नारीवाचकशब्दानां स्वरूपं व्युत्पत्तिश्च – एकमध्ययनम्

आब्दुल-आजिज-मण्डलः, शोधच्छात्रः
राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः
Mob – 6296818344
Email – abdul9851812240@gmail.com   

     सारांशः 

     प्रत्येकं शब्दस्य स्वकीयः इतिहासोऽस्ति, तथा च तस्य स्वतन्त्रम् अस्तित्वमपि लक्ष्यते। अस्मिन् शोधप्रबन्धे संस्कृतभाषायाः शब्दानां व्युत्पत्तिपृष्ठभूमेः अर्थविकासस्य च विस्तृतं विवेचनं कृतम्, यत्र विशेषतया स्त्रीवाचकशब्दसमूहस्योपरि प्रकाशः निक्षिप्तः अस्ति। संस्कृतभाषायाः प्रत्येकः शब्दः स्वकीयव्युत्पत्तेः आधारेण स्वतन्त्रं स्वरूपं धारयति, तथा कालक्रमेण तस्यार्थः बहुविधरूपेण प्रसृतो जातः। तथापि एतेन अर्थपरिवर्तनेन शब्दस्य मूलार्थस्य मौलिकसत्ता सर्वथा न नश्यति।

     सन्दर्भदृष्ट्या निबन्धेऽस्मिन् स्त्रीणां बोधकानां विविधशब्दानां विश्लेषणं कृतम्, येन विज्ञायते यत् प्रत्येकः शब्दः स्त्रीत्वस्य भिन्नगुणान्, विशेषताः, भूमिकाश्च प्रतिबिम्बयति। प्राचीनसंस्कृतसाहित्ये स्त्रियः प्रायः जटिलाः बहुमात्रिकसत्त्वरूपेण निरूपिताः सन्ति। कदाचित् मायावत् रहस्यमयाः, कदाचित् प्रकृतिवत् वैविध्यपूर्णाः, तथा सहानुभूतिसम्पन्नाः सरलाश्च।

     प्रबन्धोऽयमपि निर्दिशति यत् भाषायां स्त्रीवाचकाभिव्यक्तीनां वैविध्यं नारीणां सामाजिक-सांस्कृतिक-मानसिकस्थितिभिः सह निविढतया सम्बद्धमस्ति। सामाजिकसंरचनायाः वैषम्यं, पुरुषैः सह शारीरिक-मानसिक-धार्मिकसम्बन्धाः, ऐतिहासिकपरिप्रेक्ष्यश्च एते सर्वे कारणानि स्त्रीणां कृते विविधशब्दप्रयोगानाम् उद्भवं जनयन्ति।

     “स्त्री” इति शब्दस्य केषाञ्चन पर्यायवाचिपदानां व्युत्पत्तिविश्लेषणेन अस्य शोधस्योद्देश्यं संस्कृतशब्दकोशे निहितानाम् आन्तरिकलक्षणानां प्रतीकात्मकमहत्त्वस्य चोन्मोचनम्। अन्ततः शोधोऽयं दर्शयति यत् भाषाया विकासः मानवसभ्यतायाः विकासेन सह समान्तरेण प्रवर्तते, यत्र स्त्रियः गम्भीरं सूक्ष्मं बहुमात्रिकञ्च स्थानं धारयन्ति। अत्र स्त्रीति शब्दस्य केषाञ्चन पर्यायपदानां ब्युत्पत्तेः साहाय्येन महिलानां कानिचन विशिष्टलक्षणानि प्रकाशयितुं शक्यन्ते।

     सूचकशब्दाः

     स्त्रीवाचकशब्दाः, व्युत्पत्तिविचारः, अर्थविकासः, संस्कृतशब्दविज्ञानम्, नारीस्वरूपम्। 

