संस्कृतव्याकरणकोषशास्त्रपरम्परायां “भर्तृहरिज् वाक्यपदीय वोल्श्टेन्डिगर वोर्टइन्डेक्स त्सु डेन मूलकारिकास्”इति व्याकरणकोषग्रन्थस्यैतिह्यमनुशीलनञ्च
राजीवमण्डलः
शोधच्छात्रः, व्याकरणविभागः
केन्द्रीयसंस्कृतविश्वविद्यालयः
Email – mandalrajib624@gmail.com
Phone – 9144642030
शोधसारः – कुश् धातोः घञ् अच् वा प्रत्ययं कृत्वा कोशः इति शब्दः निष्पन्नो भवति। कोशः इत्यनेन शब्दानां संग्रहः, अकारादिक्रमेण भिन्नक्रमेण वा शब्दानामाच्छादनम्, शब्दानाम् अर्थनिरुपणम्, अर्थनिरुपणेन सह यथार्थालोचनम्, पर्याय-विपर्यय-शब्दानां निर्देशः, व्युत्पत्तिविचारः, प्रयोगपरम्परा एते विषयाः वर्णन्ते। संस्कृतसाहित्ये तथा व्याकरणसाहित्ये कोषशास्त्रस्य अवस्थानं प्राथम्येन सर्वत्र गृहीतं दृश्यते। इदमेव कोषशास्त्रं समग्रशास्त्रेषु शास्त्रशीर्षकरूपेण जगति सुष्ठु परिगण्यते। अभिधानं नाम कोषः भवति। पुनः कोषः इति नाम्ना शब्दानां किञ्चन अर्थबोधकशास्त्रमिति ज्ञायते। अध्ययनाध्यापनयो: क्षेत्रे तथा नानाप्रकारक-भाषाव्यवहारक्षेत्रे कोषग्रन्थानां महती भूमिका विद्यते अनुभूयते च। अनुसन्धानेऽपि कोषग्रन्थस्य महत्त्वं सर्वैः स्वीकृतम्। ज्ञानाधिगमप्रक्रियायां वेगमवाप्तुम्, आपाततः जिज्ञासितमर्थं त्वरितं ज्ञातुं, सन्दर्भं ज्ञातुं, शास्त्राणां नानाविधदिग्दर्शनार्थं च अनुसन्धित्सवः प्रायः कोषग्रन्थानामेव शरणमुपयान्ति। वेदाङ्गकालत आरभ्य अद्य यावत् बहुविधाः नानाशैलीयुक्ताः विविधभाषोपनिबद्धाः भिन्नसम्प्रदायप्रेरिताः कोषाः बहुभिः प्रथितविद्वद्भिः स्वस्वसमये स्वस्वावश्यकतानुसारेण भिन्नभिन्नकालखण्डे भिन्नभिन्नस्थाने विरचिताः। तेषु कतिचन वैदिकाः, शास्त्रीयाः, पारिभाषिकाः वा पुनः कतिचित् तु शब्दार्थनिरूपणपराः सन्ति। आकारदृष्ट्या तथा प्रकारदृष्ट्या कोषग्रन्थानां विशालसागरः प्राप्यते। व्याकरणे शालान्तरवत् कोषग्रन्थानामपि भिन्नभिन्नपण्डितैः भिन्नभिन्नप्रकारेण प्रणयनं दृश्यते। भारतीयज्ञानपरम्परां प्रति कोषग्रन्थानां विशेषतः व्याकरणकोषग्रन्थानां महत्वपूर्णं योगदानं दृश्यते। संस्कृतव्याकरणकोषशास्त्रपरम्परायाः परिप्रेक्ष्ये अस्मिन् शोधपत्रे भर्तृहरिकृतस्य वाक्यपदीयस्य “Vollständiger Wortindex zu den Mūlakārikās” इति अनुक्रमणिकाग्रन्थस्य ऐतिहासिकं स्वरूपं तथा तस्य अनुसन्धानात्मकं महत्त्वं च परीक्षितम्। प्रारम्भे संस्कृतव्याकरणकोषपरम्परायाः विकासः संक्षेपेण निरूपितः, अनन्तरं वाक्यपदीयस्य दार्शनिकमहत्त्वं प्रतिपादितम्।ततः उक्तस्य वोर्टइन्डेक्स-ग्रन्थस्य रचनाविधिः, संरचना, वैशिष्ट्यं च विवृत्तम्, यथा शब्दानां वर्णक्रमानुसारं विन्यासः, प्रयोगस्थाननिर्देशः इत्यादयः। अस्य ग्रन्थस्य उपयोगिता अपि दर्शिता, विशेषतः शोधकार्यार्थे शब्दान्वेषणे, सिद्धान्तविश्लेषणे, पाठसमीक्षायां च।अन्ते अस्य अनुक्रमणिकाग्रन्थस्य संस्कृतव्याकरणकोषपरम्परायां आधुनिकसोपानरूपेण स्थानं निर्धारितम्। अयं कोषग्रन्थः केवलं शब्दसूची-रूपेण न, अपि तु व्याकरणदर्शनस्य गम्भीराध्ययनाय अत्यावश्यकं साधनमस्ति।
