पूर्वमीमांसादृशा विधिवाक्यानां स्वरूपं वैविध्यञ्च

डॉ. ए. एस. आरावमुदन्

 “वेदोखिलो धर्ममूलम्” “निष्कारणं ब्राह्मणेन षडङ्गो वेदोध्येयो ज्ञेयश्च” एवं “इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थः वेदयति स वेदः”, अत एवोक्तम् –

                           प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते

                           एतं विदन्ति वेदेन तस्माद्वेदस्य वेदता

अत एव न्यायविदोऽपि तत्वचिन्तामणि-ग्रन्थादिषु वेदत्वं नाम “शब्द-तदुपजीविप्रमाणातिरिक्त-प्रमाणजन्य-प्रमित्यविषयार्थकत्वे सति शब्दजन्य-वाक्यार्थज्ञानाजन्य-प्रमाणशब्दत्वम्” इत्यामनन्ति।  तथा,

                            पितृदेवमनुष्याणाम् वेदश्चक्षु: सनातनम्

अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः

चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक्।

भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिध्यति

“अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा”

इत्याद्यभियुक्तैः प्रमाणवचनैः वेदस्य सर्वधर्ममूलत्वम्, अनादित्वं, नित्यत्वम् एवम् अपौरुषेयत्वमित्यतो हेतोः “प्रामाण्यं स्वतः” इति वेदविदां मतमस्ति। उद्घोषयन्ति च “यथार्थं सर्वविज्ञानमिति वेदविदां मतम् इति यतीन्द्रमतदीपिकाकाराः॥

असौ च वेदः (स्वशाखा)  “स्वाध्यायोध्येतव्यः” इति विधिना अर्थज्ञानसम्पादनार्थमध्येतव्य इति बोध्यते। अर्थज्ञानं च विचारमन्तरा सम्पादयितुं नैव शक्यत इति सर्वविदितम्। मीमांसा नाम वेदार्थविचारः। स च विचारः वेदार्थनिर्णयार्थः। विचारस्य प्रयोजनं यथाविहित-साङ्ग-प्रधानस्य धर्मस्यानुष्ठानद्वारा स्वाभीष्टफलप्राप्तिरेव। अत्र धर्मशब्दः वेदविहित-यागहोमादिकर्मपर इति मीमांसकानां राद्धान्तः। अतः एतादृश-कर्मानुष्ठानार्थम् अनिवार्यं यत् वेदार्थज्ञानं तत् मीमांसाशास्त्राध्ययनेनैव सम्भवतीति हेतोः “स्वाध्यायोध्येतव्य” इत्यध्ययनविधिरेव मीमांसा-शास्त्राध्ययनेऽपि प्रवृत्तिं जनयति I

इदञ्च मीमांसाशास्त्रम् “अथातो धर्मजिज्ञासा” इत्यारभ्य “अन्वाहार्य्ये च दर्शनात्” इत्येवमन्तं द्वादशाध्यायात्मकं महर्षिजैमिनिप्रणीतं वाक्यशास्त्रमिति नाम्ना प्रसिद्धं वर्तते। तत्र मन्त्रब्राह्मणात्मकेन  वेदेन कस्यचित् देवताविशेषस्य स्तुतौ प्रयुक्तं यदर्थस्मारकं वाक्यं तदेव मन्त्रः, विधायकं वाक्यं ब्राह्मणमिति च बोध्यते। एतादृशवेदवाक्यार्थनिर्णयार्थ प्रवृत्तं मीमांसाशास्त्रम्। अत एव पदवाक्यप्रमाणशास्त्रेषु मुख्यं स्थानमावहति वाक्यशास्त्रं नाम मीमांसाशास्त्रम्। अस्मिन् च मीमांसाशास्त्रे प्रमाणादिद्वादशलक्षणानि सन्ति । लक्षणशब्दः अध्यायपर इति बोध्यः। अत एव “द्वादशानां लक्षणानां समाहारो द्वादशलक्षणी” इति मीमांसायाः प्रसिद्धिः। द्वादशसु लक्षणेषु धर्माधर्मावेव वेदोक्तकर्माऽनुष्ठानोपयोगार्थं प्रधानतया विचारितौ। अभिहितञ्च न्यायमालायां :-

