[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

        महाभाष्ये परमलघुमञ्जूषायां च स्फोटविमर्शः        

 पल्लवकुमारदासः ,MOBILE- 8509671101,
EMAIL-pallabdas712404@gmail.com                                                                    
(शोधच्छात्रः,केन्द्रीयसंस्कृतविश्वविद्यालयः)  
    

“येनाक्षरसमाम्नायमधिगम्य महेश्वराद् 
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः”            

❏ शोधसारः   –  “उच्चार्यमाणः शब्दः संप्रत्यायको भवति, न संप्रतीयमानः”२ इति “अणुदित्सवर्णस्य चाऽप्रत्ययः” इति सूत्रभाष्यात् शब्दार्थप्रतीतिर्ज्ञायते। तेन शब्दार्थयोरस्ति कश्चन सम्बन्धः। शक्तिं विना शब्दस्य अर्थबोधनं न भवति। शक्तिः किं वर्णसमूहात्मके शब्दे तिष्ठति? न , उच्चरितप्रध्वंसकारणात्। ततो वर्णसमूहाभावे पदानां वाक्यानां वा शक्त्याश्रयरूपकल्पना भवेदाकाशकुसुमवत्।  मनोगतभावप्रकटनाय मुख्यमवलम्बनं हि भाषा। शब्दार्थयोः अस्ति नित्यसम्बन्धः। शब्दः कः?, शब्दस्य किं वा स्वरूपम् ? इत्यादयः प्रश्नाः वैयाकरणान् तथा दार्शनिकान् एतद्विषये चिन्तने प्रवर्तयन्ति। महाभाष्यकारस्य पतञ्जलेर्मते शब्दस्य द्विविधं स्वरूपं – स्फोटात्मकम् तथा ध्वन्यात्मकम्। तयोर्मध्ये शब्दस्यादिमं स्वरूपमेव मुख्यम्। महाभाष्ये पस्पशाह्निके “अथ गौरित्यत्र कः शब्दः”  इति प्रश्नं कृत्वा द्रव्यक्रियागुणाकृतीनां शब्दत्ववारयित्वा “येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनां संप्रत्ययो भवति सः शब्दः”४ इति उत्तरं दत्तवान् भगवान् भाष्यकारः। अत्रैव भाष्ये स्फोटस्वरूपमस्ति। “येनोच्चारितेन” इत्यत्र येन इति करणे तृतीया। अत्र उच्चारितेन इति पदस्य अर्थो भवति प्रकाशितेन अर्थात् येन प्रकाशितेन(स्फोटेन) सास्नालाङ्गूलककुदखुरविषाणिनां ज्ञानं भवति स स्फोटः शब्दः। “येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनां संप्रत्ययो भवति स शब्दः” इत्यत्र “शब्द” इति शब्दः स्फोटार्थकः ।

स्फोटशब्दस्य द्विधा व्युत्पत्तिः कर्तुं शक्यते – कर्मव्युत्पत्तिः करणव्युत्पत्तिश्च। तत्र स्फुट्यते ध्वनिना अभिव्यज्यते यः इति कर्मव्युत्पत्त्या स्फोटो नाम ध्वनिव्यङ्गः। “येनोच्चारितेन …….” इति भाष्येन कर्मव्युत्पत्त्या स्फोटशब्दस्य व्युत्पत्तिः। तथा स्फुटत्यर्थोऽनेनेति करणव्युत्पत्त्या स्फोटो नाम वाचकः अर्थात् अर्थबोधजनक इति। “सास्नालाङ्गुलककुदखुरविषाणिनां संप्रत्ययो भवति ” इति भाष्येन वाचकत्व-लाभः। तेन स्फोटस्य लक्षणमेवमायाति यत् – ध्वनिव्यङ्गत्वे सति अर्थविषयकबोधजनकत्वं स्फोटत्वम् इति। लक्षणस्य द्वैविध्यमस्ति- एकं स्वरूपलक्षणं अपरञ्च तटस्थलक्षणम्। अत्र “येनोच्चारितेन ……….” इत्यनेन शब्दस्य तटस्थलक्षणमेवोक्तं भाष्यकृता। कथं तटस्थलक्षणम्? ध्वनिव्यङ्गत्वात् इति। 

     स्फोटशब्दस्य बहुधा व्युत्पत्तिः नैकैर्वैयाकरणैः कृता – 

कौण्डभट्टैः वैयाकरणभूषणसारे – स्फुटत्यर्थोऽस्मादिति व्युत्पत्त्या स्फोटशब्दोऽपादानघञन्त