संकेतशब्दाः – संस्कृतव्याकरणकोषः, कोषकारः, कोषशास्त्रपरम्परा, वाक्यपदीयम्, आधुनिकव्याकरणकोषः, ऐतिह्यम्, अनुशीलनम्।
भूमिका – भारतीयज्ञानपरम्परायां शास्त्रविकासाय शब्दार्थज्ञानमावश्यकम्। संस्कृतकोषशास्त्रपरम्परायां व्याकरणकोषशास्त्रपरम्परा अतीव प्राचीना प्रसिद्धा च अस्ति। कोषशास्त्रस्य अवधारणविषये काव्यालंकारसूत्रवृत्तौ वामनाचार्येण प्रोक्तम् – ‘अभिधानकोषात्पदार्थनिश्चयः’(१/१)। पुनः तेन रचितः कामधेनुटीकायामुच्यते – ‘तस्मादभिधानकोशतः पदस्यार्थं निश्चित्य निर्विचिकित्सं प्रयुञ्जीतेति।’ बौद्धसाहित्ये कोशशब्दस्यार्थ-ज्ञापनार्थमुच्यते – ‘यत्र ग्रन्थानां संकलनं भवेत्’। हरिवंशपुराणेऽपि उच्यते – ‘मञ्जुषानिर्माणकर्ता’। कोषानामुत्पत्तिः वैदिकशब्दस्यार्थबोधनार्थमभवत्। यद्यपि वैदिककालस्य सर्वे कोषग्रन्थाः अस्माभिः न प्राप्यन्ते, तथापि कालान्तरे बहूनां कोषग्रन्थानां कोषकाराणां नामानि च अस्माभिः प्राप्यन्ते । केचन विद्वांसः पाणिनिं कोषकाररूपेण वर्णयन्ति। यथा –
“पाणिन्यहीन्द्रगुरुभागुरिभोजभेडहेमामरादिसमुदीरितशास्त्रसारात्।
नानार्थरत्नतिलकं स च सिद्धशब्दरत्नाकरः (रं) समतनोत्सुमतिर्महीपः॥”[1]
कोषग्रन्थानां शास्त्रीयार्थज्ञापने ‘अनेकार्थसंग्रहः’ इति ग्रन्थे उच्यते –
“दर्शनं दर्पणे धर्मोपलब्ध्योर्बुद्धिशास्त्रयोः।
स्वप्नलोचनयोश्चापि दंशनं वर्म्मदंशयोः॥”[2]
सप्तदशशतके केशवाचार्येण कल्पद्रुकोषस्य प्रस्तावनायां कोषकाराणां नामानि उल्लिखितानि –
“कात्यवाचस्पति-व्याडिभागूर्यमरमङ्गलाः ।
साहसाङ्कमहेशाद्या विजयन्ते जिनान्तिमाः॥”[3]
पुनः कोषग्रन्थादि विषये अन्यत्र दृश्यते –
“मेदिन्यमरमाला च त्रिकाण्डरत्नमालिका।
रन्तिदेवो भागुरिश्च व्याडिः शब्दार्णवस्तथा॥
विरूपश्च कलिङ्गश्च रभसः पुरुषोत्तमः।
दुर्गोऽभिधानमाला च संसारावर्तशाश्वतौ॥
विश्वः वोपालितश्चैव वाचस्पतिहलायुधौ।
हारावली साहसाङ्को विक्रमादित्य एव च॥
हेमचन्द्रश्च रुद्रश्चाप्यमरकोशः सनातनः।
एते कोशाः समाख्याताः संख्या षड्विंशतिः स्मृता॥”[4]
प्राचीनकाले कोषानामुत्पत्तिः वैदिकशब्दस्यार्थबोधनार्थमभवत्। यद्यपि वैदिककालस्य सर्वे कोषग्रन्थाः अधुना न प्राप्यन्ते। अतः यास्काचार्येण रचितः निघण्टु इति कोष: प्राचीनतमः कोषग्रन्थः अस्ति। अस्य निघण्टुग्रन्थस्य व्याख्यानं भवति निरुक्तम्। अत्र विषयमधिकृत्य सायणाचार्येण उक्तम् – ‘अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम्’[5]। यथा वैदिकमन्त्राणाम् अर्थं ज्ञातुं शब्दकोषाः रचिताः, तथैव लौकिकसंस्कृतस्य शब्दावलीसमृद्ध्यर्थं एषः प्रकारः कोषः उद्भूतः । प्रो. कीथमहोदयः उक्तवान् – “….. in the case of the Nighaṇṭu literature the purpose was essentially interpretation of sacred texts which were becoming more and more obscure, while the Koṣas were prepared to help poets to a supply of words.”[6]
