[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

मध्वसिद्धान्त-प्रमाण-मणिमालिकायाः महत्त्वम् आवश्यकता च

लेखकौ – गौतम् आर्; डा० वीरनारायण पाण्डुरङ्गि

शोधसारः

प्राचीनेषु शास्त्रीयग्रन्थेषु विविधविचारा विच्छिद्य वर्णिता वर्तन्ते। तादृशविषयानामेकत्रीकरणेन जिज्ञासूनाम् अध्येतॄणां शोधार्थिनां च महदुपकाराय भवत्येवेत्यत्र नास्ति संशयः। तस्मिन्नेव क्रमे श्रीवेङ्कटरमणमहाभागानां मध्वसिद्धान्तप्रमाणमणिमालिका वर्तते। अत्र किं वा कृतम्? कथं वा प्रतिपादितम्? एतादृशग्रन्थानां सम्पादने महत्त्वमावश्यकताञ्च लिखेऽस्मिन् विचार्यते।

मुख्यशब्दाः 

मध्वसिद्धान्तप्रमाणमणिमालिका, अध्ययनक्रमः, वेदान्तः, ग्रन्थसम्पादनम्, सङ्ग्रहः

उपोद्घातः

जगति विद्यमानेषु विविधदर्शनेष्वन्यतमं दर्शनमस्ति वेदान्तदर्शनम्। भगवता वेदव्यासेन प्रणीतानि ब्रह्मसूत्राणीत्येव प्रथितानि वेदान्तसूत्राण्येवास्य दर्शनस्याधारो वर्तते। तादृशब्रह्मसूत्राणां व्याख्यानं ये कृतवन्तस्ते वेदान्ताचार्यशब्देन लोके प्रसिद्धाः – आचार्याः शङ्कर-रामानुज-मध्वादयः। तत्रैक आचार्यमध्वस्तु रजतपीठपुरेऽवतार्य विशिष्टं मतं तावत् प्रारूपयत्। तत आरभ्य ’द्वैतवेदान्तमतं’ ’तत्ववादमतम्’ इति वा प्रथितमस्ति। न केवलं ब्रह्मसूत्रस्य भाष्यम्, अपिच वेदोपनिषद्गीतादीनां व्याख्यानादारभ्य विविधस्वतन्त्रग्रन्थांश्च समारचयद् आनन्दतीर्थः मध्वाचार्यः। तेषु ग्रन्थेषु द्वैतमतप्रतिष्ठापनाचार्यैः श्रीमदानन्दतीर्थभगवत्पादैरुल्लिखितानां विविधविषकानां प्रमाणवाक्यानां संवादिवाक्यानां वा विषयानुसारं संयोज्य लिखिता वर्तते मध्वसिद्धान्तप्रमाणमणिमालिका। अस्य ग्रन्थस्य संकलनकर्ता श्रीवेङ्कटरमणमहाभागाः। अस्य ग्रन्थस्य नाम मङ्गलपद्ये सूचितमस्ति –

लक्ष्मीनारायणं नत्वा पूर्णबोधगुरूनपि ।

कुर्वे श्रीमध्वसिद्धान्तप्रमाणमणिमालिकाम् ॥

मध्वसिद्धान्तपरिचयः

ग्रन्थपरिचयात्पूर्वं तन्निष्टविषयस्य प्रतिपादनमवश्यमिति चिन्त्य द्वैतवेदान्तपरिचयः क्रियते। श्रीमदाचार्यैः प्रतिपादितस्य समग्रद्वैतवादस्य सारभूतेन श्रीव्यासराजतीर्थवचनेन तन्मतं ज्ञायते-

श्रीमन्मध्वमते हरिः परतरः सत्यं जगत्तत्वतो

भेदो जीवगणा हरेरनुचरा नीच्चोच्चभावङ्गताः।

मुक्तिर्नैजसुखानुभूतिरमला भक्तिश्च तत्साधनं

ह्यक्षादित्रितयं प्रमाणमखिलाम्नायैकवेद्यो हरिः॥

श्लोकेऽस्मिन् श्रीमन्मध्वमते श्रीमदानन्दतीर्थभदवत्पादानां तत्वमते नवरत्नानि (तत्वानि) सन्ति – हरिः परतरः, सत्यं जगत्, तत्वतो भेदः, जीवगणा हरेरनुचराः, नीच्चोच्चभावङ्गताः, मुक्तिर्नैजसुखानुभूतिः, अमला भक्तिश्च तत्साधनं, अक्षादित्रितयं प्रमाणम्, अखिलाम्नायैकवेद्यो हरिः।

