धर्मसञ्चारोक्तप्रकरणप्रमाणविमर्शः
महेश चिदम्बर भट्टः
सहायकाचार्यः
कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालयः, असमः
soolgarcmaheshbhat@gmail.com
Mo:- 8762917602
लेखसारः –
अङ्गताबोधकप्रमाणेषु अन्यतमं प्रमाणं भवति प्रकरणम्- एतस्य लक्षणम्, तस्य भेदाः, विनियोगप्रकारः इत्येवं विचारः अत्र निरूपितः वर्तते। रघुपतिसूरिणा धर्मसञ्चारः इत्याख्यः ग्रन्थः अलेखि। तत्र विद्यमानाः पूर्वोक्तविचाराः अस्मिन् लेखे न्यरूप्यन्त। एवं भाटदीपिकायां विद्यमानः यः प्रकरणविचारः तत्रापि विशेषतः प्रकरणस्य विनियोजकताधिकरणे विद्यमानविचाराः अत्र प्रदर्शिताः सन्ति। अनेन प्रकरणप्रमाणं सुलभेन अवगतं भवति।
कूटशब्दाः –
अङ्गताबोधकप्रमाणम्, प्रकरणम्, लक्षणम्, धर्मसञ्चारः, रघुपतिसूरिः.
लेखः –
भगवान् जैमिनिः धर्मविवेकाय विवेकिनामुपकाराय च द्वादशलक्षणीत्यपरनामधेयं मीमांसाशास्त्रं ग्रन्थे निबबन्ध। तत्र प्रमाणभेदशेषत्त्वप्रयुक्तिक्रमाधिकार-सामान्यातिदेशविशेषतो॓ऽतिदेशोहबाधतन्त्रप्रसङ्गाख्यान् विषयान्क्रमेण द्वादशस्वध्यायेषु व्यचारीत् । तदुक्तम् :-
धर्मोद्वादशलक्षण्या व्युत्पाद्यस्तत्रलक्षणैः ।
प्रमाणभेदशेषत्वप्रयुक्तिक्रमसंज्ञकाः ॥
अधिकारोऽतिदेशश्च सामान्येन विशेषतः ।
ऊहोबाधश्च तन्त्रं च प्रसङ्गश्चोदिताः क्रमात् ॥ इति॥[1]
तत्र तृतीयाध्याये अङ्गाङ्गीभावबोधकविनियोगविधिः व्यचार्यत । विनियोगविधिसहकारिभूतानि श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याख्यानि षट्प्रमाणानि प्रथमद्वितीयतृतीयपादेषु न्यरूपिषत । तत्र तृतीयपादस्य चतुर्थाधिकरणे प्रकरणम् न्यरूपयि । अङ्गप्रधानोभयगातपरस्पराकाङ्क्षा एव प्रकरणमित्युच्यते । यथा समिधो यजति , तनूनपातं यजती[2]त्यादिषु प्रयाजादिवाक्येष्विष्टविशेषस्य अनिर्देशात् किं भावयेदित्युपकार्याकाङ्क्षा , दपूर्णमासाभ्यां स्वर्गकामो यजेत इति दर्शपूर्णमासाधिकारवाक्ये दर्शपूर्णमासाभ्यां स्वर्गं कथं भावयेदित्युपकारकाकङ्क्षा , इत्थञ्चोभयाकाङ्क्षया प्रयाजादीनां दर्शपूर्णमासाङ्गत्वं ज्ञायते । अत्र सन्देहः :- प्रयाजादीनां प्रधानार्थत्वं किमर्थमुच्यते , तेषां स्वतन्त्रफलार्थत्वमेव भवत्विति । प्रयाजादिवाक्ये इष्टविशेषस्यानिर्देशे अपि फलमन्तरेण विधिश्रुत्यनुपपत्तेः फलं त्ववश्यं कल्पनीयम् । तत्र विश्वजिन्न्यायेन स्वर्गः फलत्वेन कल्पनीयः , तदुक्तम् :- स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वादिति[3]। अथवा रात्रिसत्रन्यायेन आर्थवादिकं फलं कल्पनीयम् । तथा च प्रयाजादीनां विश्वजिन्न्यायेन स्वर्गार्थत्वमथवा रात्रिसत्रन्न्यायेन[4] वर्म वा एतद्यज्ञस्य क्रियते यत्प्रयाजानूयाजा इज्यन्ते वर्म यजमानाय भ्रातृव्याभिभूत्या इति अर्थवादोपस्थापितभ्रातृव्याभिभूतिरूपफलार्थत्वं वक्तव्यमिति । तत्रोच्यते :- प्रयाजादीनां स्वतन्त्रफलार्थत्वमन्यतराकाङ्क्षारूपस्थानप्रमाणेन स्यात् । दर्शपूर्णमासार्थत्वे तु उभयाकाङ्क्षारूपप्रकरणं प्रमाणम् ।