मानदीपिकायां तदितरग्रन्थेषु च अनुभवप्रमाणविमर्शः
निरंजन हरिश्चन्द्र भट्टः,
शोधच्छात्रः, अद्वैतवेदान्तविभागः
केन्द्रीयसंस्कृतविश्वविद्यालयः,
श्रीराजीवगान्धीपरिसरः,शृङ्गेरी
E Mail – niranjanbhat2020@gmail.com
उपोद्घातः
विदितमेव यत्सर्वद्वैताभावोपलक्षित-सच्चिदानन्दस्वरूप-नित्य-शुद्ध-बुद्ध-मुक्तस्वभाव-स्व स्वरूपप्राप्त्यनुकूल-असकृद्ब्रह्मचिन्तनमेव मननम् इति । तत्तादृशपरब्रह्मचिन्तनम् शास्त्रविहितम् । तत्र च प्रकरणभाष्यादिरूपेणनैकविधः । एवं स्वान्तशुद्धये, शिश्यान् च उद्धर्तुं काशीपुरस्थः बालब्रह्मानन्दयतिः दशसुप्रकरेषु मानदीपिका इति ब्रह्मात्मैक्यस्वरूपप्राप्त्यनूकूलप्रकरणग्रन्थं प्रणिनाय । तत्रैव उदाहृत “ब्रह्मवेद”[1] इत्यादिना अनुभवस्य महत्वं ज्ञातुं शक्यम्।
शास्त्रेषु प्रमाणानि तस्य स्वरूपञ्च
तत्र च नायशास्त्रमनु संसारस्यास्य यथार्थानुभवमेव प्रमा इति उक्तमस्ति[2] । एतादृश यथार्थानुभवः येन, येनसाधनेन वा भवति तत् प्रमाणम् ।[3] “एवं च यथार्थानुभवः प्रमा, तत्साधनं प्रमाणम्”[4] यथार्थानुभवस्य (mate )कारणीभूतप्रमाणानि षट् । प्रत्यक्ष-अनुमान-उपमान-शब्द-अर्थापत्ति-अनुपलब्धिः च इति । किन्तु सर्वे दार्शनिकाः षण्णाम् अपि प्रमाणानां प्रामाण्यं नाङ्गीकुर्वन्ति । अद्वैतिनस्तु षट्प्रामाणवादिनो भवन्ति ।
सामान्यतः प्रमाणानां कार्यं भवति अबाधितार्थविषयकज्ञानत्वम्[5] तदुत्पादकत्वं तद्भोधकत्वं वा । प्रमणानि कति इत्यत्र दार्शनिकेषु मतबेधाः सन्ति । एवं च चार्वाकाः प्रत्यक्षमेकमेव प्रमाणं इति वदन्ति “चैतन्यविशिष्टदेह एव आत्मा देहातिरिक्त आत्मनि प्रमाणाभावात् प्रत्यक्षैकप्रमाणवादितया अनुमानादेरनङ्गीकारेण प्रामाण्याभावात् “[6] इति सर्व दर्शने सङ्ग्रहे । एवं च वैशेषिकमते तु प्रत्यक्षं तथा अनुमानम् उभयं प्रमाणम् । एवं च साङ्ख्यदर्शने प्रत्यक्षम्, अनुमानम्, शब्दः इति त्रीणिप्रमाणानि तत्र अनुमानस्य पुनः पूर्ववत्, शेषवत्, सामान्यतोदृष्टम् इति त्रेधा विभागः । नैय्यायिकमते च प्रत्यक्षम्, अनुमानम्, शब्दः, तथा उपमानम् इति प्रमाणचतुष्टयम् । मीमांसकमते पुनः द्विधा विभागः – प्रत्यक्षम्, अनुमानम्, शब्दः, उपमानम्, अर्थापत्तिः इति प्राभाकराः । प्रत्यक्षम्, अनुमानम्, शब्दः, उपमानम्, अर्थापत्तिः, अनुपलब्दिः इति भाट्टाः । तथा च अद्वैतिनश्च षड्प्रमाणान् अङ्गीकुर्वन्ति ।
