आधुनिकमानवजीवनं संस्कृतिश्च

डा. चन्दा         
मानविकीविद्यापीठम् (संस्कृतम्) 
इन्दिरागान्धिराष्ट्रीयमुक्तविश्वविद्यालयः
नई दिल्ली -110068
E Mail – chandashah461@gmail.com

वैदिकचिन्तनस्य दृष्ट्या आधुनिकमानवशाश्वतसंस्कृतस्य इतिहासे वेदानाम् अतीव गौरवपूर्णं स्थानम् अस्ति। भारतीयधर्मस्य सभ्यतायाश्च भवनं मुख्यतया वेदानां आधारशिलया  विनिर्मितम् वर्तते । वैदिकजीवनपद्धतिः पर्यावरणस्य रक्षणं कुर्वन् द्रोणीषु सर्वदा प्रफुल्लिता अस्ति । अत एव वैदिकर्षयः एवं वदन्ति –

उपह्वरे गिरीणां सङ्गमे च न नदीनाम्। धिया विप्रो अजायत।।[i]

अर्थात् वैदिकिधियया जीवनं केवलं नदीनां सङ्गमे तथा च गिरिगुहासु एव आसीत् । स्वार्थाय प्रकृतेः पर्यावरणस्यश्च दोहनं कै: कृतम्?।

सत्यमेव यत् वैदिकजीवनशैली मुख्यतया ग्राम्यजीवनमेवासीत्, परन्तु नगरजीवनस्य अस्तित्वाभावं सर्वथा  आसीदिति न कल्पयितुं शक्यते । आरण्यकेष्वपि नगरम्[ii] ‘इति शब्दः प्राप्यते – ऐतरेयब्राह्मणेष्वपि  च प्राप्यते ।

नगरी जनस्रोतय:।“[iii]

अत आधुनिकनगरीकरणस्य कारणेन पर्यावरणं प्रकृतिश्च विषयुक्ता जातमिति  वक्तुं ‘न सत्यम् किम् ‘। यदा आधुनिकमानवसभ्यता स्वजीवने वेदसदृशं मानवसभ्यतासंविधानस्य त्यागमकरोत् तदानीमेव तेषां जीवने  आन्तरिकबाह्यतः सर्वतश्च व्याकुलताया: दिग्दर्शनम् भवत्येव। यदि वयं वैदिकजीवनम्  अपश्यामः चेत् तस्मिन् काले वैदिकग्रामम् आवश्यकसामग्रीभिः परिपूर्णमासीदिति ज्ञास्यामः। तस्य आवश्यकतानां परिपूर्त्तये अन्यग्रामेषु नगरेषु च आश्रितः न भवितुमर्हति स्म, परन्तु अद्यत्वे आधुनिककाले वयं पश्याम: चेत् सर्वे सामाजिकजना: वा सर्वे आधुनिकाः  परस्परम् आश्रिताः जातम्।

यद्यदि विश्वे कुत्रापि कापि दुर्घटना भवति चेत्  सम्पूर्णा वैश्विक-अर्थव्यवस्था छिन्न – भिन्ना  भविष्यति।

कालेस्मिन् विश्वे बहु अशान्ति: वर्तते। उदाहरणार्थं कोरोनाकालः, रूस-युक्रेन-युद्धम्। पुनश्च अधुना इजरायलेन सह खाड़ीदेशानाञ्च युद्धम् अस्माकं पुरतः वर्तते। एतेन कारणेन अर्थव्यवस्थायां महती हानिरशान्तिश्च भवति। अस्माकं वैदिकसमाजस्य निवासी आर्यजनाः कृषिद्वारा परिश्रमेण खाद्यपदार्थानि, पशुपालनद्वारा दुग्धमाज्यादीनि खाद्यपदार्थानि उत्पादयन्ति स्म। वैदिककालस्य ग्रामजना: मेषपालनं अजानां प्रतिपालनं कुर्वन्ति स्म, मेषस्य ऊनानि च शीतात् रक्षणार्थं कम्बलवत् उष्णवस्त्राणि निर्मान्ति स्म। तस्य च विक्रयेण ते अपि अन्यवस्तूनि स्वस्य कृते व्यवस्थापयन्ति स्म। कृषिकार्यं कुर्वन्तः कृषकाः प्रचुरं कपासस्योत्पादनं कुर्वन्ति स्म। यस्मात् गेहे स्त्रियः सुन्दराणि वस्त्राणि इत्यादीनि निर्मान्ति स्म।