संस्कृतव्याकरणकोषशास्त्रपरम्परायां कतिपयाः प्रमुखाः कोषग्रन्थाः प्राचीनकालेऽपि आसन्। तेषु आचार्यपाणिनिविरचिताः धातुपाठः, गणपाठः, द्विरूपकोषः च, हेमचन्द्राचार्यस्य लिङ्गानुशासनकोषः, अभिधानचिन्तामणिः च, पुरुषोत्तमदेवस्य त्रिकाण्डशेषः, अप्पय्यदीक्षितस्य नामसंग्रहमालाकोषः, तथा अन्येषां विरचिताः नानाविधाः कोषग्रन्थाः जगति दृश्यन्ते। कालान्तरे आधुनिकानामपि पण्डितानां स्वकालधर्मानुसारेण स्वावश्यकतापूरणार्थं रचितानां नानाविधव्याकरणसम्बद्धकोषग्रन्थानामागमनेन व्याकरणकोषशास्त्रपरम्परा नवीनकलेवरयुक्ता सुसमृद्धा च भवतीति विषये सन्देहस्य लेशमात्रमपि नास्ति। पुनः आधुनिकजगति व्याकरणस्य नानाप्रकारकाणाम् आधुनिकाभिधानानां निर्माणे विद्वज्जनाः प्रचेष्टिताः भवन्ति। तेषाम् एतादृशी निरन्तरप्रचेष्टा अभिधानस्वरूपस्य एकाम् अनुपमां परम्परां सृजति।
संस्कृतव्याकरणशास्त्रं भारतीयविद्यापरम्परायाः अत्यन्तं गौरवपूर्णम् अङ्गम् अस्ति। एतत् शास्त्रं न केवलं भाषायाः शुद्धप्रयोगं निर्दिशति, अपि तु अर्थविचारस्य तत्त्वमीमांसायाः दार्शनिकदृष्टेः च आधारं निर्माति। अस्य दीर्घपरम्परायां पाणिनीयव्याकरणम् आद्यं स्थानं धारयति, किन्तु तदनन्तरं बहवः आचार्याः स्वस्वदृष्ट्या व्याकरणविचारं विकसितवन्तः। एतेषु विद्वत्सु भर्तृहरिः प्रख्यातः दार्शनिकव्याकरणाचार्यः अस्ति, यस्य वाक्यपदीयमिति ग्रन्थः भाषादर्शनस्य मूलाधाररूपेण स्वीक्रियते। अस्मिन् ग्रन्थे शब्दस्य, वाक्यस्य, अर्थस्य च सम्बन्धः सूक्ष्मतया विवेचितः अस्ति। तथापि अस्य ग्रन्थस्य गूढतया तस्य अध्ययनं सर्वेषां कृते सुलभं न भवति। अध्ययनसहायार्थं कोषग्रन्थोऽयं निर्मितः, येन माध्यमेन शोधकाः ग्रन्थस्य शब्दप्रयोगं सन्दर्भं च सुलभतया ज्ञातुं शक्नुवन्ति। अयं कोषग्रन्थः वाक्यपदीयस्य शब्दानां व्यवस्थितां सूचीं प्रददाति। शोधकार्यार्थे सहायकरूपेण अयं व्याकरणकोषः महत्त्वपूर्णमुदाहरणमस्ति।
कोषकारस्य ऐतिह्यम् – आधुनिकव्याकरणकोशकारेषु अन्यतमः प्रौढविद्वान् संस्कृतव्याकरण-वाक्यपदीयग्रन्थस्य जर्मनदेशीयः कोशकारः विल्हेल्म्-राउ-महोदयः आसीत्। तस्य सम्पूर्णं नाम आडोल्फ्-विल्हेल्म्-लुडविग्-राउ इति आसीत्। तस्य जन्म १५फेब्रुवरी-मासस्य १९२२तमे वर्षे जर्मनीदेशस्य गेरा-नाम्नि नगरे अभवत्। पितुः नाम रुडोल्फ्-राउ इति आसीत्, मातुः च नाम जोहान्ना-सैफार्थ इति आसीत्। तस्य पिता विद्यालयस्य शिक्षकः आसीत्। सः अपि पञ्चदशवयसि एव संस्कृताध्ययनम् आरब्धवान्। अनन्तरं १९४०तमे वर्षे सः लाइप्सिग्-विश्वविद्यालये फ्रिड्रिख्-वेल्लर-महोदयस्य अधीनम् अध्ययनम् आरब्धवान्। किन्तु द्वितीयविश्वयुद्धकाले तस्य अध्ययनं