न्यायनये अलौकिकसन्निकर्षविमर्शः
बिप्लबसरकारः
न्यायविभागः (शोधच्छात्रः)
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य
(केन्द्रीयविश्वविद्यालयस्य)
Email – biplabs293@gmail.com
सारसंक्षेपः
इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षमिति प्रत्यक्षस्य लक्षणं यन्नायायिकैः स्वीकृतं तत्र इन्द्रियं करणम्, इन्द्रियार्थसन्निकर्षश्च प्रत्यक्षे व्यापारो भवति। इन्द्रियाणामर्थैस्सह यः सम्बन्धी भवति, स एव सन्निकर्षः। सूत्रस्थसन्निकर्षपदेन च अनुमित्यादिव्यावृत्तिः। व्याकारभूतसन्निकर्षस्य द्वैविध्यं स्वीक्रियते नैयायिकैः। तथाहि – “लौकिकः अलौकिकश्च’’।
लौकिकसन्निकर्षनिरूपणानन्तरमलौकिकसन्निकर्ष: निरुप्यते। यद्यपि मूलग्रन्थे तर्कसंग्रहे नास्ति तथापि न्यायसिद्धान्तरीत्या तत्स्वरूपमुपस्थाप्यते। अलौकिकसन्निकर्षस्तु नैयायिकै त्रिप्रकारो वर्णितः।
‘समानतां भावः सामान्यं तल्लक्षणं यस्य सः सामान्यलक्षणः’। अत्र सामान्यशब्दस्यार्थस्तु साधारणो धर्मः। एवं लक्षणस्यार्थस्तु स्वरूपं विषयो वार्थः। तथा च यदि लक्षणस्य स्वरूपार्थः स्वीक्रियते चेत् ‘सामान्यलक्षणा’ इति शब्दस्य सामान्यस्वरूपसन्निकर्षः इत्यर्थो भवेत्।
अयञ्चालौकिकसंन्निकर्षेषु द्वितीयस्सन्निकर्षः यस्य साहाय्येन विषयगुणानाम् अलौकिकं ज्ञानं प्राप्तुं शक्यते। एतादृशज्ञानलक्षण प्रत्यासत्यैकविषयकप्रत्यक्षेण सह तत्सम्बन्धिगुणानामपि अस्माकमिन्द्रियसन्निकर्ष विनाऽपि ज्ञानं प्राप्तुं शक्यते। यथा हिमण्डस्य चाक्षुषज्ञानेन सह तस्य शीतत्वादीनामपि ज्ञानं भवति।
अस्य बलेन योगिनः अतीतानागतानां देशान्तरस्थवस्तूनां प्रत्यक्षं कर्तुं प्रभवन्ति। यौगिकं सत्यन्तु अस्मद्देशे न केवलम् वैदिकदार्शनिकाः, अपितु अवैदिकबौद्धादयोऽपि स्वीकुर्वन्ति। योगिनः खलु स्वस्य योगसामर्थ्येन तपोबलेन वेन्द्रियार्थसन्निकर्ष विनाऽपि प्रत्यक्षं कर्तुं शक्नुवन्ति।
कुञ्चिकाशब्दाः – सन्निकर्षः , नैयायिकैः , कारणम् , स्मृतिः , पुरुषः , वैदिकदार्शनिकाः ।
न्यायनये अलौकिकसन्निकर्षविमर्शः
