रामभद्राचार्यविरचिते भृङ्गदूते मेघदूतस्य प्रभावः –एकं पर्यालोचनम्

अभिजित्-दासः
Assistant Professor, Department of Sanskrit
Dr. Gour Mohan Roy College, Monteswar, Purba Bardhaman, West Bengal, India
Mobile: 8972143774
Email: avijitdasavijit1993@gmail.com

  • संक्षिप्तसारः

लौकिकसंस्कृतसाहित्ये दूतकाव्यानां उत्पत्तिः महाकवेः कालिदासस्य मेघदूतात् आरभ्य भवतीति, अत्र नास्ति कोऽपि सन्देहः। संस्कृतदूतकाव्यसाहित्ये दूतसम्प्रेषणं सर्वजनविदितम्। दूतकाव्यानां प्रभावः संस्कृतेतरसाहित्यस्योपरि अपि दृश्यते। तत्र चेतनाचेतनदूतयोः मध्ये चेतनदूतानां विशिष्टस्थानमस्ति। परन्तु दूतकाव्येषु चेतनाचेतनतत्त्वानां दौत्यकर्मणि प्रयोगः भवेत्। अचेतनदूतकाव्यपरम्परायां सर्वप्रथमं दूतकाव्यं भवति धोयिकृतं पवनदूतमिति। अपि च दूतकाव्यानां मुख्यमुद्देश्यं भवति विरहिप्रणयिनः विरहिप्रणयिनीं प्रति, विरहिण्याः प्रणयिनं प्रति वा सन्देशप्रेषणम् एव। अनेनैव ज्ञायते यद् दूतकाव्यस्य अपरनाम सन्देशकाव्यमिति। दूतेन सन्देशप्रेषणं भवति दूतकाव्यस्य उपजीव्यः विषयः। गवेषणाक्रमेण अस्माकं स्थिरा धारणा जाता यत् बहुषु दूतकाव्यग्रन्थेषु बहूनि दूतकाव्यानि सन्ति। तेषु मेघदूतम्, भृङ्गदूतञ्च अन्यतममिति।

  • कूटशब्दाः -, मेघः, भृङ्गः, अचेतनतत्त्वः, वार्तावाहकः, दौत्यकर्मः, दूतकाव्यम्, सन्देशप्रेषणम् ।
  • भूमिका

