श्रीगीतगोविन्दे श्रीराधामाधवयोः भक्तितत्त्वम्
अम्रिता जेना
शोधच्छात्रा, साहित्यविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः
दूरवाणी – 8249612145
E Mail – amritajena81@gmail.com
“वंशीविभूषितकरान्नवनीरदाभात्
पीताम्बरादरुणबिम्बफलाधरोष्ठात् ।
पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात्
कृष्णात् परं किमपि तत्त्वमहं न जाने ॥”
(अद्वैतसिद्धिः, द्वितीयः परिच्छेदः)
श्रीमद्भागवतोक्तवचनानुसारं श्रीवैष्णवसम्प्रदायस्य प्रमुखाधारकल्पाराध्य देवः श्रीकृष्ण इति प्रमाणीक्रियते। अतोरुच्यते –
आराधनानां सर्वेषां विष्णोराराधनं परम् ॥
अनया रीत्या द्वादशशतके भक्तिकाव्यसागरशिशुमारः भक्तकविः श्रीजयदेवः वैष्णवसम्प्रदायमाधारीकृत्य “श्रीगीतगेविन्दम्”इति गानपरकं काव्यं रचयामास। यस्मिन् श्रीराधा-माधवयोः प्रणयलीलया सह नाट्यनृत्यवाद्यानां समन्वयरुपं विद्यते। एतादृशेन गीतपरककाव्यप्रबन्धनेन उत्कलीयोऽयं न केवलं उत्कले अपि तु निखिलेऽस्मिन्प्रपञ्चे प्रथितयशोऽस्ति। इदानिमपि श्री मन्दिरे गीतगोविन्दमिदं भगवतः श्रीजगन्नाथस्य सविधे प्रातः उत्थान समये रात्रौ शयनसमये गीयते। अतः काव्यमिदं संस्कृतसाहित्यवाङ्गमये विशिष्टं स्थानं समलङ्करोति।
श्रीगीतगोविन्द काव्ये श्रीराधामाधवयोःरह केलयो जयन्ति गोपिविशेषकृष्णयोरोकान्तक्रीडितानि उत्कर्षेण वर्धन्तामित्यर्थः। राधाच माधवश्च“राधामाधवौ” चार्थे द्वन्दः। राधा काचिद्गोपि “राधावैशाख मासे स्याद्राधा गोप्यां च विद्युति” इति विश्वः। मा लक्ष्मीः तस्या धवः माधवः इति। यद्धमाधोरपत्यं माधवः।
गीतगोविन्दस्य प्रसिद्धमितिवृत्तं श्रीराधा सह श्रीकृष्णस्य वृन्दावने सखीप्रचोदिता रासलीलैवास्ति। विशिष्टतया वैष्णवसाधनायाः मेरुदण्डरुपेण वर्तमानं श्रीमहाभागवतपुराणमेव अत्रोपजीव्यत्वेन प्रतिपादयितुं शक्यते। अस्य पुराणस्य दशमस्कन्धे ऊनत्रिंशदध्यायेभ्य चतुस्त्रिंशध्यायान् यावत् कृष्णस्य गोपिकाभिस्सह रासलीला वर्णिताऽस्ति। अतः एव अस्याध्यायस्य नाम “रासपञ्चाध्यायी” इति निर्दिश्यते। अत एव भगवतः श्रीकृष्णस्य पञ्चप्राणाः इत्यपि कथ्यते। परन्तु तत्र श्रीराधायाः नाम कुत्रापि नोपलभ्यते। केचन समालोचकाः वदन्ति यत् “राधा” इति शब्द अस्ति तस्मिन् शब्दे तादृशी ह्लादिनीशक्तिरासीत् येन हेतुना तच्छब्दश्रवणमाश्रेण उच्चारणमात्रेण वा भागवतस्य प्रवक्ता श्रीशुकदेव विवशतायां मूर्च्छिते भवति स्म।
