भेदाध्यायसारसङ्ग्रहः
डा. ए. एस्. आरावमुदन्,
मीमांसाविभागः
एल्. बि. एस्. सं. वि. नवदेहली
सन्ति तत्र प्रमाणादयः द्वादशाध्यायाः भगवज्जैमिनिप्रणीतमीमांसाख्ये तन्त्रे। तादृशद्वादशलक्षणोपेतस्य शास्त्रस्य प्रतिपाद्यो विषयो भवति धर्मः। उक्तञ्च जैमिनीयन्यायमालायाम्-
“धर्मो द्वादशलक्षण्या व्युत्पाद्यस्तत्र लक्षणैः।
प्रमाणभेदशेषत्वप्रयुक्तिक्रमसंज्ञकाः।
अधिकारोऽतिदेशश्च सामान्येन विशेषतः।।
ऊहो बाधश्च तन्त्रञ्च प्रसङ्गश्चोदिताः क्रमात्।।”[1] इति।
तत्रादौ प्रमाणाध्याये विध्यर्थवादमन्त्रस्मृत्याचारनामधेयवाक्यशेषसामर्थ्यरूपाणि अष्टौ प्रमाणानि धर्मे निरूपितानि। अधुना तत्प्रमेयभूतं धर्मभेदस्वरूपं द्वितीयाध्याये निरूप्यते। “मानाधीनस्य धर्मस्य द्वितीये भेद उच्यते”[2] इति माला। द्वितीयाध्याये चत्वारः पादाः सन्ति। तत्रादौ क्रमशः आख्यातस्यैवापूर्वबोधकत्वं तथा अपूर्वस्य सदसद्भावत्वमित्यादिकं कर्मभेदचिन्तनोपयुक्तमुपोद्घातरूपेण वर्णितम्। तथा हि- क्रियाभिधायकात्मके चोदनावाक्ये विद्यमानेषु पदेषु एकस्मादेव अपूर्वम्, अन्यत्सर्वं तदर्थं भविष्यति इत्यादिना एकमेव अपूर्वम् इति निर्णीयते। एतच्चापूर्वं यजति, ददाति, जुहोति इत्यादिक्रियावाचकपदैरभिधीयमानभावशब्देभ्यः प्रतीयते, न तु द्रव्यगुणशब्देभ्यः। उक्तञ्च सूत्रकारेण- “भावार्थाः कर्मशब्दाः तेभ्यः क्रिया प्रतीयेत एष ह्यर्थो विधीयते।”[3] अतो भावशब्दाः अपूर्वस्य चोदकाः न तु द्रव्यगुणशब्दाः। एवं कर्मणामाशुतरविनाशित्वात् कर्मजन्यफलजनकम् अपूर्वं किञ्चित् कल्प्यते। कर्माणि तावत् गुणभूतानि प्रधानभूतानि इति द्विप्रकारकाणि सन्ति। यद्यपि तानि सर्वाणि अर्थवन्ति तथापि न सर्वेभ्यः अपूर्वं कल्पयितुं शक्यम्। अतो न सर्वाणि प्रधानकर्मणो वाचकानि। यत् कर्म द्रव्यं संस्कर्तुमुत्पादयितुं वासमर्थं भवति तत् कर्म प्रधानभूतं भवति,[4] परन्तु यादृशं कर्म द्रव्यं संस्कर्तुं निष्पादयितुं वा समर्थं भवति तादृशं कर्म गुणकर्म भवति।[5] अर्थात् प्रधानकर्मणि द्रव्यस्य गुणभूतत्वम्, गुणकर्मणि द्रव्यस्य प्रधानत्वमिति ज्ञेयम्। एवं क्रमेण मन्त्रब्राह्मणार्कसामयजुषां लक्षणानि पृथग्तयाभिहितानि।
