पण्डितशिवसहायकृते वेदान्तरामायणे रावणस्वरूपवर्णनपर्यन्तं विचारः

Buddhodev Ghosh (he/ him/ his)
IKS enthusiast and Researcher 
(Alumnus of IIT Bombay and RKMVERI, Belur Math & Former Project Associate of CSIR-TKDL Unit, New Delhi) 
Google-WebsiteLinkedIn, Vidwan IDGoogle ScholarOthers
E Mail – buddhodevghosh@gmail.com

संक्षेपरूपम्

अद्वैतवेदान्तदृशा प्राप्तं यत् वेदान्तो नाम उपनिषत्प्रमाणं तदुपकारिणि शारीरकसूत्रादीनि च। अधुना अत्र शारीरकसूत्रादि शब्देन शारीरकसूत्रातिरिक्तं किं किं उच्यते इति भवति प्रश्नः। टीकाकारेण उक्तं यत्- तदुपकारीणि वेदान्तार्थविचारानुकूलानीति यावत्।[1] तत्र यथा महाभारतान्तर्गतस्य श्रीमद्भगवद्गीतायाः ग्रहणं स्यात्, कथ न आदिकाव्याख्यतस्य रामायणस्य इत्यस्ति प्रश्नः। यद्यपि सम्प्रदाये रामायणस्य तथा स्पष्टतया ग्रहणं न स्यात् वेदान्त ग्रन्थरूपेण तथापि अत्र अस्माभिः तत्कृते विचारयितुं शक्यते। यतो हि बहुभिः मनीषिभिः आलोचकैः रामायणे वेदान्ततत्त्वं प्राप्तमेव। कथ न वा स्यात् तत्, शुद्धब्रह्मपरात्परेत्याख्यातस्य भगवतः निखिलजगत्कारणस्य रामस्य अयणं जीवनगतिः यत्र वर्णितः तत्र वेदान्ततत्त्वलेशोऽपि न स्यात् इति तु साहसवचनमात्रम्। पुनः अध्यात्मरामायणम्, योगवासिष्ठं, वेदान्तरामायणमित्यादिषु रामायणाश्रितेषु ग्रन्थेषु तु बहुधा वेदान्ततत्त्वस्य अवबोधो जायते। तस्मात् एषु एव एक अवार्चीनग्रन्थः वेदान्तरामायणेतिनामधेयः अस्माभिः अत्र समीक्ष्यते।

भूमिका

प्रायः महाराष्ट्रस्थस्य विश्वरामस्य त्रिषु पुत्रेषु अन्यतमः पण्डित-शिवसहाय-महाभागाः विंशतितमशताब्दीभागे (चतुर्दशाधिकोनविंशति-क्रिस्ताब्दः)[2] अस्य ग्रन्थस्य रचना विहिता। अत्र ग्रन्थरचानायाः किं कारणमिति वदन् तेन मोक्षहेतोः वेदान्ततत्त्वज्ञानस्य सर्वेषां ग्रहणाय प्रचेष्टावशात् कृतमिति उक्तम्।[3]

तत्र ग्रन्थादौ एकस्य महासमारोहस्य कथां घटनासरणिः प्रस्तूयते कविभिः। तत्र घटनाया आरम्भो भवति- ब्रह्मावर्तेति नाम्नी स्थाने यत्र ब्रह्मयज्ञार्थं ब्रह्मविचारार्थं वा चतुर्दशलोकेभ्यः मनीषिणः राजर्षयः महादेवादिदेवाः मिलितवन्तः। तत्र च वेद-पुराणादिशास्त्रैः सहितं वेदान्तशास्त्रस्य सदुद्भुतस्य[4] चर्चा जाता। तत्रैव कश्चित् बुद्धिमान् संवर्तेति नामधेयमुनिः रावणादीनां विषये प्रश्न उत्थापितः-