इत्युक्तम् ।

श्रीमद्भट्टोजिदीक्षितैः शब्दकौस्तुभे –  स्फुटत्यर्थोऽस्मादिति व्युत्पत्त्या स्फोटो नाम पक्षभेदेन अविद्या एव ब्रह्मैव वा  इत्युक्तम्। 

वैयाकरणभूषणसारस्य प्रभाटीकाकारैः – स्फुटति बोधविषयो भवति  अर्थोऽस्मादिति व्युत्पत्त्या स्फोटशब्दः अपादानघञन्त  इत्युक्तम्। 

वैयाकरणभूषणसारस्य दर्पणटीकाकारैः – स्फुटति अभिव्यक्तीभवति अर्थोऽस्मादिति स्फोट इत्युक्तम्। 

     “अ इ उ ण्” सूत्रभाष्ये – ” श्रोत्रोपलब्धिः बुद्धिनिर्ग्राह्यः प्रयोगेणाभिज्वलित आकाशदेशः शब्दः।  एकं च पुनराकाशम्” इत्यनेन शब्दलक्षणमुक्त्वा स्फोटरूपं शब्दं निर्दिशति भाष्यकारः। 

   एवम् “ए ओ ङ्” सूत्रभाष्ये भाष्यकारैः “अथवा उभयतः स्फोटमात्रं निर्दिश्यते रश्रुतेः लश्रुतिर्भवति” इत्युक्तम्। प्रसङ्गेऽस्मिन् नागेशो लघुमञ्जूषायामाह – स्फोट एव कत्वादिना व्यज्यते इति  “ए ओ ङ्इति सूत्रभाष्ये ध्वनितम् । इति। 

“तपरस्तत्कालस्य” सूत्रभाष्ये भाष्यकारैः “एवं तर्हि स्फोटः शब्दः। ध्वनिः शब्दगुणः। कथम्? तद्यथा भेर्याघातो भेरीमाहत्य कश्चित् विंशतिपदानि गच्छति, कश्चित् त्रिंशत्, कश्चिच्चत्वारिंशत्। स्फोटस्तावानेव भवति। ध्वनिकृता वृद्धिः।

                       ध्वनिः स्फोटश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते।

                       अल्पो महांश्च केषाञ्चिदुभयं तत्स्वभावतः “।।२ इत्युक्तम्।

     वैयाकरणाः वर्णसमुदायात् अर्थप्रतीतिर्भवति इति मतं न स्वीकुर्वन्ति। वैयाकरणाः स्फोटं स्वीकुर्वन्ति। यस्मात् अर्थज्ञानं भवति सः स्फोटः। स्फुटति प्रकाशते अर्थो अस्मादिति स्फोटो वाचक इति। स्फुट्धातोः अपादाने घञ्प्रत्यये स्फोटशब्दो सिद्ध्यति। वैयाकरणाः अष्टप्रकाराः स्फोटाः स्वीकुर्वन्ति – १)वर्णस्फोटः २)पदस्फोटः(सखण्डपदस्फोटः) ३)वाक्यस्फोटः(सखण्डवाक्यस्फोटः) ४) अखण्डपदस्फोटः ५) अखण्डवाक्यस्फोटः ६)वर्णजातिस्फोटः ७) पदजातिस्फोटः ८) वाक्यजातिस्फोटः ।

१)वर्णस्फोटः – येषां शब्दानाम् अर्थप्रकाशशक्ति अस्ति अर्थात् येषां शब्दानां वाचकता अस्ति सः स्फोटशब्देन अभिधीयते। क्रमिकवर्णसमूहात् अर्थप्रतीतिर्भवति अर्थात् क्रमिकवर्णसमूहः स्फोटशब्दस्य वाच्यः। वर्णस्फोटपक्षं नैयायिकाः तथा मीमांसकाः स्वीकुर्वन्ति परन्तु वैयाकरणाः वर्णस्फोटपक्षं न स्वीकुर्वन्ति। अयं हि वर्णस्फोटपक्षः।

२)पदस्फोटः(सखण्डपदस्फोटः) – “पचति”,देवदत्तः” इत्यादिषु पदेषु यः प्रकृतिप्रत्ययः कल्पितः भवति तस्य स्वतन्त्रतया कोऽपि अर्थः नास्ति। परन्तु समग्रपदात् अर्थप्रकाशः भवति। व्यवहारक्षेत्रे पदमेव अर्थज्ञानस्य साधनम्। सुतरां अर्थप्रकाशशक्तिः पदे एव तिष्ठति अर्थात् पदमेव स्फोटः वाचकः वा, न तु प्रकृतिप्रत्ययः। प्रकृतिप्रत्ययस्य वाचकता नास्ति। अयमेव पदस्फोटपक्षः सखण्डपदस्फोटपक्षः वा। 

