न्याय-वैशेषिकदर्शने मोक्षतत्त्वम्: अवधारणा तथा व्याख्या

ड.सुप्रिय-रायः
सहायकाध्यापकः , संस्कृतविभागः
कान्दि – राज- महाविद्यालयः(कलेज), कान्दिः , मुर्शिदावाद
E-mail: roy.supriya9999@gmail.com, ✆ 9093765087

शौधसारांश:

न्याय-वैशेषिकदर्शनयोः मोक्षतत्त्वम् भारतीयदर्शनपरम्परायां अत्यन्तं केन्द्रीयं तथा गम्भीरं विषयं मन्यते। अत्र मोक्षः न केवलं धार्मिकपरिकल्पना, अपि तु तर्कशास्त्राधारितः दार्शनिकनिष्कर्षः अस्ति। सामान्यतया मोक्षः दुःखनिवृत्तिरूपेण परिभाष्यते, किन्तु न्याय-वैशेषिकदृष्ट्या अस्य स्वरूपं अधिकसूक्ष्मतया विवेचितम् अस्ति। अस्मिन् सन्दर्भे महर्षि-गौतमः प्रणीतस्य न्यायसूत्रस्य तथा महर्षि-कणादः प्रणीतस्य वैशेषिकसूत्रस्य महत्त्वपूर्णं स्थानम् अस्ति। न्यायदर्शने मोक्षः ‘अपवर्ग’ इति अभिधीयते, यः सर्वप्रकारदुःखानां पूर्णनिवृत्तिः इति व्याख्यायते। अत्र दुःखं केवलं शारीरिकपीडारूपं न, अपि तु जन्म, मरण, राग, द्वेष, मोह इत्यादिभिः सह सम्बन्धितं सर्वानुभवरूपं दुःखं गृह्यते। तत्त्वज्ञानस्य प्राप्त्या एतेषां दुःखकारणानां नाशः भवति, तेन मोक्षः साध्यते। अतः न्याये ज्ञानं मोक्षस्य मुख्यसाधनं स्वीकृतम्। वैशेषिकदर्शने अपि मोक्षः महत्त्वपूर्णः, किन्तु तस्य स्वरूपं किंचित् भिन्नम्। अत्र मोक्षः धर्माधर्मयोः क्षयरूपेण निरूप्यते, यतः एते एव पुनर्जन्मस्य कारणम्। यदा कर्मबन्धनं नश्यति, तदा आत्मा स्वाभाविकां शुद्धावस्थां प्राप्नोति। अस्मिन् अवस्थायां न सुखं, न दुःखं, न ज्ञानम्-केवलं शुद्धस्वरूपस्थितिः एव भवति।

अतः उभयोः दर्शनयोः मोक्षलक्षणे भेदः दृश्यते, तथापि तयोः परमलक्ष्यं दुःखनिवृत्तिः एव अस्ति। अस्मिन् शोधलेखे मोक्षस्य स्वरूपं, तस्य साधनं, तथा न्याय-वैशेषिकयोः दार्शनिकभेदसाम्यं विस्तरेण विवेचितम्, येन भारतीयदर्शनस्य गाम्भीर्यं सम्यक् अवगन्तुं शक्यते।