को रावणोऽतिप्रबलोऽरिहन्ता कः कुम्भकर्णो मदपानमत्तः।

किं तन्मदं यस्तु सकृत्प्रपीत्वा भवन्ति मत्ताः खलु ज्ञानवर्जिताः।। 1.16

पटचरितम्

रामायणमहाकाव्यस्य मुख्यचरितस्येषु एकस्य ज्ञानार्णवस्य शिवभक्तस्य रावणाख्यस्य दशाननस्य विषये अपि तत्सम्बन्धिनः विषये प्रश्नः पृष्टः। मूल कारणमत्र ज्ञानार्पितबुद्धेः अज्ञानीव कार्यं कथं सम्भवतीति जिज्ञासा। एवंप्रकारेण तैः मुनिभिः परम्पराक्रमेण लङ्कायाः, रावणात्मीयाणां, स्त्रीणां अपि च त्रिजटादीनां प्रजानां विषये अपि पृष्टम् किमिति। अन्ते तैः उक्तं यत् यत् यत्र उक्तं यच्च नोक्तं (राक्षसानां विषये) तेषां विषये विस्तारेण वदुत्विति। यतो हि ज्ञानीत्यनेन परिचयेण प्रसिद्धस्य रावणस्य तत्सम्बन्धीनां च विषये यदि चित्ताकुलकारकाः विषयाः श्रूयन्ते तर्हि जगति तु बहवः कथिताज्ञानिनः भवन्ति तेषां का गतिः इति संशय उत्पद्येत। तेन च जगतः किं स्यादिति चिन्ता अपि जायेत स्वस्यचिन्तासहकारेण। एवं प्रकारेण ग्रन्थस्य वेदान्तशास्त्राधारितक्रमेण प्रयोजनानि उक्त्वा, ब्रह्मावर्ते सभायाः विवरणं दत्त्वा तत्र च संवर्तमुनेः मुखेन प्रश्नाः उत्थापयितवान् कवि, अस्मिन् मोक्षाख्ये प्रथमे सोपाने।

            पुनः द्वितीये सोपाने तेन आरब्धः वेदादिशास्त्राणां विषये, येषां च नाशे तत्पर आसन् रावणः। ततः बहुसम्यक्प्रकारेण तेन रामायणे आगतानां चरित्राणां विषयाকणां च विषये स्मारितम्। प्रश्नमाध्यमेन एव (के कः इत्यादि क्रमेण) प्रायः सर्वेषां मूलभूतपात्राणां ग्रहणं कृतम्, केवलं तदेव न पुनः पुत्रेष्टियज्ञादीनामपि ग्रहणं कृतम्। एतेन एवं विभाति यत् प्रश्नमाध्यमेनैव सर्वेषां रामायणगतमुख्यविषयाणां स्मारणकौशलमिदम्। एतेन कवेः विषयोपस्थापनकौशलस्य सम्यक् भानंभवति। अनेन प्रकारेण क्रमिकतया आगच्छति सर्वेषां विषयाणां प्रसङ्गः। अस्मिन् अवसरे एतदपि बोद्धुं शक्यते यत् कथं तैः पूर्वं रावणस्य मदविषये प्रश्नः पृष्टः, ततः परम्पराक्रमेण तत्सम्बन्धीनां पुनः लङ्कास्थितानां विविधानां वस्तूनां विषये किमिति प्रश्नः पृष्टः। तत्खलु रामायणस्य कथायां आगतानां सर्वेषां मुख्यविषयाणां ग्रहणाय प्रेक्षापटनिर्माणमेव आसीत्। एवं प्रकारेण सम्पूर्णस्य रामायणकथायाः विवरणं जातम्। तत्र द्वितीये मोक्षाख्य सोपानः (मोक्षं प्रति नीयमानः सरणिः मोक्षकारणस्य वेदान्तगतवाक्यार्थश्रवणार्थत्वात् इत्यर्थः) भरतागमनपर्यन्तम्, तृतीये च रामेण वानरेभ्यः सर्वदिक्षु सीतासन्धानाय आदेशदानं, चतुर्थे तु रामचन्द्रसीतयोः देहत्यागपर्यन्तं वर्णितम्। एवं प्रकारेण आदौ प्रथमे सोपाने अध्याये वा सर्वलोककण्टकस्य रावणस्य पुनः परस्मिन् अध्यायत्रये तत्संशोधकस्य रामस्य विषये विस्तारेण विवरणं दत्वा, तेषां सर्वेषां मुख्यतत्त्वागमनेच्छुः संवर्तः तुष्णीम् अभवत्। परन्तु अत्र भवति प्रश्नः यैः एवं सम्यक्प्रकारेण सर्वेषां विषये ज्ञायते नामादिक्रमेण, तेषां किं वा प्रयोजनं पुनः किमिति प्रश्नकरणाय। तदुत्तरं तेनैव चतुर्थसोपानस्य अन्ते दत्तम्।- यद्यपि तैः पुराणे रामचरितं श्रुतं तथापि तस्य तृप्तिर्न जाता इति, तस्मात् वेदान्तमार्गेण सर्वाज्ञानभ्रान्त्यादिनिवारकेण शास्त्रमार्गेण रघुनन्दनस्य चरितं श्रोतुकामः सः।[5]