३)वाक्यस्फोटः(सखण्डवाक्यस्फोटः) – प्रत्येकं पदानां यदि पृथकतया प्रयोगो भवति तर्हि तेभ्यः पदेभ्यः लोकव्यवहारोपयोगस्य अर्थस्य ज्ञानं न भवति। वयं सामान्यतः लोकव्यवहाराय पदानां प्रयोगं न कृत्वा वाक्यानामेव प्रयोगं कुर्मः। अर्थात् वाक्यमेव अर्थज्ञानस्य साधनम्। सुतरां अर्थज्ञानस्य अनुकूला शक्तिः वाक्येषु एव तिष्ठति न तु पदेषु। अयं हि वाक्यस्फोटपक्षः सखण्डवाक्यस्फोटपक्षः वा। 

 

४)अखण्डपदस्फोटः – वर्णपक्षाः यथा वर्णस्य अवयवं न स्वीकुर्वन्ति,वर्णं निरवयं तथा अखण्डं स्वीकुर्वन्ति। तथा अखण्डपदस्फोटपक्षाः पदम् अखण्डमेव स्वीकुर्वन्ति। अस्मात् अखण्डपदात् अस्माकं अर्थज्ञानं भवति। सुतरां अखण्डपदे एव अर्थप्रकाशशक्तिः वर्तते। अत एव अखण्डपदमेव स्फोटः वाचकः वा। अयमेव अखण्डपदस्फोटपक्षः।

५) अखण्डवाक्यस्फोटः – अखण्डपदस्फोटपक्षाः यथा पदम् अखण्डमेव स्वीकुर्वन्ति तथा अखण्डवाक्यस्फोटपक्षाः वाक्यमेव अखण्डं स्वीकुर्वन्ति। अयं पक्षः स्वीकरोति यत् वाक्यस्य कोऽपि अवयवः नास्ति। वाक्यानां अर्थज्ञानाय पदस्य अवयवरूपतया कल्पना क्रियते, वस्तुतः पदस्य कापि पारमार्थिकसत्ता नास्त्येव। अखण्डवाक्ये एव अर्थप्रकाशस्य अनुकूला शक्तिः विद्यते। अत एव अखण्डवाक्य एव वाचकः स्फोटः वा। अयं हि अखण्डवाक्यस्फोटपक्षः।

        उक्ताः पञ्चप्रकाराः स्फोटाः साधारणतया “व्यक्तिस्फोटाः” इति नाम्ना अभिधीयन्ते। 

६)वर्णजातिस्फोटः – मीमांसकाः घटत्वपटत्वजातिमेव घटादिशब्दस्य वाचिका इति स्वीकुर्वन्ति। अत एव प्रकृतिप्रत्ययः अर्थस्य वाचकः न, परन्तु प्रकृतप्रत्ययगतजातिः एव अर्थस्य वाचिका इति वर्णजातिस्फोटपक्षाः। “वर्णजातिस्फोट” इत्यत्र “वर्ण” इति पदेन “प्रकृतिप्रत्ययः” इत्यर्थः अवगम्यते। अयमेव वर्णजातिस्फोटपक्षः।

७)पदजातिस्फोटः – वर्णजातिस्फोटपक्षाः कथयन्ति प्रकृतिप्रत्ययगतजाति एव अर्थस्य वाचिका परन्तु पदजातिस्फोटपक्षाः कथयन्ति प्रकृतिप्रत्ययान्तर्गता या जातिः तस्याः वाचकता नास्ति तथा तस्याः अर्थबोधानुकूला शक्तिः नास्तीति। प्रकृतिप्रत्ययस्य समष्टिभूतम् यत् पदं , तस्मिन् समग्रपदे एका जातिः विद्यमाना अस्ति, सा जाति एव अर्थस्य वाचिका स्फोटः वा। अयं हि पदजातिस्फोटपक्षः।