दृश्यते ज्ञायते परमतत्त्वमनेन इति व्युत्पत्त्या दृश् धातुना ल्युट् प्रत्यये कृते सति दर्शनशब्दस्य निष्पत्तिर्भवतीति। तत्र समेषां दार्शनिकानां मुख्यं लक्ष्यं भवति संसारदुःखाद्विमुक्तिः। साधने दार्शनिकानां मत वैचित्र्यसत्वेऽपि लक्ष्ये वैमत्यं नास्ति। तत्र “अस्तिनास्तिदिष्टं मतिः’’[1] इति पाणिनिसूत्रानुसारं दर्शनं द्विधा विभज्यते – ‘आस्तिकदर्शनं, नास्तिकदर्शनञ्च। तत्र अस्ति ‘दिष्टम्’ कर्म कर्मफलञ्च, अस्ति परलोकः, अस्ति वेदप्रामाण्यम्, अस्ति ईश्वरो वा, इति मतिर्यस्य सः आस्तिकः। “नास्तिको वेदनिन्दकः’’[2] नास्ति दिष्टं नास्ति वेदप्रामाण्यम्, नास्ति ईश्वरो वा, इति मतिर्यस्य सः नास्तिकः। आस्तिकविचारपराणि वैदिकानि दर्शनानि इति व्यवह्रियते। तत्र ‘न्याय- वैशेषिक-सांख्य-योग-मीमांसा-वेदान्ताख्यानि षड्दर्शनानि आस्तिकदर्शनानि इत्यभिधीयन्ते। चार्वाक-जैन-बौद्धदर्शनानि च ‘नास्तिकदर्शनानीति निर्दिश्यन्ते। विभाजनं चैतद् वेदानां प्रामाण्याप्रामाण्यमूलकमेवेति सम्यगवधारणीयम्।
इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षमिति प्रत्यक्षस्य लक्षणं यन्नायायिकैः स्वीकृतं तत्र इन्द्रियं करणम्, इन्द्रियार्थसन्निकर्षश्च प्रत्यक्षे व्यापारो भवति। इन्द्रियाणामर्थैस्सह यः सम्बन्धी भवति, स एव सन्निकर्षः। सूत्रस्थसन्निकर्षपदेन च अनुमित्यादिव्यावृत्तिः। व्याकारभूतसन्निकर्षस्य द्वैविध्यं स्वीक्रियते नैयायिकैः। तथाहि – “लौकिकः अलौकिकश्च’’।
नैयायिकमते हि इन्द्रियाणां प्राप्यकारित्वं उपगम्यते। अतः इन्द्रियार्थयोः सन्निकर्षः षड्विधः बाह्यप्रत्यक्षहेतुतया अभिवर्णयन्ति ते[3]। सन्निकर्षपदमिदं प्रथमतः सूत्रकारेण प्रत्यक्षलक्षणे, ततश्च भाष्यकारेण च प्रयुक्तमिति प्रागेवोक्तम्।
सम् + नि + कर्षः = सन्निकर्षः। सम्बन्धः इत्यर्थः। यथा सम् + अव् + इत्युपसर्गद्वयपूर्वः इण्धातुः समवायं अभिदधाति।
अलौकिकसन्निकर्षः
लौकिकसन्निकर्षनिरूपणानन्तरमलौकिकसन्निकर्ष: निरुप्यते। यद्यपि मूलग्रन्थे तर्कसंग्रहे नास्ति तथापि न्यायसिद्धान्तरीत्या तत्स्वरूपमुपस्थाप्यते। अलौकिकसन्निकर्षस्तु नैयायिकै त्रिप्रकारो वर्णितः। सामान्यलक्षणः, ज्ञानलक्षणः, योगजश्चेति[4]। सामान्यं नाम जातिः घटादीव्यक्तिश्च, तदेव लक्षणं – स्वरूपं यस्येति व्युत्पत्त्या जात्यात्मको व्यक्त्यात्मकश्च सन्निकर्षः प्रथमः। ज्ञानमेव लक्षणं स्वरूपं यस्य स ज्ञानात्मकः सन्निकर्ष द्वितीयः। योगजः – चित्तवृत्तिनिरोधाज्जन्यस्संयमः ध्यानधारणामाध्यात्मकः सन्निकर्षस्तृतीयः।
सामान्यलक्षणप्रत्यासत्तिः