तन्तु तत संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती।”[iv]

काष्ठकाराः काष्ठकार्यं कुर्वन्तः जनाः आसन्। ते रथनिर्माणं कुर्वन्ति स्म ,तेषां  युद्धाय, मनोरञ्जनाय च समुपयोगं महत्वपूर्णं  भवन्ति स्म।

तथैव जनानाम् आरोग्यरक्षणार्थं पूर्वं रोगचिकित्सकाः वैद्याश्चासन्। ते भिषक्[v] इति नाम्ना सम्बोधिताः भवन्ति स्म । तस्य ज्ञानं  वेदेषु मन्त्राणां तथा च विविधानां विषयेषु ज्ञायते।

सम्पूर्ण वैदिकदर्शनस्य केन्द्रविषयाः सन्ति – ईश्वरः, आत्मा, प्रकृतिः, ऋत्, सत्यं च वैदिकसमाजस्य मूलतत्त्वम् आसीत्।

परन्तु तै: प्रकृतेः संरक्षणाय  बहु महत्त्वं दत्तम् आसीत्। प्रकृतिः विविधरूपेण प्रशंसिता आसीत् ।

यस्य भूमि प्रमाऽन्तरिक्षमुतोदरम्।

दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ।।[vi]

यया भूमेराधार अन्तरिक्षः तथा च उदरमिव आकाशः, यस्य शिरः पृथिवी इव भवति,  तस्मै ब्रह्मणे नम:।

अत्र पूर्ण परमेश्वरेण सह प्रकृत्या अनुपमा तुलना विद्यते।

वेदेषु प्रकृतिः मनुष्यश्च परस्परं पूरकत्वेन वर्णितः।

वेदेषु प्रकृतिः मनुष्यश्च परस्परं पूरकत्वेन वर्णनम् समुपलभ्यते।

माता भूमिः पुत्रोऽहं पृथिव्याः।[vii]

ऋग्वेदे वर्षाकालस्य वर्णनं कुर्वन् प्रकृतेः, सुखस्य च सुन्दराः वर्णाः व्यज्यन्ते।

ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः।

संवत्सरस्य तदहः परिष्ठ यन्मण्डूकाः प्रावृषीण बभूव।।”[viii]

अर्थात् यस्मिन् दिवसे प्रथमवृष्टिबिन्दवः पृथिव्यां पतन्ति वर्षति च तस्मिन् दिवसे मण्डूकाः सर्वतः सुखेन क्रन्दन्ति। तथैव

हे ब्राह्मणाः सर्वैरपि दोषा पश्चात् ब्रह्ममुहूर्ते वेदमन्त्रनिनादेन ईश्वरस्य यज्ञं कथयित्वा उत्सवं कुर्वन्तु। अनेन तेषां वर्षाविषयक ज्ञानस्य परिचयं लभ्यते।

वर्षाज्ञानस्य महत्त्वं वेदेषु निगदितं  वर्तते।

आधुनिकमनुष्याः जनसंख्याविस्फोटेन औद्योगिकीकरणेन च प्राकृतिकसम्पदां क्षीणं कृतवन्तः। यस्मात् कारणात् न केवलं मनुष्याणां अपितु पशूनां, पक्षिणां, वनस्पतिनां च अस्तित्वं प्रायः समाप्तं भवति । अस्याः समस्यायाः समाधानार्थं वैश्विक सर्वकारेण अन्तर्राष्ट्रीय-राष्ट्रीय-स्तरेषु अनेकानि  बहुविधानि कार्याणि क्रियन्ते । राष्ट्रियस्तरे ‘भीनासर आन्दोलन’, “नर्मदा बचाओ आन्दोलन”, “चिपको आन्दोलन” इत्यादि नैकधा प्रकल्पाः न केवलं सर्वकारै अपितु सामाजिकैश्चापि प्रचलन्तस्सन्ति। आधुनिकपर्यावरणं दृष्ट्वा वैदिकवैज्ञानिकपद्धतिं प्रति गन्तव्यं तथा च प्राकृतिकधनस्य रक्षणाय महती आवश्यकता वर्तते। मनुष्यश्च प्रकृतेश्च सामञ्जस्यं वेदपुराणेषु ब्राह्मणग्रन्थेषु उपनिषदेषु च ऋषिभिः निगदितमस्ति।