समग्रसाहित्येषु भारतीयसंस्कृतसाहित्यः अतीवः प्राचीनः इति लोकविदित अस्ति। संस्कृतसाहित्यं वैदिकलौकिकभेदेन च द्विधा विभक्तमिति। लौकिकसाहित्यस्यापरः नाम ललितसाहित्यम् इति। लौकिकसाहित्यं पुनः दृश्यश्रव्यभेदेन द्विविधं स्यात्। यद् अभिनयप्रधानं तद् भवति दृश्यं, परन्तु यद् श्रवणयोग्यं काव्यं तद् श्रव्यकाव्यमित्युच्यते। पुनः श्रव्यकाव्यं गद्य-पद्य-चम्पूभेदेन त्रिधा विभक्तम्। अतः अस्मिन्नेव लौकिकसाहित्ये महाकाव्यं, खण्डकाव्यं, नाटकं, गद्यकाव्यं, पद्यकाव्यं, चम्पूकाव्यं प्रभृतयः उल्लिखिताः सन्ति। संस्कृतसाहित्यस्य ये केचन विभागाः वर्तन्ते तेषु दूतकाव्यसाहित्य अन्यतरः विशिष्ट इत्यत्र नास्ति कोऽपि सन्देहः। दक्षिणभारते तथा श्रीलङ्कायाम् ईदृशानि काव्यानि ‘सन्देशकाव्यम्’ इत्याख्यया व्यवह्रियन्ते। खण्डकाव्यं वा गीतिकाव्यं पाश्चात्याः विद्वांसः ‘लिरिक’ ‘कविता’ वेति कथयन्ति। गीतिकाव्यं खलु कोमलं तथा मधुरभावं गृहीत्वा सरल-सरस-भाषायां रचितम्। सन्देशकाव्ये प्रायः विरहीजनस्य वर्णनं मिलति। यत्तु प्रसादगुणगुम्फितवैदर्भी इति रीतिमाश्रित्य रचितमस्ति। दूतस्यार्थ अमरकोषे स्पष्टरूपेण उक्तं- “स्यातसन्देशहरो दूतः”। दूतेन सन्देशप्रेषणमेव एषां काव्यानां मुख्यविषयः। अनेनैव ज्ञायते काव्यमिदं सन्देश-काव्यम् दूतकाव्यं वेति। उभयोरर्थ एक एव। साहित्यदर्पणे खण्डकाव्यस्य लक्षणं भवति “खण्डकाव्यं भवेत्काव्यस्यैकदेशानुसारि च” इति लक्षणानुसारं खण्डकाव्यं भवेत् महाकाव्यस्यैकदेशानुवर्तिः। यथा मेघदूतादिः। संस्कृतसाहित्ये परिगणितं ‘गीतिकाव्यम्’ इति संस्कृतभारतीषु रमणीयं स्थानमधिरक्षति। अस्य काव्यस्योद्भवः भवति सामवेदः। यस्य प्रमुखं तत्त्वं भवति गेयत्वमिति। विषयेऽस्मिन् कथ्यते ‘गायन्ति इति सामगाः’। गीतिकाव्यम् आङ्गलभाषायां लिरिकशब्दस्य अनुवादरूपेण प्रयुक्तमिति। संस्कृतखण्डकाव्यं तु गीतिकाव्यपदवाच्यं भवेदिति दिक्। आधुनिकसमीक्षया ज्ञायते यत् खण्डकाव्ये तथा गीतिकाव्ये प्रभेदः अस्ति। यत्र खण्डकाव्यं भवेत् वस्तुतवर्णनपरकं, आत्माभिव्यक्तिप्रधानञ्चेति।

  • दूतकाव्यस्य स्वरूपः विकासश्च

अस्मिन् प्रपञ्चे सर्वतः प्राचीनग्रन्थः ऋग्वेद इति सर्वे विद्वांसः स्वीकुर्वन्ति। अतः वक्तुं शक्यते यत् संस्कृतवाङ्मये ऋग्वेदः भवति प्राचीनतमग्रन्थ एव। पुराणसाहित्ये दौत्यपरम्परायाः विकसितं रूपं परिदृश्यते। अपि तु पुराणसाहित्यपश्चात् महाभारतेऽपि दौत्यपरम्परायाः दिग्दर्शनं उल्लिखितम्। अत्रापि श्रीकृष्णस्य दूतकार्यं दौत्यपरम्परायाः उत्कृष्टं निदर्शनमिति। एवं महाभारतपश्चात् लौकिकसंस्कृतसाहित्यस्य आदिकाव्यं रामायणं सर्वप्रथममुल्लेखनीयम्। अत्रापि दौत्यपरम्परायां उदाहरणरूपेण प्रसङ्गद्वयं दृश्येते यथा- हनुमतः दूतकार्यम्, अङ्गदस्य दूतकार्यञ्चेति। बाल्मीकिकृते रामायणे किष्किन्धाकाण्डे वानराः सीतान्वेषणाय प्रस्थानं कुर्वन्ति। सीतान्वेषणाय प्रस्थितवानरसेनायां हनुमान् प्रतिभाशाली बुद्धिशाली शक्तिमांश्चासीत्। अतः श्रीरामेण हनुमान् दूतरूपेण सीतान्वेषणाय प्रेषितोऽभवत् इति दिक्। कालिदासस्य मेघदूतम् दूतकाव्यपरम्परायां पथिकृत् इति अनेके विद्वांसः मन्यन्ते। मेघदूतस्य साफल्येन उद्बुद्धाः परवर्त्तिनः अनेके कवयः दूतकाव्यानि रचयन्ति। अस्य ग्रन्थस्य विषयत्वेन गृहीतं स्वामिरामभद्राचार्यस्य भृङ्गदूतम् अपि भवति दूतकाव्येभ्योऽन्यतममिति। परन्तु काव्यकारः स्वामिरामभद्राचार्यः स्वस्य भृङ्गदूते विशुद्धप्रेममूलकं विषयवस्तु वर्णयति।