     भूमिका

     प्रबन्धेऽस्मिन् नारीशब्दस्य ब्युत्पत्तिविचारः, विविधशास्त्रेषु तस्य प्रयोगः तथा च सांस्कृतिक-सामजिक-धार्मिक-साहित्यिकसन्दर्भेषु तस्य भूमिका विस्तरेण उपस्थाप्यते। नारीशब्दस्य विविधरूपाणि संस्कृतसाहित्ये दृष्टानि यथा – स्त्री वनिता महिला योषित् चेत्यादयः। एते सर्वे शब्दाः न केवलं स्त्रीस्वरूपं द्योतयन्ति, अपितु तासां विशेषगुणानपि प्रकटयन्ति।    

     नारी

     यद्यपि ऋग्वेदे नारी इति शब्दः प्रत्यक्षतया न दृश्यते, तथापि नार्यः इति पदं यज्ञार्थे प्रयुक्तमस्ति। तैत्तिरीयारण्यके[1]   शतपथब्राह्मणे[2] च एतत् लक्ष्यते। नारी इति शब्दः नृ अथवा नर इत्यस्मात् निष्पद्यते। नृ+अञ्+ङीन्=नारी, नर+ङीष्=नारी। पतञ्जलिः उभयोः ब्युत्पत्तिं यथार्थं स्वीकृतवान्। महाभाष्ये[3] उक्तम् नुर्दर्म्या नारी नरस्यापि नारी। यास्कमतानुसारं नर शब्दस्य उत्पत्तिः नृत् धातोः। तेन निर्दिष्टं यत् नराः मनुष्याः कर्मसु नृत्यन्ति।[4] अर्थात् कार्यं कुर्वन् पुरुषः नर्तनमिव हस्तपादौ च चालयति। अतः सः नरः इति उच्यते। अस्मात् कारणात् स्त्रियः नारी इति कथ्यते। ऋग्वेदे नृ इति शब्दस्य प्रयोगः वीरः नेता दाता चेत्याद्यर्थेषु अवलोक्यते। सम्भावतः नारीति नाम्नापि विशेषतया एतेषां गुणानां सम्बन्धात् निष्पन्नं स्यात्। ब्राह्मणग्रन्थेष्वपि क्वचित् नारीति पदस्य व्यवहारो लक्ष्यते। सायणमतानुसारं नार्यः भावः पुरुषस्य हितकारी न च शत्रुत्वेन, अपितु तटस्थतया आलोचनीयः। नृणां महावीरार्थिनाम् उपकारित्वात् नारी। न अरिः नारी।[5]  

