अध्यापकव्यक्तित्वलक्षणानि

            प्रो. रजनीकान्तशुक्लः

          शिक्षासङ्कायः

                                   राष्ट्रियसंस्कृतविद्यापीठम्

                                    (मानितविश्वविद्यालयः)

                                     तिरुपतिः

कस्यापि राष्ट्रस्य निर्माणे समाजस्य शिक्षायाः संस्थायाश्च योगदानं भवति। प्राचीनकालादेव समाजस्य एतत्कार्यं बहवः नागरिकाः निर्वहन्ति । तेषु अध्यापकानां महत्त्वपूर्णा भूमिका वर्तते । एकस्मिन्नेव समये सामाजिकमूल्यानां, नैतिकमूल्यानां, जीवनमूल्यानां, राष्ट्रियमूल्यानां, धार्मिकमूल्यानां च स्थापनाय अध्यापकाः एव कर्तुं शक्नुवन्ति ।

वैदिककाले शिक्षाव्यवस्थायाम् आचार्यस्य प्रधानता आसीत्। उत्तरवैदिककाले शिष्यस्यच प्रधानता आसीत्, परन्तु अस्मिन्नेव काले बालकेन्द्रिता शिक्षा प्रचलति। सर्वेषु युगेषुशिक्षकस्य प्रधानता अस्त्येव ।

“ज्ञान तृतीयं मनुजस्य नेत्रम्”बुद्धिर्ज्ञानेन शुध्यति’ ‘बुद्धिर्यस्य बलं तस्य’ ‘विद्याददाति विनय’ ‘विद्या विनयेन शोभते’ ‘विद्याविहीनः पशुः’ ‘नास्ति विद्यासमं चक्षुः’ ‘सा विद्या या विमुक्तये’ इत्यादिभिः आदर्शवाक्यैः विद्यायाः सत्तां सर्वे साधयितुमिच्छन्ति ।

शिक्षाप्राप्तये सामाजिकाः जनाः शिक्षालयस्य स्थापनां कर्वन्ति। शिक्षालयसंचालकत्वेन आचार्यस्य, अध्यापकस्य, गुरोर्वा दायित्वं भवति। तत्र मानवीयोद्देश्यानां पूर्त्यर्थं शारीरिकशक्तीनां.मानसिकशक्तीनाम्, आध्यात्मिकशक्तीनां च प्राप्त्यर्थम् उत्तमनागरिकाणां निर्माणाय च भवति ।

प्राचीनकालादेव शिक्षालयस्य संचालन मन्त्रद्रष्टारः ऋषयः, महर्षयः, आचार्याः, गुरवः, उपाध्यायाः, अध्यापकाः, शिक्षकाः, प्रेरकाः आदयः बहवः कुर्वन्ति स्म। इदञ्च परम्परायाम् अस्माकं संस्कृतौ च उल्लिखितमस्ति । तेषामेव प्रेरणया मानवाः जीवनयापनार्थं, समाजरक्षार्थं, राष्ट्रस्यमार्गदर्शनार्थं, संस्कृतिसंरक्षणार्थं, विश्वबन्धुत्व-भावनायाः विकासार्थं च सक्रियाः दृश्यन्ते ।

शिक्षया अन्तर्निहितशक्तीनां विकासः भवति, इति हेतो: सर्वे जनाः स्वसन्ततिंगुरोः पार्श्वे प्रेषयन्ति स्म । सर्वगुणसम्पन्नाः आचार्याः, गुरवः, अध्यापकाः तां शिक्षयन्ति स्म । इदानीमपि इयं परम्परा प्रचलति। एते शिक्षा प्रदातारः बहुभिः गुणैः सम्पन्नाः दृश्यन्ते ।

संस्कृतवाङ्मये यथा- वैदिकसाहित्ये, सूत्रसाहित्ये, उपनिषद्सहित्ये, संहिताग्रन्थे, तन्त्रे, साहित्ये च एतेषाम् आचार्याणां गुणविषये लक्षणविषये च वर्णितम्। यथा अथर्ववेदे –

आचार्यस्ततक्षनभसी उमे इमे

र्वीगम्भीरे पृथिवीं दिवं।। (अ.वे. ११11८)

रचनाज्ञानबलेन शिष्यस्य सर्वान् संशयान् दूरीकृत्य तद्व्यक्तित्वं निर्मातिस एव आचार्यः भवति इति । अथर्ववेदे आचार्यस्य व्यक्तित्वविषये वर्णितमस्ति –