  • दूतशब्दस्य व्युत्पत्तिः
  • दूतशब्दस्य व्युत्पत्तिर्भवति- ‘दु-गतौ’+क्त(त)=दूतः। अर्थात् ‘दु-गतौ’ इति धातोः ‘क्त’ प्रत्यययोगेन‘दूत’ इति शब्दः निष्पद्यते।
  • दूतः, दूतकः (पुं.) (दु+क्त, दीर्घश्च, दूत+कन्) इत्यस्यार्थः सन्देशहरः, सन्देशवाहकः, राजदूतः वेति। अत्र राजदूतः बार्तावाहकः इति।
  • दूतिका, दूतीः (स्त्री.) (दू+ति+कन्+टाप्, दूति+ङीष्) इत्यस्यार्थः सन्देशवाहिका।

दूतस्य लक्षणनिरूपणावसरे मनुस्मृतौ आचार्येण मनुनोक्तम्-

“दूतं चैव प्रकुर्वीत सर्वशास्त्रविशादम्।

इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम्।।” इति।

  • दूतचयनम्

दूतकाव्ये विभिन्नैः साहित्यकारैः चेतनाचतनदूतयोः मध्ये सरसा कल्पना सञ्जाता। तत्र चेतनदूतरूपेण मयुरः, भृङ्गः, चातकः, हंसः, पिकः, काकः, कपोतः, वानरः, हरिणः, हनुमान्, चातकः, चक्रवाक्, शशकादयः सूच्यन्ते। पुनश्च अचेतनदूतरूपेण मेघः, मानसं, पत्रः, चन्द्रः, मलयः, पवनः, स्वप्नः, प्रज्ञा, स्मृतिः इत्यादयः निर्दिष्टाः सन्ति। महाकविकालिदासविरचिते मेघदूते अचेतनतत्त्वः, स्वामिरामभद्राचार्यविरचिते भृङ्गदूते तु एक चेतनतत्त्वः दूतरूपेण प्रकटितोऽभवत्। अतः दूतकाव्यस्य वक्ता कश्चन दूतः अथवा सन्देशविषयीभूतो नायकः नायिका वेति। दूतकाव्यसाहित्योद्भवस्य पर्यालोचना अतीव आधुनिक एव। प्रकाशितेषु बहुषु दूतकाव्यग्रन्थेषु बहुनि दूतकाव्यानि समुद्रितानि। दूतेन सन्देशप्रेषणमेव भवति दूतकाव्यानां मुख्यः विषयः।