पुनश्च वेदबोधितधर्मकर्मणां भेदबोधकानि शब्दान्तराभ्याससंख्यासंज्ञागुणप्रकरणान्तराणि षट्प्रमाणानि निरूपितानि। भावनाप्रयोजकानामाख्यातानां बहूनामेकैकधातुविशेषानुरक्तत्वेनैवोत्पन्नं भावनावाचित्वेन यागदानहोमभावनाः शब्दान्तरात् परस्परं भिद्यन्ते। शब्दान्तरत्वन्नाम परस्परविजातीयार्थकधातुरूपत्वमिति ज्ञेयम्। विधेरविशेषेण पुनः श्रवणम्, अनन्यपरविधिपुनः श्रवणम्, विशेषपुनःश्रवणमिति वा अभ्यासलक्षणम्। “समिधो यजति, तनूनपातं यजति, इडो यजति, बर्हिर्यजति, स्वाहाकारं यजति”[6] इत्यत्र यजतिपदाभ्यासेन कर्मभेदावगमः, कर्मैकत्वे अभ्यासस्य निरर्थकत्वात्। ततश्च कर्मभेदाद्भावनाभेदः, भावनाभेदादपूर्वभेदः इत्यवगन्तव्यः। “तिस्त्राहुतीर्जुहोति, सप्तदशप्राजापत्यान् पशूनालभेत”[7] इत्यादिषु संख्यया कर्मभेदो जायते। तत्र त्रित्वसंख्या आहुतिविशेषणत्वेन श्रुता, संख्येयं स्वाश्रयस्य कर्मणो भेदं विना निवेष्टुमशक्येति भेदमापादयति। एवमेव सप्तदश इत्यत्रापि संख्यया कर्मभेदोऽवगन्तव्यः। द्रव्यदेवतयोरेकत्वे कर्मैकत्वमाशङ्क्य संख्यान्वयविरोधात् तद्विरोधशमनार्थं संख्यया कर्मभेदः अङ्गीकृतः।
प्राजापतिर्देवता अस्येति प्राजापत्यः, प्राजापत्यश्च प्राजापत्यश्च प्राजापत्यश्च प्रजापत्याः। एवञ्च द्रव्यदेवतासम्बन्धानां बहुत्वात् यावन्तः सम्बन्धाः तावन्तो यागाः सन्ति। प्रकृते च सप्तदशसंख्याविशेषिता इति सप्तदशयागाः सम्पद्यन्ते। “अथैष ज्योतिः अथैष विश्वज्योतिः अथैष सर्वज्योतिः अनेन सहस्रदक्षिणेन यजेत”[8] इत्येऽतस्मिन् वाक्ये ज्योतिरादिभिः संज्ञाभिः प्रसिद्धज्योतिष्टोमयागाद्भिन्नाः यागाः संज्ञाख्यकर्मभेदाद्विधीयन्ते इति अवगन्तव्यम्। यद्यपि वाक्येऽस्मिन् सहस्रदक्षिणेन यजेत इति सकृदेव श्रूयते, तथापि अथ शब्दोच्चारणसामर्थ्यात् कर्मत्रयं ज्योतिरादिसंज्ञात्रयभिन्नं विधीयत इति स्वीक्रियते। तथा हि अथैषः ज्योतिरेतेन सहस्रदक्षिणेन यजेत अथैषः विश्वज्योतिरेतेन सहस्रदक्षिणेन यजेत अथैषः सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेत इति कर्म तावत् परस्परं भिद्यते। चातुर्मास्येषु वैश्वदेवाख्ये प्रथमे पर्वणि “तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमिति,”[9] वाक्यं श्रूयते। अत्र विश्वेदेवदेवता आमिक्षाद्रव्यसम्बद्धः यागः प्रथमवाक्यादवगम्यते, “वाजिभ्यो वाजिनमि”-त्यनेन वाजिनद्रव्यकं यागान्तरं विधीयत इति। अतितप्ते पयसि दधिप्रक्षेपे सति जायमानं घनीभूतं द्रव्यमामिक्षाशब्देनोच्यते, तक्रसदृशं द्रवीभूतं तु द्रव्यं वाजिनशब्देन। अत्रामिक्षारूपोत्पत्तिशिष्टगुणो विश्वदेवदेवतासम्बद्धयागात् वाजिनाख्योत्पन्नशिष्टयागः गुणाख्यकर्मभेदबोधकप्रमाणाद्भिद्यते। उत्पन्नशिष्टगुणादुत्पत्तिशिष्टगुणस्य प्राबल्यात्। कुण्डपायिनामयनमिति नामके संवत्सरसाध्यसत्रयागे “उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहोति” इति किञ्चिद्वाक्यं श्रूयते। उपसत् संज्ञकं कर्म कृत्वा मासं यावत् अग्निहोत्रकर्मणः अनुष्ठानं कर्तव्यमिति अस्ति तात्पर्यं वाक्यस्य।