विच्छिन्नम् अभवत्। सः ‘इण्डियन-लीजन’ इत्यत्र दुभाषकरूपेण कार्यं कृतवान्, येन तस्मै हिन्दुस्तानीभाषायाः व्यवहारज्ञानं प्राप्तम्, अन्यैः इन्दोलोजीविद्वद्भिः सह सम्पर्काः च स्थापिताः। तदनन्तरं सः अल्पकालं अमेरिकीययुद्धबन्दिरूपेण स्थित्वा पाश्चात्यदेशं प्रत्यागतः। १९४६तमे वर्षे सः मार्बुर्ग-विश्वविद्यालये पुनरपि अध्ययनम् आरब्धवान्; तथापि फ्रिड्रिख्-वेल्लर-महोदयेन सह तस्य सम्पर्कः जीवनपर्यन्तम् अविच्छिन्नः आसीत्। १९४९तमे वर्षे सः मार्बुर्ग-विश्वविद्यालयात् विद्यावारिधि (पीएच्.डी.)-उपाधिं योहानेस्-नोबेल्-महोदयस्य मार्गदर्शनेन प्राप्तवान्। १९५२तमे वर्षे सः तत्रैव ‘प्राइवाट्-डोसेन्ट्’ इति पदं प्राप्तवान्। ततः सः द्विवर्षपर्यन्तं भारतदेशे स्थित्वा शान्तिभिक्षु-शास्त्रि-महोदयस्य अधीनं शान्तिनिकेतने व्याकरणशास्त्रं विशेषतया अधीतवान्। १९५५तमे वर्षे सः फ्राङ्कफुर्ट्-विश्वविद्यालये इण्डो-यूरोपीय-भाषाविज्ञानस्य प्राध्यापकः नियुक्तः। १९५७तमे वर्षे सः मार्बुर्ग-विश्वविद्यालये योहानेस्-नोबेल्-महोदयस्य उत्तराधिकारी सन् संस्कृत-फिलोलोजी-प्राध्यापकः अभवत्। १९८८तमे वर्षे सः सेवानिवृत्तः।
राउ-महाशयः विशेषतया वैदिककालीन-भौतिकसंस्कृतेः विषये स्वीयैः गम्भीरैः अनुसन्धानैः प्रसिद्धः आसीत्। सः पुरातत्त्वीयप्रमाणानि वैदिकग्रन्थैः, विशेषतः ब्राह्मणग्रन्थैः सह संयोज्य सम्यक् आलोचनात्मकं विवेचनं कृतवान्। तस्य अन्ये रुचिविषयाः वाक्यपदीय-ग्रन्थस्य पाठपरम्परा तथा इन्दोलोजी-इतिहासः च आसन्। प्रख्यातः इन्दोलोजीविद्वान्, मार्बुर्ग-विश्वविद्यालयस्य संस्कृतभाषाशास्त्रस्य च प्राध्यापकः आसीत्। विशेषतः वैदिकसाहित्ये, धर्मशास्त्रेषु, संस्कृतव्याकरणे च पारङ्गतः आसीत्। तेन संस्कृतशास्त्रविषयकाः ग्रन्थाः, शोधपत्राणि च विरचितानि सम्पादितानि च। तस्य प्रमुखं योगदानं संस्कृतव्याकरणविषयक-कोषग्रन्थेषु अपि दृश्यते, यत्र सः पदानां धातूनां च विस्तृतं विवेचनं कृत्वा तेषां व्युत्पत्तिशास्त्रीयं स्वरूपं निरूपितवान्। राउ-महोदयः दीर्घकालं मार्बुर्ग्-विश्वविद्यालये संस्कृतभाषायाः आचार्यरूपेण कार्यरतः आसीत्। अतः व्याकरणविषयक-कोषग्रन्थेषु राउ-महोदयः व्युत्पत्त्यर्थानां, शब्दरचनायाः, रूपसिद्धेः च सुस्पष्टं विवेचनं कृत्वा आधुनिकसंस्कृतकोषपरम्परायां प्रमुखं स्थानं प्राप्तवान्। तस्य निर्देशनान्तर्गतं बहवः शिष्याः आसन् – H. Brückner, G. Ehlers, Sh. Einoo, A. Frenz, D. George, K. Klaus, M. Kraatz, M. Mittwede, R. S. Sarma, D. Schrapel, P. S. Sharma, Ry. Tsuchida चेति शोधच्छात्राः विद्यावारिधि-(पीएच्.डी.)-उपाधिं प्राप्तवन्तः। तस्य शोधपत्राणि हाले-नगरे सुरक्षितानि सन्ति। वाक्यपदीयस्योपरि राउ-महोदयेन सम्पादितं ग्रन्थद्वयम् –
- Bhartṛhari’s Vākyapadīya: Vollständiger Wortindex zu den Mūlakārikās, 1989.
