जसः शी इत्यत्र अनेकाल्त्वात्सर्वादेशो न । अपि तु शित्वात् इति नागेशकृतखण्डनौचित्यानुशीलनम्

Shambhunath Bhat
Research Scholar UGC-NET JRF, SRF
Karnataka Samskrit University
Bangalore
Email- shambbubakkal@gmail.com

Ph- 9482493321

सारांशः 

इह शोधप्रबन्धे दीक्षितनागेशाशययोः विचारः प्रस्तुतः । दीक्षिताः शीत्यस्य प्रत्ययत्वाभावात् आदेशात् प्राक् नेत्संज्ञा सम्भवति इति हेतोः अनेकाल्त्वात् सर्वादेशः इति कथयन्ति । इत्संज्ञायोग्यत्वमअनुबन्धत्वमिति आश्रित्य नागेशोपाध्यायैः शित्वादेव सर्वादेशः भवति इति निरूप्यते । तत्र भाष्यप्रमाणम् अन्याः युक्तयश्च अवलोकिताः । तदनुसारमत्र मतद्वयं निरूप्य कः पक्षः साधीयानिति विचारितम् ।

प्रमुखपदानि इत्, अनुबन्धः, अनेकाल्, शित्, दीक्षिताः, नागेशः, 

उपोद्घातः

जसः इति षष्ठी । ‘सर्वनाम्नः स्मै’ (७.१.१४) इति सूत्रात् सर्वनाम्नः इत्यनुवर्तते । ‘अतो भिस ऐस्’ (७.१.९) इति अतः इति पञ्चम्यन्तमनुवर्तते । अतः इति सर्वनाम्नः इत्यस्य विशेषणम् । विशेषणत्वात् तदन्तविधिः । एवञ्च सूत्रार्थः अदन्तात्सर्वनाम्नः परस्य जसः शी स्यात् इति लभ्यते । सर्वे इत्याद्युदाहरणानि ।

अनेन सूत्रेण विधीयमानस्य शी इत्यादेशस्य अनेकाल्त्वात् ‘अनेकाल्शित्सर्वस्य’ (१.१.५५) इति सर्वादेशत्वम् । सर्वादेशार्थमत्र आदेशे शकारानुबन्धः विहितः । अन्यथा ‘आदेः परस्य’ (१.१.५४) इति आदेशः अकारमात्रस्य स्यात् । ननु शकाराभावेऽपि दीर्घोच्चारणसामर्थ्यात् इकारद्वयप्रश्लेषेण अनेकाल्त्वादेव सर्वादेशो लभ्यते इति चेत् , दीर्घोच्चारणमत्र ‘नपुंसकाच्च’ (७.१.१९) इत्युत्तरार्थम् । तेन वारिणी, त्रपुणी इत्यादिसिद्धिः । तस्मादत्र शकारोच्चारणम् । शकारोच्चारणे अनेकाल्त्वादेव सर्वादेशः न तु शित्त्वादिति ।

नागेशमतम्

‘शी’ इत्यत्र शकारः अनुबन्धवर्णः । अनुबन्धत्वञ्च इत्संज्ञायोग्यत्वम् । अतः ‘अनेकाल्शित्सर्वस्य’ इत्यत्र शित्त्वम् इत्संज्ञायोग्यशकारवत्वम् । ‘जसः शी’ इति शी आदेशस्यापि इत्संज्ञायोग्यत्वात् इत्संज्ञायां ‘नानुबन्धकृतमनेकाल्त्वम्’ इति निषेधप्रवृत्त्या शित्त्वादेव सर्वादेशः न तु अनेकाल्त्वादिति ।

नागेशकृतखण्डनौचित्यानुशीलनम् –

‘शी’ इत्यादेशस्य अनेकाल्त्वात्सर्वादेशः इति वक्तॄणां प्राचीनानां मते अनुबन्धत्वञ्च इत्संज्ञावत्त्वम् । ‘जसः शी’ इत्यत्र शी इत्यस्य प्रत्ययत्वाभावात् सर्वादेशोत्तरमेव प्रत्ययत्वसम्पत्त्या न शित्त्वात्सर्वादेशः । ननु ‘नानुबन्धकृतमनेकाल्त्वम्’ इति परिभाषया अनुबन्धप्रयुक्तमनेकाल्त्वं   नाश्रीयते । ‘अर्वणस्त्रसावनञः’ (६.४.१२७) इति सूत्रेण विधीयमानस्य अर्वन्नन्तस्य अङ्गस्य तृ इत्यादेशस्य सर्वादेशत्वाभावः अनया परिभाषया बोध्यते । ‘शी’ इत्यत्र शकारस्य ‘लशक्वतद्धिते’ (१.३.८) इति इत्संज्ञकत्वात् अनया परिभाषया एव अनेकाल्त्वस्यासम्भवात् शित्त्वादेव सर्वादेशो वक्तव्यः इति चेत् , ‘लशक्वतद्धिते’ इत्यनेन तद्धितवर्जप्रत्ययादिभूतानां लशकवर्गाणामित्संज्ञा
विहिता । प्रकृते शी इत्यस्य न प्रत्ययत्वं, प्रत्ययाधिकारस्थत्वाभावात् । परं जसः स्थाने शी विधीयते इति तस्य स्थानिवद्भावेन प्रत्ययत्वेऽपि सर्वादेशत्वसिद्धेः प्राक् शकारस्येत्संज्ञा एव न   प्रवर्तते । अतः अनेकाल्त्वादेवात्र सर्वादेशत्वमिति प्राचीनैः उच्यते ।