मुख्यशब्दाः

पुरुषार्थचतुष्टयम्, अपवर्गः, आत्मतत्त्वम्, दुःखनिवृत्तिः, धर्माधर्मक्षयः ।    

शोधकार्यस्य उद्देश्यानि

अस्य शोधकार्यस्य प्रमुखोद्देश्यानि न्याय-वैशेषिकदर्शनयोः मोक्षतत्त्वस्य सम्यगवगमनं कर्तुं निर्धार्यन्ते। भारतीयदर्शनपरम्परायां मोक्षः परमपुरुषार्थः मन्यते, अतः तस्य स्वरूपं, साधनं तथा तात्त्विकमहत्त्वं विश्लेषयितुं अयं प्रयासः क्रियते। प्रथमम् उद्देश्यं मोक्षस्य तात्त्विकस्वरूपस्य निरूपणम् अस्ति। गौतमः प्रणीतस्य न्यायसूत्रस्य तथा कणादः प्रणीतस्य वैशेषिकसूत्रस्य आधारत्वेन मोक्षः कथं परिभाष्यते इति स्पष्टीकर्तुम् अत्र प्रयत्नः क्रियते। न्यायदर्शने ‘अपवर्ग’ इति मोक्षस्य संज्ञा, यः सर्वदुःखनिवृत्तिरूपः; वैशेषिकदर्शने तु धर्माधर्मयोः क्षयरूपा शुद्धात्मावस्था इति निरूप्यते-एतयोः स्वरूपभेदस्य सूक्ष्मतया परीक्षणम् अत्र अभिप्रेतम्। द्वितीयम् उद्देश्यं मोक्षस्य साधनस्य विवेचनम् अस्ति। न्याये तत्त्वज्ञानं मोक्षस्य मुख्योपायः इति स्वीकृतम्, यतः अविद्यानाशेन दुःखकारणानां निवृत्तिः भवति। वैशेषिकदर्शने तु धर्माधर्मयोः क्षयः तथा कर्मबन्धननिवृत्तिः मोक्षसाधनरूपेण प्रतिपाद्यते। अतः ज्ञानस्य, कर्मणः तथा तत्त्वविवेकस्य भूमिकां विश्लेषयितुं अत्र प्रयत्नः क्रियते। तृतीयम् उद्देश्यं न्याय-वैशेषिकयोः दर्शनयोः भेदसाम्ययोः तुलनात्मकमध्ययनम् अस्ति। यद्यपि उभयोः दर्शनयोः मोक्षलक्षणे भेदः दृश्यते-एकस्मिन् दुःखनिवृत्तिः, अपरस्मिन् गुणनिवृत्तिः-तथापि उभयोः परमलक्ष्यं संसारबन्धनात् विमुक्तिः एव अस्ति। एतस्य साम्यस्य दार्शनिकमहत्त्वं प्रकाशयितुं प्रयत्नः क्रियते। चतुर्थम् उद्देश्यं मोक्षतत्त्वस्य व्यापकदार्शनिकप्रासङ्गिकतां दर्शयितुम् अस्ति। एतत् केवलं धार्मिकविषयः न, अपि तु आत्मतत्त्व, ज्ञानमीमांसा तथा तर्कशास्त्रस्य आधारभूतः विषयः अस्ति।

अन्ततः, अस्य शोधकार्यस्य लक्ष्यं न्याय-वैशेषिकदर्शनयोः मोक्षतत्त्वस्य गाम्भीर्यं प्रकाशयितुं, तथा तस्य आधुनिकदर्शनपरिप्रेक्ष्ये अपि प्रासङ्गिकतां प्रतिपादयितुं अस्ति।

साहित्यसमीक्षा:

न्याय-वैशेषिकदर्शने मोक्षतत्त्वम् इति विषयः भारतीयदर्शनपरम्परायां प्राचीनकालादारभ्य बहुभिः आचार्यैः विस्तृततया विवेचितः। अस्य विषयस्य मूलाधारः गौतमः प्रणीतस्य न्यायसूत्रस्य तथा कणादः प्रणीतस्य वैशेषिकसूत्रस्य ग्रन्थयोः निहितः। न्यायसूत्रे मोक्षः “अपवर्ग” इति संज्ञया निर्दिष्टः, यः दुःखस्य आत्यन्तिकनिवृत्तिः इति प्रतिपादितः। अत्र तत्त्वज्ञानस्य मोक्षसाधनत्वं विशेषतया प्रतिपादितम्-“तत्त्वज्ञानान्निःश्रेयसाधिगमः” इति सूत्रेण मोक्षप्राप्तौ ज्ञानस्य अनिवार्यता सूच्यते। एतस्य विषयस्य विस्तृतं विवेचनं वात्स्यायनः कृत न्यायभाष्ये दृश्यते। वात्स्यायनः मोक्षं केवलं दुःखनिवृत्तिरूपेण न स्वीकरोति, अपि तु तं आत्मनः सर्वदोषविवर्जितां स्थितिं मन्यते। तेन अविद्या, राग, द्वेष इत्यादीनां दोषाणां क्षयेन मोक्षः साध्यते इति प्रतिपादितम्। वैशेषिकपरम्परायां प्रशस्तपादः कृत पदार्थधर्मसंग्रहः विशेषमहत्त्वपूर्णः ग्रन्थः अस्ति। अस्मिन् ग्रन्थे मोक्षः धर्माधर्मयोः क्षयरूपेण निरूपितः, यतः एते एव संसारबन्धनस्य कारणम्। धर्माधर्मक्षये सति आत्मा स्वाभाविकां शुद्धावस्थां प्राप्नोति, यत्र न सुखं न दुःखं, किन्तु केवलं शान्तस्वरूपस्थितिः भवति। अन्येऽपि आचार्याः, यथा उदयनः, मोक्षतत्त्वस्य तर्कशास्त्रीयदृष्ट्या समर्थनं कृतवन्तः। उदयनाचार्येण आत्मनः नित्यत्वं तथा मोक्षस्य सम्भावना युक्तियुक्ततया प्रतिपादिता। आधुनिकविद्वांसः अपि अस्य विषयस्य पुनर्व्याख्यानं कृतवन्तः, यत्र मोक्षः केवलं धार्मिकलक्ष्यं न, अपि तु दार्शनिकसमस्या इति रूपेण अपि विचार्यते। तेषां दृष्ट्या न्याय-वैशेषिकदर्शनयोः मोक्षतत्त्वं तर्कशास्त्र, ज्ञानमीमांसा तथा तत्त्वमीमांसा इत्येतैः सह घनिष्ठतया सम्बद्धम्। एवं दृश्यते यत् प्राचीनसूत्रकारेभ्यः आरभ्य भाष्यकारपर्यन्तं तथा आधुनिकविद्वद्भिः यावत् मोक्षतत्त्वस्य निरन्तरं विकासः अभवत्। अतः अयं विषयः अद्यापि शोधार्थं समृद्धक्षेत्रं इति निःसंशयं वक्तुं शक्यते।