- Bhartṛharis Vākyapadīya, Versuch einer vollständigen deutschen Übersetzung nach der kritischen Edition der Mūla-Kārikās, 2002.
कोषग्रन्थस्य ऐतिह्यम् – संस्कृतव्याकरणशास्त्रपरम्परायां भर्तृहरिः महान् वैयाकरणः दार्शनिकश्च आसीत्। तेन विरचितं वाक्यपदीयमिति महत्त्वपूर्णं व्याकरणदर्शनग्रन्थं संस्कृतभाषायां भाषातत्त्वचिन्तनस्य मूलाधाररूपेण प्रसिद्धम्। भर्तृहरिणा विरचितस्य वाक्यपदीयग्रन्थस्योपरि विल्हेल्म्-राउ-महोदयेन विरचितः ग्रन्थोऽयं जर्मनभाषायां सम्पादितः। अयं शब्दानुक्रमणिकारूपः व्याकरणकोषग्रन्थः अस्ति, यस्मिन् वाक्यपदीयग्रन्थे विद्यमानानां शब्दानां सम्यक् संग्रहः तथा क्रमबद्धा प्रस्तुति: क्रियते। कालक्रमेण बहवः विद्वांसः वाक्यपदीयग्रन्थस्य अध्ययनार्थं विविधाः उपक्रमाः कृतवन्तः। तेषु अयं शब्दानुक्रमकोषः अत्यन्तं महत्त्वपूर्णं साधनम् अस्ति। कोशग्रन्थोऽयं १९८८तमे वर्षे फरवरी-मासस्य २०तमे दिनाङ्के पूर्णसभायाम् उपस्थापितम्, तस्मिन्नेव दिने मुद्रणाय स्वीकृतम्, १९८९तमे वर्षे जनवरी-मासस्य २०तमे दिनाङ्के Akademie der Wissenschaften und der Literatur, Mainz इत्यस्याः संस्थायाः प्रेरणया Franz Steiner Verlag Wiesbaden GmbH, Stuttgart (Germany) इत्यतः प्रकाशितः। अस्मिन् ग्रन्थे वाक्यपदीय-ग्रन्थे विद्यमानानां सर्वेषां शब्दानां अकारादिक्रमणेन (अक्षरानुक्रमेण) विन्यासः कृतः, तेषां च विवेचनं जर्मनभाषायां प्रदत्तम्। अनेन ग्रन्थेन शोधकर्तॄणां कृते शब्दानां अन्वेषणं सुलभं भवति। अस्य ग्रन्थस्य पृष्ठसंख्या १-१७५ पर्यन्तं व्यवस्थितरूपेण निर्दिष्टा अस्ति।Top of Form
Bottom of Form
अस्य कोषग्रन्थस्य अनुशीलनम् – ग्रन्थकारेण अस्मिन् समग्रे कोशग्रन्थे ६०६५शब्दाः सङ्गृहीताः। तेषां सर्वेषां शब्दानां व्याख्यानमपि अत्रैव प्रदत्तमस्ति। अत्र अकारेण आरभ्यमाणाः शब्दाः सर्वाधिकसंख्यया (१०५९) सन्ति। पकारेण आरभ्यमाणाः शब्दाः द्वितीयसर्वाधिकसंख्यया (७५६) सन्ति, सकारेण च आरभ्यमाणाः शब्दाः तृतीयसर्वाधिकसंख्यया (७२५) विद्यन्ते। अस्मिन् कोशे ॠ-लृ-झ-ठ-ढ-कारारभ्यमाणानां शब्दानां ग्रहणं न कृतम्। ञकार-थकारयोः आरभ्यमाणयोः शब्दयोः मध्ये न्यूनतमतया केवलम् एकैकः शब्दः एव सङ्गृहीतः। अत्र सर्वे शब्दाः अकारादिक्रमणेन (वर्णानुक्रमेण) व्यवस्थिताः सन्ति, तेषां सूची अपि अनेनैव क्रमेण प्रदर्शिता वर्तते –
| अ | 1059 | ई | 9 | ऋ | 11 | ए | 117 | ओ | 2 |
| आ | 228 | उ | 256 | ऋ | ऐ | 3 | औ | 8 | |
| इ | 50 | ऊ | 6 | लृ |
| क | 362 | ट | 4 | प | 756 | ष | 18 |
| ख | 16 | ठ | फ | 11 | स | 725 | |
| ग | 145 | ड | 3 | ब | 112 | ह | 50 |
| घ | 14 | ढ | भ | 202 | |||
| ङ | 2 | ण | 10 | म | 116 | ||
| च | 68 | त | 259 | य | 111 | ||
| छ | 26 | थ | 1 | र | 68 | ||
