[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

नलदमयंतीस्वयंवराख्याने नैषधीयचरितस्य प्रभावः।

डॉ. रूपाली विजय कवीश्वर
(सहाय्यकप्राध्यापकः,संस्कृतविभागः, शासकीय विदर्भ ज्ञान विज्ञान संस्था (स्वायत्त), अमरावती, महाराष्ट्रम्)
ई-सङ्केतः – kavishwar.rupali66@gmail.com
भ्रमणध्वनिक्रमाङ्कः – 9922820758
डॉ. ओंकार शामसुंदर जोशी
(संपादक सहाय्यक, संस्कृत तथा च कोशशास्त्रविभागः, (अभिमतविद्यापीठम् ), पुणे, महाराष्ट्रम्)
ई-सङ्केतः – onkar.joshi87@gmail.com
भ्रमणध्वनिक्रमाङ्कः – 9921255028

सारांशः –

संस्कृतपञ्चमहाकाव्येषु अन्यतमं काव्यं नाम श्रीहर्षकृतं नैषधीयचरितम्। नैषधीयचरितम् एतत् काव्यं नैकानां भाषासाहित्यानाम् उपजीव्यत्वम् उद्वहते। मराठीभाषायामपि नैषधीयचरितम् इत्यतस्य काव्यस्य उपरि आधारितं काव्यं रघुनाथपण्डितेन रचितम्। तद् काव्यं नल-दमयंती-स्वयंवराख्याननाम्ना प्रसिद्धम्।

शोधनिबन्धेsस्मिन् नैषधीयचरितस्य प्रभावः नल-दमयंती-स्वयंवराख्याने कथं दृश्यते इत्येतस्य विवेचनं प्रस्तूयते। तदर्थं अधोनिर्दिष्टाः बिन्दवः स्वीक्रियन्ते।

  1. प्रस्तावना
  2. नल-दमयंती-स्वयंवरस्य परिचयः वैशिष्ट्यानि च।
  3. नैषधीयचरितस्य परिचयः वैशिष्ट्यानि च।
  4. नलदमयंतीस्वयंवराख्याने नैषधीयचरितस्य प्रभावः।
  5. उपसंहारश्च।

नलदमयंतीस्वयंवराख्याने नैषधीयचरितस्य प्रभावः।

प्रस्तावना

संस्कृतवाङ्मयस्य प्रभावः संपूर्णे ज्ञानविश्वे दृश्यते। यथा काव्यशास्त्रादिशास्त्रग्रंथानां प्रभावः संस्कृतेतरभाषासु विद्यमानेषु ग्रन्थेषु वर्तते, तथैव संस्कृतभाषास्थितस्य साहित्यस्य प्रभावः इतरभाषासु दरीदृश्यते।

मराठीभाषा अपि भारोपीय-आधुनिकभाषापरिवारस्था संस्कृतोद्भवा भाषा। अतः मराठीसाहित्यविश्वे अपि संस्कृतस्य प्रभावः वर्तते एव।

संस्कृतसाहित्यस्य स्थूलतः दृश्यकाव्यं श्राव्यकाव्यञ्च इत्येतौ विभागौ।श्राव्यकाव्येषु महाकाव्यम् इत्येषः एकः विभागः। संस्कृतभाषायां महाकाव्येषु कुमारसम्भवं, रघुवंशं, शिशुपालवधं,किरातार्जुनीयं नैषधीयचरितञ्च इत्येतानि काव्यानि संस्कृतमहाकाव्येषु पञ्चप्राणत्वेनप्रसिद्धानि। तेषु नैषधीयचरितं विद्वदौषधनाम्नैव प्रसिद्धम्। नैषधीयचरितस्य आधारेण मराठीभाषायां रघुनाथपण्डितेन नलदमयंतीस्वयंवराख्यानकाव्यस्य निर्माणं कृतम्। रघुनाथपण्डितस्य एषा निर्मितिर्नाम संस्कृतभाषायाः प्रभावोदाहरणमेव मराठीभाषायाम्।

शोधनिबन्धेsस्मिन् रघुनाथपण्डितकृते नलदमयंतीस्वयंवराख्याने श्रीहर्षस्य नैषधीयचरितस्य प्रभावः कथं वर्तते, कानि तत्र साम्यस्थलानि, के के भेदाः, कानि वैशिष्ट्यानि इति प्रस्तूयते।