तत्र ’हरिः परतर’ इति प्रथमं तत्वमुच्यते। यतो हि, विविधवैदिकदर्शनेषु सर्वोत्कृष्टं कञ्चित् पुरुषविशेषमङ्गीकुर्वन्ति। सैव ब्रह्मेति गीयते चोपनिषदि – “यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्यभिशंविशन्ति। तद्विजिज्ञासस्व। तद्ब्रह्मेति॥“। अस्मिन् मन्त्रे सर्वनियामकः सर्वसमर्थः सर्वाश्रयश्च कश्चन भागवान् ब्रह्मनाम्ना विद्यत इति प्रतिपाद्यते। तर्हि कथं स नारायण इत्यस्योत्तरं वदति श्रीमदाचार्यः ब्रह्मसूत्रस्य स्वभाष्ये “ब्रह्मशब्दश्च विष्णावेव” इति। हरिवंशेऽपि “वेदे रामायणे चैव पुराणे भारते तथा। आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते॥“ इति। स एवाभिप्रायः ’हरिः परतर’ इत्यनेन सङ्गृहीतः। ’सत्यं जगत्’ इति द्वितीयोंऽशः। प्रकृतिविकृतस्यास्य घटपटाद्यात्मकस्य जगतोऽसत्यत्वं प्रतिपादयन्ति केचन, “नेह नानाऽस्ति किञ्चन” , “एकमेवाद्वितीयं” इत्यादि श्रुतिसाहाय्यात्। तन्निराकरणार्थमुदाहृतानि नैकविधप्रमाणवाक्यानि – “याथातथ्यतोऽर्थान् व्यदधाच्चाश्वतीभ्यसमाभ्यः”, “असत्यमप्रतिष्ठं ते जगदाहुरनीष्वरम्” इत्यादीनि। तृतीयं रत्नम्, “अहं ब्रह्मास्मी” त्यादिवाक्यैः जीवब्रह्मणोरैक्यं निरूपितं सुप्रसिद्धमेव वर्तते, तदत्र खण्ड्यते ’तत्वतो भेदः’ इति। वस्तुतस्तु पञ्चविधो भेद उच्यते ब्रह्मसूत्रानुव्याख्याने – 

जीवेश्वरभिदा चैव जडेश्वरभिदा तथा।

 जीवभेदो मिथश्चैव जडजीवभिदातथा॥

मिथश्च जडभेदोऽयं प्रपञ्चो भेदपञ्चकः। इति।

उपनिषदि च “द्वा सुपर्णा सयुजा सखाया…। “ इति उक्तभेदाश्च स्वाभाविकाः – “सत्य आत्मा सत्यो जीवः सत्यं भिदा…” इति श्रुतिवचनम्। तादृशजीवाः हरेः परमात्मनः श्रीमन्नारायणस्य अनुचराः। श्रुतिरपि गायति “अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः।“ इति। तेषु जीवेषु तारतम्योऽपि विद्यते। “स्वभावतस्त्रिधा जीवा उत्तमाधममध्यमाः।“ इति त्रिविधजीवानां वर्णनं भगवद्गीतातात्पर्ये दृश्यते। भगवता श्रीकृष्णेनैव प्रोक्तं – 