| ज | 123 | द | 223 | ल | 80 | ||
| झ | ध | 44 | व | 603 | |||
| ञ | 1 | न | 265 | श | 98 |
अत्र अकारादिक्रमभिन्नशब्दानां सूची अपि दृश्यते –
| अकारादिक्रमभिन्नशब्दानां नामानि | विद्यमानवर्णः | पृष्टासंख्या |
| सन्ति, स्तः, स्यात्, स्याताम्, स्युः | अ (अस् धातुः) | 30 |
| अनेन, अयम्, अस्मात्, अस्मिन्, अस्य, अस्याम्, अस्याः, आभ्याम्, आसाम् | इ (इदम् शब्दः) | 39 |
| अजयन् | ज (जि धातुः) | 69 |
| सः, सा | त (तद् शब्दः) | 73 |
| पश्य, पश्यत, पश्यति, पश्यन्ति | द (दृश् धातुः) | 81 |
| तव, त्वम् | य (युस्मद् शब्दः) | 125 |
| उच्यते, उच्यन्ते | व (वच् धातुः) | 129 |
अत्र अकारादिक्रमस्य किञ्चित् भिन्नता दृश्यते, तस्य कारणं ग्रन्थकारेण धातूनां शब्दानां च एकस्मिन् एव स्थाने समुचितस्थापनम् अस्ति। अस्य ग्रन्थस्य प्रारम्भे ग्रन्थकारस्य परिचयः सम्यग्रूपेण प्रदत्तः अस्ति। ततः अनन्तरं वर्णानुक्रमेण अकारात् आरभ्य हकारपर्यन्तं शब्दानां सङ्ग्रहः ग्रन्थकारेण कृतः। ग्रन्थस्य अन्ते “Bibliographischer Anhang” इत्याख्यः विभागः अपि विद्यते, यस्मिन् ग्रन्थसम्बद्धानां सन्दर्भग्रन्थानां सूची तथा तेषां संक्षिप्ता समीक्षा च प्रदत्ता अस्ति।
अयं कोशः राउ-महोदयेन सम्पादितस्य वाक्यपदीयस्य कारिकासु अन्तर्भूतानां शब्दानां सङ्ग्रहमात्ररूपेण दृश्यते। अत्र निर्दिष्टाः शब्दाः अन्येषु वाक्यपदीयस्य संस्करणेषु सर्वदा न प्राप्यन्ते, यतः संस्करणभेदेन पाठभेदाः सन्ति। तथापि अस्य कोषस्य किञ्चित् न्यूनत्वम् अपि दृश्यते। विशेषतः अत्र केवलं शब्दानां निर्देशः अस्ति, किन्तु तेषां विस्तृतार्थनिर्णयः न प्रदत्तः। यदि शब्दानाम् अर्थसमावेशः अपि अभवत्, तर्हि अस्य कोषस्य गुरुत्वं उपयोगिता च अधिका वर्धेत। अस्य कोषस्य एकं वैशिष्ट्यं तु चिह्नपद्धतिः अस्ति – यत्र केषाञ्चित् शब्दानाम् आद्यंशः (प्रारम्भिकभागः) लुप्तः भवति, तेषां सूचनार्थं ‘º’ इति चिह्नं पूर्वभागे उपयुज्यते, यथा- ०arthaka 2, 281b, ०arthakāritva 3, 460c, ०arthakārin 2, 406b; 3, 279b चेति[7], अर्थात् यत्र पूर्वशब्दयोगः बोध्यते। एवमेव यत्र शब्दस्य आद्यन्तौ उभौ अपि लुप्तौ स्तः, तत्र उभयत्र ‘º’ चिह्नं प्रयुज्यते, यथा – ०avabhāsa० 2, 421c, ०avaccheda० 2, 369b, ०avadhi० 2, 171d; 3, 280c चेति।[8] एतेन प्रकारेण अस्य कोषस्य रचनायां लघुत्वेनापि सूक्ष्मता दृश्यते।
अस्मिन् कोषे पदप्रयोगपरिमाणदृष्ट्या “न (na)”[9] इति शब्दस्य सर्वाधिकः शास्त्रार्थप्रयोगः दृश्यते, यः निषेधार्थकत्वात् तत्त्वनिर्णये, प्रतिषेधे, विकल्पनिरासे च अत्यन्तं महत्त्वपूर्णं स्थानं धारयति।
तस्य अनन्तरं “च (ca)”[10] इति शब्दः द्वितीयसर्वाधिकप्रयुक्तः अस्ति। अयं समुच्चयार्थकः शब्दः विचारसरणीं संयोजयति, विविधान् पक्षान् एकत्र स्थापयति, अतः शास्त्रीयविचारे अस्य व्यापकः उपयोगः स्वाभाविकः।