अधिकरणानां भूतलादीनामलौकिकप्रत्यक्षस्य कारणम्, सामान्यज्ञानम् इन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतसामान्यज्ञानमेव सन्निकर्षः बोध्यः। चक्षुरादिन्द्रियजन्यो यो घटात्मकधर्मस्य बोधस्तत्र चक्षुस्संयुक्तसंयोग; आलोकसंयोगः महत्परिमाणम् उद्भूतरूपादि चेति सामग्र्योऽपि सहकारितया तत्रैवोपस्थिता अपेक्ष्यन्त इति।
समानानां भावः सामान्यम्। एकधर्मवन्निष्ठसाधारणधर्म इत्यर्थः। यथा घट्वत् भूतलमित्यत्र भूतलत्वधर्मवद् भूतलनिष्ठः साधारणो धर्मो घटः भूतलञ्चेत्युभयं सामान्यं स्वीकर्तुं शक्यते। एतादृशं सामान्यं कुत्रचिद् नित्यं नित्यजात्याद्यात्मकं धूमत्वभूतलत्यादिरूपं भवति। कुत्रचित् सामान्यमनित्यं भवति। यथा – उत्पत्तिध्वंसप्रतियोगिघटपटाद्यात्मकं बोध्यम्। अलौकिकेषु त्रिषु प्रत्यक्षेषु ‘सामान्यलक्षणा इत्यत्र लक्षणशब्दस्य विषयोऽर्थः बोध्यः। तथा च निर्विकल्पक साधारणं स्मृतिसाधारणञ्च समान्यविषयकज्ञानत्वं प्रत्यासत्तितावच्छेदकं बोध्यम्।
अत्रेदं तात्पर्यम् – ‘समानतां भावः सामान्यं तल्लक्षणं यस्य सः सामान्यलक्षणः। अत्र सामान्यशब्दस्यार्थस्तु साधारणो धर्मः। एवं लक्षणस्यार्थस्तु स्वरूपं विषयो वार्थः। तथा च यदि लक्षणस्य स्वरूपार्थः स्वीक्रियते चेत् ‘सामान्यलक्षणा’ इति शब्दस्य सामान्यस्वरूपसन्निकर्षः इत्यर्थो भवेत्। अयमेवेन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतधर्मो ज्ञातव्यः। यतो हि पुरोवर्तिघटादि विषयेण सह चक्षुरिन्द्रियस्य संयोगे सति “घटघटत्वे’ इत्याकारं निर्विकल्पकज्ञानानन्तरं ‘अयं घटः’ इत्याकारकं सविकल्पकं ज्ञानमुत्पद्यते एतादृशं ज्ञानं घटं विशेष्यकतया विषयीकरोति, घटत्वन्तु “प्रकारविधया विषयीकरोति। अतोऽत्र चक्षुःसंयुक्तघटविशेष्यवं’ ‘अयं घटः’ इत्याकारकं यत् ज्ञानं तत्र प्रकारीभूतसामान्यं घटत्वं वर्तते। तादृशघटत्वरूपेण सामान्यलक्षणसन्निकर्षेण सकलघटविषयकअलौकिक प्रत्यक्षं भवति। इन्द्रियसम्बन्धस्तु लोकिको ग्राह्यः, अर्थात् संयोगादि षड् विध सन्निकर्षान्यतमो यथायोग्यं ग्राह्य इत्यर्थः[5]।
नवीनास्तु सामान्यं लक्षणं विषय यस्य स सामान्यलक्षणेति। तद्घटरूपसामान्यस्य सन्निकर्षस्य नाशेऽपि तद्घटवतः स्मरणे सति तदुत्तरं तद्घटवतां सर्वेषां अलौकिकप्रत्यक्षमनुभवसिद्धम्। तत्प्राचीनमते न घटते। ज्ञायमानसामान्यरूपघटात्मकप्रत्यासत्तेः विनष्टत्वात्। अतः यथाकथचिज्जातं सामान्यज्ञानं प्रत्यासत्तिः। तच्च स्मृतिनिर्विकल्पकसाधारणम्। घटस्य नाशेऽपि घटस्मरणरूपसामान्यलक्षणायाः सत्वादेव सर्वेषां तद् घटवतामलौकिकं प्रत्यक्षमुपपद्यते। सामान्यलक्षणया जायमानमलौकिकप्रत्यक्षं द्विविधम्। मानसं बहिरिन्द्रियजन्यं चेति।