८)वाक्यजातिस्फोटः – व्यवहारक्षेत्रे प्रत्येकं पदानां पृथकतया प्रयोगः न भवति। व्यवहारक्षेत्रे वयं अर्थबोधनाय वाक्यानां प्रयोगं कुर्मः न तु पदानाम्। सुतरां व्यवहारक्षेत्रे वाक्येनैव अर्थप्रतीतिर्भवति। वाक्यनिष्ठा सा जातिरेव अर्थस्य वाचिका स्फोटः वा। अयमेव वाक्यजातिस्फोटपक्षः। 

कण्ठताल्वादिभिः व्यापारैः वर्णोच्चारणस्थाने यः वायुसंयोगः भवति तेन वायुसंयोगेन स्फोटस्य अभिव्यक्तिर्भवति, न तु उत्पत्तिः। स्फोटस्य अभिव्यञ्जका ध्वनिरिति। 

   ❏ ❏ परमलघुमञ्जूषायां नागेशः स्फोटविषये आलोचयति- “ननु कोऽयं स्फोटः” इति। स्फोटशब्दस्य व्युत्पत्तिविषये नागेशेनोक्तम्- “स्फुटत्यर्थोऽस्मादिति व्युत्पत्त्या स्फोटः”२ इति। तत्र आलोचनावसरे वाचः आलोचनास्ति। नागेशेनोक्तं- “चतुर्विधा हि वागस्ति। परा पश्यन्ती मध्यमा वैखरी च”३  इति। वाचां संज्ञापि तेन प्रदत्ता- 

१)परावाक् – नागेशेनोक्तं परमलघुमञ्जूषायां – “तत्र मूलाधारस्थपवनसंस्कारीभूता मूलाधारस्था शब्दब्रह्मरूपा स्पन्दनशून्या बिन्दुरूपिणी परावागुच्यते ।”४ इति । 

२)पश्यन्तीवाक् – नागेशेनोक्तं परमलघुमञ्जूषायां – “नाभिपर्यन्तमागच्छता तेन वायुनाऽभिव्यक्ता मनोगोचरीभूता पश्यन्तीवागुच्यते ।”५ इति। इयं पश्यन्तीवाक् केवलं मानसप्रत्यक्षविषया श्रवणागोचराः। 

       परापश्यन्तौ द्वे वाचौ ब्रह्मस्वरूपौ। परापश्यन्तौ द्वे वाचौ योगिनां समाधौ तिष्ठतः। द्वे एव निर्विकल्पकज्ञानविषयौ।

३)मध्यमावाक् – नागेशेनोक्तं  परमलघुमञ्जूषायां – “ततो हृदयपर्यन्तमागच्छता तेन वायुनाऽभिव्यक्ता तत्तदर्थवाचकशब्दस्फोटरूपा श्रोत्रग्रहणायोग्यत्वेन सूक्षजपादौ बुद्धिनिर्ग्राह्या मध्यमावागुच्यते ।”६ इति। मध्यमावाक्  अर्थविशेषवाचिका तथा स्फोटात्मकशब्दव्यञ्जका। मध्यमावाक् श्रवणेन्द्रियग्रहणयोग्या न भवति , केवलं बुद्धिग्राह्या भवति। 

४)वैखरीवाक् – नागेशेनोक्तं परमलघुमञ्जूषायां- “ततः आस्यपर्यन्तमागच्छता तेन वायुनोर्ध्वमाक्रमता च मूर्धानमाहत्य परावृत्य च तत्तत्स्थानेष्वभिव्यक्ता परश्रोत्रेणापि ग्राह्या वैखरीवागुच्यते “। इति। 

तदाह परमलघुमञ्जूषायाम्- “परावाङ्मूलचक्रस्था पश्यन्ती नाभिसंस्थिता।

                                     हृदिस्था मध्यमा ज्ञेया वैखरी कण्ठदेशगा ।।

                                     वैखर्या हि कृतो नादः परश्रवणगोचरः।

                                     मध्यमया कृतो नादः स्फोटव्यञ्जक उच्यते।।” २ इति। 

तत्र मध्यमावाक् अर्थविशेषस्य वाचिका स्फोटात्मकशब्दस्य व्यञ्जका । तदाह नागेशः – “कर्णपिधाने च जपादौ च सूक्ष्मतरवायुव्यङ्गः शब्दः स्फोटात्मकः ब्रह्मरूपो नित्यश्च ।” ३ इति।

    