प्रस्तावना

भारतीयदर्शनपरम्परायां मोक्षः पुरुषार्थचतुष्टयस्य परमपुरुषार्थः परिगण्यते। धर्म, अर्थ, काम इत्येतेषां साधनपर्यवसानरूपेण मोक्षस्य प्राप्तिः मानवजीवनस्य परमार्थः इति सर्वैः दर्शनेषु प्रायः स्वीकृतम्। न्यायदर्शने तथा वैशेषिकदर्शने च मोक्षतत्त्वं तर्कप्रधानदृष्ट्या निरूपितम् अस्ति, यत्र न केवलं आध्यात्मिकदृष्टिः, अपि तु ज्ञानमीमांसात्मकतत्त्वानि अपि प्रमुखतया प्रवर्तन्ते। अस्मिन् सन्दर्भे मोक्षः न केवलं आध्यात्मिकानुभवः, किन्तु दुःखस्य आत्यन्तिकनिवृत्तिरूपः दार्शनिकनिष्कर्षः इति प्रतिपाद्यते। गौतमः प्रणीतस्य न्यायसूत्रस्य प्रारम्भ एव मोक्षस्य स्वरूपं निर्दिश्यते-“दुःखनिवृत्तिरपवर्गः”( गौतम, न्यायसूत्रम्, 1.1.2) इति। अत्र ‘अपवर्ग’ इति शब्देन संसारबन्धनात् पूर्णविमुक्तिः, जन्ममरणचक्रस्य निरोधः, तथा सर्वदुःखानां निवृत्तिः बोध्यते। न्यायदर्शने दुःखं केवलं शारीरिकपीडारूपं न, अपि तु अविद्या, राग, द्वेष, प्रयत्न, जन्म, मरण इत्यादीनां समग्रसमूहः दुःखरूपेण परिगण्यते। एतस्य दुःखसमूहस्य मूलं अविद्या इति स्वीक्रियते, तस्य नाशेन एव मोक्षस्य प्राप्तिः सम्भवति। अतः न्याये तत्त्वज्ञानं मोक्षस्य प्रमुखसाधनम्-“तत्त्वज्ञानान्निःश्रेयसाधिगमः” (गौतम, न्यायसूत्रम्, 1.1.1) इति सूत्रेण स्पष्टतया निर्दिष्टम्।