एतेषां सर्वेषामालोचनात्प्राक श्रीराधा- कृष्ण– वृन्दावन – सहचर्यादिविषये बहोः कालात्प्राक् साहित्यशास्त्रे, ज्योतिशशास्त्रे, तत्तशास्त्रे, पुराणे च प्रतिपादिता सन्ति। अतः तत्तद्विषयप्रतिपादकानि तत्तकाव्यानि शास्त्राणि, पुराणानि च श्रीगीतगोविन्द रचनायां प्रभावोत्पादकानि सन्ति इति वक्तुं शक्यते। सा रमणी राघैव नापरा। तत्र भागवते उच्यते –
अनयाराधितो नूनं भागवान् हरिरीश्वरः।
यन्नो विहाय गोविन्दः प्रीतो यमनयद्रहः ॥
(श्री.म.भा,द.स्क-१॰.३॰.२८)
अत्र अनया राधितः इति पदेन राधाशब्दस्य सूचना लभ्यते। केचन टीकाकाराः अनया राधितः इति पृथक् पदप्रयोगेण राधित इति इत्च प्रत्ययेन पदं सम्भावयत्नि। जयदेवकृतगीतगोविन्दमहाकाव्ये भागवतोक्तानां मत्स्य –कुर्म- वराह- नृंसिह- वामन- परशुराम- बलराम- बैद्ध – कल्क्य इत्यादि अवताराणां वर्णनामुपलभ्यते।
श्रीकृष्ण ललित- माधुर्य- कोमल-कान्त- विनम्र- सात्विक- भक्तिस्वरुपो नायको भवति। तदाराधन निखिलकल्मषविनाशनाशः जायते। तेन सह श्रीराधिकायाः आरधनं तु चतुर्वर्गसारभूतं मोक्षं ददाति। काव्येऽस्मिन् मुख्यतया नन्दनन्दस्य विश्ववन्दनस्य गोपिकाहृदतटचन्दनस्य भगवतःवृषभानुनन्दिन्या विश्ववन्दिन्या महाभावस्वरयपिन्या वररमण्या स्वरुपिण्या आदिशक्तिस्वरुपिण्या श्रीराधिकाया सार्द्धमपाकृतमतिन्दियप्रेम एव उपवर्ण्यते। परन्तु सन्दर्भेऽस्मिन् तयोः राधाकृष्णयोः सम्बन्ध जीवपरमयोरमात्मनोः वा सम्पर्क इति प्रतिपादयितुं प्रयासः विद्यीयते। अभिज्ञानां मान्यानां गण्यानां वरेण्यानां सहृदयानां च पिरतः तत्विचारविमर्शार्थं सादरमुपस्थाप्यते। श्रीराधाकृष्णपदारविन्दद्वन्द्वमकरन्दपानलोलुपः वरमधुपः केन्दुविल्वाकाशसंपुर्णाद्धुपः जयदेवः तस्य गीतगोविन्दस्य निसर्गसुन्दरस्य प्रथमसर्गस्य सप्तमश्लोके विलिखति –
वसन्ते वासन्तीकुसुमसुकुमारैखरवै-
भ्रमन्तीं कान्तारे वहुवहतकृष्णानुसरणम् ॥(गी.गो.- १/२)
अर्थात् कोमलकुसुमसदृशौरङ्गैः वारङ्गना वरानना जीवस्वरुपिणी श्रीराधा श्रीकृष्णमनुसरन्ती कान्तारे विरचति। कायक्लेशस्वीकारं विना कथमपि जीवात्मापरमात्मानं प्राप्तुं नार्हति। यदा सः विषयसुखसंकुले कान्तारे विचरति तदा तस्य चितं सततशङ्काकुलमस्ति। इष्टप्राप्तौ एव सः निर्भयः भवति। यथाह माघकाव्ये महाकविमाघः-
उदीर्णरागप्रतिरोधकं जनैरबीक्ष्णमक्षुर्ण्णतयाऽतितदुर्गमम् ।
उपेयुषो मोक्षपथं मनस्विनस्त्वमग्रभूमिर्निरपायसंश्रया ॥