इन्द्रियार्थ सन्निकर्ष्ं खलु प्रत्यक्षं[7] नाम । तथा “इन्द्रियज्ञानविषयः प्रत्यक्षविषयः”[8] एवं च अनुमीयते अनेन इति अनुमानम् । व्याप्तिपक्षधर्मताविशिष्टलिङ्गज्ञानम् । संज्ञासंज्ञिसम्बन्धप्रमाकरणम् उपमानम् । वर्णतादात्म्येनार्थबोधजनकम् अथवा शब्दप्रमाकरणं शब्दप्रमाणम् । उपपादककल्पनाहेतुभूत उपपाद्यज्ञानम् अर्थापत्तिः। योग्यत्वे सति अनुपलम्भोऽभावप्रमाकरणम् अनुपलब्दिः । एवं च केवलं षट्प्रामाण्यान्येव नालं ब्रह्मज्ञानाय, कुतः इति चेत् “अनुभवावसानत्वात् भूतवस्तुविषयत्वाच्च”[9] । अनूभूतिरनुभवः । ब्रह्म तु अनुभववेद्यः न तु प्रत्यक्षादिविषयः । “न हि श्रुतिः शतमपि शीतो अग्निः अप्रकाशः इति ब्रुवत् प्रामाण्यमुपैति”[10] इति गीता भाष्ये । ब्रह्मज्ञानं च ब्रह्मानुभवे पर्यवस्यति । एवं च अनुभवाऽभावे ज्ञानं शुष्कं भावति । अतः अद्वैते अनुभवमेव मुख्यं, प्रमाणं च भवति । अनुभवं च इह जन्मनि, व्यावहारिकावस्थायामेव भवति इति कृत्वा षष्टसङ्ख्यया सह अनुभवमपि प्रमाणम् भवति । “स्व विषयशूराणि हि प्रमाणानि श्रोत्रादिवत्”[11] अतः प्रत्यक्षमपि स्वविषये, प्रत्यक्षविषये एव प्रमाणं भवति एवं च ब्रह्म ज्ञाने तु “अशब्दमस्पर्शम्”[12] इत्यादि श्रुत्या प्रत्यक्षाद्यविषयः इति अवगम्यते । एवं च “यथा सम्भवम् अनुभवादयश्च प्रमाणं भवद् न निवार्यते”[13] इति च भाष्ये ।
अनुभवप्रमाणस्योपरि शङ्कापरिहारः
जगदिदं मिथ्या, जगति वर्तमानं सर्वमपि मिथ्यैव, अनुभवादयः अपि अत्रैव संसारे भवति, अतः प्रमाणेन वस्तुज्ञानं नैव सम्भवति । अतः अद्वैते प्रमाणप्रमेयव्यवहारमेव न सम्भवति । इदमेव उक्तं परिभाषाकारैः “ननु सिद्धान्ते घटादेर्मिथ्यात्वेन बादितत्त्वात् कथं तज्ज्ञानं प्रमा”[14] । तत्रैव एवं समाधानमपि दत्तम् । “ब्रह्मसाक्षात्कारानन्तरं हि घटादीनां बाधः ’यत्रत्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्’[15] इति श्रुतिर्मानम्”[16] । एवं ब्रह्मानुभवेन निवर्त्यमानः संसारः यावदज्ञानस्थायी । जगति अनिर्वचनीयत्वाङ्गीकारात्, जगदिदं व्यावहारिकसत्यत्वम् इति अद्वैतिनः अङ्गीकुर्वन्त्येव । अतः प्राक् ब्रह्मात्मता प्रतिबोधात् उपपन्नः सर्वो लौकिको वैदिकश्च व्यवहारः ।
अन्यत्र चार्वाकादिदर्शनेषु अनुभवः नाम प्रायः प्रत्यक्षं स्वीकुर्वन्ति । प्रत्यक्षाङ्गीकारानन्तरम् अन्यं प्रमाणं नापेक्ष्यते इति च केचन । किन्तु केवलं प्रत्यक्षमेकमेव अनुभवप्रमाणमिति न, ब्रह्मानुभवमपि प्रमाणम् भवति । एवं च ब्रह्मानुभवमेव मुक्तिः । तत्र तत्र दर्शनेषु मोक्षस्य पारलौकिकत्त्वात् ब्रह्मानुभवः प्रमाणम् इति केचनदार्शनिकाः नाङ्गीकुर्वन्ति । तेन साध्यः सगुणमुक्तिः अथवा क्रममुक्तिः । तत्र च जीवब्रह्मणोरैक्यस्य प्रसक्तिरेव नास्ति । वस्तुतः मोक्षः परलौकिको न । अतः अनुभवः अपि महत् स्थानं वहति । श्रुतिस्तु ब्रह्मज्ञानं भिन्नं ब्रह्मानुभवः भिन्नः इति नैव वदति । तद्विपरीततया “ब्रह्मविद्ब्रह्मैव भवति”[17] इति ज्ञापयति ।