     स्त्री

     नारीशब्दस्य पर्यायत्वेन स्त्रीति शब्दः सर्वाधिकतया प्रचलितोऽस्ति। वैदिकसाहित्येऽपि अस्य शब्दस्य प्रयोगबाहुल्यं विलोक्यते। सः पालिप्राकृतयुगादारभ्य अद्यावधि जीवन् अस्ति, तथा च अस्य अविच्छिन्ना परम्परा भारतस्य सर्वाषु प्रसिद्धाषु भाषासु संरक्षितास्ति। स्त्री इति शब्दः स्तै इति धातोः निष्पन्नः इति केषाञ्चित् मतम्। यास्केन संकुचितार्थरूपेण निरूपितः। तेनोक्तम् स्त्रियः स्त्यायतेः अपत्रपणकर्मणः।[6] दुर्गाचार्यः स्वटीकायां लिखति लज्जार्थस्य, लज्जन्ते हि ताः इति। आचार्येण पतञ्जलिना अष्टाध्यायीं स्त्रीयाम् इति सूत्रस्य टीकायां स्त्री शब्दस्य बहुपक्षीयः विचारः कृतः। स्तनकेशादिभिः शारीरिकचिह्नैः स्त्रियः कथ्यन्ते जनैः। स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः ।[7] परन्तु तत् स्थूलरूपम्। पतञ्जलिना स्त्री शब्दस्य व्यख्यायां विलिखति स्यापतिः अस्यां गर्भः इति स्त्री। अर्थात् यस्यां गर्भधारणशक्तिरस्ति सा स्त्रीतीति। अनेन कारणेन सा भार्या इत्यपि उच्यते, यतः तस्यान्तः गर्भधारणसमर्थता वर्तते। अपरदृष्ट्या पतञ्जलिना उक्तं स्त्री शब्दस्पर्शरूपरसगन्धानां गुणानां स्त्यानं स्त्रीति। अर्थात् शब्दः स्पर्शः रूपं, रसः चेत्येषां गुणानां समुच्चयः स्त्री इति परिकल्प्यते। महाभाष्यस्य प्रसिद्धः टीकाकारः कैयटः स्त्यानशब्दस्य तिरोभाव इत्यर्थं व्याचष्टे। तस्य मतेन शब्दस्पर्शादयः गुणाः सत्त्वं रजः तमः चेत्येतैः गुणैः सम्बन्धिनो भवन्ति। एतेषां त्रयाणां गुणानाम् आविर्भाव-तिरोभावौ पुरुषत्वं, स्त्रीत्वं, नपुंसकत्वं च सूचयतः। यतः गुणानां साम्यावस्था दृश्यते, तत्र नपुंसकलिङ्गस्य प्रयोगो भवतीति तस्याभिप्रायः। इयं चिन्ताधारा केवलं पतञ्जलिना न प्रवर्तिता, अपि तु पूर्वमेव यास्केन एतादृशी भावना प्रकटिता। तेन ऋग्वेदे लिखितं यत् स्त्रियः एव एताः शब्दस्पर्शरूपसगन्धहारिण्यः इति। अतः स्त्रीशब्दः केवलं शारीरिकलक्षणैः न निरूप्यते, किन्तु सूक्ष्मतया सः सौन्दर्य-माधुर्य-आकर्षक-जीवनदायिनी-ऊर्जादयश्च समष्टिरूपेणापि अवगन्तव्यः। स्त्रीशब्दः, स्त्रीस्पर्शः, स्त्रीरूपम्, स्त्रीरसः, स्त्रीगन्धः चेत्यादीनि पृथक् वा समष्टिरूपेण वास्याः  अवर्णनीयसौन्दर्यस्य अद्वितीयस्य आकर्षणस्य च द्योतकानि सन्ति।  

     माता

     मातृशब्दस्य व्युत्पत्त्या माता इति शब्दस्य गाम्भीर्यं सौन्दर्यं चावगन्तुं पुष्पस्य शिरः उद्धृत्य तस्य सौन्दर्यपरीक्षणस्य सदृशो भवति। ऋग्वेदे अन्तरीक्ष-नदी-जल-पृथिवी चेत्याद्यर्थेषु मातृशब्दस्य प्रयोगोऽपि दृश्यते, ते सर्वे पोषण-जनन-पालनस्वभावेन मातृत्वस्य प्रतीकत्वं वहन्ति। वैयाकरणैः अस्य व्युत्पत्तिः एवं कृता मान्+तृच् यस्यार्थः आदरणीयः। यास्कमतानुसारं माता नाम सा या भावसृजिका जननी चास्ति। परन्तु प्राचीनकालादारभ्य अद्यपर्यन्तं मानवसमाजे  मातुः स्थानं पूज्यं वर्तते। सा न केवलं जन्मदात्री, अपि तु अपरिमितप्रेम्णः स्रोतस्वरूपा, पालन-पोषणकर्त्री, जीनवस्य आधारभूता चास्ति। अतः तस्याः स्थानं स्वर्गादपि उच्चतरं, गुरोरपेक्षया अधिकं माननीयमिति परम्परया स्वीकृतम्।