(मा.का –५/२)
प्रसङ्गेऽस्मिन् यतीन्द्रः नारदः उपेन्द्रस्य पुरतः परिप्रकाशयति यत् मोक्षमार्गः अत्यन्तं सङ्कटसङ्कुलः। यथा- किं त्वत् पान्थः चौरः हिंस्त्रः स्वापदपरिपूर्णेन पथा गच्छन् भीतिमनुभवति, तथैव भक्तः संसारवासनायाः प्रतिरोधकम् अनभ्यासतया अत्यन्तं दुर्ग मोक्षमार्गमाश्रीत्य अधीरोभवति, परन्त्वभयवरदायिनं परमात्मानं प्राय स्थिरीभवति। तद्वत् विरहविधूरारुपिणी श्रीराधा सर्ववाधामतिक्रम्य परमात्मनं श्रीकृष्णमवाप्य आनन्दातिशयेन आत्मानमपि विस्मरति। पुनश्च स व कवीजयदेवः तस्य प्रथमसर्गस्य तृत्तीये गीते बर्णयति-
विहरति हरिरिह सरसवसन्ते।
नृत्यति युवतिजनेन समं सखि, विरहिजनस्य दुरन्ते॥(गी.गो -१/२/१)
अर्थात् इष्टाप्रप्त्यर्थं न केवलमेव जीवस्वरुपा राधा उन्मादिनी, अपितु परमात्मा कृष्णस्तु भगवान् स्वयमपि तस्याः कृतविचलितः व्यथितः सन्नपि कथमपि आत्मानं निगृह्य अनेकाभिः जीवात्मास्वररुपाभिः गोपिकाभिः सार्द्ध वृन्दावने रासे रसति। रासस्तु जीवपरमयोरैकानुभूतिः नान्याः। नारदपञ्चरात्रे यथार्थमुच्यते –
हरेरर्द्धतनुराधा राधिकार्द्धतनुर्हषरिः ।
अनयोरान्तरदर्शी मूर्त्यवचच्छेदकोऽधमः ॥(गी.गो –१/१)
अर्थात् श्रीकृष्णस्य अर्द्धाङ्गस्वरूपा स्वरूपा श्रीराधा राधायाश्चाप्यर्द्धाङ्गस्वरुपः परमपुरुषः श्रीकृष्णः। उभौ मिलित्वा स्वयंसम्पूणौ भवतः। एकं विना अपरः सर्वथा अपूर्णः। एकाकी परमात्मा श्रीकृष्णः विश्वेऽस्मिन् न रमते। अतः क्रीडार्थ तेन स्वतनुः द्विधा कृतम्। कथितं च
– तस्मात् ज्योतिरभूद्विधा राधामाधवरुपकम्। (गी.गो.-१)
अर्थात् जीवपरमौ एकाभिनौ। जीवः ब्रह्मव नापर इति शङ्कराचार्येण निःशकं यदुक्तं तत्रैव संगच्छते। का सा राधेति पृष्टे सति उत्तरयति देवीभागवतम् –
कृष्णप्रणाधिदेवी सा तदधीनो विभुर्यतः।
रासेश्वरी तस्य नित्यं तया हीनो न तिष्ठति ॥(गी.गो -११/३)
पुनः मनसः स्वाभाविकी अनिमित्ता निवृत्यात्मिका सात्त्विकवृत्तिः तु भगवती भक्तिः। अष्टविधा भक्तिविषये श्रीगौतमीयतन्त्रे प्राप्यते। (श्रीगौतमीयतन्त्रे, शब्दकल्पदृमः काण्डः३,पृ.६३)। पुनः नवलक्षणात्मिकायाः भक्तिर्विषये श्रीमद्भागवतस्य सप्तमस्कन्धे श्रीप्रह्लादोक्तौप्राप्यते।
देवी राधिका कृष्णप्राणाधिष्ठात्री परमा शक्तिः भगवान् कृष्णः सदा तस्यान् अधीनः तया हीनः कृष्णः मुहूर्त्तमपि न तिष्ठति। स्कन्दपुराणमपि सानन्दं निगदति –