अन्यतराकाङ्क्षा च उभयाकाङ्क्षापेक्षया लघीयसि । अतः प्रकरणप्रमाणेन प्रयाजादीनां दर्शपूर्णमासार्थत्वमेव युज्यते , न तु स्वतन्त्रफलार्थत्वम् । श्रूयमाणस्याऽर्थवादिकफलस्य तु केवलस्तुतिपरत्वमेव , तदुक्तम् :- द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात् इति ।
इदमुभयाकाङ्क्षारूपप्रकरणं क्रियायाः एव साक्षाद्विनियोजकं भवति न द्रव्यगुणयोः । तयोस्तु विनियोगः क्रियायोगात् भवति । यतः अर्थभावनायाः इतिकर्तव्यताकाङ्क्षायां क्रियायाः एव लोके विनियोगः दरीदृश्यते ।यथा कुठारेण छिन्द्यादित्यत्र कुठारेण छेदनं कथं भावयेदिति कथंभावाकाङ्क्षायामुद्यमननिपतनरूपक्रियायाः एवान्वयः । हस्तस्य तु क्रियाद्वारा एव आन्वयः । एवं लोके क्रियायाः एव अन्वयः इतिकर्तव्यताकाङ्क्षायां दृश्यते । अपि च ’ कथम्भावाकाङ्क्षा ’ इति पदस्य स्वरूपविवेचनेनापि क्रियायाः एव कथंभावाकाङ्क्षायामन्वयः इति ज्ञायते । तथाहि :- कथमित्यत्र “ किमश्च [5]” इत्यनेन सूत्रेण किं शब्दात् प्रकारवचने थमुप्रत्ययः व्यधायि । प्रकारो नाम सामान्यस्य भेदकः विशेषः । आख्यातेन क्रियासामान्यमुच्यते । क्रियासामान्यस्य भेदकः विशेषः क्रिया एव भवति । न हि ब्राह्मणविशेषः परिव्राजकादिः अब्राह्मणो भवति । एवञ्च कथम्भावाकाङ्क्षा नाम करणगतक्रियाविशेषाकाङ्क्षा इत्यर्थः अलम्भि । करणगतक्रियाविशेषस्तु क्रिया एव इत्यतः युक्तं प्रकरणं क्रियायाः एव विनियोजकमिति । तदुक्तम् :-
नावान्तरक्रियायोगादृते वाक्योपकल्पितात् ।
गुणद्रव्ये कथंभावैर्गृह्णन्ति प्रकृताः क्रियाः[6] ॥ इति ॥
अत एव बर्हिर्देव सदनं दामीत्यादीनां सिद्धरूपाणां मन्त्राणां लिङ्गादेवाङ्गत्वं न तु प्रकरणादिति । एवं च सिद्धं प्रकरणं क्रियायाः एव साक्षाद्विनियोजकमिति ।
अस्य प्रकरणस्य लक्षणं खण्डदेवाचार्यैः विरचितायां भाट्टदीपिकायां तृतीयाध्यायस्य तृतीयपादस्य चतुर्थाधिकरणे प्रकरणस्य विनियोजकताधिकरणे[7] न्यरूपयि – तत्र आदौ एवं शङ्कितम्- सन्निधिः प्रकरणमिति यदि उच्येत तर्हि गोदोहनादिकमपि दर्शादिकं स्यात् इति। गोदोहनेन पशुकामस्य प्रणयेत् इत्यनेन विहितस्य गोदोहननामकपात्रस्य पशुकामनायां सत्यामेव प्रणयनाङ्गत्वम्(गौः दुह्यते अनेन इति व्युत्पत्या पात्रविशेषवाचकत्वं गोदोहनपदस्य), अन्यथा चमसेनापः प्रणयेत् इति वाक्यविहितस्य चमसनामकपात्रविशेषस्य(चम्यते भक्ष्यते अनेन इति व्युत्पत्या पात्रविशेषवाचकत्वं चमसपदस्य) एव प्रणयनाङ्गत्वम्। अत्र सन्निधिः प्रकरणमित्युच्यमाने गोदोहनस्यापि दर्शसन्निधावेव विद्यमानत्वात् दर्शाङ्गत्वं स्यात्, इष्टं फलाङ्गत्वं न स्यात्।