अन्नं बहु कुर्वीत तद्वतम्। पृथिवी वा अन्नम्।”[ix]

अन्नं बहु समुपादनीयम्। अन्नस्योत्पादनार्थं एकमात्रं कार्यं कृषिः। कृषिं विहाय अन्नस्य कल्पना कथमपि कर्तुं न शक्नुम:

घृतेन सीता मधुना समक्त्ता विश्वैर्देवैरनुमता मरूद्भिः।

स नः सीते पयसाभ्याववृत्स्वोर्जस्वती घृतवत् पिन्वमानाः।।[x]

यदा भूमिः सम्यक् घृतेन मधुना च सिञ्चिता भूत्वा जलवाय्वादिदेवानाम् अनुग्रहं प्राप्नोति तदा सा अस्मान् उत्तमं मधुरं रसयुक्तं धान्यं फलानि च ददाति।’गो-सूक्त’ गोष्ठसूक्तं च वेदेषु प्रकीर्तितम् ।
मनुष्यस्य धनं, अन्नं, बलं, यशः, गोः,…गोवंशादेव प्राप्तम् ।

 गोमातुः महिमा तैत्तिरीयारण्यके निगदितं वर्तते –

माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः
प्र नु वोचं चिकितुषे जनाय मा गामनागमदितिं वधिष्ट।।[xi]

ऋग्वेदे एतत् वैदिकपदं पृथिव्याः रक्षणार्थं प्रयुक्तम् अस्ति, यस्यार्थम् ओजोनस्तरस्य रूपं सूचयति, पृथिवीरूपेण शिशो: रक्षणार्थं परमतत्त्वेन ईश्वरेण महदुल्बमस्य निर्माणं कृतवान् (ओजोन स्तर)। यस्य ज्ञानं वैदिकयुगे ऋषिभिः मुनिभिश्च ज्ञातम् आसीत्।

महत् तदुल्बं स्थविरं तदासीदयेनाविष्टितः प्रविवेशिथापः।

विश्वो अपश्यद्वहुधा ते अग्रे जातवेदस्तन्वो देव एकः।।[xii]

स्वार्थात् मानवा:शीघ्रं वनानि क्षीणं कुर्वन्त सन्ति । वृक्षान् न कर्त्तनम् निषेधं कृत्वा वेदमन्त्रः घोषयति – मापो मौषधीर्हिसी:[xiii]।”यजुर्वेदे वृक्षहिंसा स्पष्टतया निषिद्धा वर्तते।’

ऋग्वेदे एकस्य ‘अरण्यनि’ सूक्तस्य वर्णनं वर्तते  तत्र सम्पूर्णं सूक्तम् अरण्यनि अर्थात् वनदेवीं समर्पितम्अस्ति। या वने देवी इति उच्यते। अरण्यनी लोकस्य सर्वेषां वन्यजन्तुनां माता इति सम्बोधिता अस्ति।

शुद्धवायुगुणाः ऋग्वेदे  भणितम् यथा-

वात आ वातु भेषज शंभु मयोभु नो हृदे।

प्रण आयूँषि तारिषत्।।[xiv]

आधुनिकमानवजीवने वेदमन्त्राणां महत्त्वपूर्णं योगदानम् अस्ति । प्राचीनवैदिकग्रन्थानाम् पठनेन चिन्तनेन  च पूर्वोक्ताः आदर्शाः प्रेरणामन्त्राश्च अस्मान् जगतः कल्याणं प्रति नेतुं शक्नुवन्ति।


[i] यजुर्वेद २६/१५

[ii] तै.आ. १/११/८१

[iii] ऐ.ब्रा. ५/३०

[iv] ऋग् २/३/६

[v] ऋग्.२/३३/४

[vi] अथर्व.१०/७/३२

[vii] अथर्व.१२/१/१२

[viii] ऋग्.७/१०/३७

[ix] तै.उप.भृगु.९.१

[x] अथर्व.३/१७/९

[xi] तै.आ.६/१२/१ 

[xii] ऋग्.१०/५१/१

[xiii] यजु.६/२२

[xiv] ऋग्.१०/१८६/१