुशासनादिभ्यो निर्णेयम्।

प्रसङ्गात् वैयाकरणमते लिङ्गं शब्दनिष्टं उत अर्थनिष्ठमिति  विचार्यते । कैयटनागेशयोः मते लिङ्गं अर्थनिष्टमेव । ‘एकार्थेशब्दान्यत्वात् दृष्टं लिङ्गान्यत्वमवयवान्यत्वाच्च’ इति भाष्यात् पुष्यः तारका नक्षत्रमित्यादि  नाना शब्ददर्शनात् स्तनकेशाद्यतिरिक्तमेव लिङ्गमर्थनिष्टं , कुटी कुटीर  इत्यादौ रेफाद्यवयवस्योपजनने लिङ्गभेदर्शनाच्च  । लिङ्गस्य अर्थनिष्टत्वपक्षे एव ‘रूपरसगन्धस्पर्शशब्दानां संस्त्यानप्रसवौ लिङ्गम्’ (महाभाष्ये – पा. सू. ४.१.३) इति भाष्यवचनं संगच्छते । रूपादयो हि न शब्दगताः किन्तु अर्थगता एव । लिङ्गस्य अर्थनिष्टत्वस्वीकारादेव ‘स्वमोर्नपुंसकात्’ (पा. सू. ७.१.२३) इति सूत्रे भाष्ये ‘नपुंसकादित्यनेनासंदिग्धेनार्थग्रहणेन  भवितव्यम् नहि नपुंसकं नाम शब्दोऽस्ति’ इत्युक्तिः संगच्छते । अर्थनिष्ठत्वं च तादात्म्येन लिङ्गस्य अर्थरूपत्वात् । यद्यपि शब्दार्थयोरपि तादात्म्येन शब्दनिष्टत्वमपि सम्भाव्यते, तथापि ‘न हि नपुंसकं नाम शब्दोऽस्ति’ इति भाष्यात् अर्थाभेदेन प्रतीयमानत्वमेव कल्प्यते । पुंलिङ्गः शब्दः इति व्यवहारेण लिङ्गं शब्दनिष्ठमिति चेत् न वाच्यवाचकयोः अभेदोपचारात् , अर्शअद्यजन्ताद्वा तदुपपत्तेः । अतः एतयोः (कैयटनागेशयोः) मते लिङ्गं अर्थनिष्ठमेव इति सिद्धान्तः ।

        कौण्डभट्टस्तु लिङगस्य शब्दनिष्ठत्वमेव स्वीकरोति। लिङ्गस्य शब्दनिष्ठत्वादेव भार्याबोधकदाराकलत्रशब्दयोः पुंनपुंसकता नविरूद्ध्यते । एकस्य शब्दस्य एकस्मिन्नेव लिङ्गे प्रयोगः । लिङ्गस्य शब्दनिष्ठत्वे एव  सर्वत्रापि पदार्थे अयं पदार्थः, इयं व्यक्तिः, इदं वस्तु  इति व्यवहारोऽपि सुष्ठूपपद्यते । ‘तटं त्रिषु’, ‘तिथिर्द्वयोः’ इति व्यवहारः लिङ्गस्य शब्दनिष्टत्वे न उपपद्यते  इति चेत् न, तत्र सरूपाणं अनेकशब्दानां अभेदोपचारेण उक्तदोषपरिहारः क्रियते । समानानुपूर्वीकत्वमेव हि अभेदोपचारे कारणम् । न च लिङ्गस्य शब्दनिष्टत्वस्वीकारे ‘पशुना यजेत’   इत्यादौ पुंस्त्वस्य विवक्षणात् न पशुस्त्रिया याग इति मीमांसकसिद्धान्तभङ्ग इति वाच्यम् । शब्दनिष्ठस्यापि लिङ्गस्यार्थविशेषणत्वेन अन्वयात्, लिङ्गविशेषविशिष्ठस्यैव शब्दस्य अर्थविशेषवाचकत्वमित्यर्थस्य लिङ्गानुशासनशास्त्रसिद्दत्वात् । एवं च लिङ्गस्य शब्दनिष्ठत्वे न किञ्चित् वाधकमिति भूषणकारकाराणां  सिद्धान्तः ।