साकाङ्क्षत्वं प्रकरणमित्युच्यते चेत् गोदोहनस्य दर्शस्य च आकाङ्क्षा नास्ति, दर्शे चमसेनैव कार्यसिद्धेः आकाङ्क्षायाः उपशमात् इति चेत् – तदा प्राकृताङ्गानां विकृत्यर्थत्वं प्रकरणप्रमाणेन स्यात्। आकाङ्क्षया सहितं साकाङ्क्षम्, तस्य भावः साकाङ्क्षत्वम् इति व्युत्पत्या साकाङ्क्षत्वं नाम आकाङ्क्षा एव। आकाङ्क्षा तु विकृतावपि, प्रकृतौ विद्यमानाङ्गेष्वपि अस्ति। अतः प्राकृताङ्गानां विकृत्यर्थत्वं अतिदेशेन इति न स्यात्, अपि तु प्रकरणेन इति स्यात्।
साकाङ्क्षत्वे सति सन्निधिपठितत्वं प्रकरणमिति उच्यते चेत् प्राकृताङ्गानां विकृतौ सन्निधिपठितत्वाभावात् पूर्वोक्तः प्राकृताङ्गानां विकृत्यर्थत्वं प्रकरणात् स्यात् इति दोषः वारितः भवति। परन्तु उपहोमादीनां प्रकरणात् विकृत्यर्थत्वमिति दोषः भवत्येव। सन्निधिप्रमाणादेव उपहोमादीनां विकृत्यर्थत्वमिष्टम् आसीत्। अतः उभयाकाङ्क्षत्वे सति सन्निधिपठितत्वं प्रकरणमिति वदामः – तदा उपहोमादिषु साध्याकाङ्क्षा अस्ति चेदपि वकृतेः आकाङ्क्षा क्लृप्तोपकारप्राकृताङ्गैरेव शान्ता इत्यतः उपहोमादीनां विकृत्यङ्गत्वं वारितं भवति इति।
अत्र शङ्क्यते- उभयाकाङ्क्षत्वे सति सन्निधिपठितत्वं प्रकरणमिति[8] उच्यते चेत् सिद्धरूपाणां मन्त्रादीनां प्रकरणादङ्गत्वं स्यात्। प्रकरणस्य क्रियामात्रस्य विनियोजकत्वं नष्टं भवति इति। अपि च दर्शपूर्णमासयागे प्रयाजादीनां प्रकरणादङ्गत्वमिष्टम्, इदानीं दर्शपूर्णमासयोः द्रव्यं किम्, देवता का इत्येवं स्वरूपफालाद्याकाङ्क्षा एव वर्तते प्रयाजविषयिणी तु आकाङ्क्षा नास्ति। अतः प्रयाजादीनां दर्शपूर्णमासाङ्गत्वं न स्यादिति।
अत्रोच्यते- इतिकर्तव्यतात्वेन प्रयाजादीनामाकाङ्क्षा वर्तते दर्शपूर्णमासयोः इति। तर्हि किं नाम इतिकर्तव्यतात्वं इति विचारणीयम्- फले वा अपूर्वे वा जननीये सहकारित्वं इतिकर्तव्यतात्वमिति वक्तुं न शक्यते, यथा दर्शपूर्णमासादिप्रधानयागः फलस्य व अपूर्वस्य वा जनकः तथा प्रयाजादीनामपि फालादिजनकत्वे समप्राधान्यापातः। समप्राधान्ये अतिदेशानापत्तेः दोषोऽयं परिहार्यः। प्रधानजनकत्वम् इतिकर्तव्यतात्वमित्यपि वक्तुं न शक्यते- प्रयाजादिषु प्रधानजनकत्वाभावात्। अतः इतिकर्तव्यतात्वं नाम किं वदामः इत्युक्तौ उच्यते- प्रधानसामग्र्यपेक्षा एव इतिकर्तव्यतापेक्षा इति। एवं इतिकर्तव्यतात्वेन प्रयाजादीनां आकाङ्क्षा वर्तते। तस्मात् प्रकरणलक्षणमित्थं भवति –