अत एव अनुभवमपि प्रमाणम् । सूत्रभाष्ये च आचार्याः “न धर्मजीज्ञासायामिव श्रुत्यादयः एव प्रमाणं ब्रह्मजिज्ञासायां, किन्तु अनुभवादयश्च यथा सम्भवम् इह प्रमाणम् । अनुभवावसानत्वात् भूतविषयत्त्वाच्च ब्रह्मज्ञानस्य” इति । अन्यानि यानि प्रमाणानि प्रत्यक्षादीनि तानि च आविद्यकान्येव देहात्मबुध्यादि अध्यासाश्रयत्त्वात् तेषाम् । “तमेतम् अविद्याख्यम् अत्मानात्मनोरितरेताध्यासं पुरस्कृत्य सर्वे प्रमाण प्रमेय व्यवहारा लौकिकावैदिकाश्च प्रवृत्ताः ।”[18]
अध्यासः
तर्हि अध्यासः कथं सम्भवति । शरीरिभिः क्रियमाणः व्यवहारः सर्वेऽपि इन्द्रियाणाम् अभावे न सम्भवति । इन्द्रियाणां च व्यवहारः स्वाधिष्ठानभूतदेहाभावे न भवितुमर्हति । अहं शरीरः, मम शरीरम् इति इतरेतराध्यारोपाभावे कार्याणि नैव भवितुमर्हन्ति । वस्तुतः असङ्गो पुरुषः तस्य शरीरादिषु क्रियमाण अहं ममाभिमानादयो एव अध्यासः । अध्यासमाश्रित्यएव सर्वे प्रमाणप्रमेयव्यवहारः । प्रमातृ अभावे प्रमाणप्रमेयव्यावहारो नास्ति । शरीरे अहं ममाभिमानाभावे असङ्गस्य पुरुषस्य प्रमातृत्वमेव नोपपद्यते । अतः प्रत्यक्षादीनि प्रमाणानि शास्त्राणि च आविद्यकान्येव । एवं च उक्तं भाष्ये “तस्मात् अविद्यावद्विषाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि च”[19] इति ।
अनुभवप्रमाणमेव प्रमाणम्
अत्र च एवं आक्षेपः आपद्येत – भेदाभावे इत्युक्ते प्रमातृ, प्रमाण, प्रमेय इति भेदाभावे प्रमाणप्रमेयव्यवहारो न भवति, जीवब्रह्मणोः ऐक्यभूतस्वरूपत्वात् अनुभवे इत्युक्ते ब्रह्मानुभवे जीवब्रह्मणोः भेदः नैव भवति । अतः अनुभवः न प्रमाणम् यथा श्रुतिः प्रमाणम् । अयमाक्षेपः न समीचिनः प्रमाणस्य प्रमाणत्वे तस्य प्रमेयोत्पादकत्वम् अनिवार्यं, नो चेत् तन्न प्रमाणम् । अनुभवः ब्रह्मात्मैक्यज्ञाम्, जीवब्रह्मणोः ऐक्यज्ञानम् उत्पादयति अतः तत् प्रमाम् । एवं च अनेन शोकमोहरूपसंसारस्य अपगमनरूफलमपि भवति । अतः अनुभवः प्रमाणम् । इदं च उक्तं बृहदारण्यकउपनिषद्भाष्ये “प्रमाणस्य हि प्रमाणत्वम् अप्रमाणत्वं वा प्रमोत्पाद्नानुत्पादन निमित्तम् । अन्यथा चेत् स्तम्भादीनां प्रमाण्यप्रसङ्गात् शब्दादौ प्रमेये इति ।[20] शोकमोहादिनिवृत्तिश्च प्रत्यक्षं फलं ब्रह्मैकत्वप्रतिपत्तिपारम्पर्यजनितम्।[21] अनेन कारणेन ब्रह्मानुभवमपि शास्रादिवत् प्रमाणम् ।