आत्मा तु राधिका तस्य तयैव रमणादसौ।
आत्मारामतया प्राप्तौ कथ्यते गूढवेदिभिः ॥ (स्क.पु.-पु -२/२२)
अर्थात् कृष्णस्य आत्मा श्रीराधा, कृष्णः सततमात्मरूपिण्या तया सह रमते। अतः स आत्माराम इति कथ्यते। अतएव जीवेन सह परमस्य आत्मना सह परमात्मानः वा सम्पर्कः भूशं निविडः। पुनश्च गीतगोविन्दस्य तृतीयसर्गस्य प्रथम श्लोके वर्णयति कविः –
कंसारिरपि संसारवासनावद्धश्शृङ्खलाम् ।
राधामाधाय हृदये तत्याज ब्रजसुन्दरीः ॥ (गी.गो -३/१)
संसारवासनास्वरुपां शृङ्खलामिव ब्रजवालां राधां स्वहृदये निधाय कृष्णः वीततृष्णः सन् अन्याः सर्वाः गोपनितम्बिनीः विसर्जयामास। अर्थात् जीवरुपिणी श्रीमती परमरुपिणं श्रीपतिमनवरतं हृदये कृत्वा स्मरेति। फलेन परमात्माऽपि जीवात्मानं स्वहृदयकन्दरे सादरं स्थानं प्रददाति। अर्थात् यदि जीवः कायेन मनसा वाचा स्वस्यऽभीष्टमभीक्षणं स्मरति तस्य क्रियायाः विपरीतक्रियारुपेण इष्टेऽपि उपासकं स्मरतीति तत्त्वमत्र स्पष्टीक्रियते। श्वेताश्वेतरोपनिषदि यथार्थ कथ्यते –
परस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलवत्या च। (श्वो.उ- २/१५)
अर्थात् शाक्तिं शाक्तिमन्तमन्तरा कोऽपि विभेदः नास्ति। यथाह देवीभागवते –
सदैकत्वं न भेदोऽस्ति लर्वदैव समास्य च।
योऽसौ साऽहमहं योऽमहं योऽसौ भेदोऽस्ति मतिभ्रमात् ॥(दे .भा- ४/५)
अर्थात् शक्तिमत् ब्रह्म सर्वशक्तिस्वरुपिणीं मां चान्तरा कोऽपि प्रभेदः न विद्यते. सः यः साऽहम्। अहं या सः खलु सः, कारणादस्मात् राधातापिन्युपनिषदि यथार्थमुपवण्यते –
येयं राधा यश्च कृष्णो रसाव्धिर्देहश्चैकः क्रीडनार्थ द्विधाभूत्।
देहो यथा छायया शोभमानः शृण्वन् पठन् याति तद्धाम शुद्धम् ॥
(आ.पु.-५/२४)
अर्थात् या राधा सोऽपि कृष्णः सोऽपि राधा क्रीडानार्थमेव तयोः रुपत्वग्रहणम्। वास्तवतः तौ द्वौ एकावभीन्नौ अर्थात् यश्च जीवः स एव शिवः, यो वा आत्मा स एव परमात्मा। राधायाः अपराः याश्च सख्यः सन्ति ताश्च गोपीरुपेण तया सहावतीर्णाः सत्यः कृष्णचन्दं सततं संसेवन्ते। आदिपुराणे इदं यथार्थं प्रतिपादितम् –
याः शक्तयः समाख्याता गोपिरुपेण ताः पुनः।
सख्यो भूत्वा राधिकायाः कृष्णचन्द्रमुपास्यते ॥
जीवस्वरुपायाः श्रीराधायाः भावं गृहीत्वा परमात्मा परेशः भावग्राही कथमधीरां भवति तदृश्यतां वर्णितं गीतगोविन्दकारेण –
किं करिष्यति किं बदिष्यति सः चिरं विरहेण ।
किं जनेन धनेन किं मम किं गृहेण कि सुखेन॥ (गी.गो –३/१)