वैशेषिकदर्शने अपि मोक्षतत्त्वं विशेषतया प्रतिपादितम्। कणादः प्रणीतस्य वैशेषिकसूत्रस्य अनुसारं मोक्षः धर्माधर्मयोः क्षयरूपेण परिभाष्यते। धर्मः तथा अधर्मः इति द्वौ गुणौ आत्मनः कर्मबन्धस्य कारणभूतौ स्तः। यदा एते उभौ पूर्णतया नश्यतः, तदा आत्मा स्वाभाविकां शुद्धावस्थां प्राप्नोति। अस्मिन् अवस्थायां न सुखं न दुःखं, न ज्ञानप्रवाहः, किन्तु केवलं निर्विकारस्वरूपस्थितिः भवति। अत्र मोक्षः एकप्रकारेण निष्क्रिय, निरपेक्ष तथा शुद्धावस्था इति निरूप्यते। एतयोः दर्शनयोः मोक्षलक्षणे सूक्ष्मभेदः दृश्यते। न्यायदर्शने मोक्षः दुःखनिवृत्तिमुख्यः, यत्र ज्ञानस्य प्रमुखता दृश्यते; वैशेषिकदर्शने तु मोक्षः धर्माधर्मक्षयरूपः, यत्र कर्मबन्धनस्य निवृत्तिः प्रमुखा। तथापि उभयोः दर्शनयोः अन्तिमलक्ष्यं संसारदुःखनिवृत्तिः एव अस्ति। एतत् साम्यं दर्शयति यत् न्यायदर्शनं वैशेषिकदर्शनं च परस्परं पूरकत्वेन व्यवहृतम्। अनन्तरं वात्स्यायनः कृत न्यायभाष्ये मोक्षः केवलं दुःखनाशः न, अपि तु आत्मनः सर्वदोषविवर्जितः स्वतंत्रस्वरूपः इति विवेचितः। तथा प्रशस्तपादः कृत पदार्थधर्मसंग्रहे मोक्षः आत्मगुणनिवृत्तिरूपेण विस्तरेण प्रतिपादितः। अनेन ज्ञायते यत् भाष्यकारैः मोक्षतत्त्वस्य अधिकसूक्ष्मव्याख्या कृता।

अतः अस्य अध्ययनस्य मुख्यलक्ष्यं न्यायदर्शनस्य वैशेषिकदर्शनस्य च आधारग्रन्थानां दृष्ट्या मोक्षस्य स्वरूपं, तस्य साधनं, तथा तयोः भेदसाम्यं च सम्यक् विश्लेषयितुम् अस्ति। एतादृशेन अध्ययननेन भारतीयदर्शनस्य गाम्भीर्यं, तर्कप्रधानता, तथा मोक्षतत्त्वस्य सार्वकालिकप्रासङ्गिकता स्पष्टतया प्रकाशते।

न्यायदर्शने मोक्षतत्त्वम्

न्यायदर्शने मोक्षः “अपवर्ग” इति नाम्ना अभिधीयते, यः मानवजीवनस्य परमपुरुषार्थरूपेण स्वीक्रियते। अत्र मोक्षः न केवलं आध्यात्मिकानुभवः, अपि तु तर्कशास्त्राधारितः दार्शनिकनिष्कर्षः इति विशेषतया प्रतिपादितः। गौतमः प्रणीतस्य न्यायसूत्रस्य अनुसारं-“तदत्यन्तविमोक्षोऽपवर्गः” (गौतम,न्यायसूत्रम्, 1.1.22) इति। अस्य सूत्रस्य अभिप्रायः यत् यः संसारबन्धनात्, विशेषतः दुःखसमूहात् आत्यन्तिकः विमोक्षः सः एव अपवर्गः इति। न्यायदर्शने दुःखस्य परिधिः अत्यन्तं व्यापकः मन्यते। अत्र दुःखं केवलं शारीरिकपीडारूपं न, अपि तु जन्म, मरण, राग, द्वेष, मोह, प्रयत्न, क्लेश इत्यादीनां समग्रसमूहः दुःखरूपेण ग्राह्यते। एते सर्वे अनुभवाः जीवस्य संसारबन्धनस्य कारणानि भवन्ति। अतः मोक्षः एतेषां सर्वेषां दुःखकारणानां पूर्णनिवृत्तिः इति परिभाष्यते। एतत् तत्त्वं वात्स्यायनः कृत न्यायभाष्ये अपि स्पष्टतया निरूपितम्। सः वदति यत् मोक्षः न केवलं दुःखस्य अभावः, अपि तु दुःखहेतूनामपि आत्यन्तिकनिवृत्तिः। यदा अविद्या, राग, द्वेष इत्यादयः दोषाः पूर्णतया नश्यन्ति, तदा पुनर्जन्मस्य कारणं न भवति, अतः जीवः संसारचक्रात् विमुच्यते। न्यायदर्शने आत्मा नित्यः, सर्वव्यापी, ज्ञानधर्मकः च इति स्वीकृतम्। किन्तु संसारावस्थायां आत्मा अविद्यया आवृतः सन् दुःखानुभवं करोति। मोक्षावस्थायां तु सः सर्वदोषविवर्जितः भवति। अत्र विशेषतया उल्लेखनीयम् यत् न्यायदर्शने मोक्षः आनन्दरूपः न, अपि तु दुःखाभावरूपः इति प्रतिपादितम्। एषा धारणा अन्येषां दर्शनेभ्यः भिन्ना अस्ति, यत्र मोक्षः आनन्दमयः इति वर्ण्यते।