  • भृङ्गदूत-मेघदूतयोः वस्तुसंविधानकौशलम्

मेघदूतस्य व्युत्पत्तिर्भवति- ‘मेघश्चासौ दूतश्च मेघदूतः, स एव अभेदोपाचारात् तत् सज्ञं काव्यम्।’ अथवा ‘मेघः दूतः यस्मिन् काव्ये तत् मेघदूतम्’ इति। खृष्टपूर्व-प्रथमशताब्द्यां मेघदूतस्य विरचना जाता। मेघदूते कश्चित् विरही यक्षः प्रियां प्रति मेघं प्रेषयति। अतः एव नायक-नायिकयोः मध्ये दूतरूपेण सन्देशप्रेषणं महाकविकालिदासस्य मौलिककल्पना एव। मेघदूतस्य भागद्वयं वर्तते यथा- पूर्वमेघ उत्तरमेघश्चेति। तत्र पूर्वमेघे नायकः विरहिरूपेण नायिका च विरहिणीरूपेण प्रकटितौ भवेताम्। अतः परं काव्येऽस्मिन् दूतदर्शनं, स्वागतं, प्रशंसा, शक्तित्वञ्चेत्यादीनां वर्णनं जातम्। अत्र हि कश्चिदभिशप्तः यक्षः स्वस्य प्रियायाः विच्छिन्न सन् रामगिरिपर्वते वासञ्चकार। तत्र आषाढस्य प्रथमदिवसे आकाशे भाषमानं मेघखण्डं दृष्ट्वा स्वप्रियायै सन्देशं प्रेषयितुमैच्छत्। अनन्तरं यक्षः रामगिरे आरभ्य अलकापुरीं यावत् मार्गं मेघस्य पुरः वर्ण्यते। अपि तु दूतानां वार्तासम्प्रेषणं ततः तेषां गन्तव्यस्थानावधिः मार्गचयनमिति प्रभृतयः विषयाः पूर्वभागे वर्णिताः स्युः। उत्तरभागे तु दूतस्य गन्तव्यनगर्य्याः, प्रेमिक-प्रेमिकयोः निवासस्थानस्य, तयोः विरहावस्थायाः वर्णनञ्चेत्यादीनि उपलभ्यन्ते। । दूतमुखेन उद्घोषितम् अलकानगर्य्याः प्राकृतिकसौन्दर्यं तथा सरसमनोहारी-दृश्यं मेघदूतकाव्ये कविकालिदासेन विस्तरेण उद्घोषितम्। अस्य काव्यस्य प्रेरणात्मक आधारभूतः ग्रन्थः भवति रामायणमिति, यत्तु टीकाकारेण मल्लिनाथेन प्रतिपादितमस्ति।

मेघदूतस्य सफलताया अनन्तरं विभिनैः कविभिरपि दूतकाव्यानि प्रणितानि सन्ति। एतेषु दूतकाव्येषु स्वामिरामभद्राचार्यस्य भृङ्गदूतं भवति अन्यतमम्। भृङ्गदूतम् इति ग्रन्थस्य प्रणेतुः स्वामिरामभद्राचार्य्यस्य जीवनादिविषये पूर्णं वृत्तान्तमपि उपलब्धं स्यात्। सः न केवलं कवि आसीत्। स एव भवति लोकप्रियः कथाकारः, समाजसेवकः, सनातनधर्मप्रचारकः, लोकसेवकः, प्रख्यातः दार्शनिकश्चेति। वस्तुतः स्वामिरामभद्राचार्यप्रणीते भृङ्गदूते मेघदूतस्य प्रभावः परिलक्ष्यते इति। अस्य काव्यस्य व्युत्पत्तिर्भवति ‘भृङ्गश्चासौ दूतश्च इति भृङ्गदूतः (कर्मधारयसमासः), स एवाभेदोपचारात् तत्संज्ञं काव्यम्, अथवा भृङ्गः दूतः यस्मिन् काव्ये तत् ‘भृङ्गदूतम्’ (बहुव्रीहिसमासः) इति। काव्यमिदं पूर्वोत्तरभृङ्गेन च द्विविधम् अस्ति। अस्य काव्यस्य मुख्यः विषयः भवति रामसीतयोः संवाद इति। अतः भगवतः रामचन्द्रस्य संवादं नयति कश्चन दूतः एव। एनं सन्देशवार्तां तु भृङगः नामकः दूतः सीतायै ददाति इति। काव्यस्य पूर्वभृङ्गे एकपञ्चाशदधिकं द्विशतकं श्लोकाः (२५१), उत्तरभृङ्गे च पञ्चाशदधिकं द्विशतकं श्लोकाः सन्ति (२५०)। अस्य दूतकाव्यस्य दूतः भवति सन्देशप्रणयनकारी भृङ्ग एव। पूर्वभृङ्गे मार्ग-तीर्थस्थान-नगर-वनप्रदेश-नदी-ग्राम-स्त्री-देवदेवी-ऐश्वर्यशक्ति-प्रभृतीनां वर्णनं कृत्वा कविः काव्यं विस्तारयामास। एवञ्च उत्तरभृङ्गनाम्नि द्वितीयभागे किष्किन्धाकाण्डे तु लक्ष्मणेन सह प्रवर्षणपर्वतासीनः सीताविरही रामचन्द्रः स्वमनोमधूपं दूतरूपेण श्रीसीतां प्रति प्रेषयामास।