परमनुबन्धपदस्य इत्संज्ञायोग्यत्वमाश्रित्य इह शित्त्वादेव सर्वादेशः इति नागेशेन कथ्यते । ततश्च इत्संज्ञायोग्यशकारवत्वात् शी इत्यस्य अनेकाल्त्वाभावात् शित्त्वादेव सर्वादेशः । अनुबन्धपदस्य उक्तार्थस्वीकारादेव ‘नानुबन्धकृतमसारूप्यम्’ इति परिभाषया ‘क’, ‘अण्’ प्रत्यययोः विकल्पाभावः सिद्ध्यति । तथा हि ‘वाऽसरूपोऽस्त्रियाम्’ (३.१.९४) इति सूत्रस्य असरूपोऽपवादप्रत्ययः उत्सर्गस्य वा बाधकः स्यात् स्त्र्यधिकारोक्तं विना इत्यर्थः । ‘कर्मण्यण्’ (३.२.१) इति सूत्रेण कर्मण्युपपदे धातोः अण्‌प्रत्ययः विधीयते । तदपवादतया ‘आतोऽनुपसर्गे कः’ (३.२.३) इति आदन्ताद्धातोः अनुपसर्गात्कर्मण्युपपदे कप्रत्ययो विधीयते । ‘क’, ‘अण्’ प्रत्यययोः असारूप्यात् वासरूपसूत्रेण उत्सर्गस्य विकल्पेन बाधे प्राप्ते ‘नानुबन्धकृतमसारूप्यम्’ इति परिभाषया वार्यते । इदं च इत्संज्ञायोग्यत्वमनुबन्धत्वमिति स्वीकारादेव सङ्गच्छते । अन्यथा  काणोः ‘वाऽसरूपोऽस्त्रियाम्’ इति सूत्रेण वाक्यार्थबोधोत्तरमेव तयोः प्रत्ययत्वेन इत्संज्ञायाः प्रवृत्तिः स्यात् । वासरूपसूत्रप्रवृत्तिकाले तु काणोः अनुबन्धत्वाभावेन इत्संज्ञालोपयोरप्रसक्तौ असारूप्यात् वासरूपन्यायप्रवृत्तौ तयोः विकल्पः स्यात् । वासरूपन्यायप्रवृत्त्यनन्तरम् अनुबन्धत्वज्ञानेऽपि ‘भुक्तवन्तं प्रति मा भुक्थाः’ इति न्यायेन जातस्य विकल्परूपकार्यस्य न निवृत्तिः । यदि ‘क’, ‘अण्’ प्रत्यययोः प्रवृत्त्यनन्तरमनुबन्धत्वज्ञाने ककारस्य निवृत्तिस्तर्हि ‘जसः शी’ इत्यत्रापि शीभावप्रवृत्त्यनन्तरमेव अनुबन्धत्वज्ञाने सर्वादेशत्वस्य निवृत्तिः स्यात् । किं च इत्संज्ञावत्त्वमनुबन्धत्वमिति स्वीकारे ‘नानुबन्धकृतमनेकाल्त्वम्’ इति परिभाषायाः स्वांशे चारितार्थ्यमसम्भवि । तथा हि  ‘अनेकाल्शित्सर्वस्य’ इत्यत्र अनेकाल्त्वादेव सर्वादेशत्वे सिद्धे शिद्ग्रहणं व्यर्थं सत् इमां परिभाषां ज्ञापयति । ज्ञापितायां च परिभाषायां यदि शिद्ग्रहणं न स्यात् तर्हि ‘जसः शी’ इत्यादौ शकारस्य प्रत्ययत्वाभावात् इत्संज्ञावत्त्वमनुबन्धत्वमिति पक्षे अनुबन्धत्वमेव न सम्भवति इति अनेकाल्त्वादेव सर्वादेशत्वे सिद्धे शिद्ग्रहणस्य वैयर्थ्यं पुनरपि स्यादेव । अतः शिद्ग्रहणस्य परिभाषाज्ञापकतापरभाष्यप्रामाण्यात् स्वांशे चारितार्थ्यलाभाय इत्संज्ञायोग्यत्वमनुबन्धत्वमित्येव आश्रयणीयम् । तस्मादिह शित्त्वादेव सर्वादेशः इति    नागेशाभिप्रायः ।