 मोक्षस्य साधनम्

न्यायदर्शने मोक्षप्राप्तेः मुख्योपायः ज्ञानम् इति स्वीकृतम्। न्यायसूत्रे स्पष्टतया उक्तम्- “तत्त्वज्ञानान्निःश्रेयसाधिगमः” इति।
अर्थात् तत्त्वज्ञानस्य माध्यमेन एव निःश्रेयस (मोक्षः) प्राप्तुं शक्यते। अत्र ‘तत्त्वज्ञानम्’ इति पदेन यथार्थज्ञानं बोध्यते, यत् पदार्थानां यथार्थस्वरूपस्य अवगमनम् अस्ति। न्यायदर्शने षोडशपदार्थाः (प्रमाण, प्रमेय, संशय, प्रयोजन, दृष्टान्त, सिद्धान्त, अवयव, तर्क, निर्णय, वाद, जल्प, वितण्डा, हेत्वाभास, छल, जाति, निग्रहस्थान) निर्दिष्टाः, येषां सम्यग्ज्ञानं मोक्षमार्गे अनिवार्यं मन्यते। तत्त्वज्ञानस्य उत्पत्तौ प्रमाणानां विशेषमहत्त्वम् अस्ति। न्यायदर्शने चत्वारि प्रमाणानि स्वीक्रियन्ते- (१) प्रत्यक्षम्, (२) अनुमानम्, (३) उपमानम्,  (४) शब्दः-  एतेषां प्रमाणानां माध्यमेन यथार्थज्ञानस्य उत्पत्तिः भवति, तेन अविद्यानाशः, ततः दुःखनिवृत्तिः, अन्ततः मोक्षप्राप्तिः इति क्रमः स्थापितः। अविद्या (मिथ्याज्ञानम्) दुःखस्य मूलकारणम् इति न्यायदर्शनस्य मूलसिद्धान्तः अस्ति। यदा जीवः वस्तूनां यथार्थस्वरूपं न जानाति, तदा सः रागद्वेषादिभिः बद्धः भवति। एते दोषाः कर्माणि जनयन्ति, कर्मफलतः पुनर्जन्म भवति, पुनर्जन्मतः पुनः दुःखानुभवः-एवं संसारचक्रं प्रवर्तते। एतस्मात् चक्रात् मुक्तिः केवलं तत्त्वज्ञानस्य माध्यमेन सम्भवति। यदा यथार्थज्ञानं उत्पद्यते, तदा अविद्या नश्यति; अविद्यानाशेन रागद्वेषादयः दोषाः निवर्तन्ते; दोषनिवृत्त्या कर्मनाशः भवति; कर्मनाशेन पुनर्जन्माभावः; तेन दुःखनिवृत्तिः-एषः मोक्षमार्गः न्यायदर्शने प्रतिपादितः। एतत् विचारं उदयनापि स्वग्रन्थेषु समर्थयति। सः तर्केण प्रतिपादयति यत् आत्मा नित्यः अस्ति, तथा तस्य मोक्षः सम्भवः, यः ज्ञानजन्यः एव। तथैव गङ्गेशः प्रवर्तिते नव्यन्यायदर्शने अपि ज्ञानस्य प्रमुखता पुनः प्रतिपादिता। अत्र ज्ञानस्य स्वरूपं, प्रमाणप्रक्रिया च अत्यन्तं सूक्ष्मतया विश्लेषिता, यत् मोक्षमार्गस्य दार्शनिकाधारं दृढीकुरुते।

अतः निष्कर्षतः उक्तुं शक्यते यत् न्यायदर्शने मोक्षः दुःखस्य आत्यन्तिकनिवृत्तिः, यः केवलं तत्त्वज्ञानस्य माध्यमेन साध्यते। अयं सिद्धान्तः न केवलं धार्मिकः, अपि तु तर्कशास्त्राधारितः, यः भारतीयदर्शनस्य वैज्ञानिकतां दर्शयति।

