[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

मुरारेस्तृतीयः पन्थाः

डा. कोगण्टि. रामानुजाचार्यः
व्याकरणाचार्यः 

संस्कृतदृश्यकाव्येषु अन्यतमं, शास्त्रवासनावासितं, विलक्षणञ्च भवति मुरारिकविना विरचितम् अनर्घराघवनाटकम्। रामायणादितिवृत्तमादृत्य, गौडीयां रीतिं समादृत्य, प्रौढरचनया समलङ्कतं वीररसप्रधानमनर्घराघवं नाम नाटकं विरचय्य प्रतिभाव्युत्पत्त्यभ्यासैः प्रतिभासमानोऽयं कविः स्वीयनाटके अनर्घराघवे सरस्वतीम्

धातुश्चतुर्मुखी कण्ठशृङ्गाटकविहारिणीम्

नित्यप्रगल्भवाचालामुपतिष्ठे सरस्वतीम् ।।१

इति मुदुमधुरगभीरया वाचा तुष्टाव अत्र स्तुतावपि प्रगल्भवाचालां सरस्वतीम् उपतिष्ठे इत्येवं वाचालशब्दप्रयोगेण (वाचां लातिआदत्ते इति वाचाला) स्वीयशब्दप्रयोगवैलक्षण्यं प्रादर्शत्। तथैव वाल्मीकिमपि   तमृषिं मनुष्यलोकप्रवेशविश्रामशाखिनं वाचां

सुरलोकादवतारप्रान्तरखेदच्छिदं वन्दे ।।२

इत्यनितरसाधारणकविकल्पनालङ्कारेण पर्यभूषयत्

संस्कृतसाहित्यप्रपञ्श्चे कश्चित् सुप्रसिद्धाभाणको मुरारेस्तृतीयः पन्थाः इति। सर्व लक्षणलक्षितं भासभवभूतिकालिदासनाटकीयपथमुत्सृज्य कविरयं स्वीयनाटकरचायां स्वतन्त्रपथमेवानुससार शास्त्रवासनावासिते नाटकेऽस्मिन् प्रतिपादितं प्रतिपदं प्रतिभाव्युत्पत्ति सम्पन्नां कवेरस्य रचनासरणिमभिव्यनक्ति। व्यङ्ग्यप्रधानरचनानिपुणः कालिदासः, वाच्यप्रधानः भवभूतिः, किन्तु कल्पनाप्रधानोऽयं मुरारिरिति अस्य तृतीयः पन्थाः सम्यगवगम्यते प्रौढपरीपाकरचनासंविधानात् नाटकस्यास्य विद्वज्जनपरितोषिकारिता नितरां बोभवीति अनर्घराघवमपहाय मुरारिकर्तृकत्वेन काव्यानामथवा नाटकानां चान्येषां प्रचारो वर्तते किन्तु संस्कृतसाहित्यजगति मुरारेः विलक्षणं समुन्नतं पदं वरीवर्ति अतः मुरारेः तृतीयः पन्थाः इति विद्वदुक्तिः केवलमनर्घराघवनाटकेनेति विभाव्यते नाटकेऽस्मिन् अङ्काः सप्तैव भासभवभूतिजयदेवादीनां रामायणकथाधारनाटकेष्वपि सप्तैवाङ्काः। पण्डितसदसि, गीर्वाणवाणीकवितायां मुरारिश्रीहर्षयोरेव महोन्नतस्य स्थानस्य महीयमानत्वात् पण्डितप्रकाण्डानां या शास्त्रवासना, या शाब्दिकप्रियता, या अनुपमेयकल्पनाचातुरी बोभवीति तेषां सर्वेषां गुणानामाकर इव मुरारिनाटकस्यैव परिलक्ष्यमानत्वाच्च नाटकस्याऽस्य वैशिष्ट्यं सुष्ठु विस्पष्टं भवति। केचन, मीमांसाशास्त्रप्रवर्तकयोः भाट्टप्राभाकरयोः मते निराकृत्य तृतीयमतस्य स्थापनात् मुरारेस्तृतीयः पन्थाः इति विद्वदुक्तिं विभावयन्ति। तर्हि मीमांसाशास्त्रग्रन्थजातमपि कविना विरचितं भवेदिति सम्भाव्यते अथवा अयं मुरारिः अन्यः मीमांसाकारात् भिन्नः इति वक्तव्यम्। एवमेव काव्यप्रकाशव्याख्यातुः भीमसेनदीक्षितस्य सुधासागरे मुरारिमिश्रनामकस्य अन्यस्य व्याख्यातुः निर्देशः बहुत्र लक्ष्यत इति हेतोः मुरारिमलङ्कारग्रन्थप्रणेतारमिव केचित् वदन्ति  किन्तु नाटककर्तुः मुरारेरपेक्षया, मीमांसालङ्कारादिशास्त्रप्रसिद्धः मुरारिमिश्रः अपर एवेति सूक्ष्मक्षिकया नाटकस्य परिशीलनेन अवगम्यते