धर्मो द्वादशलक्षण्यां व्युत्पाद्यस्तत्र लक्षणैः

प्रमाणभेदशेषत्वप्रयुक्तिक्रमसंज्ञकाः

अधिकारोतिदेशश्च सामान्येन विशेषतः

ऊहो बाधश्च तन्त्रञ्च प्रसङ्गश्चोदिताः क्रमात्

तथा च धर्माऽनुष्ठानसाध्यक-वेदकरणक-मीमांसाशास्त्राध्ययन-इतिकर्त्तव्यतापूरकभावनां भावयेदिति “स्वाध्यायोध्येतव्य” इति विधिरेवास्मान् बोधयतीत्यवगन्तव्यम्। उक्तं च भट्टपादैः-

धर्मे प्रमीयमाणे तु वेदेन करणात्मना।

इतिकर्तव्यताभागं मीमांसा पूरयिष्यति।।

अयं च धर्माधर्मज्ञानसम्पादने करणात्मको वेदः अपौरुषेय इति-

वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम्।

           वेदाध्ययनसामान्यात् अधुनाsध्ययनम् यथा॥

 इत्यादिना साधितः।

एतादृशापौरुषेयाणि वेदवाक्यानि तावत् पञ्चधा विभक्तानि विधिवाक्यानि निषेधवाक्यानि मन्त्रवाक्यानि नामधेयवाक्यानि अर्थवादवाक्यानि चेति। तत्र विधिवाक्यान्येव ब्राह्मणवाक्यानि इत्युच्यन्ते विधायकानि वाक्यानि ब्राह्मणवाक्यानि। निषेधवाक्यानामपि विधिवाक्यैरेव ग्रहणात् चत्वारि वा वेदवाक्यानि विभज्यन्ते। तत्र विधिघटक द्रव्यादिपदानामिव नामधेयानां अर्थवादानाञ्च विधिवाक्यैकवाक्यतयैव  धर्मे प्रामाण्यं न स्वातन्त्र्येण।  यद्यपि मन्त्राः विधिवाक्येन सह पदैकवाक्यतां वाक्यैकवाक्यतां वा न प्राप्नुवन्ति तथाऽपि “भूम्ना छत्रिणो यान्ती” तिवत् विधिविहितकर्मानुष्ठानकाले अर्थस्मारकाः भवन्तीति विध्यैकवाक्यतया प्रामाण्यमिति निर्णीयते अभ्युपगम्यते च। यतो हि “स्वाध्यायोऽध्येतव्यः” इत्यध्ययनविधिना सम्पूर्णस्यापि वेदस्य प्रयोजनवदर्थविधायकत्वेन अर्थवत्वस्वीकारात्।

तत्र तावत् अथातो धर्मजिज्ञासेति आदिमसूत्रेण अभिहितः जिज्ञास्यो धर्मः न प्रत्यक्षादि प्रमाणम्यः, अपि तु चोदनैव गम्यः इति “चोदनालक्षणोऽर्थो धर्मः” इत्यनेन द्वितीयसूत्रेण महर्षिणा जैमिनिना  सूत्रकारेण दृढीकृतः। अत्र चोदनापदम् “चोदनेति क्रियायाः प्रवर्तक वचनमाहः” इति भाष्यात् विधिवाक्यपरमेव। अत एव चोदना हि “भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितुम् नान्यत्किञ्च नेन्द्रियमिति भणितं भाष्यकारैः शबरस्वामिभिः। यथा “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” “अग्निहोत्रं जुहुयात् स्वर्गकामः” इत्यादि विधिवाक्यानि स्वर्गरूपश्रेयस्साधनत्वं दर्शपूर्णमासादीनाम् अस्तीति बोधयन्ति। तथा च  वेदभागेषु विधेरेव प्राधान्यात् इतरेषां तु विधिशेषतया विध्येकवाक्यतया वा प्रामाण्यस्वीकारात् ।