अत्र च एवम् अपि अक्षेपः स्यात् । प्रमाणेषु शब्दः खलु मुख्यं पात्रं वहति, शब्द एव शास्त्रम् । शस्त्रस्य च उपदेशकर्ता, उपदेशश्रोता, उपदेशः इति भेदः भवेत् । किन्तु ब्रह्मात्मात्मैक्यानुभवे इदं नैव भवति यत्र “वेदा अवेदा भवन्ति”[22] इति श्रुतिः । अत एव शास्त्रस्य आनर्थ्यक्यम् एवं च शास्त्रादेव तद्विषयकज्ञानं सम्भवति । शास्रस्य एव निरर्थकत्वे ब्रह्मात्मैक्यज्ञानस्य अशास्त्रीयत्त्वम् स्यात् । अप्रामाणीकत्वात् तस्य शास्त्रस्य स्वार्थे एव अयोग्यत्वम् । इति चेत् उक्तं च बृहदारण्यकभाष्ये “ज्ञापकं हि शास्त्रं न कारकम्”[23] । “आत्माश्रोतव्यः”[24] इत्यादि स्थलेषु अपि विधित्वेन करणत्वेन वा शास्त्रं नास्ति तत्र च स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थानि तानि इति ।[25] एवं च किन्तु शात्रात् एतावदेव भवति । इष्टसाधनमिदम्, अनिष्टसाधनमिदम् इति साध्यसाधनसम्बन्धविशेषाभिव्यक्तिः । प्रदीपवत् तमसि रूपादि ज्ञानम् । न तु शास्त्रं भृत्यानिव बलात् निवर्तयति नियोजयति वा । शास्त्रं तु सवितृ प्रदीपादिवत् उदास्त एव[26] इति ।
अतः ज्ञापकत्वविषये शास्त्रं न अप्रामाणिकं न वा निरर्थकम् । कारकं च तत्सम्बन्धिविषयमेव न । तत्र तस्य निरर्थकत्वे न दोषः । यतो हि ब्रह्मात्मैक्यानुभवेऽपि शास्त्रस्य आनर्थक्यमेव “फलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः”[27] । इदं च उक्तं बृहदारण्यकभाष्ये – “एकस्मिन् ब्रह्मणि निरुपाधिके नोपदेशः नोपदेष्टा, न च उपदेशग्रहणफलम् । तस्मात् उपनिषदां च आनर्थक्यम् इत्येतदभ्युपगतमेव” । इति
अस्तु अनुभवस्यापि प्रमाणत्वं कथं ब्रह्मानुभवस्यैव परमं प्रमाणत्त्वम् , इति चेत् “अपि च अन्त्यमिदं प्रमाणम् अत्मैकत्वस्य प्रतिपादकं, न अतः परं किञ्चित् आकाङ्क्ष्यमस्ति । यथा हि लोके ’यजेत’ इत्युक्ते किम्, केन, कथम्? इति आकाङ्क्ष्यते नैवं “तत्त्वमसि” “अहं ब्रह्मास्मि” इत्युक्ते किञ्चित् अन्यत् आकाङ्क्ष्यम् अस्ति । सर्वात्मैकत्व विषयत्वावगतेः। सति हि अन्यस्मिन् अवशिष्यमाणे अर्थे आकाङ्क्षा स्यात् । न तु आत्मैकत्वव्यतिरेकेण अवशिष्यमाणः अन्योऽर्थोऽस्ति य आकाङ्क्ष्येत इति ।
उपसंहारः
भवतु ब्रह्मानुभवः अन्तिमप्रमाण इति, परम् एतादृष ब्रह्मानुभवः ब्रह्मात्मैक्यानुभवः भवति इत्यत्र किं प्रमाणम् इति चेत् अत्र च सूत्रभाष्ये एवम् उत्तरम् आचार्यैः उक्तम् अस्ति – न च इयम् अवगतिर्नोत्पद्यते इति शक्यं वक्तुम्। ’तद्दास्य विजज्ञौ’[28] इत्यादिश्रुतिभ्यः । अवगति साधनानां च श्रवणादीनां वेदानुवचनादीनां च विधानात् । न च इयम् अवगतिः अनर्थिका भ्रान्तिर्वा इति शक्यं वक्तुम् । अविद्यानिवृत्तिफलदर्शनात् । भादकज्ञानानन्तराभावाच्च ।[29] अतः अनुभवः ज्ञाने परमं प्रमाणं भवति । इति शम् ।
॥ परिशीलितग्रन्थसूची ॥