सन्निहितस्य फलवतः अनवगताङ्गताकपदार्थविषये इतिकर्तव्यतात्वेन अपेक्षणमेव प्रकरणमिति। [9]दलसार्थक्यम् – प्रयाजादीनां असन्निहितज्योतिष्टोमाङ्गत्ववारणाय सन्निहितदलम्- अन्यथा ज्योतिष्टोमप्रयाजयोर्मध्ये फलवतः अनवगताङ्गताकपदार्थविषये इतिकर्तव्यतात्वेन अपेक्षणरूपप्रकरणसम्भवात् प्रयाजादीनां असन्निहितज्योतिष्टोमाङ्गत्वं स्यात्। प्रयाजादीनाम् अनुयाजाद्यङ्गत्ववारणाय फलवतः इति दलम् – अन्यथा फलरहिते अनुयाजे अपि सन्निहितस्य अनवगताङ्गताकपदार्थविषये इतिकर्तव्यतात्वेन अपेक्षणरूपप्रकरणस्य विद्यमानत्वात् प्रयाजस्य अनूयाजाङ्गत्वं स्यात्। श्रुत्यादिभिः त्रिभिः पूर्वोक्तैः प्रमाणैः येषां प्रोक्षणादीनाम् अङ्गत्वं बोधितम्, तषां पुनः प्रकरणविश्अयत्ववारणाय अनवगताङ्गताकपदार्थविषये इति दलं दत्तम्। सिद्धरूपाणां मन्त्रादीनां प्रकरणेन विनियोजकत्वं वारयितुं इतिकर्तव्यतात्वेन अपेक्षणम् इति दलम्। एवं च सन्निहितस्य फलवतः अनवगताङ्गताकपदार्थविषये इतिकर्तव्यतात्वेन अपेक्षणमेव प्रकरणमिति प्रकरणलक्षणं सिद्धं भवति। एतच्च प्रकरणं महाप्रकरणमवान्तरप्रकरणञ्चेति द्विविधमस्ति ।
फलभावनासम्बन्धिप्रकरणं महाप्रकरणम् । इदं प्रयाजादीनां ग्राहकं भवति । महाप्रकरणमिदं प्रकृतावेव भवति न विकृतौ । तत्र उभयाकाङ्क्षायाः अभावात् । सौर्यादिविकृतियागेषु उपहोमादीनि अपूर्वाण्यङ्गान्यपठ्यन्त । तत्र तेषामपूर्वङ्गानां यद्यपि साध्याकाङ्क्षा अस्ति तथापि प्रधानस्य कथंभावाकाङ्क्षा नास्ति । प्राकृतैरेवाङ्गैः निराकाङ्क्षत्त्वात् । औषधद्रव्यकत्वैकदेवताकत्वरूपसादृश्याभ्यां प्राकृताग्नेयेतिकर्तव्यता अतिदिश्यते , आग्नेयवदुपकृत्य सौर्ययागेन ब्रह्मवर्चसरूपफलं भावयेदिति । तथा च प्राकृतैरेवाङ्गैः विकृतेः आकाङ्क्षोपरमात् न विकृतौ प्रकरणं अङ्गत्वं बोधयति । अपूर्वाङ्गानां स्थानरूपप्रमाणमेव विनियोजकं भवति । प्राकृताङ्गानां तु प्रकृत्युपकारकतया आकाङ्क्षोपशमात्तेषामपि विकृतौ प्रकरणेन ग्रहणं न भवति । अत्र संदेहः भवति :- प्राकृतानामङ्गानां विकृतौ सम्बन्धः स्थानात्भवति । अपूर्वाङ्गानामस्ति साध्याकाङ्क्षा , विकृतेश्च कथंभावाकाङ्क्षा अस्तीत्यतः उभयाकाङ्क्षारूपप्रकरणप्रमाणेनैव अपूर्वाङ्गानां विकृत्यर्थत्वं भवत्विति ।
तत्रोच्यते :- सत्यं , यद्यपि प्रकरणं स्थानापेक्षया प्रबलं परन्तु प्रमाणबलाबलापेक्षया प्रमेयबलाबलः प्रबलः इत्यतः प्राकृतानामेवाङ्गानां विकृतौ सम्बन्धः युक्तः , तेषां क्लृप्तोपकारकत्वादिति । अतः विकृतौ न महाप्रकरणं विनियोजकं , प्रकृतावेव[10] । प्राकृतदृष्टार्थानुवादेन यद्विधीयते विकृतौ तस्यापि विनियोजकं भवति प्रकरणम् । यथा औदुम्बरो यूपो भवति इत्यादौ प्राकृताङ्गानुवादेन विधीयमानौदुम्बरत्वादीनां ग्राहकं भवति प्रकरणम् । क्वचित् विकृतौ पठितानामपि अपूर्वाङ्गानां प्रकरणं विनियोजकं भवति , तदवादि आमनहोमानाञ्च प्राकृताङ्गमध्यविहितत्वेन प्रकरणेन ग्रहणमिति शास्त्रदीपिकाकारादिभिः । परन्तु वस्तुतः आमनहोमानां स्थानादेव साङ्ग्रहणेष्ट्यङ्गत्वं समुचितम् । परन्तु शास्त्रदीपिकाकारादिभिः युक्तिमात्रमवलम्ब्य तदुदाहरणं प्रादर्षि ।