नलकथा

नलदमयंतीस्वयंवराख्यानस्य नैषधीयचरितस्य च कथानकं समानमेव । नैषधीयचरितं महाकाव्यम् , अत एव तस्मिन् श्लोकसंख्या, वर्णनानि, संवादाः च विपुलाः वर्तन्ते। नैषधीयचरितस्य तुलनया नलदमयन्तीस्वयंवराख्याने न्यूनाः श्लोकाः सन्ति। किन्तु नलदमयंतीस्वयंवराख्याने नैषधीयचरितस्य उपजीव्यत्वम् अबाधित्वा कथारचना कौशल्येन कृता रघुनाथपण्डितेन।

काव्ययोः प्रथमं नलवर्णनम्। अनन्तरं प्रणिधिद्वारा कृतेन वर्णनेन नलस्य मनसि दमयन्तीविषयकं प्रेमनिर्माणम्। प्रेमनिर्माणेन दमयन्तीविषयिण्या विरहव्यथया व्यथितः सः नलः वनविहारार्थं गतः। तदा अश्ववर्णनं, निसर्गवर्णनं, सरोवरवर्णनम् इत्यादीनि नैकानि वर्णनानि दृश्यन्ते। सरोवरतटे नलः राजहंसं दृष्टवान् तथा च तं बद्धवान्। हंसः नलाय मुक्त्यर्थं प्रार्थयत। हंसस्य शोकं श्रुत्वा नलः हंसं मोचितवान्। हंसः नलस्य स्तुतिं गीत्वा दमयन्त्याः वर्णनमपि नलस्य पुरतः कृतवान्। तद् श्रुत्वा नलः हंसं दौत्यकर्मणि नियुक्तवान्। हंसः कुण्डिनपुरं गत्वा दमयंन्तीं नलकथामश्रावयत्। नलासक्ता दमयन्ती विरहव्यथया पीडिताभवत्। तदा दमयन्त्याः स्वयंवरं निश्चित्य राजा भीमः उत्सवायोजनं कृतवान्। दमयन्त्याः सौंदर्यवर्णनं श्रुत्वा इन्द्रः,अग्निः, यमः, वरूणः च एते देवाः तां प्रति अनुरक्ताः अभवन्। स्वयंवरार्थं गतवति नले इन्द्रादयः देवाः मिलितवन्तः। तदा इन्द्रः दमयन्त्याः पुरतः दौत्यकर्म कुरू इत्यादिशत् नलं प्रति।नलः दमयन्तीं संशोध्य दौत्यकर्म प्रारब्धवान्, तदा दमयन्ती नलानुरक्तता प्रकटं कृतवती। तदैव नलः मूलस्वरूपे दमयन्त्याः पुरतः प्रकटीभूतः। कस्मात् कालादेव स्वयंवरप्रसङ्गे दमयन्त्याः पुरतः पञ्च नलाः आगतवन्तः, यतः इन्द्रादिदेवाः नलस्य रूपं धृत्वा स्वयंवरे आगतवन्तः। दमयन्ती नलराजानमेव वररूपेण अचिनोत्।

नलदमयंतीस्वयंवराख्यानस्य परिचयः वैशिष्ट्यानि च।

नलदमयंतीस्वयंवराख्यानमिदं रघुनाथपण्डितेन रचितम् काव्यम्। मद्रासप्रान्ते आरणीनगरे एतस्य काव्यस्य रचना अभूत्। रामदासवर्णनं, गजेंद्रमोक्षञ्च इत्येतौ रघुनाथपण्डितस्य अन्यौ द्वौ ग्रन्थौ। किन्तु नलदमयंतीस्वयंवराख्यानमित्येषा रघुनाथपण्डितस्य कलाकृतिः प्रसिद्धा लोकेषु। रघुनाथपण्डितस्य कालः शककालस्य 1582 तः 1642 पर्यन्तं स्यात्।

नलदमयंतीस्वयंवराख्यानस्य कथानकं संस्कृतभाषास्थस्य नैषधीयचरितनाम्नः महाकाव्यस्य उपरि आश्रितमिति कविना स्वयमेव ग्रन्थे उक्तम्।[i] किन्तु एषः श्लोकः एकस्मिन्नेव आवृत्तौ दृश्यते। काव्येsस्मिन् कथानके अधिकं परिवर्तनं न विद्यते। पद्ममन्दिरस्य उल्लेखाभावः, शृङ्गारिकवर्णनानामभावः इत्यादीनि परिवर्तनानि रघुनाथपण्डितेन कृतानि।[ii]

नलदमयंतीस्वयंवराख्याने 218 पद्यानि सन्ति।द्वितीये हस्तलिखिते 242 पद्यानि सन्ति । काव्येsस्मिन् 21 संस्कृतछन्दसामुपयोगः कृतः।[iii] तेषु 6 छन्दांसि मराठीभाषायाः छन्दांसि।[iv] तथा च काव्येsस्मिन् उपमालङ्कारस्य बहुशः प्रयोगः दृश्यते। स्वभावोक्तिः, श्लेषः, रूपकादीनामलङ्काराणामुत्तममुपयोजनं वर्तते काव्ये।[v]