ज्ञानलक्षणाप्रत्यासत्तिः
अयञ्चालौकिकसंन्निकर्षेषु द्वितीयस्सन्निकर्षः यस्य साहाय्येन विषयगुणानाम् अलौकिकं ज्ञानं प्राप्तुं शक्यते। एतादृशज्ञानलक्षण प्रत्यासत्यैकविषयकप्रत्यक्षेण सह तत्सम्बन्धिगुणानामपि अस्माकमिन्द्रियसन्निकर्ष विनाऽपि ज्ञानं प्राप्तुं शक्यते। यथा हिमण्डस्य चाक्षुषज्ञानेन सह तस्य शीतत्वादीनामपि ज्ञानं भवति। इन्द्रियसन्निकर्षस्तु केवलं द्रव्येण सहैव भवति न तु शीतलादिगुणैः सह। कस्यचन विषयेन्द्रियद्वारा ज्ञानेऽपि तत्तद्गुणानाम् इन्द्रियसन्निकर्ष बिनाऽपि आत्मस्थज्ञानसन्निकर्षेण अलौकिक ज्ञानं जायते। यथा ‘सुरभि चन्दनम्’’ इत्यादौ ज्ञानस्यांशद्वयं वर्तते। एकं लौकिकमलौकिकञ्चापरम्। चन्दनखण्डस्य ज्ञानन्तु चक्षुषाः भवति किन्तु सुगन्धस्य ज्ञानं घ्राणेनैव भवति। चन्दनस्य चक्षुःसंयोगे सति यज्ज्ञानं जायते तत्स्वाभाविकम्। परन्तु इन्दियसन्निकर्ष विना सुगन्धस्य ज्ञानं कथं भवेत्? यदि एतादृशविशिष्टज्ञानस्य कारणं विभिन्नमिन्द्रियं स्वीक्रियते तदा नियमविरोध। नियमस्तु विशिष्टज्ञानस्य न कारणद्वयमपि तु एकमेव। अत्र च एतादृशविशिष्टज्ञानस्य कारणं चक्षुः भवितुं न शक्नोति। कुतः ? सुगन्धांशग्रहणे सामर्थ्याभावात् तस्येति। एवमेव घ्राणेन्द्रियस्य कारणत्वं न वक्तुं शक्यते। कुतः ? तस्य चन्दनग्रहणासमर्थत्वाद्। अतः एतादृशावस्थायां तादृशविशिष्टज्ञानस्य कारणत्वं कस्य वक्तव्यम् ? इत्यत्र नैयायिकाः एतादृशज्ञानस्य कारणं चक्षुरेवेति मन्वते। परन्तु चक्षुषः सौरभेण शीतलत्वेन च सह न कोऽपि सम्बन्धो वर्तते, अपितु द्रव्येण चन्दनेन सह सम्बन्धि विद्यते इत्यतः ज्ञानरूपालौकिकसन्निकर्षोऽत्र स्वीक्रियते[6] इति। तेन च विशिष्ट ज्ञानमेकं सुरभि चन्दनमित्युत्पद्यते इति नैयायिकानामाशयः।