आचार्य उपनयमानोब्रह्मचारिणं कृणुते गर्भमन्तः

तं रात्रिस्तिस्त्रः उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवाः ।।

अनेन मन्त्रेण ज्ञायते यत् आचार्यः ब्रह्मचारिणे द्वितीयं जन्म प्रददाति अत्र रात्रिशब्द तु अन्धकारवाचकः भवति । आचार्यः शास्त्रतत्वार्थयोश्च अवबोधनस्य कार्यं करोति स्म इति मनुस्मृतौ वर्णितम्-

उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः ।

संकल्पं सरहस्यं च तमाचार्यं प्रचक्षते इति

एवमेव पद्मपुराणेऽपि उक्तम्

“आचार्यो वेदसम्पन्नो विष्णुभक्तो विमत्सरः।

मन्त्रज्ञो मन्त्रभक्तश्च सदामन्त्रात्मकः शुचिः ॥

आचार्यः आचारं ग्राहयति इत्यपि निरुक्तिः निरुक्तौ उपलभ्यते । यः शिष्यचारित्रस्य आचार्यस्य संस्कर्ता भवति स एव आचार्यः ।

आधारितुं योग्यः आचार्यः इति पाणिनीयव्याकरणे अपि। एवमेव क्रमेण आचार्यगुणानां विषये आयुर्वेदस्य चरकसंहितायां वर्णितम्-

पर्यवदाश्रुतं परिदृष्टकर्माणं दक्षं दक्षिणं शुचिः,

जितहस्तमुपकरणवन्तं सर्वेन्द्रियोपपन्नं प्रकृतिशं,

प्रतिपत्तिज्ञमनुपस्कृत विहांमनेदृकृतमनसूयम

कोपनं क्लेशक्षमं शिष्यवत्सलमध्यापकं,

मापनसमर्थं च इत्येवगुणो ध्यायाचार्यः

गुरोर्लक्षणविषयेऽपि आगमसारतन्त्रे एवं वर्णितम् –

“गकारोज्ञानसम्पन्नरेफः सत्वप्रकाशकः

उकारात् शिवतादात्म्यं दद्यादिति गुरुस्मृतः ।।

अपि च शब्दकल्पद्रुमे वर्णितमस्ति –

गकारः सिद्धिदं प्रोक्तो रेफो पापस्य हारकः ।

उकारो विष्णुरव्यक्ता जितमात्मागुरुः परः ।।

एवञ्च निरुक्ते निगदितम् –

गुरुशिष्योपकर्ता सत्पथस्य च प्रदर्शकः

बालकस्य सर्वांगीणविकासस्य कार्यं गुरुरेव करोति । इति स्मृतौ मनुना उक्तम् –

निषेकादीनि कर्माणि यः करोति यथाविधिः।

सम्भावयति चान्येन स विप्रो गुरुरुच्यते ।।

अनेन प्रकारेण एव शिवपुराणेऽपि गुरोर्लक्षणविषये स्पष्टीकृतम्-

शिष्यस्तु शिक्षणीयत्वात् गुरुर्गौरवकारणात्।

तस्मात् सर्वप्रयत्नेन गुरुगौरवमाचरेत्।। इत्यस्ति।

श्रूयते च प्रसिद्धः श्लोकः

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।

चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥

अनेन श्लोकेन ज्ञायते यत् गुरवः उपकारकाः भवन्ति । एवमेव शारदातिलकस्यद्वितीयपटले विद्यते ।

सर्वागमानां सारज्ञः सर्वशास्त्रार्थतत्त्ववित् ।

परोपकारनिरतो जयपूजादितत्परः ।।

अमोघवचनः शान्तो वेदवेदार्थपारगः

योगमार्गानुसन्धायी देवताहृदयसंगमः ।।

इत्यादिगुणसम्पन्नो गुरुरागमसम्मतः । (१४२-१४४ – इति)

अद्वैताख्यकोपनिषदि एवं वर्णितम् –

गुरुशब्दस्त्वन्धकारो: रुशब्दस्तन्निरोधकः ।

अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते ।।

एवमेव कुलार्णवतन्त्रेऽपि सप्तदशे उल्लासे एवमेव वर्णितमस्ति।

सर्वेषु तन्त्रेषु वैष्णवशैवशाक्तपरम्परासु च गुरूणां कृते बहूक्तम् । अत्र प्रपञ्चसारसंग्रहस्य षत्रिंशत्पटले गुरोर्विषये वर्णितस्य अंशस्य संक्षेपेण प्रदर्शनं क्रियते-