     योषा

     इयमपि स्त्रीणां कृते प्राचीनः शब्दः अस्ति। अयं यु (मिश्रणे) धातोः निष्पन्नः इति मन्यते। दुर्गाचार्यस्य मतेन स्त्री योषा इति कथ्यते, यतः सा पुरुषेण सह दाम्पत्यसम्बन्धं सम्भोगं वा स्थापयति। योषा यौतेः मिश्रणार्थस्य सा हि   आत्मानं पुरुषेण साकं मिश्रयति ।[8] योषणा तथा योषित् द्वौ शब्दौ नारीशब्दस्य पर्यायवाचकत्वेन प्रसिद्धौ स्तः। वैदिकसंस्कृते योषा इति पदं बाहुल्येन प्रयुक्तमस्ति – योषा जारस्य चक्षुषा बिभाति।[9] कान्तां प्रति स्त्रियः सौन्दर्यं विशेषतया प्रकाशते इति। तथैव न वै योषा कंचन हिनस्ति।[10] 

     मेना

     ऋग्वेदे मेना इति शब्दः स्त्रीणां प्रतीकत्वेन प्रयुक्तोऽस्ति। महर्षिणा यास्केन अस्य ब्युत्पत्तिः एवं कृता मानयन्ति एनाः (पुरुषाः)।[11] अर्थात् या स्त्री पुरुषैः आद्रियते अतः सा मेना इत्युच्यते। लौकिकसंस्कृतेऽपि मेना इति शब्दः प्रामाणिकरूपेण प्रचलितोऽस्ति। शब्दोऽयं विशेषतया संज्ञारूपेणापि लक्ष्यते यथा पार्वत्याः मातुः नाम मेना आसीत्।

     सुन्दरी

     सु+उन्द् (सिक्तौ, द्रावणे) धातोः निष्पन्नः मन्यते, सुन्दरी+ङीष्=सुन्दरी इति रूपम्। स्त्री सुन्दरी इत्युच्यते, यतः तस्याः दर्शनमात्रेण पुरुषस्य हृदयं द्रवति, चित्तं च सान्द्रानन्देन स्पन्दते। उक्तञ्च निरुक्तकारेण सुष्ठु नन्दयति इति। अर्थात् या परमानन्दं जनयति सा सुन्दरी। वस्तुतः सुन्दरी इति पदं सुनरी रूपस्य विकसितस्वरूपमस्तीति केषाञ्चिन्मतम् । ऋग्वेदे सुनरी इति पदम् उषसः कृते प्रयुक्तमस्ति – आ घा योषेव सुनरी उषा याति प्रभुञ्जती।[12]

     वामा

     वामा इति शब्दः स्त्रीवाचकोऽस्ति, यतः सा सौन्दर्यस्य विकिरणं करोति। वयति सौन्दर्यमिति व्युत्पत्त्या। अथवा वाम इति पदस्य सुन्दर-कोमल-मनोहराश्च इत्यर्थाः अपि सन्ति। अन्यतः वाम इति वामपक्षीय इत्यर्थेऽपि प्रयुज्यते।   किन्तु कदाचित् वामा इति शब्दः प्रतिकूलाचरणार्थेऽपि प्रयुक्तो भवति। कालिदासेनापि वामा पदस्य एतादृशं भावं निरूपितम्। तस्य अभिज्ञानशकुन्तलम् इति नाटके महर्षिकण्वेन शकुन्तलायाः पतिगृहगमनवेलायां वामा शब्दस्य प्रयोगः कृतो दृश्यते, यत्र तस्याः कोमलता तथा ललितभावः सूचितः। अतः वामेति दुर्गादेवी नाम्नापि आलक्ष्यते।  

वामं विरुद्धरूपं नु विपरीतं नु गीतये।

     वामेन सुखदा देवी वामा तेन मता बुधाः।।[13]

     अबला

     अबला इति पदं स्त्रीणां शारीरिकबलस्य अल्पत्वं मनसि निधाय कल्पितम्। परम्परादृष्ट्या स्त्रियः पुरुषवत् स्थूलशरीरबलसम्पन्नाः न भवन्ति इति हेतोः अबला इति नाम प्रचलितम्। तथापि शब्दोऽयं केवलं बाह्यदृष्ट्या कृतः, न तु सर्वाङ्गीणशक्तेः निरूपणम्। वैदिककालेऽपि केचन मनीषिणः स्त्रीणां मानसस्वभावस्य चञ्चलतां निर्दिशन्ति स्म। वैदिकर्षिभिः सम्बद्धपरम्परायामुक्तं – स्त्रिया अशास्यं मनः।[14] अर्थात् तासां सर्वथा मनः नियन्त्रणातीतमिति तेषां धारणासीत्।    