अत्रेदमवधातव्यं यदा ‘सुरभि चन्दनम्’ इत्याकारकचन्दनप्रत्यक्षं भवति, – तदा सौरभांशस्य ज्ञानं साधारणतया स्मरणात्मकं भवति। बौद्धा अपि अस्मिन् विषये ज्ञानस्यांशः स्मरणात्मकमेवेति कथयन्ति। परन्तु न्यायदर्शने तथा न स्वीक्रियते। कुतः? यदि तस्य स्मरणात्मकं स्वीक्रियेत तदा तत् भूतकालस्य विषयो भवति। एवञ्च तादृशस्य ज्ञानस्यांशद्वयं स्वीकर्तव्यम्। एकं स्मरणात्मकं प्रत्यक्षात्मकञ्चापरम। अशंद्वयं भूतकालिकविषयकम् आदिमम्। वर्तमानकालविषयकञ्चापरम्। एवञ्च एक एव विषयोऽतीतवर्तमानज्ञानयोः विषयो भवेत्, तद्धि न युक्तम्। अतोऽत्रोक्तज्ञानस्य स्मृतिरूपत्वमङ्गीकृत्य प्रत्यक्षमेव मन्तव्यम्। अत एव सुगन्धस्य चाक्षुषप्रत्यक्षबोधनाय ज्ञानलक्षणसन्निकर्षः स्वीकृतः। यद्यपि सौरभस्य ज्ञानं सौरभत्वरूपसामान्यलक्षणया भवितुं शक्नोति, किन्तु सौरभत्वज्ञानाय ज्ञानलक्षणावश्यकी। एवं प्रकारेण यद्यपि सामान्यलक्षणा, ज्ञानलक्षणा च उभेऽपि लक्षणे ज्ञानरूपेऽथापि तयोः, परस्परं भेदो वर्तत एव। सामान्यलक्षणा स्वाश्रयप्रत्यक्ष एव कारणं भवति। किन्तु ज्ञानलक्षणया सौरभज्ञानं भवति, न तु सौरभाश्रस्य ज्ञानं भवति। चन्दनस्पर्शनानन्तरं सुगन्धस्य या स्मृतिः, तादृशस्मृतिविषयत्वरूपसन्निकर्षः सौरभस्य वर्तते, न तु चन्दनस्य। चन्दनेन सह चक्षुस्संयोगः सन्निकर्ष। अयमेव ज्ञानलक्षणसामान्यलक्षणयोर्भेदः[7] इति।
योगजलक्षणप्रत्यासत्तिः
अयञ्च सन्निकर्षस्तृतीयः। अस्य बलेन योगिनः अतीतानागतानां देशान्तरस्थवस्तूनां प्रत्यक्षं कर्तुं प्रभवन्ति। यौगिकं सत्यन्तु अस्मद्देशे न केवलम् वैदिकदार्शनिकाः, अपितु अवैदिकबौद्धादयोऽपि स्वीकुर्वन्ति। योगिनः खलु स्वस्य योगसामर्थ्येन तपोबलेन वेन्द्रियार्थसन्निकर्ष विनाऽपि प्रत्यक्षं कर्तुं शक्नुवन्ति। योगसिद्धानां जनानां यौगिकशक्तेः प्राप्तिस्तु स्वतो भवति। पातञ्जलयोगदर्शने योगो नाम चित्तवृत्तेर्निरोधः। तथा च सूत्रम् “योगचित्तवृत्तिनिरोधः”[8] इति।
योगजः सन्निकर्षो द्विविधो भवति, योगिनो युक्तयुञ्जानभेदात्। विश्वनाथपञ्चाननेनाऽपि उक्त कारिकावल्यां यत् –
“योगजो द्विविधः प्रोक्तो युक्तयुञ्जानभेदतः।
युक्तस्य सर्वदा भानं चिन्तासहकृतोऽपरः।।”[9]
तत्र पूर्णयौगिकश्शक्तिसम्पन्नः पुरुषः सर्वदा सर्वप्रकारेण ज्ञानं स्वतः प्राप्नोति। अतो युक्त उच्यते। किन्तु यस्य यौगिकसिद्धिः आंशिका वर्तते, स युञ्जान उच्यते। युञ्जानयोगिनो यौगिक सामर्थ्यं न स्वतः प्राप्नुवन्ति। किन्तु तस्य कृते मनननिधिध्यासनादीनामावश्यकं भवति। एवं प्रकारेण युक्तयुञ्जानभेदतः योगजो द्विविधः प्रोक्तः। युक्तयोगिनां योगबलेन तपोबलेन आकाशपरमाण्वादीनां सकलपदार्थानां ज्ञानं भवति चद् युञ्जानयोगिनां धारणाध्यानमननादिभिः ज्ञानप्राप्तिर्भवति।