| ग्रन्थकारः | ग्रन्थस्य नाम | प्रकाशनम् | प्रकाशितवर्षम् | मुद्रणम् | |
| १ | उदयनः | न्यायकुसुमाञ्जलिः | चौखम्भा संस्कॄत भवन, वाराणासी – २२१००१ | – | २ |
| २ | श्रीमद् धर्मरजाध्वरीन्द्रः | वेदान्तपरिभाषा | संपूर्णानन्दसंस्कृतविश्वविद्यालयः, वारणासी-२२१००२ | ||
| ३ | सायणमाधवाचार्यः | सर्वदर्शनसङ्ग्रहः | दि भारतीय विद्या प्रकाशन, दुर्गाकुण्ड रोड, वाराणासी – २२१०१० | २०२२ | १ |
| ४ | श्रीमदन्नम्भाट्टः | तर्कसङ्रहः | हंसा प्रकाशन, नाटाणी भावन, जयपुर – ३०२२००१ | २००१ | – |
| ५ | स्वामीगौरीशङ्करभिक्षुः | सर्वलक्षणसङ्ग्रहः | चौखम्बा संस्कृत सीरीज आफिस, के. ३७/९९, गोपाल मन्दिर लेन, वाराणसी – २२१००१ | २०२३ | – |
| ६ | ब्रह्मसूत्रशाङ्करभाष्यम् | नागपब्लिकेशन्स्, ११.ए.यू.ए. जवाहरनगर, दिल्ली-११०००७ | – | – | |
| ७ | श्रीमद्भगवद्गीता | अध्यत्मप्रकाशकार्यालय, होलेनरसीपुर-५७३२११ | १९३० | ८ | |
| ८ | बृहदारण्यकोपनिषत् | गीताप्रेस्, गोरखपुर – २७३००५ | – | २२ | |
| ९ | मुण्डकोपनिषत् | अध्यत्मप्रकाशकार्यालय, होलेनरसीपुर-५७३२११ | २००२ | ५ | |
| १० | बृहदारण्यकोपनिषद्भाष्यम् | ||||
| ११ | श्रीदप्पय्यदीक्षिताचार्यः | सिद्धान्तलेशसङ्ग्रहः | वेदान्तभारती, चन्द्रमौळि मार्गः, कृष्णराजनगर – ५७१६०२, मैसूरु मण्डलम् | २००१ | १ |
| १२ | अमृतबिन्दूपनिषत् | ||||
| १३ | छान्दोग्योपनिषत्. सानुवादशाङ्कभाष्यसहित | गीताप्रेस्, गोरख्पुर(गोविन्दभवन-कार्यालय,कोलकाता का संस्थान),२७००५ | – | ८ | |
| १४ | श्रीशाङ्करग्रन्थावलिः,लघुभाष्याणी | समता बुक्स्, १०कामराजभवन,५७३,मौन्ट् रोड्, चेन्नै, ६००००६, भारत | १९९९ | ३ | |
| १५ | सं.एस्.सुब्रह्मण्यशास्त्री | उपनिषद्भाष्यम् | श्री दक्षिणामूर्तिमठ प्रकाशन, वारणासी, डि-४९/९ | २०१२ | २ |
| १६ | बालब्रह्मानन्द यतिः | मानदीपिका | (अप्रकाशितम्) | – | – |
[1] मुण्डकोपनिषत् ३.२.९ गीताप्रेस्, गोरखपुर – २७३००५
[2] श्रीमदन्नम्भाट्टः, तर्कसङ्ग्रहः, हंसा प्रकाशन, नाटाणी भावन, जयपुर – ३०२२००१, २००१
[3] श्रीमदन्नम्भाट्टः, तर्कसङ्ग्रहः, हंसा प्रकाशन, नाटाणी भावन, जयपुर – ३०२२००१, २००१
[4] उदयनः, न्यायकुसुमाञ्जली, चौखम्भा संस्कॄत भवन, वाराणासी – २२१००१
[5] श्रीमद् धर्मरजाध्वरीन्द्रः, वेदान्तपरिभाषा, संपूर्णानन्दसंस्कृतविश्वविद्यालयः, वारणासी-२२१००२
[6] सायणमाधवाचार्यः, सर्वदर्शनसङ्रहः, चार्वाक मतं, दि भारतीय विद्या प्रकाशन, दुर्गाकुण्ड रोड, वाराणासी – २२१०१० – २०२२
[7] श्रीमदन्नम्भाट्टः, तर्कसङ्ग्रहः, हंसा प्रकाशन, नाटाणी भावन, जयपुर – ३०२२००१, २००१