तत्र अज्ञातार्थज्ञापको वेदभागः अर्थात् “प्रयोजनवदर्थविधानेनार्थवान्” स चाप्राप्तमर्थं विधत्ते इति   विधिस्वरूपं प्रदर्श्य “अग्निहोत्रं जुहुयात् स्वर्गकामः” इत्यादौ समन्वयः प्रदर्शितः अग्निहोमेन स्वर्गं भावयेत् इति अर्थात् अप्राप्तं प्रयोजनवत् होमं विधत्ते।  

एतादृशानि अज्ञातार्थबोधकानि वैदिक-विधिवाक्यानि विविधानि सन्ति। यथा :-

  • अग्निहोत्रं जुहोति
  • अग्निहोत्रं जुहुयात् स्वर्गकामः
  • दध्ना जुहोति
  • दध्नेन्द्रियकामस्य जुहुयात्
  • सोमेन यजेत
  • सौर्यं चरुं निर्वपेत् ब्रह्मवर्चसकामः

इत्येतानि विधिवाक्यानि षड्विधानि विद्यन्ते।

तत्र सर्वत्र असति बाधके आख्याताभिहित-भावनायां धात्वर्थस्यैव करणत्वेनान्वय इति नियमात् “अग्निहोत्राभिन्नहोमकरणिका इष्टभाव्यका भावने” ति शाब्दबोधः प्रथमविधाविति ज्ञेयः।

एवं द्वितीयविधौ फलविशेषसंबन्धोप्यधिकः विद्यत इति कृत्वा प्रथमविध्यपेक्षया कश्चन गुरुभूतो बोधो जायते, यथा “अग्निहोत्रहोमकरणिका स्वर्गभाव्यका भावने” ति बोध्यः।

तथा तृतीयविधौ “दधिकरणिका होमभाव्यका भावने”ति शाब्दबोधः। अत्र धात्वर्थस्य साध्यत्वेनान्वयात् द्वीतीयविध्यपेक्षया सङ्कोचः क्रियत इति गुरुभूतश्शाब्दबोधो भवति।

तुरीयविधौ तावत् धात्वर्थस्य आश्रयत्वेनान्वयात् विधित्रयापेक्षया गौरवं विद्यते। अत्र “दधिकरणिका होमाश्रिता इन्द्रियभाव्यका भावने”ति शाब्दबोधः।

 पञ्चमविधौ हि “सोमविशिष्टधात्वर्थकरणिका भावने”ति बोधात् विशिष्टस्य करणत्वेनान्वयात् पूर्वविध्यपेक्षया महद्गौरवं भवति।

षष्ठविधौ तावत् “सौर्यचरुविशिष्टयागकरणिका ब्रह्मवर्चसभाव्यका भावने”ति पञ्चमविध्यपेक्षया फलसम्बन्धोप्यधिकतया विद्यत इति सर्वविध्यपेक्षया महद्गौरवमस्ति। तथा च विधिवाक्यानि तत्तत्-बोध्यप्रकारमाश्रित्य विभक्तानि सन्तीति ज्ञेयानि।    

पुनरपि विधिस्तावत् अपूर्वविधिः, नियमविधिः, परिसंख्याविधिश्चेति त्रिविधो भवतीति मन्त्रप्रामाण्यनिरूपणावसरे विचारितमस्ति। तथा चा भगवान् जैमिनिः  विधिर्वास्यादपूर्ववत्, नियमार्था वा पुनः श्रुतिः” एवं “परिसंख्या इत्यादि सूत्रैः विधिभेदानसूचयत्। एतेषां त्रयाणां विधीनाम् एकया कारिकया वार्तिककारैः कुमारिलभट्टे लक्षणानि एवम् अभिहितानि-

विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति।

तत्र चान्यत्र प्राप्ते च परिसंख्येति गीयते।।

अस्या कारिकायाः अयमभिप्रायः- तत्र यो अत्यन्तमप्राप्तमर्थं बोधयति स अपूर्वविधिः। यः पक्षप्राप्तार्थं नियमयति स नियमविधिः। यः पुनः समुच्चित्य प्राप्तौ इतरनिवृत्तिं करोति सः परिसंख्याविधिरिति।