अनर्घराघवनाटकसमीक्षणेनाप्यस्य तृतीयापद्धतिः विशदीभवति व्यङ्ग्यवाच्यभिन्ना काल्पनिकी शैली मुरारिणाऽऽदृता। मुरारेः प्राक्तनाः आलङ्कारिकाः सर्वेऽपि वैदर्भीं गौडीयामेव रीतिं३  समाद्रियन्ते। अनेन तु पाञ्चाली चेति तृतीयायाः रीतेरप्याश्रयणेनाऽस्य तृतीयः पन्थाः सुस्पष्टं भवतीति केचन वदन्ति

साधारणतया साहितीलोके प्रयुज्यमाना शैली द्विप्रकारा परिगण्यते सम्भाषणप्रचुरा, वर्णनप्रचुरा चेति तत्र सम्भाषणप्रचुरा रचना नाटकेषु, वर्णनप्रचुरा रचना श्रव्यकाव्येषु चाऽद्रियते। सम्भाषणप्रचुरायाः रचनायाः मनोहरमुदाहरणं मृच्छकटिकम् इति विमर्शकाणामभिप्रायः। वर्णना प्रचुरा रचना गद्यप्रबन्धेषु प्रसिद्धैव, यथा कादम्बरीकाव्यम्। एवं द्विप्रकारकरचनायाः भेदे जागरूकेऽपि केचन श्रव्यकाव्ये सम्भाषणप्रचुरायाः नाटकीयरचनायाः प्रयोगं, केचन नाटकेष्वपि वर्णनाप्रचुरायाः प्रबन्धशैल्याः समादरणञ्च कुर्वन्ति एवं स्थिते कविरयं मुरारिरुभयोरपि रचनयोः रुचिरतरं सम्मिश्रणं चकारेत्यनर्घराघवनाटकं विमृशतां मुरारेस्तृतीयः पन्थाः दृग्गोचरो भवति

एवं नाटकरचनानिर्माणव्यवसितेन मुरारिणा रचनाविषये तृतीयविलक्षणसरणेः आश्रयणात् मुरारेस्तृतीयः पन्थाः इत्यार्योक्तिः काव्यादिषु कवीनां मनोव्यापारः वर्णनाविषये पाठकानां प्रत्यक्षीभवति नाटकादिषु कविः स्वपरिकल्पितपात्रान्तरितो भूत्वा पाठकानां दृग्गोचरो भवति। अत एव नाटकादिषु प्रयुज्यमानायाः रचनायाः भिन्नशैली काव्यादिषु प्रयुज्यते किन्तु कविरयं मुरारिः नाटकीयभाषां श्रव्यभाषाञ्च युगपत् प्रयुज्य सम्भाषणावसरे वर्णनावसरे चात्मानं प्रकटय्य नाटकजगति स्वीयं तृतीय . पन्थानं प्राकटयत्। प्रातःकालिकशोभां वर्णयन् कविरयं 

लूतातन्तुवितानवर्तुलमितो बिम्बं दधच्चुम्बति

इति प्रातःकाले निर्गतकान्तिरयं चन्द्रमाः लूतातन्तुवितानवत् प्रतीयमानोऽम्बरतलात् : निर्गत्य चोरहृतवस्त्रादिः पुरुषः दिवा शैलादौ यथा निलीयते, तथा प्रोषितकिरणत्वादस्ताद्रिमाश्रयते इत्येवंपूर्वकल्पनाचातुरीप्रयोगेण स्वीयं तृतीयं पन्थानमावेदयामास  