एवं प्रकारेणालौकिकं प्रत्यक्षं त्रिविधम्, लौकिकप्रत्यक्षञ्च षड् विधम्। आहत्य च नवविधाः सन्निकर्षाः निरूपिताः। एतेः सन्निकर्षैर्जायमानं यज्ज्ञानं तत्प्रत्यक्षमित्युच्यते। तादृशप्रत्यक्षज्ञानस्य यत् करणं तत् प्रत्यक्षप्रमाणमित्यर्थः। तच्च चक्षुरादीन्द्रियम्, इन्द्रियार्थसन्निकर्षः, तज्जन्यं ज्ञानं वेति दिक्।
।। इति शम् ।।
परिशीलितग्रन्थसूची –
- महर्षिः , गौतमः । न्यायदर्शनम् । वात्स्यायनभाष्यसहितम्, सं० डॉ० श्री पद्मप्रसाद शास्त्री तथा श्री हरिरामशुक्ल । चौखम्बा संस्कृत भवन : षष्ठं संस्करणम्, २०६४ ।
- महर्षिः , गौतमः । न्यायसूत्रम् । सम्पा.महेशझा । वाराणसी : चौखम्बा संस्कृत सीरिज अफिस, २०२३ ।
- आचार्यः, शङ्करमिश्रः । वैशेषिकसूत्रोपस्कारः । सम्पा. श्री नारायणमिश्रः , वाराणसी : चौखम्बा संस्कृत सीरिज अफिस ।
- प्रशस्तपादभाष्यम् । श्रीधरभाष्यप्रणीतया, न्यायकन्दलीव्याख्याया संकल्पितम् । सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः ।
- विश्वनाथपञ्चानन्, महोपाध्याय। । कारिकावली न्यायमुक्तावलीसंवलिता । दिनकरीव्याख्या-रामरूद्रीव्याख्यास्यां सनाथीकृता । सम्पा. अनन्ता शास्त्री। प्रका.तुकाराम जावजीश्रेष्ठिभिः । वोम्वे ।
- महामहोपाध्याय, जगदीशतर्कालङ्कारः । तर्कामृतम् । म.म. जीवनकृष्णतर्कतीर्थकृतविवृतिसहितम्। सम्पा. डा. विष्णुपदमहापात्रः। मान्यता प्रकाशन्, मायापुरी, २००९ ।
- श्रीमदुदयानाचार्यविरचिता । न्यायवार्त्तिकतात्पर्यपरिशुद्धिः । न्यायनिवन्धप्रकाशाख्यटीकासहिता । सम्पा. पण्डित विद्धेश्वरीप्रसादद्विवेदी, लक्षणशास्त्रीद्विवेदी । कलिकाता ।
- भारद्वाजोद्योतकरकृतम् । न्यायभाष्यवार्त्तिकम् । श्रीमता अनन्तालालठक्कुरेण संस्कृतम् । भारतीयदार्शनिकानुसंधानपरिषत्प्रकाशितम् । १९९७ ।
✽ ✽ ✽ ✽ ✽
[1] पा.सू. 4/4/60
[2] मनु. 2/11
[3] अतः एवं सर्वेन्द्रियाणां प्राप्यकारित्वं पश्यद्भिः शास्त्रज्ञैः इन्द्रियार्थसन्निकर्षः षट्प्रकारे व्याख्यातः । न्या.म. 480
[4] न्या. सि. मु. का. 63
[5] न्या. सि. मु. का. 63
[6] न्या. सि. मु. का. 64
[7] न्या. सि. मु. का. 64
[8] पा. यो. सू. 1/1/1
[9] विश्वनाथभट्टाचार्यः, का. 65