मेघदूते यदा यक्षः कुवेरस्य अभिशापे प्रियायाः विच्छिन्न सन् रामगिरौ निवसति, तदा स यक्षः स्वीयं दूतं मेघं प्रति एवं स्तौति-

“जातं वंशे भुवनविदिते पुष्करावर्त्तकानां

जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः।

तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं

याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा।।” इति।

पूर्वमेघे आदितोऽन्तपर्यन्तं बाह्यप्रकृतिः चित्रिता, एवमेव उत्तरमेघे तु अन्तःप्रकृतिः चित्रिता स्यात्। तत्र हि पूर्वमेघे कश्चिदभिशप्तः यक्षः स्वस्य प्रियायाः विच्छिन्न सन् रामगिरिपर्वते वासञ्चकार। तत्र आषाढस्य प्रथमदिवसे आकाशे भाषमानं मेघखण्डं दृष्ट्वा स्वप्रियायै सन्देशं प्रेषयितुम् ऐच्छत्। प्रसङ्गेऽस्मिन् कविनोक्तम्-

“कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः

शापेनास्तङ्ग‌मितमहिमा वर्षभोग्येण भर्तुः।

यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु

स्निगधच्छायातरुषु वसतिं रामगिर्याश्रमेषु॥” इति।

अनन्तरं यक्षः रामगिरे आरभ्य अलकापुरीं यावत् मार्गं मेघस्य समीपे वर्ण्यते। मेघदूतकाव्ये यक्ष नामकस्य दूतस्य मुखात् अलकानगर्य्याः अपरूपवर्णना सम्प्राप्यते। येन मेघेस्य गन्तव्यं भवति माल-आम्रकूट-नर्मदा-दशार्ण-विदाशा-वेत्रवती-नीलगिरि-निर्विन्ध्या-सिन्धु-अवन्ति-विशाला-उज्जयिनी। ततश्च शिप्रा-गम्भीरा-देवगिरि-चर्मण्वती-दशपुर-ब्रह्मावर्त-कुरुक्षेत्र-सरस्वती-गङ्गानदी-हिमालय-कैलाश-मानससरोवर अलकाश्च निर्दिष्टाः।

एवमेव स्वामिरामभद्राचार्यप्रणीतेषु दूतकाव्येषु भृङ्गदूतं भवति अन्यतमं दूतकाव्यम्। अस्य काव्यस्य उत्सः भवति रामायणस्य किष्किन्धाकाण्ड इति। वाल्मिकिकृतं रामायणं लौकिकसंस्कृतसाहित्यस्य उपजीव्यः काव्व्यस्वरूपः। स्वामिरामभद्राचार्य अस्ति भगवान् श्रीरामचन्द्रस्य एक उपासकः। अत एव वाल्मिकिः तस्य पथप्रदर्शकः आसीत् इति भृङ्गदूतकाव्ये दृश्यते इति। काव्येऽस्मिन् वाल्मिकेः प्रभावः सुस्पष्ट एव। काव्यस्य प्रथमखण्डे दूतं भृङ्गमुद्दिश्य भगवान् रामः कथयति-

“यस्मिन्नित्यं प्रकृतिवनिता बद्धसर्वर्तुसख्या

श्रीमत्सख्या विहरति हरिद्रत्नमत्प्रत्नसख्या।

रामारामं पिककपिशुकोद्‌गीतरामाभिरामम्

गातासि त्वं श्रुतिकलगिरा भारतं भारतं तत्।।” इति।

भृङ्गदूतस्य उत्तरभृङ्गनाम्नि द्वितीयभागे किष्किन्धाकाण्डे लक्ष्मणेन सह प्रवर्षणपर्वतासीनः सीताविरही रामचन्द्रः स्वमनोमधूपं दूतरूपेण रावणेन अपहृतां श्रीसीतां प्रति प्रेषयामास स्वीयमनोव्याथायाः ज्ञापनार्थम् । प्रसङ्गेऽस्मिन् कविना उक्तम् –