वैशेषिकदर्शने मोक्षतत्त्वम्

वैशेषिकदर्शने मोक्षतत्त्वं अत्यन्तं सूक्ष्मतया तथा तत्त्वमीमांसात्मकदृष्ट्या निरूपितम् अस्ति। अत्र मोक्षः न केवलं दुःखनिवृत्तिरूपः, अपि तु आत्मनः सर्वोपाधिकगुणनिवृत्त्या प्राप्ता विशुद्धावस्था इति परिगण्यते। कणादः प्रणीतस्य वैशेषिकसूत्रस्य आधारभूतेन सिद्धान्तेन मोक्षः धर्माधर्मयोः क्षयरूपेण निरूप्यते- “धर्माधर्मयोः क्षयात् आत्मनः विशेषावस्था” (कणाद, वैशेषिकसूत्रम्, 5.2 )इति। अस्य अभिप्रायः यत् धर्मः तथा अधर्मः-एते द्वौ गुणौ-संसारबन्धस्य कारणभूतौ स्तः; तयोः पूर्णनाशेन आत्मा स्वस्वरूपे प्रतिष्ठते, सा एव मोक्षावस्था। वैशेषिकदर्शने आत्मा नित्यः, सर्वव्यापी, द्रव्यविशेषः च इति स्वीकृतम्। सः ज्ञान, सुख, दुःख, इच्छा, द्वेष, प्रयत्न इत्यादीनां गुणानां आश्रयः भवति। किन्तु एते गुणाः आत्मनः नित्यधर्माः न, अपि तु आगन्तुकाः (आगमापायिनः) इति मत्वा, तेषां निवृत्तिः मोक्षलक्षणं मन्यते। अत्र विशेषतया द्रष्टव्यं यत् वैशेषिकदर्शने मोक्षावस्थायां ज्ञानस्य अपि अभावः स्वीकृतः। एषा धारणा अन्येषां दर्शनेभ्यः भिन्ना अस्ति, यत्र मोक्षे ज्ञानानन्दयोः स्थितिरीप्यते। एतत् तत्त्वं प्रशस्तपादः कृत पदार्थधर्मसंग्रहे विस्तरेण प्रतिपादितम्। तत्र उक्तम् यत् आत्मा धर्माधर्मरहितः सन् न सुखं न दुःखं न ज्ञानम् अनुभवति, किन्तु केवलं शान्तस्वरूपेण स्थितः भवति। अयं शुद्धस्वभावः आत्मनः वास्तविकः स्वरूपः इति प्रतिपाद्यते।

 मोक्षस्य स्वरूपविश्लेषणम्

वैशेषिकदर्शने मोक्षस्य मुख्यलक्षणानि निम्नलिखितानि-

() सुखदुःखनिवृत्तिः

संसारावस्थायां आत्मा सुखदुःखयोः अनुभवकर्ता भवति। किन्तु एते अनुभवाः कर्मजन्याः भवन्ति। यदा कर्मबन्धः नश्यति, तदा सुखदुःखयोः अपि अभावः भवति। अतः मोक्षः न केवलं दुःखनिवृत्तिः, अपि तु सुखस्यापि अभावः इति प्रतिपादितम्।

() ज्ञानादिगुणानाम् अभावः

वैशेषिकदृष्ट्या ज्ञानं अपि आत्मनः आगन्तुकगुणः अस्ति, न तु नित्यधर्मः। अतः मोक्षावस्थायां ज्ञानस्य अपि निवृत्तिः भवति। अयं विचारः अत्यन्तं विशिष्टः, यतः अत्र मोक्षः न ज्ञानेन परिपूर्णावस्था, अपि तु निर्गुणावस्था इति दर्श्यते।

() शुद्धात्मस्वरूपस्थिति

धर्माधर्मयोः पूर्णनाशेन आत्मा स्वाभाविकं निर्विकारं स्वरूपं प्राप्नोति। अत्र न कश्चित् विकारः, न कश्चित् अनुभवः, केवलं नित्यशुद्धस्वरूपस्थितिः एव। एषा अवस्था वैशेषिकदर्शने मोक्षरूपेण स्वीकृता।

मोक्षस्य साधनम्

वैशेषिकदर्शने मोक्षप्राप्तिः धर्माधर्मयोः क्षये निहिता। धर्माधर्मौ कर्मजन्यौ, कर्माणि च अविद्याजन्यानि। अतः अप्रत्यक्षरूपेण ज्ञानस्य अपि महत्त्वं अत्र स्वीकृतम्। कणादः वैशेषिकसूत्रे उक्तम्- “तत्त्वज्ञानान्निःश्रेयसम्” (कणाद,वैशेषिकसूत्रम्) इति भावः स्वीक्रियते (व्याख्यानपरम्परायाम्)। अर्थात् पदार्थानां यथार्थज्ञानं धर्माधर्मयोः क्षयाय कारणं भवति। वैशेषिकदर्शने भावपदार्थाः षड् निर्दिष्टाः- (१) द्रव्यम् (२) गुणाः (३) कर्म (४) सामान्यम् (५) विशेषः  (६) सामान्यम् (६) समवायः  एतेषां यथार्थज्ञानं जीवस्य अविद्यां नाशयति, ततः कर्मबन्धः क्षीयते, अन्ततः मोक्षः सिद्ध्यति।