अत्रैतद्वाकास्य सन्निधौ किमपि कर्म पूर्वं नाभिहितम, तस्मादपूर्वकर्मसन्निधानात्मकेन प्रकरणान्तरेण प्रसिद्धस्याग्निहोत्रकर्मणः धर्मैर्युक्तमन्यदेवाग्निहोत्रसंज्ञकं कर्म, अनेन वाक्येन विधीयते। तदेवं शब्दान्तरम्, अभ्यासः, संख्या, संज्ञा, गुणः, प्रकरणान्तरमित्येतैः कर्मभेदप्रमाणैः कर्मभेदः प्रदर्शितः। एवं कर्मभेदे निरूपिते तदपवादोऽपि “ज्योतिष्टोमेन स्वर्गकामो यजेत”[10] इति वाक्यप्राप्तज्योतिष्टोमप्रकृत्य “यदि रथन्तरसामा सोमः स्याद् ऐन्द्रवायवाग्राना ग्रहान् गृह्णीयात्, यदि बृहत्सामा शुक्राग्रान्, यदि जगत्सामा आग्रयणाग्रान्” इत्यादिवाक्यप्राप्तरथन्तरसाम्नो वृहत्साम्नश्च ज्योतिष्टोमस्याभिधानम्, न त्वेतैः कर्मान्तरं विधीयते इति “एकस्य तु लिङ्गभेदात् प्रयोजनार्थमुच्येतैकत्वं गुणवाक्यात्”[11] इत्यादिभिः सूत्रजालैः प्रदर्शितः। एवं क्रमेण “यावज्जीवमग्निहोत्रं जुहोति”, “यावज्जीवं दर्शपूर्णमासाभ्यां यजेत” इत्यादिवाक्यप्राप्तस्य जीवनस्य पुरुषधर्मत्वात् नित्यकाम्यप्रयोगौ भिन्नौ इति “क्रतुर्वा श्रुतिसंयोगात्”[12] इत्यादिसूत्रैः सिद्धान्तितम्। अन्ते काटकम्, कालापकम्, पैपलादकम्, इत्यादिषु शाखान्तरेषु पृथक्पृथग्तया श्रूयमाणं सर्वशाखाप्रत्ययं सर्वब्राह्मणप्रत्ययञ्च कर्म एकमेवेति “एकं वा संयोगरूपचोदनाख्यविशेषात्”[13] इत्यादिभिः सूत्रैः सर्वशाखाप्रत्ययैककर्मत्वं व्यवस्थापितं सिद्धान्तितञ्च। इत्थं क्रमेण मीमांसाशास्त्रस्य द्वियीयाध्याये प्रतिपाद्यविषयाः।।
वाक्योद्धारः
[1] जैमिनीयन्यायमाला- प्रथमाध्यायः, श्लोकः, 11,12
[2] जैमिनीयन्यायमाला- द्वितीयाध्यायः श्लोकः, 1
[3] जैमिनिसूत्रम्-2-1-1
[4] जैमिनिसूत्रम् 2-1-7
[5] जैमिनिसूत्रम् 2-1-8
[6] तैत्तिरीयसंहिता-2-6-1
[7] तैत्तिरीयब्राह्मणम्- 1-3-4
[8] तैत्तिरीयब्राह्मणम्- 16,8,9,10,11
[9] तैत्तिरीयब्राह्मणम्- 25-4-1
[10] तैत्तिरीयब्राह्मणम्- 18-7-1
[11] जैमिनिसूत्रम्- 2-3-2
[12] जैमिनिसूत्रम्- 2-4-2
[13] जैमिनिसूत्रम्- 2-4-9
परिशीलितग्रन्थाः
- मीमांसाशाबरभाष्यम्।
- मीमांसाश्लोकवार्तिकम्।
- तौतातिमततिलकम्।
- मीमांसान्यायप्रकाशः।