अपूर्वविधिः

       यस्य यदर्थत्वं प्रमाणान्तरेणाप्राप्तं तस्य तदर्थत्वेन यो विधिः स अपूर्वविधिः यथा “यजेत स्वर्गकामः” इत्यत्र यागस्य स्वर्गार्थत्वं न प्रमाणान्तरेण प्राप्तं किन्तु अनेनैव विधिना इति भवत्ययम् अपूर्वविधिः। वार्तिके- “विधिरत्यन्तमप्राप्ते” इत्यस्य स्वविषये- अर्थे प्रमाणान्तरेण अत्यन्तमिति न विधिः स्यात् इति चेत् प्रमाणान्तरेणाsप्राप्तं नाम स्वेतरप्रमाणजन्यप्र्मितिविषयत्वप्रतियोगिकत्रैकालिकाभाववदित्यर्थः। तथा च स्वरूपतः प्रमाणान्तरज्ञातत्वेऽपि फलसाधनत्वरूपेण अज्ञातत्वात् न दोष इति अवगन्तव्यम्।

         ननु कर्मस्वरूपमात्रबोधकेषु विधिषु अव्याप्तिः। यतो हि तैः फलसाधनत्वाबोधनात्। न च यस्य यद्धर्मावच्छिन्नत्वं प्रमाणन्तरेण अप्राप्तं तस्य तद्धर्मावच्छिन्नबोधकत्वमेव अपूर्वविधित्वम् इत्यत्रैव तात्पर्यम्। कर्मोत्पत्तिवाक्ये च यागत्वेन रूपेण यागस्य अज्ञातस्य बोधनात् न अव्याप्तिः इति वाच्यम्। नियमपरिसंख्याविध्योरतिव्याप्तेः। नियमपरिसंख्यारूपधर्मयोः सर्वथा अप्राप्तत्वात् इति चेत्, नियमपरिसंख्यातिरिक्तेत्यतः ज्ञातधर्मावच्छिन्नबोधकत्वम् अपूर्वविधित्वम् इति अदोषात्। अपूर्वविधि इत्यनेन मूलविधिपदम् अपूर्वविधिपरमिति सूचितम्।

           तथा च यो विधिरत्यन्तमप्राप्तमर्थं प्रापयति स अपूर्वविधिः। प्रसिद्धोदाहरणं तावत् दर्शपूर्णमासप्रकरणे व्रीहीन् प्रोक्षति” इति। एतद्विध्यभावे दर्शपूर्णमाससम्बन्धिषु व्रीहिषु प्रोक्षणस्य प्राप्तिरेव न स्यादिति अत्यन्ताप्राप्तप्रोक्षणप्रापकत्वात् अयम् अपूर्वविधिः। एवम् अपूर्वविधेः निष्कृष्टलक्षणं विधित्रयपरित्राणे एवम् अभिहितम्- तुल्यविध्यन्तराप्रवृत्तिसहितायां केवलायां वा स्वाप्रवृत्तौ यस्यार्थस्य स्वविषयप्रापकप्राप्यविरोधिभिन्नस्य   यत्रात्यन्ताप्राप्तिः स्वाप्रवृत्तिकालीनस्वविषयनियमा नियतान्यतरप्राप्तिप्रयोजकाभावप्रतियोगिमानान्तरा तस्मिंस्तत्प्राप्तिफलको वा तत्प्राप्तीतरफलकत्वरहितो वा विधि अपूर्वविधिरिति उच्यते। तत्रैव-

अप्राप्तांशप्रापणपरिसंख्यामात्रफलकतारहितः।

यो विधिरपूर्वविधिरयमिति पूर्वाचार्यवर्यतात्पर्यम्।।

          इत्यनेन अप्राप्तांशपरिपूरणपरिसंख्यामात्रफलकत्वाभावे सति विधि अपूर्वविधिः इत्येवं विधिरत्यन्तम् अप्राप्ते” इति वदताम् आचार्याणां तात्पर्यमिति सूचितम्।