 संसारबन्धमोक्षयोः सम्बन्धः

संसारः कर्मबन्धेन प्रवर्तते। धर्मः शुभकर्मफलम्, अधर्मः अशुभकर्मफलम्। उभौ अपि पुनर्जन्मस्य कारणम्। यदा एते पूर्णतया क्षीयन्ते, तदा आत्मा न पुनर्जन्म लभते। एतत् विचारं श्रीधरापि स्वग्रन्थेषु समर्थयति। सः दर्शयति यत् मोक्षः एकः निष्क्रियः, निर्विकारः, शुद्धः च अवस्था अस्ति।

 अन्यदर्शनैः तुलना

वैशेषिकदर्शने मोक्षस्य स्वरूपं अन्यदर्शनैः सह तुलनायां भिन्नं दृश्यते- वेदान्ते → आनन्दरूपः मोक्षः,  बौद्धे → निर्वाणम् , वैशेषिके → गुणनिवृत्तिरूपा शान्तावस्था,  अतः वैशेषिकदर्शने मोक्षः न सकारात्मकानुभवरूपः, अपि तु सर्वानुभवाभावरूपः इति विशेषः।

 दार्शनिकमूल्यम्

एषा मोक्षकल्पना अत्यन्तं तर्कसंगता अस्ति, यतः- दुःखस्य कारणनिवृत्तिः → मोक्षः,  कर्मनाशः → पुनर्जन्माभावः,  गुणनिवृत्तिः → निर्विकारावस्था-  एतेन ज्ञायते यत् वैशेषिकदर्शनं मोक्षं एकां तर्कसंगतां, विशुद्धां, निरपेक्षां च अवस्थां मन्यते।

अतः निष्कर्षतः उक्तुं शक्यते यत् वैशेषिकदर्शने मोक्षः आत्मगुणनिवृत्तिरूपा, धर्माधर्मक्षयरूपा, निर्विकारशुद्धावस्था च अस्ति। अयं मोक्षः न आनन्दरूपः, न ज्ञानात्मकः, किन्तु सर्वप्रकारविकाररहितः आत्मस्वरूपप्रत्यवस्थानम् इति। एषा धारणा भारतीयदर्शनपरम्परायां वैशेषिकदर्शनस्य विशिष्टतां प्रकाशयति।