‘लुटः प्रथमस्य डारौरसः’ (२.४.८५) इति सूत्रे भाष्ये “डाविकरस्य शित्करणं कर्तव्यं, शित्सर्वस्य इति सर्वादेशार्थम् , अक्रियमाणे हि शकारे ‘अलोऽन्त्यस्य’ (१.१.५२) इति डा आदेशः अन्त्यस्य प्रसज्येत” इति दोषः उक्तः । डादेशस्य डाश्‌करणं यदि न क्रियते तर्हि इत्संज्ञालोपानन्तरं नानुबन्धकृतमनेकाल्त्वमिति परिभाषया तस्य अनेकाल्त्वाभावात् सर्वादेशो न स्यात् । तथा सति अलोऽन्त्यस्य इति अन्त्यस्य आदेशः प्रसज्येत इति भाष्याशयः । ततः अग्रे भाष्ये “अलोऽन्त्यस्य इत्यन्त्यस्यादेशेऽपि सिध्यति, डित्करणसामर्थ्यात् इति टेर्लोपो भविष्यति” इति समाहितम् । भविता इत्यादौ भवितास् ति इत्यवस्थायां ‘लुटः प्रथमस्य डारौरसः’ इत्यनेन विधीयमानः डादेशः ‘अलोन्त्यस्य’ इति अन्त्यस्य भवति । तथा सति  भवितास् त् आ इत्यत्र आकारे डिति परतः टिसंज्ञकस्य ‘टेः’ (६.४.१४३) इति सूत्रेण लोपः सिद्ध्यत्येव । अतः तदर्थं डादेशस्य शित्करणं न कर्तव्यमिति तदभिप्रायः । यदि अनुबन्धपदस्य योग्यार्थत्वं न स्वीक्रियते तर्हि डा इत्यस्य आदेशात्पूर्वं प्रत्ययत्वाभावेन इत्संज्ञालोपयोरप्रवृत्तौ नानुबन्धकृतमनेकाल्त्वमित्यस्याः अप्रवृत्त्या अनेकाल्त्वादेव सर्वादेशत्वे सिद्धे सर्वादेशार्थं ‘डाविकारः शित्कर्तव्यः’ इति पूर्वपक्षोपस्थापनम् अलोऽन्त्यस्य इति अन्त्यादेशेन समाधानकथनञ्च असङ्गतं स्यात् ।

किं च अस्मिन्नेव भाष्ये ‘‘अनित्त्वाद्वा’’ इति समाधानान्तरमपि भणितम् ।  डा इत्यस्यान्त्यादेशत्वेऽपि यदा अन्त्यस्य स्थाने अयं भवति, तदा अयं न प्रत्ययः ।  असति प्रत्ययत्वे न तस्य इत्संज्ञालोपौ । असत्यामित्संज्ञायामनेकाल् ।  यदा अनेकाल् तदा सर्वादेशः । यदा च सर्वादेशः तदा प्रत्ययः । यदा प्रत्ययः तदा तस्य इत्संज्ञालोपौ भवतः इति समाहितम् । अनेन भाष्येण इत्संज्ञावत्त्वमनुबन्धत्वमिति लभ्यते । तदेवं कैयटदीक्षिताद्युक्तं युक्तमेवेति चेत् इदं च भाष्यमेकदेश्युक्तिः इति नागेशेन उक्तम् उद्योते