अपूर्वविधिभेदाः

        अयं च अपूर्वविधिः चतुर्विधो भवति। उत्पत्तिविधिः, विनियोगविधिः, प्रयोगविधिः, अधिकारविधिश्चेति।

उत्पत्तिविधिः

           उत्पत्तिविधिर्नाम कर्मस्वरूपमात्रबोधको विधि: इत्युच्यते। यथा- अग्निहोत्रं जुहोति इत्यादिषु एतत् विध्यभावे अग्निहोत्रादीनाम् इष्टसाधनत्वं न केनाऽपि प्रमाणेन प्राप्यत इति अयम् अपूर्वविधिः। एवमेव “दध्ना जुहुयात्” इत्यादीनां गुणविधीनामपि अपूर्वविधिभेदकत्वं ज्ञेयम्।

विनियोगविधिः

        अङ्गप्रधानसम्बन्धबोधको विधिरित्युच्यते। यथा दध्ना जुहोति” इत्यादौ दध्नः होमसाधनत्वम् एतत् विध्वभावे न सम्भवतीति अयमपि अपूर्वविधिः। एतस्य विनियोगविधेः सहकारिभूतानि श्रुत्यादीनि षट् प्रमाणानि सन्ति। तेषु पूर्वपूर्वस्य प्राबल्यम् इति श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यं अर्थविप्रकर्षात्” इत्यादिना सूत्रेण अभिहितमिति। अतः उत्तरप्रमाणापेक्षया पूर्वप्रमाणस्य प्राबल्यम् एवमुत्तरप्रमाणस्य च दौर्बल्यम् अर्थात् श्रुतिः सर्वप्रबला समाख्या सर्वदुर्बला इत्यवगन्तव्यम्।

प्रयोगविधिः

            प्रयोगप्राशुभावबोधको विधिः प्रयोगविधिः। स च अङ्गवाक्यैकवाक्यतामापन्नः सन् प्रधानविधिरेव। अयं च विधिः साङ्गं प्रधानमनुष्ठापयन् विलम्बे प्रमाणाभावात् अविलम्बापरपर्यायं प्रयोगप्राशुभावं विधत्ते। एतत् विध्यभावे एतादृशप्रयोगप्राशुभावः कथमपि प्राप्तुं न शक्यत इति अयमपि अपूर्वविधिरिति बोध्यम्। एषः प्रयोगविधिरेव स्वविधेयप्रयोगप्राशुभावसिद्धयर्थं नियतं क्रममपि पदार्थविशेषणतया विधत्ते। तत्र क्रमो नाम विततिविशेष: पौर्वापर्यरूपो वा इति पञ्चमाध्याये विस्तरेणाभिहितः। अत्रापि क्रमबोधकप्रमाणानि “श्रुत्यर्थपाठस्थानमुख्यप्रवृत्याख्यानि” विद्यन्ते एवम् एतेषु षट्सु क्रमबोधकप्रमाणेषु मध्ये पूर्वपूर्वस्य प्राबल्यम् उत्तरोत्तरस्य दौर्बल्यमिति ज्ञेयम्।    

अधिकारविधिः

             फलस्वाम्यबोधको विधि अधिकारविधिः। फलस्वाम्यं च कर्मजन्यफलभोक्तृत्वम्। स च यजेत स्वर्गकाम इत्येवं रूपः। अनेन हि स्वर्गमुद्दिश्य यागं विदधता स्वर्गकामस्य यागजन्यफलभोक्तृत्वं प्रतिपाद्यते एवं यस्याहिताग्नेः अग्निः गृहान् दहेत् सोऽग्नये क्षामवते अष्टाकपालं पुरोडाशं निर्वपेत्” इत्यादिभिस्तु गृहदाहादौ निमित्ते सति आहिताग्नीनां निमित्तवतां कर्मजन्यफलस्वाम्यं प्रतिपाद्यते इत्यमपि प्रमाणान्तराप्राप्तार्थबोधक इत्यपूर्वविधिरेव।