परमेश्वरः परमात्मा चिन्तयति यत् मत् समीपात् विच्युता सती जीवात्मरुपिणी श्रीमती किं वा कुर्वन्ति किं वा वदेत, कथं वा जीवेत, तदहमपि चिन्तयितुं न शक्नोमि। तया विनाऽपि श्रीपतिः स्वस्य धनं जनं गृहं सर्वमपि तृणाय मन्यते, तुच्छमिति विचारयति। अतः केनोपाये जीवः परमसमीपं समागमिष्यति, तस्योपायं स्वयं परमात्मा एव विधास्यति। इष्टप्राप्त्यार्थं जीवः कथं व्याकुलितो भवति, तस्य प्रकृष्टोदाहरणं प्रदीयते कविना जयदेवेन गीतगोविन्दस्य चतुर्थ सर्गे। यत्र तेन वर्ण्यते –
सा रोमाञ्चति सीत्करोति विलपत्यत्कम्पते ताम्यति
ध्यायत्युभ्रमति प्रमिलति पतत्युद्याति मुर्च्छत्यपि।
एतावत्य तनुज्वरे वरतनु जीवेन्न किं ते रसात्
स्वर्वैद्यप्रतिम प्रसिदति यदि त्यक्तोन्यथा हस्तकः॥(गी.गो –४/१)
अत्र श्री राससहचरी माधवं सम्बोध्य कथयति यत् जीवस्वरुपा सा परमात्मानं भवन्तम् अप्राप्य सात्विकभाववशात् रोमाञ्चिता भवति, कदा कदा वा सीत्कारं विदधाति। तव गुणगणान् स्मृत्वा विलपति, कदा वा तव विरहे क्षीणा तस्याः अङ्गलतिक असकृत् वेपते। तवाभावात् भावमयी सा सन्तापिता भवति। मनसा त्वां सर्वदैव स्मरति। त्वां मनुष्य उन्मादिनी इव इतस्ततः भ्रमति। नयने उन्मोच्य निमील्य च मानसमुकूरे तव प्रतिछविं वारंवारं पश्यति। कदा वा भूमौ लुठति। कदा कदा वा मूर्च्छाता भवति। सख्या प्राप्तविरहवाधाः राधायाः ये सर्वे गुणाः भणिताः ते सर्वे युगपत् प्रेमिकायां मुमुक्षौ भक्ते च दृश्यन्ते। एते सर्वे आलङ्कारिकभाषायामष्टौ सात्विकाः निगद्यन्ते। शेषे विरहव्यथिता प्रियवनिता कीर्त्तिजासुता स्वस्याः प्रियदयितसदनमगच्छत् इति वर्णितमस्ति भक्तकविना जयदेवेन उक्तम् –
सा ससाध्वस सानन्दं गोविन्दे लोललोचना।
सिञ्जानमञ्जुम्यिरं प्रविवेश निवेशनम्॥(गी.गो- ११/७)
अर्थात् सखीवाणीमाकर्ण सुमुखी श्रीराधा पयरमृज मुखरितं कृत्वा श्रीकृष्णमुखमालोक्य सानन्दं केलिगृहं प्रविवेश। अतएव जीवात्मा स्वस्य साधनया निष्ठया भक्त्या च अवशेषे अवश्यं परमपदमाप्नोति। ब्रह्मवित् ब्रह्मैव भवतीति नीत्यनुसारं जीवः परमे विलीनः सन् परम एव भवति। यथाह विवेकचुडामणौ श्रीशङ्काराचार्यः।
क्षीरं क्षीरे यथा लिप्तं तथा तैले जलें जले।
शंयुक्तंमेकां याति तथात्मन्यात्मविन्मतः ॥(वि.चु –२/३)
अर्था क्षीरं यथा क्षीरे, तैलं यथा तैले, जलं यथा जले मिलित्वा एकाकारोभवति। तथैव जीवः परमेण सह राधा कृष्णेण सह मिलित्वा तद्वदेव भवति।