 तत्र उच्चारितध्वनिना अभिव्यक्तः स्फोटशब्दः यद्यपि एकः अखण्डश्च तथापि उच्चारणभेदे भिन्नः। अत एव अखण्डः वाक्यरूपस्फोटः पदभेदे तथा वर्णभेदे भिन्नः। स्फटिकस्य कोऽपि वर्णः नास्ति परन्तु सः स्फटिकः जवापुष्पसंस्पर्शे लोहितः भवति तथा कुसुमपुष्पसंस्पर्शे पीतः भवति। वस्तुतः स्फटिकस्य लोहितपीतज्ञानं भ्रमात्मकम्। 

 

अपरमुदाहरणं यथा – मणौ यदि मुखस्य प्रतिबिम्वनं भवति तर्हि मुखं वर्तुलाकारं भवति, कृपाणे यदि मुखस्य प्रतिबिम्वनं भवति तर्हि मुखं दीर्घं भवति, दर्पणे प्रतिबिम्वनं भवति चेत् स्वाभाविकं भवति। मुखस्य प्रतिबिम्वनं तु औपाधिकम् । तथा वर्णादिना व्यङ्गः स्फोटः वर्णरूपे,पदरूपे तथा वाक्यरूपे प्रतिभातः भवति। स्फोटव्यञ्जकस्य कत्वगत्वादिरूपवर्णविभागस्य प्रतिभासः भवति। स्फोटरूपशब्दे वर्णपदादिरूपभेदः न भवति तथापि ध्वनिगतभेदस्य स्फोटे आरोपो भवति। 

     परमलघुमञ्जूषायामपि नागेशः भाष्यकारमतं स्वीकरोति – “कत्वादिना श्रोत्रोपलब्धित्वं स्फोटात्मकपदादिरूपेण  तु बुद्धिनिर्ग्राह्यत्वम्। स च प्रयोगेण वैखरीरूपेण अभिज्वलितः स्वरूपरूषितः कृतः” इति।

     तत्र ध्वनिः द्विविधः – प्राकृतः वैकृतश्च। प्रकृतार्थबोधयितुं स्वभावेन जातः स्फोटव्यञ्जकः प्राकृतध्वनिः। भर्तृहरिमते प्राकृतध्वनिः स्फोटस्य अभिव्यक्तेः कारणम्। तत्र वृत्तिभेदे ध्वनिभेदः भवितुं शक्नोति परन्तु स्फोटात्मायाः भेदः न भवति। अर्थबोधविषये नागेशेनोक्तम्- “केनचिद्घटमानयेति वैखरीनादः प्रयुक्तः , स केनचिच्छोत्रेन्द्रियेण गृहीतः , सः नादः इन्द्रियद्वाराबुद्धिहृद्गतः सन्नर्थबोधकं शब्दं स्वनिष्ठकत्वादिना व्यञ्जयति ,तस्मादर्थबोधः।” २ इति।

उच्चारणकाले मध्यमा-वैखरीवाचा नादोत्पन्नः भवति। वैखरीनादः उत्तेजकः । उत्तेजकस्य वैखरीनादस्य प्रयत्नेन उत्तेजितेन मध्यमानादेन अर्थबोधकस्य स्फोटस्य अभिव्यक्तिर्भवति। मध्यमानादः उत्साहकः उत्तेजकः वा। मध्यमानादः स्फोटस्य व्यञ्जकः तथा मध्यमानादात् अर्थबोधः भवति। अनेकव्यक्तभिव्यङ्गा जातिः स्फोटः। यथा अनेकध्वनिरूपशब्देन अभिव्यक्त एक अखण्डः नित्यः स्फोटरूपः शब्द एव जातिः। पूर्वोक्ताः अष्टप्रकारस्फोटाः औपाधिकाः स्फटिके लौहित्यादिवदेव। वास्तविकः स्फोटः वाक्यस्फोटः वाक्यजातिस्फोटः वा य एक अखण्डश्च इति परमलघुमञ्जूषायां नागेशमतं स्फोटविषये ।

 

    ❏❏❏ विविधानां पदानां अर्थबोधने स्फोट एव कारणम्। स्फोटेन विना कोऽपि शब्द अर्थबोधको न भवितुं शक्नोति। महाभाष्यकारेण उक्तं – स्फोटः शब्दः ध्वनिस्तस्य व्यायामादुपजायते  इति ।विदुषां शब्दशास्त्रपारङ्गतानां मते शब्दानां नित्यतायाः मूले स्फोट एव कारणम्। वस्तुतः नित्यः शब्द एव स्फोटरूपेण कथ्यते। स्फोटविषये दार्शनिकानां वैयाकरणानां च मध्ये मतविरोधः दृश्यते। तत्र अतिविस्तृतालोचना वर्तते। वैयाकरणसम्प्रदाये नागेशः,भर्तृहरिः,भगवान् पतञ्जलिः तथा भट्टोजिदीक्षितः तस्य शब्दकौस्तुभे स्फोटस्य आलोचनां कृतवान्। महाभाष्यकारेण अष्टाध्याय्याः प्रथमाध्यायस्य प्रथमपादस्य सप्ततितमस्य सूत्रस्योपरि स्वकृते भाष्ये एका कारिका लिखिता –