नियमविधिः

            एवं यत्र पक्षे अप्राप्तस्यार्थस्य बोधको विधि: श्रूयते तत्र नियमविधिरित्यवगन्तव्यम्। यथा- दर्शपूर्णमासप्रकरणे “व्रीहीन् अवहन्तीत्यत्र एतद्विध्यभावे दार्शपौर्णिकमासिकेषु व्रीहिषूत्पत्तिवाक्यावगतपुरोडाशोपयोगितण्डुलनिष्पत्यनुकूल-वैतुष्यकार्याय अवहननवत् कदाचित् नखविदलनमपि प्राप्नुयात् इति तस्मिन् पक्षे अवहननस्य प्राप्तेरभावात् कार्यान्यथोपपत्तेः अवहननस्य पाक्षिकी प्राप्तिः स्यात्। अनेन तु विधिना अवघातस्य न वैतुष्यार्थत्वं बोध्यते अन्वयव्यतिरेकसिद्धत्वात्। किन्तु नियमः। स च अप्राप्तांशपूरकः। वैतुष्यस्य हि अनेकोपायसाध्यत्वात् यस्यां दशायाम् अवघातं परिहृत्य उपायान्तरं गृहीतुमारभते तस्यां दशायाम् अवघातस्य अप्राप्तत्वेन तद्विधानात्मकम् अप्राप्तांशपूर्तिरेव अनेन विधिना क्रियते। तस्मात् नियमविधौ अप्राप्तांशपूरणात्मकः नियम एव वाक्यार्थः। पक्षे अप्राप्ततादशायाम् अवघातविधानमिति यावत्। न तु अपूर्वविधाविव अत्यन्ताप्राप्तार्थविधानमिति। नच वैतुष्यस्य नखविदलनेनापि सम्भवात् अवहनननियमः व्यर्थः प्रयोजनाभावात् इति वाच्यम्। अवघातेनैव वैतुष्यं सम्पाद्यं तेनैव किञ्चित् अदृष्टं जन्यते यत् तावत् परमापूर्वजनने उपकरोतीत्यवगन्तव्यम्। नियमादृष्टाङ्गीकारात्। नियमस्य  दृष्टकार्यालाभेऽपि अदृष्टफलोत्पत्तिस्वीकारात्। तथा च  नियमपूर्वाभावे फलापूर्वमेव नोत्पद्यते इति कारणात् नियमापूर्वस्य न वैयर्थ्यं नापद्यते।

           उक्तं च नियमविधेः निष्कृष्टलक्षणम् विधित्रयरित्राणे श्रीवेङ्कटाचार्यदीक्षितैः स्वनिवर्त्यस्वबोध्यार्थप्रापकप्रमाणान्तराप्रवृत्तिसहितायां केवलायां वा स्वाप्रवृत्तौ स्वाधिकरणक्षणभित्रक्षण-वृत्तिप्राप्तिकरम्बिता यस्यार्थस्याप्राप्तिः तस्य स्वविषयस्थानात् स्वतो निवृत्तिकारिणीं तत्तुल्यपदार्थस्याप्राप्ते प्राप्तिं कुर्वन् विधिः नियमविधिरिति ज्ञेय: ।

एतदुक्तं भवति – “नियमः पाक्षिके सति” इति वार्तिकस्य निवर्त्ये पाक्षिके सति नियम इत्यर्थः। ततश्च पक्षप्राप्तिमतोऽर्थस्य निवृत्तिं कुर्वतीम् कस्यचिदर्थस्याप्राप्तप्राप्तिं कुर्वन् विधिः नियमविधि इति लक्षणं फलितम्। एतच्च “व्रीहीन् अवहन्ति” इति प्रसिद्धनियमविधावस्ति। तस्य पक्षप्राप्तिमद्विदलनादिनिवृत्तिफलकावघातप्राप्तिकारित्वात्।