तृतीयसर्वाधिकप्रयुक्तः “तु (tu)”[11] इति शब्दः अस्ति, यः विरोधाभास-निर्देशे, भेदप्रतिपादने, विशेषोक्तौ च प्रयुज्यते। अयं पूर्वोक्तस्य विचारस्य परिमार्जनं वा विरोधं वा सूचयति।
एते उदाहरणानि दर्शयन्ति यत्, कोषे प्रत्येकस्य पदस्य कारिका-सन्दर्भः सूक्ष्मतया निर्दिष्टः अस्ति। अयं कोशः यद्यपि अर्थव्याख्यानरहितः केवलं पदानुक्रमणिकारूपेण अस्ति, तथापि पाठसमीक्षा, पदान्वेषणं, तथा वाक्यपदीयस्य गहनाध्ययनं कर्तुं अत्यन्तोपयोगी साधनरूपेण प्रतिष्ठितः अस्ति।
अस्य कोषग्रन्थस्य स्वरूपम् – अयं कोषः वाक्यपदीयस्य मूलकारिकासु विद्यमानानां सर्वेषां पदानां वर्णानुक्रमेण व्यवस्थितां पूर्णानुक्रमणिकां प्रददाति। अस्मिन् प्रत्येकस्य पदस्य प्रयोगस्थानं, कारिका-सङ्ख्या, प्रसङ्गः च स्पष्टतया निर्दिष्टाः सन्ति। अतः अध्ययनार्थं तथा भाष्य-व्याख्यान-लेखनार्थं च अयं ग्रन्थः अत्यन्तं उपयोगी सिद्ध्यति।
महत्त्वम् – अयं कोषः भर्तृहरिकृतग्रन्थस्य सूक्ष्मपठनाय सहायकः भवति। व्याकरणदर्शनस्य शब्दसमूहान्वेषणेऽपि अस्य विशेषोपयोगिता दृश्यते। भाषावैज्ञानिकाः संस्कृतकोषकाराः च अनेन ग्रन्थेन बहुधा लाभान्विताः भवन्ति।
विषयविस्तारः – एषः कोषः वाक्यपदीयस्य मूलकारिकाणां सर्वेषां पदानां वर्णानुक्रमेण सम्यक् विन्यस्तां विस्तीर्णाम् अनुक्रमणिकां ददाति। प्रत्येकं पदं यत्र यत्र मूलकारिकासु प्रयुक्तं, तत्र तत्र तस्य स्थानसङ्ख्या निर्दिष्टा अस्ति। अपि च, पदानां पुनरावृत्तिपरिमाणं, कारिकासम्बन्धः, सन्दर्भबोधः च अस्मिन् कोषे सूच्यन्ते। एतेन ग्रन्थेन भर्तृहरिविचाराणां भाषिकं रचनात्मकं च विश्लेषणं सुलभं भवति।
मुख्योद्देश्यः – अस्य कोषस्य प्रमुखोद्देश्यः वाक्यपदीयस्य पदानां भाषिकानुक्रमेण सुव्यवस्थितं दत्तांशं प्रस्तुतुम् अस्ति, तथा च पाठभेदानां, पदप्रयोगानां, भाषाशास्त्रीयविचाराणां च विश्लेषणाय सहायतां दातुम्। अयं ग्रन्थः व्याकरणदर्शनशोधकेभ्यः, कोशकारेभ्यः, भाषातत्त्वचिन्तकेभ्यः च अत्यन्तोपयोगि साधनं प्रददाति।
वैज्ञानिकमहत्त्वम् – वाक्यपदीयमिति ग्रन्थः दार्शनिक-व्याकरणात्मकदृष्ट्या अतीव गूढः अस्ति; अस्य कोषस्य साहाय्येन तस्य पाठविश्लेषणं सुलभं भवति। कोषग्रन्थोऽयं आधुनिकसंस्कृतपाठविज्ञानस्य आदर्शरूपेण परिगण्यते, यतः पदानुक्रमणिकापद्धत्या दर्शनग्रन्थस्य अध्ययनं कथं सुलभं क्रियते इति स्पष्टतया दर्शयति। भर्तृहरिचिन्तनस्य अन्वय-प्रसङ्गज्ञानाय अपि अयं कोषः अनिवार्यं साधनमिति स्वीक्रियते।