अपि तृतीयः पन्थाः इत्यस्यापमार्गः इति प्रतीतिः। कवेरस्य केचन वर्णनाविशेषाः श्रोत्रियाणां मनःखेदमुत्पादयन्ति शुनश्शेफो नाम कश्चन मन्त्रद्रष्टा मुनीश्वरः तन्नाम स्वीकृत्य, शुनश्शेफपशुमेद्रनामानौ विश्वामित्रशिष्यौ परस्परालापं   कुर्वन्तौ पाठकानां चित्तखेदमेव  जनयतः अतः शुनश्शेफपशुमेद्रनामपरिकल्पनेन मुरारेः तृतीयपथानुसरणं विज्ञातं भवति ब्रह्मसृष्टेः प्रतिसृष्टिकर्ता, मन्त्रद्रष्टा, विश्वामित्रो नाम सुप्रसिद्धो महामुनिः, चराचरजगत्साक्षिभूतं तेजःपुञ्जं, प्रचण्डकिरणं तं मुनिं – ‘ अयमपि खैरयोषित्कर्णकाषायमीषद्विसृमरतिमिरोर्णाजर्जरोपात्तमर्चिः।। इति गर्दभीकर्णवर्णसदृशं वर्णयामास अनया दृशा निन्दापूर्वकल्पनाचातुरीमभिलक्ष्यैव विद्वांसो मुरारेस्तृतीयः पन्थाः इति व्यवहरन्ति

तृतीयः पन्थाः इत्यस्यार्थः विशेषमार्गः, अपमार्गः इति वाऽस्तु अनेककाव्यनाटकनिर्मातृभिः भासभवभूतिकालिदासादिभिस्साकं समानस्कन्धतामेकेन नाटकेनैव कविरयमलभत इत्युक्तौ पूर्वोक्ताभाणकस्य  वस्तुस्थितिरवगम्यते

*****

. .रा..११ . .रा..१० .सा.. परि ..रा..२ ५..रा. द्वितीयाङ्ङ्के    ६.. रा .४५

 

सङ्केताक्षरपदसूची.रा = अनर्घराघवम्, सा.= साहित्यदर्पणम्

 

परिशीलितग्रन्थसूची

 

  1. अनर्घराघवम्मुरारि विरचितम्– ‘प्रकाशव्याख्योपेतंव्याख्याता आचार्य रामचन्द्रमिश्रः चौखम्बा विद्या भवन्, वाराणसी.
  2. अनर्घराघवम्मुरारि विरचितम्चूडामणि आन्ध्रव्याख्यानंश्री बेतवोलु रामब्रह्मम्तेलुगु विश्वविद्यालयम्, हैदराबाद्.

 

  1. 3. साहित्यदर्पणम्विश्वनाथकविराजविरचितम्व्याख्याकारःशेषराज शर्मा रेग्मीचौखम्बा

कृष्णदास अकाडमी, वाराणसी.

 

  1. 4. प्रतापरुद्रीयम्विद्यानाथकृतम्चौखम्बा संस्कृत प्रतिष्ठान, दिल्ली.

 

  1. 5. वैयाकरणसिध्दान्तकौमुदीभट्ट्टोजीदीक्षितकृताचौखम्बा संस्कृत प्रतिष्ठान्, दिल्ली.

 

  1. मृच्छकटिकम्- शूद्रककविविरचितम् भावप्रकाशिका व्याख्या प्रो. जयशङ्करलाल त्रिपाठी- कृष्णदास अकाडमी, वाराणसी.

 

  1. 7. कादम्बरीबाणबट्टविरचितम् चन्द्रकला, विद्योतिनी व्यख्याद्वयोपेता- पण्डित कृष्णमोहन शास्त्री., चौखम्बा कृष्णदास अकाडमी, वाराणसी.


 

[/vc_column_text][/vc_column][/vc_row]