            अधुना प्रश्नानां सर्वेषाम् उत्तरदानाय मुनिः वरतन्त्वाख्यः आयाति। तत्र आदौ एव तेन उक्तं यत् रामो न विप्रो भवति न च राक्षसो रावणः। तत्र युक्तिरूपेण उक्तं यत् वेदान्तादिशास्त्राणाम् इदमेव तात्पर्यम् इदं शरीरमेव भुवनसारम्, तस्मात् लोकादीनामपि कल्पना न साधु। तर्हि किं भवति एतेषां मूलस्वरूपम्। तत्रोच्यते-

जगत्सृष्टिप्रक्रिया– आदौ तु एवं ज्ञातव्यं यत् जगतः कारण-पालन-लीनताः भवन्ति ईश्वरेच्छया। तस्यैव ध्यानगम्यस्य निराधारस्य सच्चिदानन्दरूपस्य जगत्पतेः निर्विकल्पस्य निराधारस्य च कष्टसहस्रेण लब्धव्यं दुर्गमाखिलं नित्यं तेजः तस्यैव तेजसः अर्बुदभागेन[6] भुवनत्रयं विस्तीर्यते।[7] किदृशं भुवनत्रयमिति उच्यते ब्रह्माविष्णुमहेश्वरादिसंयुक्तं कीटस्तम्भादिपर्यन्तम् इत्यर्थः।

            यद्यपि भगवतः तस्य जगत्कारणस्य नास्ति संसारोत्पत्तिनाशेषु इच्छा तथापि स्वस्य अण्वंशेन प्राप्तमिति कृत्वा तस्य विभाजनं जातम्, प्राप्तं च स्त्रीपुरुषयोः स्वरूपम्। स्त्री च अभवत् शक्तिरूपिणी। पुरूषो एव सगुणो भगवानिति स्वीकृतः। स च हरि मुनिभिः ज्ञातं बहुभिः नामभिः। तस्मात् तस्य निर्गुणस्य जगत्प्रभोः अणुभागस्यैव कीदृशं माहात्म्यमिति चिन्तनीयम्।[8]

मनुष्योत्पत्तिः– पुनः पुरूषेच्छया सर्वदेहाः उत्पन्नाः, स्तियः प्रभावेन तु अस्य जीवत्वस्य सत्यता , शरीरस्य च अनित्यता मन्यन्ते सर्वे। ततः पुरूषस्त्रीसंयोगेन प्रथमेन वीर्येण तर्को नामक अङ्कुर अभवत्, स च पुलस्त्य इति नाम्ना ख्यातः। तस्य च पुनः वितर्कनाम्ना पुत्रो जातः। ततः मरीचिर्मुनिः, ततश्च उद्वेग इति पुत्र यश्च विश्रवा इति नाम्नाः ज्ञातः, यस्य च दुर्मतिनाम्नी गेहिनी स्त्री अभवत्। इयं दुर्मतिः कैकसी नामका, तस्याश्च दीनमितिरिति सहपत्नी आसीत्। अस्याः पतिरञ्जिन्यो दीनमतेः पुत्रः कुबेरो जातः।