     प्रमदा

     या स्वभाविकतया ललितगतदया पुरुषस्य चित्ते हर्षम्, उत्साहं, स्पन्दनञ्च जनयति, सा प्रमदा इति कथ्यते। प्रमदशब्दस्यार्थः आनन्दः, हर्षः, उल्लासः चेति। उच्यते प्रमदः संमर्दौ हर्षे च। अतः स्त्रीयं ललितस्वभावात् प्रमदा इत्यपि उच्यते।

     ग्ना

     ऋग्वेदे ग्ना इति शब्दः भार्या इत्यर्थे प्रयुक्तो दृश्यते। शब्दोऽयं विशेषतः देवानां पत्नीनां कृते अधिकतया उपयुज्यते। परन्तु ब्राह्मणग्रन्थेषु अस्य प्रयोगः सामान्यस्त्रीणां विषयेऽपि दृश्यते। यास्केनोक्तं – ग्ना गच्छन्ति एनाः।[15] दुर्गाचार्यः स्वव्याख्यायां लिखति यत् स्त्रियः ग्ना इति उच्यन्ते, यतः पुरुषाः सम्भोगस्य यौनमैथुनस्य वा  इच्छया तासां समीपम् गच्छन्ति। शब्दोऽयं लौकिकसंस्कृते विरलतया अवलोक्यते, तथापि अस्य विकसितरूपाणि अन्यशब्देषु लक्षितानि सन्ति। यथा संस्कृतभाषायां गम् (ग्वा>गमा>गम्या) धातोः निष्पन्नो भवति। एवं सति घेना अथवा जेना शब्दद्वयं स्त्रियः कृते प्रयुज्यते, यत् ग्ना इत्यस्य परिवर्तितरूपमस्ति।

     मानिनी

     मानिनी इति शब्दः नारीणां कृते मनोवैज्ञानिकस्वरूपं स्पष्टतया प्रकटयति। तासां स्वभावे आत्मसम्मानः, स्वाभिमानः, आदरभावश्चेति विशेषेण वर्तन्ते। सा स्वाभिमानसंरक्षणे सजगा भवति, तथा च कस्यचित् अपमानजनकवचनं तस्यान्तःकरणे तीव्रस्पन्दनं जनयति। अतः या स्वमानसंरक्षणे नितरां जागरूका सा मानिनी इत्यभिधीयते। 

     ललना

     शब्दोऽयं मानसिकाभिव्यक्तिः अस्ति। अयं लल् (लालित्ये, क्रीडायाम्, इच्छायाम्) चेति धातोः निष्पन्नः। स्त्रीणां स्वभावे कोमलता, लालनशीलता, अभिलाषश्चेति प्रमुखतया विलोक्यन्ते, अतः सा ललना इति पदेनाभिधीयते।  

     महिला

     मह्+इलच्+आ=महिला इति महिलाशब्दस्य व्युत्पत्तिः कृता। मह् इत्यस्यार्थः पूजा। अतः या पूजनीया, आदरणीया च सा महिला इति कथ्यते। भार्यायाः पूज्यत्वादपि महिला इति नाम इति केषाञ्चिन्मतम्।  