[8] स्वामीगौरीशङ्करभिक्षुः, सर्वलक्षणसङ्रहः, चौखम्बा संस्कृत सीरीज आफिस, के. ३७/९९, गोपाल मन्दिर लेन, वाराणसी – २२१००१ – २०२३
[9] श्री शङ्ग्कराचार्यः, ब्रह्मसूत्रभाष्यम्(१/१/२), श्रीशाङ्करग्रन्थावलिः, समता बुक्स्, १०कामराजभवन,५७३,मौन्ट् रोड्, चेन्नै, ६००००६, भारत
[10] श्री शङ्ग्कराचार्यः, श्रीमद्भगवदीता शाङ्करभाष्यम्, अध्यत्मप्रका शकार्यालय, होलेनरसीपुर-५७३२११ – १९३०
[11] बृहदारण्यक उपनिषत्, गीताप्रेस्, गोरखपुर – २७३००५
[12] कठोपनिषत् १.३.१५
[13] श्री शङ्ग्कराचार्यः, ब्रह्मसूत्रभाष्यम्, श्रीशाङ्करग्रन्थावलिः, समता बुक्स्, १०कामराजभवन,५७३,मौन्ट् रोड्, चेन्नै, ६००००६, भारत
[14] श्रीमद् धर्मरजाध्वरीन्द्रः, वेदान्तपरिभाषा, संपूर्णानन्दसंस्कृतविश्वविद्यालयः, वारणासी-२२१००२
[15] बृहदारण्यकौपनिषत् (. २ । ४ । १४) गीताप्रेस्, गोरखपुर – २७३००५
[16] श्रीमद् धर्मरजाध्वरीन्द्रः, वेदान्तपरिभाषा, संपूर्णानन्दसंस्कृतविश्वविद्यालयः, वारणासी-२२१००२
[17] मुण्डकोपनिषत्, अध्यत्मप्रकाशकार्यालय, होलेनरसीपुर-५७३२११- २००२
[18] श्री शङ्कराचार्यः, ब्रह्मसूत्रभाष्यम्, श्रीशाङ्करग्रन्थावलिः, समता बुक्स्, १०कामराजभवन,५७३,मौन्ट् रोड्, चेन्नै, ६००००६, भारत
[19] श्री शङ्कराचार्यः, ब्रह्मसूत्रभाष्यम् श्रीशाङ्करग्रन्थावलिः, समता बुक्स्, १०कामराजभवन,५७३,मौन्ट् रोड्, चेन्नै, ६००००६, भारत
[20] श्री शङ्कराचार्यः, बृहदारण्यकोपनिषद् भाष्यम्, बृहदारण्यकौपनिषत् गीताप्रेस्, गोरखपुर – २७३००५
[21] श्री शङ्कराचार्यः, बृहदारण्यकोपनिषद् भाष्यम्, बृहदारण्यकौपनिषत् गीताप्रेस्, गोरखपुर – २७३००५
[22] श्री शङ्कराचार्यः, बृहदारण्यकोपनिषत्, बृहदारण्यकौपनिषत् गीताप्रेस्, गोरखपुर – २७३००५
[23] श्री शङ्कराचार्यः, बृहदारण्यकोपनिषद्, भाष्यम् बृहदारण्यकौपनिषत् गीताप्रेस्, गोरखपुर – २७३००५
[24] श्री शङ्कराचार्यः, बृहदारण्यकोपनिषद्, भाष्यम् बृहदारण्यकौपनिषत् गीताप्रेस्, गोरखपुर – २७३००५
[25] श्रीदप्पय्यदीक्षिताचार्यः, सिद्धन्तलेशसङ्ग्रहः, वेदान्तभारती, चन्द्रमौळि मार्गः, कृष्णराजनगर – ५७१६०२, मैसूरु मण्डलम् – २००१
[26] श्री शङ्कराचार्यः, बृहदारण्यकोपनिषद् भाष्यम्, बृहदारण्यकौपनिषत् गीताप्रेस्, गोरखपुर – २७३००५
[27] अमृतबिन्दूपनिषत्
[28] छान्दोग्योपनिषत् (सानुवादशाङ्कभाष्यसहित), गीताप्रेस्, गोरख्पुर(गोविन्दभवन-कार्यालय,कोलकाता का संस्थान),२७००५
[29] श्री शङ्कराचार्यः, ब्रह्मसूत्रभाष्यम्, श्रीशाङ्करग्रन्थावलिः, समता बुक्स्, १०कामराजभवन,५७३,मौन्ट् रोड्, चेन्नै, ६००००६, भारत