निष्कर्षः – कोषग्रन्थोऽयं संस्कृतव्याकरणशास्त्रस्य, विशेषतः भर्तृहरिणः वाक्यपदीयमिति ग्रन्थस्य अध्ययनार्थं अत्यन्तोपयोगी साधनरूपेण प्रतिष्ठितः अस्ति। अत्र शब्दानां सङ्ग्रहः, तेषां क्रमबद्धविन्यासः, व्याख्यानं च अत्यन्तं सूक्ष्मतया कृतम्, येन शोधकर्तॄणां कृते अध्ययनप्रक्रिया सुलभा भवति। अयं कोषः न केवलं शब्दानुक्रमणिकामात्रम्, अपि तु व्युत्पत्तिशास्त्रस्य, शब्दरचनायाः, व्याकरणदृष्टेः च गहनबोधाय महत्त्वपूर्णं योगदानं ददाति। विशेषतः धातुशब्दयोः एकत्र प्रस्तुतेः कारणात् अस्य विशिष्टता अपि स्पष्टा भवति। अतः ग्रन्थोऽयं आधुनिकसंस्कृतकोशपरम्परायां एकं महत्त्वपूर्णं स्थानं धारयति, तथा च संस्कृतव्याकरणशास्त्रस्य अध्ययन-अनुसन्धानयोः क्षेत्रे अमूल्यं साधनमिति निःसंशयं वक्तुं शक्यते।
सन्दर्भग्रन्थसूची –
- Keith, A. Berriedale, A History of Sanskrit Literature, London: Oxford University Press, 1920,1941,1948,1953.
- Abhyankar, Kashinath Vasudev, A Dictionary of Sanskrit Grammar. Baroda: Oriental Institute, 1961.
- Katre, Sumitra Mangesh, Dictionary of Pāṇini (Volumes -1, 2,3). Pune: Deccan College PostGraduate and Research Institute, 1968.
- Rau, Wilhelm, Bhartṛhari’s Vākyapadῑya Vollständiger Wort- index zu den mūlakārikās, Germany: Akademie Der Wissenschaften Und Der Literatur. Mainz Franz Steiner Verlag Wiesbaden Gmbh. Stuttgart, 20.01.1989.
- Rau, Wilhelm, Bhartṛhari’s Vākyapadῑya, Germany: Akademie Der Wissenschaften Und Der Literatur. Mainz Franz Steiner Verlag. Stuttgart,20.12.2002.
- Mishra, Sashibhusan, Various Traditions in Sanskrit Grammar. Kolkata: Sanskrit Book Depot, 2023.
- मिश्र:, शशिभूषणः, पाणिनीयव्याकरणस्य भाषावैज्ञानिकम् अध्ययनम्. कोलकाताः वनारस-मर्केण्टाइल-कोम्पानी, २०१२.
- नारङ्गः, सत्य-पालः, संस्कृत कोश-शास्त्र के विविध आयाम. नवदेहली: राष्ट्रिय-संस्कृत-संस्थानम्, १९९८.
- दाहालः, लोकमणिः, व्याकरणशास्त्रेतिहासः. दिल्ली: चौखाम्बाविद्याभवनम्, २००७.
- वन्द्योपाध्यायः, डॉ. उदयचन्द्रः & डॉ. अनिता, प्राचीन भारतेर संस्कृत साहित्य, कोलकाता: संस्कृत-बुक-डिपो, 2012.
- देवशर्मा (चक्रवर्ती), श्रीकालीजीवनः, संस्कृत ओ प्राकृत शब्दकोष वा अभिधानेर इतिहास, कोलकाता: संस्कृत-पुस्तक-भाण्डारः, 2002.
अंतर्जालीयसङ्केतसूची –
[1] महीपविरचितः अनेकार्थतिलकः, चतुर्थकाण्डः, श्लोकः – २१२
[2] हेमचन्द्राचार्यस्य अनेकार्थसंग्रहः, श्लोकसंख्या – ४१०
[3] संस्कृत ओ प्राकृत शब्दकोष वा अभिधानेर इतिहास, पृ. 71
[4] प्राचीन भारतेर संस्कृत साहित्य, पृ. 111
[5] ऋग्वेदभाष्योपक्रमः, पृ. १६७
[6] A History of Sanskrit Literature, P-412
[7] Vollständiger Wortindex zu den Mūlakārikās, P-24
[8] Vollständiger Wortindex zu den Mūlakārikās, P-26
[9] Vollständiger Wortindex zu den Mūlakārikās, P-85-86
[10] Vollständiger Wortindex zu den Mūlakārikās, P-64-65
[11] Vollständiger Wortindex zu den Mūlakārikās, P-77