                   “ध्वनिः स्फोटस्य शब्दानां ध्वनिस्तु खलु लक्ष्यते।

                   अल्पो महांश्च केषांश्चिदुभयं तत् स्वभावतः”।।

   अर्थात् शब्दस्य द्वे रूपे स्तः ध्वनिः स्फोटश्च । विविधव्याकरणग्रन्थानामनुशीलनेन स्पष्टं भवति यत् स्फोटस्तु द्विविधः – आन्तरः बाह्यश्च । श्रवणेन्द्रियप्रत्यक्षविषयः वैखरीरूपशब्द आन्तरः। अर्थस्य वास्तविकः वाचकस्तु बाह्यस्फोटः। स्फोटेन विना उच्चार्यमानेषु शब्देषु अर्थबोधिका शक्तिः न तिष्ठति, एतदभावे वर्णोच्चारणप्रक्रिया एव निरर्थका सिद्ध्यति। द्वितीयवर्णस्योच्चारणकाले प्रथमवर्णस्य विनाशः भवति, तर्हि कथंकारं उभयोः वर्णयोः सम्बन्धः भवेत्। यदि ईदृशः सम्बन्धः न भवेत् तदा अर्थबोधोऽपि न सम्भाव्यः।

     एवमेव पदगतानामन्येषां वर्णानां मध्ये स्फोट एव सम्बन्धाधायकः। स एव अर्थबोधिकाशक्तिरूपेण कार्यं करोति। स्फोटेन विना अर्थबोधः न भवितुं शक्नोति। कः शब्दः? शब्दस्य अर्थज्ञानं कथं भवति? इत्यादयः प्रश्नालोचनावसरे स्फोटस्य आलोचनां कृतवन्तः वैयाकरणाः। प्रस्तुतमाने शोधप्रबन्धे भगवतः पतञ्जलिमुनिविरचितात् महाभाष्यात्  तथा नागेशविरचितायाः परमलघुमञ्जूषायाः स्फोटस्वरूपविमर्शः यथामति मया कृत इति शम्।




सन्दर्भग्रन्थसूची

१) परमलघुमञ्जूषा, प्रो. बोधकुमारः झा, हंसा प्रकाशन, जयपुर, २०१८

२) परमलघुमञ्जूषा, आचार्य लोकमणि दाहाल, चौखम्बा सुरभारती प्रकाशन, वाराणसी, २०१८

३) व्याकरण-महाभाष्यम्, प्रो. जयशङ्करलाल त्रिपाठी, चौखम्बा कृष्णदास अकादमी, वाराणसी, २०२१

४) परमलघुमञ्जूषा, गोस्वामी विजया ,संस्कृत पुस्तक भाम्डार, कोलकाता, २००६

५)व्याकरण-महाभाष्य , मेधाचैतन्य ब्रह्मचारी, संस्कृत वुक् डिपो, कोलकाता, २०१७

६) परमलघुमञ्जूषा, श्री सदाशिवशास्रि पण्डित, चौखम्बा संस्कृत सीरिज आफिस , वनारस सिटी,२००३

७) परमलघुमञ्जूषा, नित्यानन्दपन्त पर्वतीय, दि चौखम्बा संस्कृत वुक् डिपो, वनारस सिटी,१९१७

८) व्याकरण महाभाष्य, चारुदेव शास्त्री, मोतीलाल बनारसीदास, दिल्ली,२०१७

९) व्याकरणदर्शनेर् इतिहास, गुरुपद हालदार, संस्कृत वुक् डिपो, कोलकाता, २००६

१०)व्याकरणमहाभाष्यम्, महामहोपाध्याय-पण्डित-शिवदत्त शर्मा ,चौखम्वा संस्कृत प्रतिष्ठान,दिल्ली, १९८८

११) पाणिनीयव्याकरणमहाभाष्यम्, शास्त्री भार्गव,  चौखम्बा संस्कृत प्रतिष्ठान, दिल्ली, १९८७

 

[/vc_column_text][/vc_column][/vc_row]