“सीताशोकतृषिखजलदं वेगसंविग्नवातं

रातं रात्रा निखिलजगतां शान्तये संवृणेऽहम्।

  रामो रामामवितुमरितो जीवजीवातुवाक्यैः

संदेशार्थैः पुनरपि मनोभृङ्ग दुतोत्तरे त्वाम्”।। इति ।

काव्येऽस्मिन् विरहिणः रामचन्द्रस्य सन्देशं तु मिथिलायोध्ययोः स्थिताः नदीः, तदनु ऋष्यमूकपर्वत-कर्णाटक-आन्ध्रप्रदेश-मद्र-केरलादीनिस्थानानि च यथाक्रमं समतिक्रम्य लङ्कां प्रति जगाम इति दिक्। मन्दाक्रान्ताछन्दसा रचितं समग्रं भृङ्गदूतकाव्यं भक्तिप्रधानं दूतकाव्यमिति कथ्यते। काव्यमिदं मेघदूतमवलम्ब्य विलिखितं, अतः मेघदूतमनुसृत्य पञ्चाशदधिकद्विशतानि ततोऽधिकानि वा दूतकाव्यानि रचितानि सन्ति। भृङ्गदूतकाव्यस्य नायकः भवति सूर्यवंशोत्पन्नः रघुकुलभूषणः दशरथपुत्रः भगवान् राम एव। काव्यस्य प्रारम्भे प्रथमे श्लोके मानवमर्यादासम्पन्नं रामं प्रति कवेः स्तुतिः-

“रामोरामारमितचरितोऽप्यार्य मर्यादयाप्तं

पाद्मेः पद्मे पविमिव वहन् मूर्ध्नि शापं स्वतापम्।

नीत्वा बाणानलशलभतां वालिनं वानरेशं

कृत्वा मैत्रिं सहरिजिदरिः श्रावणेऽध्यास्त शैलम्।।” इति।

अस्मिन् काव्ये प्रियाविरहेण विरही भगवान् रामचन्द्रः स्वकीयवार्तां श्रीसीतायाः पार्श्वे प्रेषणार्थं भृङ्गं दूतरूपेण प्रेषयति। अतः विप्रलम्भशृङ्गारस्य स्पष्टप्रकाशाय मन्दाक्रान्ताछन्दसः प्रयोगः दृश्यते। अस्य काव्यस्य दूतः भवति सन्देशप्रणयनकारी भृङ्ग एव। अत्र मार्ग-तीर्थस्थान-नगर-वनप्रदेश-नदी-ग्राम-स्त्री-देवदेवी-ऐश्वर्यशक्ति-प्रभृतीनां वर्णनं कृत्वा कविः काव्यं विस्तारयामास। अत्र कविः रामभद्राचार्यः भृङ्गदूतमिति दूतकाव्ये माधुर्य-ओज-प्रसादगुणानाञ्च समुचितं प्रयोगविन्यासं कृतवान्। एवं गुणविन्यासेन कविः महत्वपूर्णं सफलतां प्राप्तते एव। तथाहि धर्मपरायणां कोमलहृदयां धर्मपत्नीं सीतां प्रति भगवतः रामचन्द्रस्य वदनाब्जनिःसृताभारती यथा-               “यद्यप्यस्य क्षणमपि तया नादिशक्त्या खरारे-