“मय्येव मन आधत्स्व मयि बुद्धिं निवेशय।

निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः॥

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्।

अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय॥

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव।

मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि॥

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः।

सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्॥ “ 

इति गीतायाम्। तदेवोक्तं जीवगणाः नीच्चोच्चभावं गताः

अपरं रत्नं मुक्तिर्नैजसुखानुभूतिः। तदेव ब्रह्मसूत्रभाष्ये निरूपितमस्ति “ज्योतिर्मयेषु देहेषु स्वेच्छया विश्वमोक्षिणः। भुञ्जते सुसुखान्येव न दुःखादीन् कदाचन॥“ इति निजं सुखं मुक्तावस्थायामनुभवति जीवः। तत्प्राप्त्यै साधनं तावत्किमित्यस्योत्तरमस्ति – भक्तिश्च तत्साधनम्। कर्मज्ञानादीनामपि साधनत्वेन प्रसिद्धत्वात् कथं तर्हि भक्तिरित्यस्य समाधानं मध्वाचार्येन भक्तिलक्षणनिरूपणावसरे समर्थितमस्ति। यथाहि, “माहात्म्यज्ञानपूर्वस्तु सुदृढसर्वतोधिकः स्नेहो भक्तिरिति प्रोक्तः…।“ इति “नैते कर्म, ज्ञानं, भक्तिश्च पृथक्पन्थानः। यत्कर्म ज्ञानयुक्त्या भक्त्या क्रियते तत्कर्म मोक्षसाधनम्।“ एतादृशविचारान् साधयतुं कतिविधानि प्रमाणानि द्वैतमतेऽङ्गीकृतानीति तदर्थमुक्तम् ’अक्षादित्रितयं प्रमाणम्’ इति प्रत्यक्ष-अनुमान-आगमाख्यानि त्रिविधप्रमाणानि प्रतिपादितानि। तत्राप्यतीन्द्रियान् विषयान् साधयितुं श्रुतिर्वा श्रुतियुक्तानुमानं वा प्रमाणम्। तदेवोक्तं बृहद्भाष्ये “निर्णयस्त्वागमेनैव नानुमाऽऽगमवर्जिता।“ इति। तत्त्वेष्वन्तिमं वर्तते ’अखिलाम्नायैकवेद्यो हरिः’। उक्तप्रमाणेषु प्रबलतममस्ति आगमप्रमाणम्, तस्य प्रतिशब्दं एकमेव विषयं हरिं प्रतिपादयति मुख्यतया। हरिणारब्धतत्त्वानां हरावेव समाप्तिः इति तत्त्ववादमतस्य सरं वर्णितमस्ति।

मध्वसिद्धान्तप्रमाणमणिमालिका

सर्वेषु दर्शनेषु विविधविचारान् तत्त्वान् प्रमेयान् च नैकविधप्रकारेषु प्रतिपादितवन्तः। तेषां सधनार्थम् अनेकानि प्रमाण्यङ्गीकृतानि वर्तन्ते। तानि च

“प्रत्यक्षमेकं चार्वाकाः काणादास्सौगताः पुनः।

अनुमानं च तञ्चाथ सांख्याः शाब्दं च ते अपि ॥

न्यायैकदेशिनोऽप्येवमुपमानं च केचन।

अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः॥

अभावषष्ठान्येतानि भाट्टवेदन्तिनस्तथा।

सम्भवंतिक्षयुक्तानि तानि पौराणिका जगुः॥“ इति

प्रमाणैकादारभ्य अष्टाप्रमाणानि विविधमतैरङ्गीकृतानीति ज्ञायतेऽस्माद्वाक्यात्। तेषां तत्त्वानां प्रमाणानां वा सङ्ग्रहात्मकतया प्रथमवारं प्रायः न्यायमते श्री-अन्नम्भट्टेन ’तर्कसङ्ग्रहे’ कृतम्। एतादृशग्रन्थनिर्माणेन प्रयोजनं किमिति चेत्, विच्छिद्य वर्णितानां नैकतत्त्वानाम् एकत्राध्ययनं साध्यम्। तेन यो जिज्ञासुः तन्मतम् अवगन्तुमिच्छति प्राथमिकस्तरे स तस्याध्ययनेन स्वल्पे समये ज्ञातुं शक्यते। तत्समानाः ग्रन्थाः द्वैतवेदान्तेऽपि विद्यन्ते। तत्र श्रीपद्मनाभसूरिणा विरचितः ’पदार्थसङ्ग्रहः’, श्रीशेषचन्द्रिकाचार्येण विरचितः ’पदार्थविवेकः’ च सुप्रसिद्धौ। 

 

तस्मिन्नेव क्रमे ’मध्वसिद्धान्तप्रमाणमणिमालिका’पि परिगण्यते। परन्तु अन्येषु सङ्ग्रहात्मकेषु ग्रन्थेषु यत्कृतं तदेवात्र मणिमालिकायां नास्ति, अन्यथा ग्रन्थवैय्यर्थ्यं स्यात्। तर्हि किं पुनर्विशेषोऽत्र? इत्यस्य उत्तरम्, आनन्दतीर्थभगवत्पादाः पञ्चत्रिंशदधिकेषु स्वकीयग्रन्थेषु नैकान् नूतनान् विशिष्टान् च विचारान् प्रतिपादितवन्तः। तान् ग्रन्थान् सर्वमूलग्रन्था इति कथयन्ति। ’सर्वमूलम् – सर्वो नाम वेदराशिः मूलमेतासां कृतीनामिति सर्वमूलता।’ ’अपिच सर्वशब्देन ब्रह्म, वेद-इतिहास-पुराण-ब्रह्मसूत्रादिशास्त्रम्, धर्मार्थकाममोक्षाख्याः चतुर्विधपुरुषार्था वा तेषामवगमने मूलं नाम मुख्यमिति सर्वमूलता।’ तत्र प्रमाणरूपेण विविधानां श्रूतिस्मृतीनां वाक्यानि संवादितया प्रदत्तानि। तेषां सङ्ग्रहमेव ग्रन्थेऽस्मिन् (प्रमाणमणिमालिकायाम्) कृतमस्ति। 