मोक्षस्य दार्शनिकस्वरूपम्

भारतीयदर्शनपरम्परायां मोक्षस्य स्वरूपं केवलं दुःखनिवृत्तिमात्रेण न परिसमाप्यते, अपि तु तस्य दार्शनिकगाम्भीर्यं अधिकं विस्तीर्णं दृश्यते। न्यायदर्शने मोक्षः “अपवर्ग” इति नाम्ना अभिधीयते, यः सामान्यतया दुःखस्य आत्यन्तिकनिवृत्तिः इति परिभाष्यते। किन्तु वात्स्यायनः कृत न्यायभाष्ये मोक्षस्य स्वरूपं अधिकगाम्भीर्येण विवेचितम् अस्ति, यत्र सः केवलं दुःखनाशः न, अपि तु आत्मनः पूर्णस्वतन्त्रावस्था इति प्रतिपाद्यते। न्यायसूत्रे उक्तम्- “तदत्यन्तविमोक्षोऽपवर्गः (गौतम, न्यायसूत्रम्, 1.1.22) इति। अत्र ‘आत्यन्तविमोक्षः’ इत्यस्य तात्पर्यं केवलं दुःखाभावः न, किन्तु दुःखहेतूनां अपि पूर्णनिवृत्तिः इति बोध्यते। वात्स्यायनः अस्य सूत्रस्य भाष्ये स्पष्टीकरोति यत् मोक्षः तदा एव सिद्ध्यति, यदा आत्मा सर्वदोषैः-अविद्या, राग, द्वेष, प्रयत्नादिभिः-विवर्जितः भवति। अतः मोक्षः दोषनिवृत्तिमात्रं न, अपि तु दोषानां कारणानां अपि अभावः इति व्यापकदृष्ट्या अवगन्तव्यः। वात्स्यायनस्य मते संसारावस्थायां आत्मा कर्मबन्धनेन बद्धः भवति। धर्माधर्मरूपाणि कर्माणि पुनर्जन्मस्य कारणं भवन्ति, तेन जीवः जन्ममरणचक्रे निरन्तरं प्रवर्तते। एषः बन्धः अविद्यायाः परिणामः इति स्वीक्रियते। यदा तत्त्वज्ञानस्य उदयः भवति, तदा अविद्या नश्यति; अविद्यानाशेन रागद्वेषादयः दोषाः अपि निवर्तन्ते; दोषनिवृत्त्या कर्मनाशः; कर्मनाशेन पुनर्जन्माभावः-एवं क्रमशः आत्मा संसारबन्धनात् विमुच्यते। एषा एव मोक्षस्य दार्शनिकप्रक्रिया इति वर्ण्यते। अत्र विशेषतया द्रष्टव्यं यत् वात्स्यायनः मोक्षं केवलं नकारात्मकदृष्ट्या (दुःखाभावः) न स्वीकरोति, अपि तु सकारात्मकदृष्ट्या अपि पश्यति। तस्य मते मोक्षः आत्मनः स्वाभाविकस्वरूपस्य आविर्भावः, यत्र आत्मा सर्वोपाधिक्लेशैः मुक्तः सन् स्वतन्त्रतया स्थितः भवति। एषा ‘पूर्णस्वतन्त्रावस्था’ इति संज्ञया अभिधीयते। अत्र स्वतन्त्रता नाम बाह्यनियन्त्रणाभावः, कर्मबन्धनस्य पूर्णनिवृत्तिः, तथा आत्मनः स्वप्रकाशस्वरूपे स्थितिः इति बोध्यते। तथापि, न्यायदर्शने मोक्षः आनन्दरूपः न इति स्पष्टतया स्वीकृतम्। एतत् अन्यदर्शनैः, विशेषतः वेदान्तदर्शनेन, भिन्नं दृश्यते, यत्र मोक्षः आनन्दरूपः ब्रह्मानुभवः इति प्रतिपाद्यते। न्याये तु आनन्दोऽपि एकः अनुभवरूपः गुणः इति मन्यते, सः अपि मोक्षावस्थायां न विद्यते। अतः मोक्षः सर्वानुभवातीतः, निर्विकारः, शान्तः च इति प्रतिपादनम्। एवं वात्स्यायनः भाष्ये मोक्षस्य दार्शनिकस्वरूपं द्विविधेन निरूपितम्-(१) दुःखहेतुनिवृत्तिरूपेण, (२) आत्मनः पूर्णस्वतन्त्रावस्थारूपेण। अनेन ज्ञायते यत् मोक्षः न केवलं दुःखस्य अभावः, अपि तु आत्मनः परमस्वरूपप्राप्तिः इति व्यापकदृष्ट्या अवगन्तव्यः।

सन्दर्भग्रन्थसूची:

1. Gautama. (2003). Nyāya Sūtra (Trans. Ganganatha Jha). Delhi: Motilal Banarsidass.

2.  Kaṇāda. (1982). Vaiśeṣika Sūtra (Trans. Nandalal Sinha). Delhi: Oriental Books Reprint Corporation.

3.  Vātsyāyana. (1998). Nyāya Bhāṣya (Ed. Anantalal Thakur). Delhi: Indian Council of Philosophical Research.

4.  Praśastapāda. (1995). Padārtha Dharma Saṅgraha (Ed. Ganganatha Jha). Varanasi: Chaukhamba Sanskrit Series.

5. Udayana. (1997). Nyāyakusumāñjali (Ed. Haridas Bhattacharyya). Delhi: Motilal Banarsidass.

6.  Gaṅgeśa. (2005). Tattvacintāmaṇi (Ed. Dinesh Chandra Bhattacharya). Delhi: Motilal Banarsidass.

7.  S. Radhakrishnan. (2008). Indian Philosophy (Vol. 1). New Delhi: Oxford University Press.

8. Surendranath Dasgupta. (2010). A History of Indian Philosophy (Vol. 1). Delhi: Motilal Banarsidass.

9. Karl H. Potter. (1977). Encyclopedia of Indian Philosophies: Vol. II (Indian Metaphysics and Epistemology). Delhi: Motilal Banarsidass.

10.  Bimal Krishna Matilal. (1986). Perception: An Essay on Classical Indian Theories of Knowledge. Oxford: Clarendon Press.