र्वीच्ये वापां क्वचिदपि हरेर्नो वियोगस्तथापि ।

लीलारङ्गेऽप्यवनिसुतया वर्जितः पर्वणीव

ग्रस्तज्योत्स्नो नभसि तमसा रामचन्द्रो न रेजे”।।” इति ।  

  • निष्कर्षः

अतः स्मामिरामभद्राचार्यप्रणीते भृङ्गदूते मेघदूतस्य प्रभावः लोकप्रसिद्ध इति मन्यते। उभयत्र तु दृश्यते यत् नायकः नायिकां प्रति दूतेरूपेण सन्देशं प्रेषयति। प्रियां समीपे अनायासेन दूतगमनाय मार्गमपि निर्दिश्यते। विभिन्नेषु स्थानेषु च दूतस्य जलग्रहनं, देवदर्शनमित्यादीनां वर्णनमपि परिलक्ष्यते। वियोगहेतुत्वात् विरहावस्थायां स्थितायाः नायिकायाः अभिज्ञानं सङ्केतयति। द्वयोरपि दूतकाव्ययोः छन्दस्तु मन्दाक्रान्ता एव। एवं रूपेण काव्यद्वयं भाषा-भाव-रस-छन्दालङ्कारादिषु यथार्थेण परिपूर्णं स्यात्।

उभयत्र तु मन्दाक्रान्ता छन्दः वर्तते एव। अनयोः काव्ययोः सन्देशप्रणयनकारी दूतः नायकेन नायिकां प्रति प्रेरितोऽभवत्। मेघदूते यथा मेघः अचेतनतत्त्वरूपेण प्रतिभाति, तथैव भृङ्गदूतेऽपि वार्तावाहकः भ्रमरः रामचन्द्रस्य मनसः प्रतीकत्वेन राजते। अनयोः द्वयोः दूतकाव्ययोः आरम्भस्तु ‘कश्चित्’ इति शब्दात् भवेत्। उभयत्र तु मार्गरूपेण तीर्थस्थान-वनप्रदेश-नदी-नगर-ग्राम-देवगिरि इतयादीनां वर्णनं प्राप्तम्। उभयं दूतकाव्यं एव पूर्वोत्तरभेदेन द्विधा विभक्तम्। मन्दाक्रान्ताछन्दसा विरचिते काव्यद्वये काव्यकलायाः लालित्यमनुभूयते इति।

एवमेव मेघदूतकाव्ये यथा भाषा-भाव-रस-छन्दालङ्कारादिनां यथार्थः प्रयोग अस्ति तद्वत् भृङ्गदूतेऽपि वर्तते। मालविकाग्निमित्रमिति नाटके कालिदासेनोक्तं यत्-

“पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम

सन्त: परीक्ष्यान्यतरद्भजन्ते मूढ: परप्रत्ययनेयबुद्धि:॥” इति।

परन्तु कालिदासप्रणीते मेघदूते अश्लीलतादोषऽपि वर्तते-

प्रस्थानं ते कथमपि सखे ! म्बमनस्य भावि

जातास्वादो विवृतजघनां को विहातुं समर्थः।।” इति।

अतः अयं दोषः भृङ्गदूते न क्वचिदपि लभते इति। परन्तु नायकनायिकयोः मध्ये दूतरूपेण सन्देशप्रेषणं महाकविकालिदासस्य मौलिककल्पना एव।

तथ्यसूत्रम्

  • अमरकोषः – २/८/१६/२/२
  • साहित्यदर्पणम्-६/३२९
  • मनुस्मृतिः – ७/६३-६४
  • मेघदूतम् (पू.मे-६)
  • तदेव (पू.मे-१)
  • भृङ्गदूतम् (पू.भृ-२७)
  • तदेव (उ.भृ-१)
  • तदेव (पू.भृ-१)
  • तदेव (पू.भृ-३)