 

प्रमाणमणिमालिकायां सङ्रहमात्रं कृतमिति नास्ति, तेषां सङ्ग्रहपूर्वकं विषयानुसारं विभक्तमप्यस्तीत्यत्र विशेषः। पदार्थसङ्ग्रहेऽपि प्रमाणवचनानि विलिखितानि, किन्त्वत्र तथोऽप्यधिकानि माध्ववचनाद् भिन्नानि भागवातादिपुराणवाक्यानि, अपिच द्वैतसम्बद्धानि मध्वविजय-सङ्ग्रहरामाण-मणिमञ्जर्यादीनि वाक्यानि ग्रन्थेऽस्मिन् संसूच्यते। तादृशसङ्कलनेन अनेकेषाम् अध्यापकानाम्, जिज्ञासूनाम्, शोधार्थिनाञ्च महदुपकारकमस्तीत्यत्र नास्ति संशयः। यतः, द्वैतवेदान्तसम्बद्धाध्ययने शोधकार्ये जिज्ञासायां वा कमपि विषयमधिकृत्य मध्वाचार्यैः कस्मिन् ग्रन्थे किं प्रमाणं दत्तमिति यथाशीघ्रं प्राप्यते। विशेषध्ययनपक्षे तदनुरेव निर्दिष्टे ग्रन्थे कथं वा समर्थितमिति विशेषविचारान् परिद्रष्टुं शक्यते। अधुनिकश्ब्देन इमं ग्रन्थं ’द्वैतप्रमाणवचनानां Encyclopedia अथवा A book of references’ इति वक्तुं शक्यते। इतोऽपि वक्तव्यं चेत्, मया मध्वसिद्धान्तविषये प्रदर्शितानि अनेकप्रमाणानि मध्वसिद्धान्तप्रमाणमणिमालिकया एवोद्धृतानि।

 

अस्य ग्रन्थस्य कर्तुः परिचयस्तावद् अधिकं न प्राप्यते। अस्मिन्नेव ग्रन्थस्यान्ते “श्रीनिवासार्यपुत्रेण वेङ्कटरमणसुशर्मणा’ इति लिखितमस्ति। तेन तस्य पितुः नाम श्रीनिवास इति ज्ञायते। ग्रन्थकर्तुतस्य ग्रन्थान्तरस्य अनुपलब्धित्वाद् अधिकं न लभ्यते। अस्य कालविचारे जिज्ञासा वर्तते। ग्रन्थान्ते कर्त्रा लिखितमस्ति – “युव नाम वर्ष आश्वीयुज मास तृतीया गुरुवासर सम्पूर्णम्” इति। कस्मिन् शकाब्दे युववत्सरे गुरुवासरयुक्ता आश्विनतृतीया समभूदिति शोधावहः क्लिष्टः कालविचारः। पञ्चाङ्गसमीक्षायां ग्रन्थस्वरूप एव कालं विचारयति। अयं ग्रन्थः सुप्रसिद्धयोः द्वैतवेदान्तसम्बद्धयोः पदार्थसङ्ग्रहपदार्थविवेकयोः शैलीमनुसरतीव भाति। तौ च वेदगर्भपद्मनाभसूरिविरचितः पदार्थसङ्ग्रहः श्रीशेषचन्द्रिकाचार्यविरचितः पदार्थविवेकश्च न्यायनयस्य प्रमेयप्रमाणादिपदार्थानां सङ्ग्रहात्मकं अन्नम्भट्टकृतं तर्कसङ्ग्रहमनुसरति। तस्मात् तन्मध्यायितं भवति ग्रन्थस्यास्य कालम्। 

 