भकितत्त्वम् –
भजते इति भक्तिः। भज् धातोः क्तिन्प्रत्ययान्तः भक्तिशब्दः सेवा-श्रद्धा- पूज्ये, अनुराग-ईश्वरे परानुरक्तिउपासनद्यर्थेषु प्रयुक्तः। परमेश्वरविषये परमप्रेमभावस्य साधनभूतोऽयं शब्दः। भक्तिः प्रीतिभावमुत्पादयति, द्रढीभूता एव हृदये तिष्ठति। पुनः मनसः स्वाभाविकी अनिमित्ता निवृत्यात्मिका सात्त्विकवृत्तिः तु भागभक्तिः।भारतीयसंस्कृतेः विकासे भक्तिपरम्परायाः महत्त्वपूर्ण स्थानम् वर्तते। भक्तिः मनुष्यस्य भगवता सह भावात्मकसम्बन्धं स्थापयति। गीतगोविन्दे राधाकृष्णयोः सम्बन्धः माधुर्यभावेन चित्रितः। राधा भक्तहृदयस्य तथा कृष्णः परमात्मनः प्रतीकरूपेण स्वीकर्तुं शक्यते। राधायाः विरहः भगवद्वियोगस्य पीडा, कृष्णमिलनं च परमात्मप्राप्तेः आनन्दस्य प्रतीकं भवति। अनेन गीतगोविन्दं भक्तेः भावात्मक-अनुभवस्य काव्यात्मकं रूपम् इति कथयितुं शक्यते। गीतगोविन्दस्य प्रभावः उत्तरकाले वैष्णवभक्तिपरम्परायां विशेषरूपेण दृश्यते। राधाकृष्णभक्तेः माधुर्यभावस्य प्रसारे अस्य योगदानं महत्त्वपूर्णम्। अष्टविधा भक्तिभिः ये श्रीगौतमीयतन्त्रे प्राप्यन्ते। पुनः नवलक्षणात्मिकायाः भक्तिर्विषये श्रीमद्भागवतस्य सप्तमस्कन्धे श्रीप्रह्लादोक्तौ प्राप्यते। यथा –
श्रवणं कीर्त्तनं चैव स्मरणं पदसेवनम्।
अर्चनं वन्दनं सख्यं दास्यमात्मनिवेदनम्॥(श्री.म.भा.म- ७.५.२३)
अथ गीतगोविन्दे नवधा भक्तिः –
स्मरणम् – यदि हरिस्मणे मनः सरसं जायते तर्हि गीतगोविन्दं शृणोतु जयदेवेनोक्तम् –
यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम्।
मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥ गी.गो (१.३)
वन्दनम् –दशावतारवर्णने तथा श्रितकमलाकुचमण्डल.. ..इत्यत्र हरिस्तुतिः भवति।
सख्यम्-राधां प्रति सख्युक्तिः भवति वसन्ते वासन्तीकुसुमसुकुमारैरवयवै……इत्यत्र
(१.२.१०.)।
आत्मनिवेदनम् –
हरिचरणशरणजयदेवकविभारती।
वसतु हृदि युवतिरितिरिव कोमलकलावती ॥ (गी.गो. -गीत-१३,पद-८)
इत्यत्र कवेर्जयदेवस्यात्मानिवेदनं भवति।
सन्दर्भग्रन्थसूची
- जयदेवः – गीतगोविन्दम्
- श्रीमद्भागवतमहापुराणम् – दशमस्कन्धः, त्रिंशत्तमोऽध्यायः
- महाकविः माघः – माघकाव्यम्
- महर्षिः वेदव्यासः – स्कन्दपुराणम्
- कृष्णयजुर्वेदः – श्वेताश्वेतरोपनिषद्
- देवीभागवतम्
- आदिपुराणम्
- आदिशंकराचार्य – विवेकचूडामणिः
- श्रीमद्भागवतमहापुराणम् – सप्तमः स्कन्धः, पञ्चमोऽध्यायः।