नलदमयंतीस्वयंवराख्यानं वैदर्भीरीतियुक्तं मराठीभाषास्थमुत्तमं काव्यं खलु।

नैषधीयचरितस्य परिचयः वैशिष्ट्यानि च।

नैषधीयचरितं संस्कृतमहाकाव्येषु पञ्चप्राणत्वेन प्रसिद्धमन्यतमं विद्वदौषधरूपेण प्रसिद्धं महाकाव्यम्। एतस्मिन् महाकाव्ये 22 सर्गाः, 2830 श्लोकाः च सन्ति।महाभारतस्थे वनपर्वणि स्थितं नलोपाख्यानं नैषधीयचरितस्य उपजीव्यत्वं वहति। नैषधीयचरितमित्येतत् काव्यं भारतस्य उत्तरभागे श्रीहर्षेण द्वादशशतके लिखितम्। श्रीहर्षस्य पितुः नाम श्रीहीरः तथा च मामल्लदेवी इति मातुः नाम।[vi]

यद्यपि महाभारतस्थं नलोपाख्यानमुपजीव्यं नैषधीयचरितस्य तथापि श्रीहर्षेण विशेषरूपेण मूलकथायां परिवर्तनम् अकृत्वैव भिन्नया काव्यपद्धत्या काव्यविचारः कृतः। नैषधीयचरितस्य आकलनं नाम बुद्धेः व्यायामः एव। अतः नैषधीयचरितस्य अंतर्भावः बृहत्त्रय्यां वर्तते।

श्रीहर्षस्य भाषा अलङ्कारयुक्ता। उत्प्रेक्षा, अतिशयोक्तिः, उपमा इत्येते अलङ्काराः कवेः प्रियाः अलङ्काराः। अनुप्रासादयः शब्दालङ्काराः अपि काव्ये दृश्यन्ते।काव्येsस्मिन् नवदशछन्दसामुपयोगः कृतः।तेषु सप्तसर्गानामुपजाति इत्येव छन्दः।काव्ये अन्यत्र शार्दूलविक्रिडितादीनां विस्तृतछन्दसामपि उपयोजनं कृतं कविना।नैषधीयचरिते वैदर्भीरीतिः तथा च प्रसादगुणः वर्तेते। किन्तु प्रसादगुणस्य नास्ति अतीव महत्त्वम्।

नैषधीयचरितस्य श्रेष्ठत्वमपि कविः वर्णयति यथा

तावद्वा भारवेर्भाति यावन्माघस्य नोदयः।

उदिते नैषधे भानौ क्व माघः क्व च भारविः।।

 नलदमयंतीस्वयंवराख्याने नैषधीयचरितस्य प्रभावः

नलदमयंतीस्वयंवराख्याने नैषधीयचरितस्य प्रभावः वर्तते इत्येषा आख्यानकर्तुः रघुनाथपण्डिस्यैव उक्तिः। द्वयोः काव्ययोः कथानकमपि सामान्यतया समानमेव। कुत्रचित् भेदोsपि दृश्यते, यथा- पद्ममन्दिरस्य वर्णनं नलदमयंतीस्वयंवराख्याने नास्ति। शृङ्गारिकवर्णनानामपि न्यूनता वर्ततेनलदमयंतीस्वयंवराख्याने। नैषधीयचरितमहाकाव्यस्य कथा नलदमयंतीस्वयंवराख्याने सूत्रबद्धं कृत्वा आख्यानरचना कृता। अत एव कदाचित् नलदमयंतीस्वयंवराख्याने वर्णनानि न्यूनानि।

नलदमयंतीस्वयंवराख्याननैषधीयचरितयोर्मध्ये वर्णनसाम्यस्थलानि-

  • नलस्य अश्ववर्णनप्रसङ्गे

स्ववेगदर्पान् वक्तुमुत्सुक इव सः नलाश्वः वर्तते । तस्य स्वाश्वस्य मनोगतं ज्ञात्वैव नलः मौनेन स्थितवान् इत्यस्य प्रसङ्गस्य वर्णनं श्रीहर्षेण कृतं[vii] तथा च रघुनाथपण्डितेनापि अश्वज्ञस्य नलराजस्ये वर्णनं वाजीमनेज्ञाता इत्येतेन रूपेण कृतम्।[viii]अस्मिन् वर्णनद्वये अतीव साम्यं दृश्यते।