किं च ‘अनेकाल्शित्सर्वस्य’ (१.१.५५) इति सूत्रे भाष्ये ‘शित्सर्वस्य इत्यस्य किमुदाहरणम्’ इति पृष्टम् । ततः ‘इदम इश्’ (५.३.३), ‘अष्टाभ्य औश्’ (७.१.२१), ‘जसः शी’, ‘जश्शसोः शिः’ (७.१.२०) इति प्रदत्तेषु उदाहरणेषु सर्वत्र शकारे सति शकारोच्चारणसामर्थ्यात् भूतपूर्वमनेकाल्त्वमादाय अनेकाल्त्वादेव सर्वादेशो भविष्यतीत्यतः शित्सर्वस्य इत्यस्य एतानि नोदाहरणानि’ इत्युक्तम् । ततः “अस्त्यन्यच्छित्करणे प्रयोजनम् । किम् ? विशेषणार्थः शकारः । क्व विशेषणार्थः ? ‘शि सर्वनामस्थानम्’ (१.१.४२), ‘विभाषा ङिश्योः” (६.४.१३६) इति समाहितम् । एवञ्च शित्करणस्य विशेषणार्थत्वरूपप्रयोजनसत्त्वेन भूतपूर्वमनेकाल्त्वमादाय अनेकाल्त्वाश्रयणे मानाभावेन अत्र उदाहरणेषु शित्त्वादेव सर्वादेशः न तु अनेकाल्त्वादिति भाष्याशयः इति उद्योतव्याख्यायां स्पष्टम् । तस्मात् शित्त्वादेव इह सर्वादेशः विधेयः इति नागेशाभिप्रायः । किं च ‘अणुदित्सवर्णस्य चाप्रत्ययः’ (१.१.६९) इति सूत्रे भाष्ये अप्रत्ययग्रहणं किमर्थमित्याक्षिप्य सूत्रे अप्रत्ययग्रहणाभावे ‘सनाशंसभिक्ष उः’ (३.२.१६८) इत्यादौ  उप्रत्ययस्यापि सवर्णग्राहकत्वं स्यात् इत्युक्तम् । तदग्रे “अप्रत्ययः इत्येतावदुच्यमाने प्रत्ययः सवर्णस्य ग्राहकः न भवति इत्येव अर्थः स्यात् । आदेशे ‘इदम इश्’ (५.३.३) इत्यादौ सवर्णग्रहणापत्तिः इत्याशयेन ‘अप्रत्ययादेशटित्किन्मितः’ इति वक्तव्यम्” इत्याक्षिप्तम् । तत्र शकारघटितस्य इशः अनण्त्वादेव सवर्णाग्राहकत्वे सिद्धे सवर्णाग्रहार्थं भाष्ये ‘अप्रत्ययादेशटित्किन्मितः इति वक्तव्यम्’ इत्याक्षेपः न सङ्गच्छेत । तस्मात् शादीनामुपदेशे एव इत्संज्ञालोपौ इति ध्वन्यते । तदा तु इशः अण्त्वेन सवर्णग्राहकत्वे प्राप्ते भाष्ये तद्वारणार्थम् ‘अप्रत्ययादेशटित्किन्मितः इति वक्तव्यम्’ इति सङ्गच्छते । एवञ्च  ‘जसः शी’ इत्यादावपि शादीनां सूत्रे एव इत्संज्ञालोपौ प्रवर्तेते । ततश्च तत्र ‘नानुबन्धकृतमनेकाल्त्वम्’ इति परिभाषया तदनुबन्धप्रयुक्तानेकाल्त्वाश्रयणं न सम्भवतीति इह शित्त्वादेव सर्वादेशः इति नागेशाशयः । 

उपस्ंहारः-

इत्थं च अनुबन्धत्वं नाम इत्संज्ञायोग्यत्वमेव इति अवश्यं स्वीकार्यम् । अतः भाष्यादिप्रामाण्यात् नागेशेन यत् खण्डनं कृतं तत्साध्वेव इति भाति । समग्रभाष्याद्यवलोकने युक्त्यन्तरमपि कदाचित् ज्ञायेत । तदा भिन्नदिशा युक्तायुक्तत्वं विचारयितुं शक्येत इति चिन्त्यते ।

आकरग्रन्थाः – 

  1. परिभाषेन्दुशेखरः – नागेशभट्टविरचितः श्रीपादसत्यनारायणमूर्तिसम्पादितः राष्ट्रियस्ंस्कृतविद्यापीठम् तिरुपति 2004.
  2. लघुश्ब्देन्दुशेखरः – नागेशभट्टविरचितः श्रीपादसत्यनारायणमूर्तिसम्पादितः राष्ट्रियस्ंस्कृतविद्यापीठम् तिरुपति 2004.
  3. व्याकरणमहाभाष्यम्  प्रदीपोद्योतसहितम्, पतञ्जलिना विरचितम्, भार्गवशास्त्रिभिः संशोधितम्, चौकम्बा संस्कृतप्रतिष्ठानम् देहली, २००७(पुनर्मुद्रणम्)
  4. प्रौढमनोरमा – भट्टोजीदीक्षितविरचितः गोपलशास्त्रीनेनेसम्पादितः चौकम्बा संस्कृतभवन वाराणसी तृतीयसंस्करणम् 2011.
  5.  www.ashtadhyayi.com