संख्यापि प्रातिपदिकार्थ इति निरूपणम्

दधिमधु इत्यादौ विनापि प्रत्ययं एकत्वादि संख्याप्रतीतेः, संख्या अपि प्रातिपदिकार्थ एवेति। केचित्तुसंख्यामात्रं विभक्त्यर्थः इति वदन्ति। तत्र प्रमाणञ्च ‘वाचिका द्योतिका वा स्यु द्वित्वादिनां विभक्तयः’(वा. प. २.१६४,१६५) इति हरिकारिका।सिद्धान्तपक्षस्तु पञ्चकं प्रातिपदिकार्थ इत्येव, तदभिप्रेत्य हरिणा उक्तम्— ‘यद्वासंख्यावतोर्थस्य समुदायोऽभिधायकः’ इति। तथा च एकं प्रातिपदिकार्थः इत्यस्य जातिव्यक्तयोः मध्ये अन्यतरदेव तच्छक्यं इत्यर्थः। द्विकं इत्यस्य प्रथमाविधायके जातिव्यक्तिरूपद्विकं प्रातिकार्थशब्देन गृह्यतेत्यर्थः। त्रिकं इत्यस्य यथा कथञ्चिद् शक्तिग्रहविषयोऽपि तदर्थ इत्यभिप्रायः। संख्यामात्रं विभक्तर्थः कारकान्तं चतुष्कं प्रातिपदिकार्थः इति केषाञ्चित् मतम्। वस्तुतस्तु—जातिलिङ्गसंख्याकारकविशिष्टस्य द्रव्यस्यैव बोधात्पञ्चकंप्रातिपदिकार्थः इत्येव ज्यायः, सर्वेषां विशेषणत्वेन अनुभवात्। यदि पञ्चानामपि प्रातिपदिकार्थत्वे प्रातिपदिकार्थत्वप्रकारकबोधे सुब्जन्योपस्थितिः कारणमिति कार्यकारणभावविलयापत्तिः स्यादिति चेद्, इष्टापत्तिः सुबर्थविशेष्यकबोधस्यैव (प्रथमाविभक्तिस्थले) अप्रसिद्धत्वात्। इति शम्।

परामर्शनग्रन्थाः

१. अष्टाध्यायी, महर्षिपाणिनिप्रणीता, प्रकाशनम्—चौखम्बा संस्कृत संस्थान, वाराणसी।

२. व्याकरणमहाभाष्यम्, भगवत्पतञ्जलिप्रणीतः, व्याख्याकारः पण्डितगुरुप्रसादशास्त्री, प्रकाशनम्—चौखम्बा विद्यावंश प्रकाशन, वाराणसी, २०१४

३. वैयाकरणसिद्धान्तलघुमञ्जूषा, नागेशभट्टकृता, व्याख्याकारः रत्नगोपालभट्टः, प्रकाशनम्—चौखम्बा संस्कृत संस्थान, वाराणसी, १९८९

४. वाक्यपदीयम्, महर्षिभरतहरिकृतम्, प्रकाशनम्—कामेश्वरसिंहसंस्कृतविश्वविद्यालयः, दरभंगा।

५. वैयाकरणभूषणसारः, कौण्डभट्टकृतः, व्याख्याकारः हरिवल्लभशास्त्री, प्रकाशनम्—मोतीलाल बनारसीदास, दिल्ली, २०१२

६. लघुशब्देन्दुशेखरः, नागेशभट्टकृतः, व्याख्याकारः आचार्यविश्वनाथमिश्रः, प्रकाशनम्—चौखम्बा संस्कृत प्रतिष्ठान, दिल्ली (वाराणसी), २०१२।