  • नलद्वारा हंसबन्धनप्रसङ्गे हंसः नैकैः प्रकारैः नलं प्रति प्रार्थयत। तस्य हंसस्य प्रार्थनायाः वर्णनं श्रीहर्षः करोति काव्ये यथा –

मृगया न विगीयते नृपैरपि धर्माssगममर्मपारगैः।

स्मरसुन्दर मां यदत्यजस्तव धर्मः स दयोदयोज्ज्वलः।।[ix]

रघुनाथपण्डितेनापि हंसप्रार्थनायाः वर्णनं कृतम्।[x] तद् वर्णनं नाम नैषधीयचरितस्थस्य श्लोकस्य शब्दशः भाषान्तरमेव।

  • नैषधीयचरिते द्वितीयसर्गे कुण्डिननगऱ्याः वर्णनं वर्तते।[xi] तद् सादृश्यमेव वर्णनं रघुनाथपण्डितेन नलदमयंतीस्वयंवराख्याने चूर्णिकया कृतम्।[xii]
  • हंसः दमयन्त्याः पुरतः यदा प्रकटीभूतः तदा तस्य हंसपक्षस्य नादः अभवत्। तस्य नादस्य वर्णनं नैषधीयचरितं[xiii] तथा च नलदमयंतीस्वयंवराख्यानं[xiv] इत्येतयोः द्वयोः काव्ययोर्मध्ये समानमेव वर्तते।
  • अलङ्काराणामुपयोजनेsपि कुत्रचित् नलदमयंतीस्वयंवराख्याने नैषधीयचरितस्य प्रभावः दृश्यते यथा –

a)यदा नलराजा हंसमपश्यत् तदा हंसः उपोकरं स्वपादमानीय शेते इत्येतत् दृश्यं रसानुपोषकं भवेदिति विचिन्त्य द्वयोः काव्ययोः स्वभावोक्तिः अलङ्कारस्य उपयोजनं समानतया अभूत्।[xv],[xvi]

b)हंसवेगवर्णनप्रसङ्गे आकाशस्थितस्य निकषपाषाणस्य उपमा काव्ये उत्तमरित्या साधिता श्रीहर्षेण[xvii] तथा च रघुनाथपण्डितेनापि।[xviii]

एतत् अलङ्कारसादृशं ज्ञात्वा रघुनाथपण्डितेन बहुशः श्रीहर्षानुसरणं कृतमित्येव सिद्धम्।

  • नैषधीयचरितस्य प्रथमसर्गस्य अन्तिमश्लोके श्रीहर्षेण स्वनामोल्लेखः कृतः[xix] तथैव श्रीहर्षस्य काव्यशैल्याः अनुसारकेण रघुनाथपण्डितेनापि स्वनामोल्लेखः काव्ये प्रसङ्गमन्तरा कृतः।[xx]

नैकेषु स्थानेषु नैषधीयचरितस्य प्रभावम् आख्यानेsस्मिन् द्रष्टुं शक्नुमः। किन्तु कुत्रचित् स्ववैशिष्ट्यमपि रघुनाथपण्डितेन दर्शितम्। उदाहरणरूपेण नैषधीयचरिते भूयिष्ठेषु स्थानेषु नलस्य तुलना विष्णुना साकं वर्तते। किन्तु नलदमयंतीस्वयंवराख्याने तादृशः उपमानोपमेय भावो नास्ति ।

उपसंहारः

संस्कृतभाषास्थं नैषधीयचरितं तथा च मराठीभाषास्थं नलदमयंतीस्वयंवराख्यानमित्येतयोः काव्ययोः बहूनि साम्यानि, केचन भेदाश्च दृश्यन्ते। एकस्याः भाषायाः वाङ्मयस्य प्रभावः अन्यभाषावाङ्मये दृश्यते एव। नलदमयंतीस्वयंवराख्याने रघुनाथपण्डितविरचिते काव्ये नैषधीयचरितस्य प्रभावः वर्तत एव इत्येतस्य विधानस्य कृते द्वे प्रमाणे वर्तेते–

रघुनाथपण्डितेन स्वग्रन्थे नैषधीयचरितस्य उपजीव्यत्वमुद्धृतम्। तथा च यथा संस्कृतभाषायां वर्णनशैली, अलङ्कारोपयोजनं, छन्दोपयोगः च वर्तन्ते, तथैव मराठीभाषायाः काव्ये दृश्येत इति विचिन्त्य एव नलदमयंतीस्वयंवराख्यानस्य रचना कृता।