स्वच्छः स्वच्छन्दसहितोऽतुच्छधीः सक्तहृच्छयः

देशकालादिविद् देशे देशे देशिक उच्यते ।।

अग्रगण्यः समग्रज्ञो निग्रहानुग्रहक्षमः ।

षड्वर्गविजयव्यग्रो विगतविग्रहः ।

शुक्लशुक्लांशुकोत्कृष्टकर्मा विक्लवमानसः

वेदवेदाङ्गविद्वादी वेदिता विदितागमः ।।

इष्टदोऽनिष्टसंहर्ता दृष्टादृष्टसुखावहः

रतोऽविरतमर्चासु परं पुरमुरद्विषोः ।।

शान्तोदान्तः शान्तमना नितान्तं कान्तविग्रहः ।

स्वदुःखकरणेनाऽपि परं परसुखोद्यतः ।

ऊहापोहविदव्यग्रोलोभमोहविवर्जितः

अज्ञानुकम्प्यविज्ञातज्ञानो ज्ञातपरेङ्गितः।

निरशशांशवित्सर्वं संशयाच्छेदसंशयः

नयाविद्विनयोपेतो विनीतो नचिरात्मवान् ।।

व्याधिरप्रापितव्याधिः समाधिविधिसंयुतः ।

श्रुतिधीरोऽतिधीरश्च वीरोवाक्यविशारदः ।।

वर्गोपेतसमारम्भो गम्भीरो दम्भवर्जितः ।

आदर्शः इव विद्यानां न तु दर्शनदूषकः ।

गुरोर्लक्षणविषये शब्दकल्पद्रुमे वाचस्पत्ये च इत्थं दृश्यते –

शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेशवान् ।

शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान् ।।

आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः ।

निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते ।।

एवमेव महाभारते अपि अध्यापकलक्षणविषये वर्णितम् –

प्रवृत्तवाक् चित्रकथः, ऊहावान् प्रतिभानवान् ।

आशुग्रन्थस्य वक्ता च यः स पण्डित उच्यते ।।

मनुस्मृतावपि-

नारून्तुदः स्यादार्तोऽपि न परद्रोहकर्मधीः ।

ययास्योद्विजाते वाचा नालोक्यां तामुदीरयेत्।।

अनेन श्लोकेन ज्ञायते यत् दुःखी सन्नपि इतरेषां मनः दुःखितं यथा न स्यात्, द्वेषभावेन यः गर्हितं न वदेत्। स एव अध्यापकः इति । यः स्वयम् अध्ययनं करोति, तदनुसारम् अध्यापनं करोति स एव उत्तमाध्यापकः भवति इत्यपि ग्रन्थेषु प्राप्यते।महाकविकालिदासेन शिक्षकगुणविषये संक्षेपेण मालविकाग्निमित्रम् इत्यस्मिन् ग्रन्थे वर्णितम् –

श्लिष्टा क्रिया कस्यचिदात्मसंस्था,

संक्रान्तिरन्यस्य विशेषयुक्ता ।

यस्योभयं साधु स शिक्षकाणां,

धुरिप्रतिष्ठापयितव्य एव ।।

श्लोकेन अनेन ज्ञायते यत् स एव शिक्षकः साधुर्भवति यः अधिगतविद्यादिग्दर्शकरूपेणकार्यं करोति ।वर्तमान शिक्षाप्रणाल्यां शिक्षकाः दिग्दर्शकरूपेण कार्यं कुर्वन्ति ।

आचार्यः गुरवः शिक्षकः, इति एतेषां शब्दानां कृते आंग्लभाषायां (टीचर)Teacher इति शब्दस्य प्रयोगो भवति अस्मिन् पदे सप्ताक्षराणि सन्ति। प्रत्यक्षरं च तानि अस्मच्छास्त्रोक्तं व्यक्तित्वं सम्यक् रीत्या बोधयन्ति –

T-      Tactful        –       (टेक्टफुल)              – वाक्चतुरः शिक्षणविधिषु निपुणता।

E-      Enthusiasm- (एन्थ्यूजिज्म)    – उत्साहः अभ्युत्साहकः ।

A-      Attentiveness-       (अटेन्टिवनेस्)   – ध्यानकेन्द्रितः ।

        Address               (अड्रेस्)         – सम्बोधनम् ।

C-      Capacity of-  (कैपेसिटि ऑफ  – नेतृत्वक्षमता ।

        Leadership           लीडरशिप)