तर्कसङ्ग्रकार अन्नम्भट्टस्तु १७तमस्य शतकस्य पूर्वार्धे आसीदिति प्रसिद्धम्। अपिच अस्य वेङ्कटरमणसुशर्मणः ग्रन्थस्य प्रतिलेखनं सुब्रह्मण्यशास्त्रिना ३.११.१९७३ तमे वर्षे कृतम्। तेन ज्ञातुं शक्यते यदेतयोरन्तर एव कालः स्यादिति। अस्मिन्नन्तरे ग्रन्थलिखितदिनं तु शुक्लपक्षः कृष्णपक्षो वेति अलिखितत्वात् प्रकारद्वयं भवितुमर्हति ग्रन्थस्य सम्पूर्तेर्दिनम् – 23/10/1755 तथा 05/10/1815। यतः पूर्वोक्तयुवाश्विनतृतीया गुरुवासर अत्रैव भवतीति दृक्पञ्चाङ्गः। अत्रापि १९तमे शतके बहुशः स्यादिति प्रकारान्तरेण ज्ञायते। यतः, पदार्थसङ्ग्रहस्य कर्ता वेदगर्भ-पद्मनाभसूरिस्तु उत्तरादिमठस्य सत्यसन्धतीर्थस्य समानकालीनः स्यादिति तद्ग्रन्थस्य भूमिकायां लिखितमस्ति। सत्यसन्धतीर्थस्तु १८तमशतकस्य द्वितीयार्धेऽतिष्ठदिति उल्लिखितत्वात्, प्रमाणमणिमालिकायाः समयः १७५५ तमः वर्षः न भवितुमर्हति। तेन ५.१०.१८१५ तमे दिनाङ्के समाप्तमुचितं भवतीति। 

उपसंहारः

ग्रन्थेस्मिन् त्रिंशत्यधिकानि प्रकरणानि च विद्यन्ते। तत्र प्रतिप्रकरणम् विविधग्रन्थेषु आचार्यभगत्पादैः तत्रतत्र प्रतिपादितानि प्रमाणवचनानि वर्तन्ते। तेन साक्षात् श्रीमदानन्दतीर्थभगवत्पादानाम् ग्रन्थेषु विद्यमानमभिप्रायं सरलतया अवाप्तुमर्हति। एतादृशानां सङ्कलनात्मकानाम् अध्ययनानां प्रामुख्यं स्पष्टं ज्ञायते। न केवलं द्वैतवेदान्ते, अपितु अन्यवेदान्तादिशास्त्रेषु सङ्कलनेन युवविद्वत्समाजस्य अन्येषां जिज्ञासूनां च आनुकूल्यं भवेत्।

उदाहृतग्रन्थसूची

 

(n.d.). Retrieved from Anandamakaranda: https://anandamakaranda.in/

(Madhvacharya), A. (2009). Śrī-mahā-bhārata-tātparya-nirṇaya. (G. Bannaje, Ed.) Udupi: Tatva-Samśodhana-Samsat.

Madhvacharya. (2005). UPANIṢADBHĀṢYAM. Bengaluru: Poornaprajna Samshodhana Mandiram.

Madhvacharya. (2006). बृहदारण्यकोपनिषद्भाष्यम्. Bengaluru: Poornaprajna Samshodhana Mandiram.

Padmanabhasuri. (2009). Madhvasiddhantasara with Padarthasangraha. Bengaluru: Dvaita Vedanta Studies and Research Foundation.

Puranika, H. K., Bhatta, H. A., & Pandurangi, K. T. (Eds.). (2008). Gitaprasthana (Sarvamulagranthagalu). Bengaluru: Akhila Bharata Madhva Maha Mandala.

R, G. (2021). kurubhuṅkṣva: tatvavāda-bhagavadgītayoḥ karmajijnāsā. Journal of Veda Saṁskr̥ta Academy, 39-48.

Srimad Bhagavadgita: Gita Supersite. (1996). (Department of Computer Science and Engineering, Indian Institute of Technology, Kanpur) Retrieved from Gita Supersite: https://www.gitasupersite.iitk.ac.in/srimad?language=dv&field_chapter_value=1&field_nsutra_value=1&scsh=1&scram=1&scanand=1&scjaya=1&scmad=1&scval=1&scms=1&scsri=1&scvv=1

Upadhyaya, P. (2018). Sarvamulasaurabha. Udupi: Tatva Samshodhana Samsat.

हरिवंशपुराणम्. (n.d.). Retrieved from विकिस्रोतः: https://sa.wikisource.org/

[/vc_column_text][/vc_column][/vc_row]