फलभावनायाः अन्तराले यदङ्गभावनासम्बन्धिप्रकरणं तदवान्तरप्रकरणमित्युद्यते । अभिक्रमणादीनां प्रयाजाङ्गत्वबोधकं भवतीदमवान्तरप्रकरणम् । अस्य ज्ञानं सन्दंशेन भवति । एकाङ्गानुवादेन विधीयमानयोरङ्गयोरनराले विहितत्वं सन्दंशः । अतिहायेडो बर्हिः प्रति समानयते जुह्वामौपभृतमिति वाक्यं बर्हिःप्रयाजार्थं आज्यसमानयनं व्यदधात् ।तदनन्तरं अभिक्रामं जुहोति इति वाक्येन आहवनीयसमीपदेशगमनरूपाभिक्रमणं विधीयते । तत्पश्चात् तदिडो बर्हिरिव यजति , बर्हिरेकमिव मिथुनन्तत् एतद्वै प्रयाजानां मिथुनं । यो वै प्रयाजानां मिथुनं वेद तत्प्रजया पशुभिर्मिथुनैर्जायते इति वाक्यं मिथुनं व्यधित । अत्र बहुवचनविशिष्टतया एकवचनविशिष्टतया च यद्देवतोच्चारणं तदेव मिथुनमिति कथ्यते । एवं प्रयाजाङ्गयोः आज्यसमानयनमिथुनयोर्मध्ये पठितमभिक्रमणमपि प्रयाजाङ्गं भवति । तदुक्तम् :-
परप्रकरणस्थानामङ्गे श्रुत्यादिभिस्त्रिभिः ।
ज्ञाते पुनश्च तैरेव सन्दंशेन तदिश्यते[11] ॥ इति ॥
एवञ्च उभयाकाङ्क्षारूपमुभयविधमपि प्रकरणं प्रयाजादीनां अभिक्रमणादीनाञ्च क्रमेण विनियोजकं भवतीति सिद्धम् ।
परिशीलितग्रन्थसूची :-
- जैमिनीयन्यायमाला – सायणमाधवाचार्याः – Published by Anandashrama press , Poona , 1892.
- भाट्टदीपिका – खण्डदेवः – प्रथमं संपुटम् , published by राष्ट्रियसंस्कृतसंस्थानम् , नवदेहलि , 2010.
- मीमांसान्यायप्रकाशः – आपदेवः , Published by चौखम्भा संस्कृत संस्थान in 2008 .
- मीमांसापरिभाषा – कृष्णयज्वा , Published by Chowkhamba krishnadas academy in 2009.
- अर्थसङ्ग्रहः – लौगाक्षिभास्करः, तन्त्रप्रकाशिक इति व्याख्योपेतः Published by डी.टी.स्वामिप्रकाशनम् in 1998.
- धर्मससञ्चारः – रघुपतिसूरिः.
- कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणम् , Published by श्रीनृसिंहप्रिया ट्रस्ट् चेन्नै in 2016.
- कृष्णयजुर्वेदीयतैत्तिरीयसंहिता , Published by श्रीनृसिंहप्रिया ट्रस्ट् चेन्नै in 2016.
- श्लोकवार्तिकम् – कुमारिलभट्टपादाः , Published by Ratna publications , Varanasi in 2007.
- मीमांसानयमञ्जरी – पट्टाभिरामशास्त्री , Published By Dr. Harish Chandra mani Tripathi, sampornanand Sanskrit University , Varanasi. 1984.
- अध्वरमीमांसाकुतूहलवृत्तिः – श्रीवासुदेवाध्वरी , published by L.B.S Sanskrit University Newdelhi. 1969
[1] जैमिनीयन्यायमाला १२
[2] तैत्तिरीयसंहिता २.३. १ , २
[3] जैमिनीयसूत्रम्,
विश्वजिदधिकरणम् ०४.०३.०७
[4] रात्रिसत्राधिकरणम् ०४.०३.०८
[5] अष्टाध्यायी ०५.०३.२५
[6] न्यायप्रकाशः
[7] भा.दी ३.३.४
[8] भाट्टदीपिका, पु.सं-२४९
[9] भाट्टदीपिका – पु.सं २५०
[10] न्यायप्रकाशः – प्रकरणनिरूपणम्
[11] न्यायप्रकाशः