H-     Honesty              -(ऑनेसटि)             – सत्यनिष्ठा, विश्वासपात्रता ।

E-      Emotional Stability- (इमोशनल् स्टेबिलिटि) – संवेगात्मक सन्तुलनम् ।

R-     Respectful           – (रेस्पेक्टफुल्)  आदरणीयः ।

Reserved             – (रिजर्व्ड्)              आत्मसंयमः, गाम्भीर्यम्।

Responsible  – (रेस्पान्सिबुल्) उत्तरदायित्वम् ।

उपर्युक्तैः गुणैः युक्ताः शिक्षणपदवीं प्राप्तुं योग्याः इति पाश्चात्यानां मतम् । वस्तुतः प्रकृत्या सर्वे अध्यापकाः भवन्ति, परन्तु शिक्षणप्रशिक्षणमाध्यमेन अध्यापनव्यवसाये कुशलताप्राप्तये च बहूनां जनानाम् आवश्यकता भवति । अतः प्रशिक्षणेन शक्तिसंचारः अपि क्रियते इति ।

भारतीयशिक्षादार्शनिकेषु प्रमुखाः आचार्याः स्वामीविवेकानन्दः, स्वामीदयानन्दः, महात्मागान्धिप्रभृतयः। एते स्वशैक्षिकविचारावसरे अध्यापकगुणानां सम्यकृतयावर्णनं कृतवन्तः ।तथैव पाश्चात्यशिक्षादार्शनिकेषु – रूसो, अरस्तू, ब्राउन, पेस्टॉलॉजी, पल्प, मॉहसेन्, मॉर्गन्, कीथ् प्रभृतयः परीक्षणैः शिक्षक गुणानां निर्धारणं कृतवन्तः ।

भारतीयशिक्षाविकासार्थं विभिन्नैः आयोगैः राष्ट्रस्य शिक्षासमुन्नत्यर्थम् अध्यापकशिक्षाविषयेऽपि गुणवत्ताविषये च बहुसंस्तुति प्रदत्ता, अस्मिन्नेव प्रसङ्गे राष्ट्रिय अध्यापक – शिक्षा परिषद् (N.C.T.E.)इत्यनया संस्थया आदर्श- अध्यापकनिर्माणार्थं दशछात्राध्यापकानां कृते एकप्रशिक्षकस्य व्यवस्था सम्पूर्णदेशे कल्पिता। अध्यापकानां गुणरक्षणाय संवर्धनाय आदर्शसंस्थापनाय च विश्वविद्यालयानुदानायोगः U.G.C. राष्ट्रियशैक्षिकानुसन्धानप्रशिक्षणपरिषद् (N.C.E.R.T) प्रभृतयः संस्था प्रतिस्तरेषु अध्यापकानां कृते अभिनवपाठ्यक्रमः (Orientation Course) पुनश्चर्या- पाठ्यक्रमः(Refresher Course) अपि च विविधानां शैक्षिककार्यक्रमाणां कार्यान्वयनं कुर्वन्ति।

राष्ट्रनिर्माणे अध्यापकाः एव सूत्रधारिणः भवन्ति । अतः अध्यापकानां गौरवेण राष्ट्रं सुरक्षितं भवति। सर्वत्र शिक्षाक्षेत्रे अध्यापकानां गुणसंवर्धनाय, कार्यकुशलतायाः विकासाय च योजनाः कल्पनीयाः । अनेन प्रकारेण भारतस्य प्राचीनं विश्वगुरुत्वमिति गौरवं पुन स्थापितं भविष्यति ।

सन्दर्भ ग्रन्थसूची –

१. वैदिक शिक्षा- पद्धति और आधुनिक शिक्षापद्धति- डॉ. नागेन्द्र झा

२. शिक्षा एवं संस्कृति नए सन्दर्भ          –       डॉ. भास्कर मिश्र

३. अध्यापन भारतीय दृष्टि                 –       विद्यानिवास मिश्र

४. प्राचीन भारतीय शिक्षण – पद्धति                –       डॉ. ए. एस्. अल्तेकर

५. भारतीय संस्कृति के तत्त्व                      –       आचार्य उमेश शास्त्री

६. प्राचीन भारतीय शिक्षा                         –       डॉ. राधा मुकुद मुखर्जी

७. अध्यापक शिक्षा का पाठ्यचर्या प्रारूप (परिचर्या प्रलेख)-

राष्ट्रिय अध्यापक शिक्षापरिषद् (N.C.E.T.)

८. शब्दकल्पद्रुम                                 –       राजा राधाकान्त देव

९. अध्यापक शिक्षा                                       –       डॉ. आर. ए. शर्मा ।