     जाया

     जायाशब्दः स्त्रीवाचकत्वेन विशेषेण भार्यार्थे प्रयुज्यते। ऐतरेयब्राह्मणे जायाशब्दस्य ब्युत्पत्तिः निरूपिता – तज्जाया जाया भवति यदस्यां जायते पुनः। तत्र पुरुषः पुत्रत्वेन पुनर्जायते, सा जाया इति कथ्यते। वैदिकसाहित्ये पुत्रस्य साधनरूपेण जायायाः महिमा, गौरवं, कृपा, सौन्दर्यं च बहुषु स्थानेषु विवृतमस्ति। ऐतरेयब्राह्मणे उक्तं जाया आभूतिरेषा भूतिः। अर्थात् जाया एव ऐश्वर्यस्य, समृद्धेश्चेति कारणम्। ऋग्वेदेऽपि तस्याः गमनविषये अतिमधुराः भावाः व्यक्ताः सन्ति – कल्याणी जाया सुरणं गृहे ते, जायेदस्तं मघवन् सेदुयोनिः। अर्थात् जाया पुरुषस्य विश्रामस्थानरूपेण, सुखशान्तिदायिनी च उपस्थापिता।[16]

     दुहिता

     कन्यायाः कृते दुहिताशब्दः अतीव प्रचीनः अस्ति। अन्यभाषाष्वपि भिन्नत्वेन दृश्यते यथा आंग्लभाषायां डटर,     जर्मानभाषायां तोख्तर, ग्रीके थुगदार, आवेस्तायां दुधोतर चेत्यादयः शब्दाः केनचित् प्रकारेण वा दुहिताशब्देन सह सम्बद्धिताः सन्ति। यास्केन अस्य ब्युत्पत्तिः कृता दुहिता दुर्हिता, दूरेहिता ।[17] दुर्गाचार्यः एतत् स्पष्टीकृत्य लिखति यत् दुहिता दुर्लभा अस्ति, यतः या यत्र दीयते तत्र सर्वदा स्वागतं न भवति। अन्यथा दूरे हिता इति या दूरदेशे स्थित्वा अपि पितुः हितं कामयते सा दुहिता इति। तेनोक्तं सा हि यत्रैव दीयते तत्रैव दुर्हिता भवति। अथवा दूरे हिता दुहिता। दूरे सतिसा पितुः हिता पत्यं भवति इति दुहिता इति उच्यते। यास्कानुसारेण दुह् दोग्धेर्वा इति धातोरपि दुहिता इति शब्दस्योत्पत्तिः भवति। अस्याः व्याख्यायां दुर्गाचार्यः कथयति सा हि नित्यमेव पितुः सकाशात् द्रव्यं दोग्धि प्रार्थनापरत्वात्। अर्थात् सा प्रार्थनया किञ्चित् धनं प्राप्नोति। अनेन दृष्ट्या दुहिता इति नाम सुप्रसिद्धं भवति। दुहितृ इति शब्दः दुह् धातोः निष्पत्तौ कश्चन सन्देहः नास्ति। अतः एतस्मात् आधारात् अनुमीयते यत् पुराकाले कन्याः पितृगृहे गोदोहने संलग्नाः आसन्, अतः तासां दुहिता इति नाम प्रचलितमभवत्। सामाजिकदृष्ट्या प्राचीनभारते कन्यायाः स्थानं सर्वथा पुत्रसमं नासीदिति किञ्चित् आभासते। ऐतरेयब्राह्मणे उच्यते कृपणं हि दुहिता ज्योतिर्हि पुत्रः। अर्थात् पुत्रः प्रकाशस्वरूपः, दुहिता च शोककारणमिति तदा प्रचलिता धारणा आसीत्। तथापि पतञ्जलिना तयोः साम्यं दर्शितम् – यदि पुनाति प्रीणातीति वा पुत्रः दुहितर्यप्येतद् भवति। यदि पुत्रः शुद्धयति वा आनन्दयति तर्हि दुहिता अपि शुद्धयति आनन्दयति च।[18]