संस्कृतभाषायाः अन्यासु भाषासु प्रभावः इत्येषा तु स्वाभाविकी प्रक्रिया, संस्कृतभाषायाः प्राचीनत्वात् उपजीवत्वात् च । तथा च नवनिर्मित्यौ प्राचीनघटकानां प्रभावः अस्ति इत्येषः एव नियमः सत्कार्यवादरूपेण प्रसिद्धः।

टिप्पण्यः

[i]सि.वि.सरवटे, नलदमयंतीस्वयंवराख्यान, मुंबई. 1919. (पृ.क्र.1)

[ii]सि.वि.सरवटे, नलदमयंतीस्वयंवराख्यान, मुंबई. 1919. (पृ.क्र.2)

[iii]सि.वि.सरवटे, नलदमयंतीस्वयंवराख्यान, मुंबई. 1919. (परिशिष्ट 3)

[iv]साकी, दिंडी, ओवी, चूर्णिका, घनाक्षरी व पद

[v]सि.वि.सरवटे, नलदमयंतीस्वयंवराख्यान, मुंबई. 1919. (परिशिष्ट 4)

[vi]नैषधीयचरितम् (1.145)

[vii]चलाचलप्रोथतया महिभृते स्ववेगदर्पानिव वक्तुमुत्सुकम्।

अलं गिरा, वेद किलाsयमाशयं स्वयं हयस्येति च मौनमास्थितम्।।(नैषध 1.60)

[viii]वाजीचे मन जाणता, सकलही राजी शिपाई जया ।(नलदमयंतीस्वयंवराख्याने 6)

[ix](नैषध 2.9)

[x]पारधीमाजी खगा मृगा राजे, करिती हिंसा जी तीच बरी साजे ।

तुवा दिधली मज मोकळीक बाजे, द्या केली हे कीर्ति तुझी गाजे ।।((नलदमयंतीस्वयंवराख्याने 53)

[xi]नैषध 2.73 तः 2.105

[xii]सकलभुवनललामायमाना।………..ऐशी कुंडिननामधेयनगरी राजहंसे पाहिली।।((नलदमयंतीस्वयंवराख्याने 76)

[xiii]आकस्मिकः पक्षपुटाहतायाः क्षितेस्तदा यः स्वन उच्चचार।

द्रागन्यविव्यस्तदृशः स तस्या सम्भ्रान्तमन्तःकरणं चकार।।(नैषध 3.2)

[xiv]जो बैसता चपळ पक्ष पुटीधरेला, हाणीतसे फडफडा ध्वनी हो उडाला।

पाहे तया खग वरासी वरानना हे, मानी मनी नवलही मग बोलताहे ।।((नलदमयंतीस्वयंवराख्याने 81)

[xv]अथाsवलम्ब्य क्षणमेकपादिकां तदा निदद्रावुपपल्वलं खगः।

स तिर्यगावर्जितकन्धरः शिरः पिधाय पक्षेण रतिक्लमाsलसः।।(नैषध 1.121)

[xvi]तेथील एक कलहंस तटी निजेला, जो भागला जलविहार विशेष केला।

पोटीच एक पद लांबविला दुजा तो, पक्षी तनु लपवी भूप तया पाहतो।।((नलदमयंतीस्वयंवराख्याने 37)

[xvii]तनुदीधितिधारया रयात् गतया लोकविलोकनामसौ।

छद्हेम कषन्निवsलषत् कषपाषाणनिभे नभस्तले।।(नैषध 2.69)

[xviii]नभा मानुनी की निकषपाषाणा,स्वर्णरेखाते तेज मनी आणा।(नलदमयंतीस्वयंवराख्याने 73)

[xix]श्रीहर्ष कविराजराजिमुकुटाsलङ्कारहीरः सुतं

श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।।(नैषध 1.145)

[xx]ठेवुनी तव पदी माथा, आता सोडवी मज रघुनाथा।।(पद)

 

संदर्भग्रन्थाः

  1. नैषधीयचरितम्, पणशीकर वासुदेवशास्त्री, मुंबई, जावजी प्रकाशन, 1960.
  2. नैषधीयचरितम् , रेग्मी श्रीशेषराजशर्मा, चौखम्बा प्रकाशन, वाराणसी, 1995.
  3. नलदमयंतीस्वयंवराख्यान, सरवटे सिताराम, श्री स्डॉन्डर्ड पब्लिशिंग कंपनी, मुंबई, 1919.
  4. संस्कृत साहित्य का इतिहास, बलदेव उपाध्याय, मोतिलाल बनारसीदास, दिल्ली, 1993.

 

[/vc_column_text][/vc_column][/vc_row]