दशाननवर्णना– तत्र पुनः दूर्मतेः गर्भादागतोऽयं रावणः। तस्य च दशाननो नाम आसीत् यतो हि रावणस्य मनरूपस्य दशविधाः विषयाः आसन्- 1. जीवेभ्यः त्रासदानम् 2. भगवद्प्रीतिं विहाय अन्यकर्मसु प्रीतिसम्पादनम् 3. ईश्वरस्य भजने भङ्गोत्पत्तिः 4. जीवेषु भेददर्शनम् 5. भ्रमसम्पादनम् (!) 6. सर्वजीवेषु वैरिताकर्म 7. सर्वजीवेषु अविश्वासः 8. सुन्दरकार्यदर्शनेन पलायनम् 9. सर्वजीवेषु अनादरः 10. मदिरापानम् इति। तस्य च मनरूपिणः रावणस्य विंशतिहस्ताः भवन्ति- 1. दुःखत्यागः 2. सुखेच्छा 3. वियोगभावना 4. विचारं विना कार्यकरणम् 5. असन्तोषः 6. प्रमादः 7. ईश्वरात् अभयम् 8. निद्रा 9. पैशून्यम् 10. वेदाविहितकर्मकरणम् 11. स्वेच्छां विना अन्योपदेशस्य अमान्यता 12. सदा ग्लानिः 13. सदा हानिः 14. सदा असम्यक् कर्मसु प्रीतिः 15. प्रमत्तता 16. कौतुकप्रीतिः 17.स्त्रीरतिः 18. अनम्रता 19. सर्वजीवेषु स्वस्य प्राधान्यज्ञानम् 20. सुखदुःख्याभ्यां क्लेशः।

दुःसङ्गस्तु द्वितीयः कुम्भकर्णः, तृतीयत्रासः विभीषणः संजातः। कन्या च एका दुःसगेच्छा अतिक्रूरिणी जाता। सा च शूर्पणखा नाम्ना प्रख्याता। अन्ये च दुष्टकार्या खरादयो जाताः। एवंप्रकारेण मेघनाथादीनां विषये अपि प्रोक्तम्।

उपसंहारः अस्माभिः एतावत् समीक्ष्य आलोच्य च विरम्यते। अत्र ज्ञायते यत्- रावणस्य स्वरूपत्वेन अत्र कथं मनसः वृत्तयः उक्ताः। तत्र रावणरामयोः युद्धस्थलं न तु पौराणिके काले अतिष्ठत् अपि तु अधुनापि अस्माकं चेतांसि तिष्ठत्येव। वेदान्ते तु अस्यैव वर्णनं प्राप्यते यत् अहमेव ब्रह्म, शुद्धब्रह्मपरात्पररामः तर्हि अन्यत्र कुत्र स्यात्। अपि च अज्ञानवशात् अस्माकं मूलस्वरूपविषये अज्ञानिसु अस्मासु एव चिररामरावणद्वन्द्व चलत्येव। अखिलजगत्संसारस्य कर्तुः अंशत्वेन वयं यथा तिष्ठामहे तथा अस्मासु एव रामस्य वासः, अस्माकं जीवनमेव रामायणम् अपि च दुर्वृत्तयः रावणसदृशाः राक्षसाः इति शम्।

Reference(s):

  1. Upadhyay, Shivasahaya; Vedānta-Rāmāyaṇaṁ, 1914, Maharashtra
  2. Sadānanda; Vedāntasāra (with Vidvadmanorañjinī commentry).

[1] विद्वद्मनोरञ्जनी टीका

[2] प्रकाशनवर्षः

[3] वेदान्तार्थानि गुढानि शीघ्रं सर्वैर्न ज्ञायते।

  अतः सर्वार्थमाहृत्य जीवानां मोक्षहेतवे।।
  रचितोऽयं मया ग्रन्थः… (1-2 रचनाकारणम्)

[4] सतां वचोभिः अनुभवैः वा आगतम्, ब्रह्मैव केवलं सदित्यादि सदात्मकब्रह्मणो विषये आगतं शास्त्रं वा।

[5] पुराणे रामचरितं श्रुतं न तर्पितं मनः।।
  वेदान्तमार्गेण वदस्व भो मुने सर्वं चरित्रं रघुनन्दनस्य वैः।। (4.53)

[6] गणितदृशा दशकोटि लक्षणया तु असंख्यम् अनन्तं वा स्वीकर्तव्यम्।

[7]  अत्र भाषाटीकायामुक्तं यत् आलोकसंयोगेन दृष्टस्य सूक्ष्मातिसूक्ष्मस्य कणस्य अणुरिति संज्ञा, तस्य च पुनः दशकोटिभागेभ्यः एको भागः उच्यते। तादृशेभ्यः त्रिंशत्भागेषु वर्तते भुवनत्रयमिति।

[8] निराकारस्य देवस्य निर्गुणस्य जगत्प्रभोः।

  तेजसः पश्य सामर्थ्यमणोरर्बुदभागिनः।। 5.12