परिसंख्याविधिः

           उभयस्य युगपत् प्राप्तौ इतरव्यावृत्तिपरोविधिः परिसंख्याविधिः। यथा चयनप्रकरणे इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमात्ते इति अश्वरशनाग्रहणत्वेन मन्त्रविधिः। एतद्विध्यभावे रशनाग्रहणप्रकाशक अयं मन्त्रः रशनादान-प्रकाशनसामर्थ्यरूपात् लिङ्गात् अश्वरशनाऽऽदान इव गर्दभ-रशनाऽऽदानेऽपि नियमेन प्राप्नुयात् इति। एतत् विधिसत्वे तु अनेन मन्त्रेण अश्वरशनामेव आददीत  न तु गर्दभरशनाम्। गर्दभरशना तु तूष्णीमेव ग्राह्या इति गर्दभरशनायां मन्त्रनिवृत्तिः भवतीति उभयस्य युगपत् प्राप्तौ इतरव्यावृत्तिफलकत्वात् अयं परिसंख्याविधिः।

          एवं पञ्चपञ्चनखाः भक्ष्या इतीदं वाक्यं न भक्षणविधिपरम्। भक्षणस्य रागतः प्राप्तत्वात् नापि नियमपरम्। पञ्चनखापञ्चनखभक्षणस्य युगपत् प्राप्तौ पक्षे अप्राप्त्यभावात्। अत इदं पञ्चभिन्न-पञ्चनखाभक्षण-निवृत्तिपरम् इति भवत्ययं परिसंख्याविधिः।

             इयञ्च परिसंख्या श्रौती लाक्षणिकी चेति द्विविधा भवति। तत्र अत्र-ह्येवावपन्ति इति श्रौती परिसंख्या एवकारेण पवमानातिरिक्तस्तोत्रव्यावृत्तेः अभिधानात्। पञ्चपञ्चनखा भक्ष्या इत्यत्र तु लाक्षणिकी इतरनिवृत्तिपरक-पदाभावात्। अतो हेतोः इयं लाक्षणिकी परिसंख्या त्रिदोषग्रस्ता। दोषत्रयञ्च श्रुतहानिः, अश्रुतकल्पना, प्राप्तबाधश्चेति। यथा पञ्चपञ्चनखा भक्ष्या इत्यत्र श्रुतस्य पञ्च पञ्च नखभक्षणस्य हानात्, अश्रुत-अपञ्चनखभक्षणनिवृत्तिकल्पनात् प्राप्तस्य च अपञ्चनखभक्षणस्य बाधात् दोषत्रययुक्त-परिसंख्या इति। दोषत्रये दोषद्वयं शब्दनिष्ठं, प्राप्तबाधस्तु दोष अर्थनिष्ठः। उक्तञ्च-

श्रुतार्थस्य परित्यागात् अश्रुतार्थस्य कल्पनात् ।

प्राप्तस्य बाधादित्येवं परिसंख्या त्रिदूषणा ।।

           परिसंख्यायाः निष्कृष्टं लक्षणं विधित्रयपरित्राणे एवम् अभिहितम्। निवृत्तिफलको विधिः परिसंख्याविधिः। “इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते इत्यादिषु परिसंख्यादिषु सर्वेषु निवृत्तिफलकत्वस्य अनुगतत्वात् इति ।

उपयुक्तग्रन्थसूची:

  • जैमिनिसूत्रम् – महर्षिजैमिनिप्रणीतम्
  • शाबरभाष्यम् – श्रीशबरस्वामिप्रणीतम्
  • वार्त्तिकम् –   श्रीकुमरिलप्रणीतम्
  • विधित्रयपरित्राणम् श्रीवेङ्कटाचार्यदीक्षितविरचितम्
  • विधिरसायनम् श्रीमदप्पयदीक्षितविरचितम्
  • न्यायरत्नमाला पार्थसारथिमिश्रविरचिता
  • मीमांसाशास्त्रसारः अनन्तकृष्णशास्त्रिविरचितः
  • मीमांसान्यायप्रकाशः- आपदेवप्रणीतः
  • अर्थसंग्रहः – लोगक्षिभास्करविरचितः
  • मीमांसापरिभाषा श्रीकृष्णयज्वप्रणीता