     निष्कर्षः

     एवमुपर्युक्तानां शब्दानां ब्युत्पत्तिविश्लेषणेन प्रतीयते यत् स्त्रीणां सामान्यस्वरूपम्, सामाजिक-सांस्कृतिक-मानसिकदृष्ट्या बहुधा व्यज्यते। एताः व्युत्पत्तयः स्त्रीणां समादरभावं सूचयन्ति। केचन शब्दाः तासां नित्यं सत्यस्वरूपं व्यञ्जयन्ति। अन्ये तु तासां शारीरिकसौन्दर्यं द्योतयन्ति, अपरशब्दैः तासां मानसिकं, सास्कृतिकम्, आध्यात्मिकञ्च स्वरूपम् उद्घाट्यते। अनेन ज्ञायते यत् स्त्री केवलं बाह्यरूपेण न सीमिता, अपि तु तस्याः आन्तरिकगुणाः अपि अत्यन्तं महत्त्वपूर्णाः सन्ति। सा स्वभावतः स्नेहमयी, करुणामयी, त्यागमयी चास्ति। सा समाजस्य मूलाधाररूपेण प्रतिष्ठितास्ति तथा जीवनमूल्यानि धारयति वहति च। मातृत्वेन सा पालनपोषणं करोति, प्रेम्णा सम्बन्धान् निर्माति, त्यागेन च आदर्शत्वेन प्रतिष्ठां लभते। अतः अस्मात् व्युत्पत्तिविश्लेषणात् प्रतिपद्यते यत् स्त्री न केवलं सौन्दर्यस्य प्रतीका, अपि तु शक्तेः, प्रेम्णः धौर्यस्य च मूर्तिरूपास्ति। सा मानवीयजीवनस्य सर्वाङ्गीणविकासे अनिवार्या भूमिकां वहति तथा समाजे परमश्रद्धायाः मर्यादायाश्च अधिकारिणी चास्ति।

    सन्दर्भग्रन्थसूची :

  1. अप्टे, वामन शिवराम. संस्कृत-अङ्ग्रेजी-कोशः. पुणे : श्रीविद्या प्रकाशनम्, १९५७
  2. भट्ट, विष्णुशास्त्री. (सम्पादक) (२००५)  दिल्लीः : चौखम्वा सुरभारती  प्राकशनम्
  3. गोयेल, माधुरी. संस्कृतसाहित्ये नारीस्वरूपम्. भारतीय विद्या शोध पत्रिका, २००५
  4. प्रकाशनन्द, स्वामी. यास्कनिघण्टु (वैदिकशब्दावली). चौखम्वा प्रकाशन, २००६
  5. चट्टोपाध्याय, कोमलादेवी. वेदों मे नारी(वेदेषु स्त्रियः). भारत संस्कृत परिषद्, १९९८
  6. मिश्र, राजेन्द्र. संस्कृतसाहित्य मे नारी. राष्ट्रीय प्रकाशन घर, २०१२
  7. मोहन, जोत्स्ना. पर्यावरण एवं भारतीय नारी. दिल्ली: श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम्, २०१५
  8. कुमारी, आशा. भारतीय नारी का इतिहास. भारतीय इतिहास परिषद्, २०१४
  9.  पाण्डेय, श्रीधर. भारतीय नारीः एक समाजशास्त्रीय अध्ययन. वाराणसी : चौखम्बा प्राकाशन, २००८

[1] तैत्ति. आर. ६-१-३

[2] शतपथ. ब्राह्म.३-५-४-४

[3] महा. ४-४-९

[4] निरुक्त, ४-१-३

[5] सायण. तै.आ. ४.२.१

[6] निरुक्तं ३-२१-२

[7] पा. ४-१-३

[8] नि. ३.१५.१

[9] ऋग्वेद. १.१८.११

[10] शत.ब्रा. ३.६.१.४२

[11] निरुक्तं ३.१२.२

[12]ऋग्वेद १.४८.५

[13]देवीपुराणम्, अध्यायः ४६  

[14]ऋग्वेद ८.३३.१७

[15]निरुक्तं ३.२१.२  

[16] ऋग्वेदः ३.५३.४

[17] नि.३.४.४

[18] अष्टा.१.२.६२