सन्दर्भग्रन्थसूची

  • स्वामी रामभद्राचार्यः, गीतरामायाणम् , जगद्गुरु रामभद्राचार्य विकलाङ्ग विश्वविद्यालय, चित्रकूट, उत्तरप्रदेश, प्रथम संस्करणम्- २०११
  • स्वामी रामभद्राचार्यः, भृङ्गदूतम् , जगद्गुरु रामभद्राचार्य विकलाङ्ग विश्वविद्यालय, चित्रकूट, उत्तर प्रदेश, विक्रम संवत् २०६१
  • श्रीचिन्ताहरणचक्रवर्ती शर्मा, मनोदूतम्, संस्कृतसाहित्यपरिषद, कलिकाता, १८५६
  • महाकविः कालिदासः, मेघदूतम्, सम्पा. दयाशङ्कर शास्त्री, सुरभारती प्रकाशन, चौखम्बा, वाराणसी, २०१४
  • महाकविः कालिदासः, मेघदूतम्, (हिन्दी-गद्य भावार्थ अनुवाद), सम्पा. ले. महावीर प्रसाद द्विवेदी, प्रका. इण्डियन प्रेस, लिमिटेड, इलहाबाद, द्वितीय संस्करण-१९२४
  • आचार्य बलदेव उपाध्याय, संस्कृत साहित्य का इतिहास, शारदा निकेतन वाराणसी, दशम संस्करण, २००१
  • आचार्य बलदेव उपाध्याय, संस्कृत साहित्य का इतिहास, चौखम्बा विद्याभवन, वाराणसी, २०१४
  •  लोकमणि दाहालः, संस्कृतसाहित्येतिहासः, वाराणसी:, चौखाम्बा कृष्णदास अकादमी, २०१६
  •  श्रीचिन्ताहरणचक्रवर्ती शर्मणा, मनोदूतम्, कलिकाता:, संस्कृत-साहित्य-परिषद, १८५६
  • डॉ. रामकुमार आचार्य, संस्कृत के सन्देशकाव्य, संस्कृत विभाग, राजकीय कोलेज, अजमेर, १९६३
  • महाकविः कालिदासः,मेघदूतम्, सम्पा. दयाशङ्कर शास्त्री, वाराणसी, चौखम्बा सुरभारती प्रकाशन २०१४
  • कपिलदेव द्विवेदी, संस्कृत साहित्य का समीक्षात्मक इतिहास, इलाहाबाद, विद्या प्रकाशन, २००१
  • श्रीविश्वनाथकविराजः, साहित्यदर्पणः, चौखाम्बा विद्या भवन, वाराणसी, १९५७
  • जगद्गुरु रामभद्राचार्य, श्रीमद्भगवद्गीता, श्रीतुलसीपीठसेवान्यास, तुलसीपीठ, चित्रकूट, सतना (म.प्र), १९९८
  • तुलसीदास, श्रीरामचरितमानस, सम्पा. स्वामी रामभद्राचार्य जी महाराज, (भावार्थबोधिनी हिन्दि टीका)श्रीरामचरितमानस अनुसंधान केन्द्र,जगद्गुरु रामभद्राचार्य विकलांग विश्वविद्यालय, चित्रकूट, उत्तरप्रदेश, विक्रम संवत् २०६५
  • A. Berriedale Keith, A History of Sanskrit Literature, Motilal Banarsidas, Publishers Private Limited, Delhi, 1993.
  •  Gaurinath Shastri, History of Classical Sanskrit Literature, Motilal Banarsidas, Delhi, 1974.
  •  Dr. Jatindra Bimal Chaudhuri, History of the Dūtakāvyas of Bengal, Pracyavani 3,Federation Street, Kolkata, 1953
  • Arthur Anthony Macdonell, A History of Sanskrit Literature, Motilal Banarsidas, Publishers Pvt. Ltd., Delhi-1971.

    अ. को.- २/८/१६/२/२

    सा.द.-६/३२९

    अ.को.-२/६/१६

    मनु.-७/६३-६४

    मे.दू (पू.मे-६)

    मे.दू (पू.मे-१)

    भृ. दू. (पू.भृ-२७)

    भृ. दू.(उ.भृ-१)

    भृ. दू. (पू.भृ-१)

    भृ. दू. (पू.भृ-३)

    मालविकाग्निमित्रम्-१/२

    मे.दू.-पू.मे/४१