संस्कृतवाङ्मये अनुसन्धान-प्रविधिः : वैज्ञानिकदृष्ट्या समीक्षात्मकम् अध्ययनम्
श्री विकास गुरिकार्
विद्यावारिधि-शोधच्छात्रः
वेदान्तविभागः, श्रीशङ्कराचार्य-संस्कृतविश्वविद्यालयः
कालटी, केरलराज्यम्
अणुप्रैष संदेशः : vikasgurikar05@gmail.com
दूरवाणी : 6363205051
सारांशः
प्रस्तुतशोधप्रबन्धे संस्कृतवाङ्मये निहितानाम् अनुसन्धान-सूत्राणां, शोध-प्रविधीनाञ्च समीक्षात्मकमध्ययनं कृतम्। भारतीय-ज्ञानपरम्परायां वेदाः, उपनिषदः, वेदाङ्गानि, दर्शनशास्त्राणि, आयुर्वेदः, साहित्यशास्त्रं च केवलम् आध्यात्मिकग्रन्था न सन्ति, अपितु ते गभीर-अनुसन्धानपरम्परायाः मूलस्रोतांसि इति प्रतिपादितम्। अस्मिन् शोधे दृढसंकल्पः, ताटस्थ्यवृत्तिः, सकारात्मक-दृष्टिः, विषयाभिरुचिः, कल्पनाशक्तिः, सत्स्वप्नदर्शनं च सफल-अनुसन्धानस्य आवश्यकतत्त्वरूपेण विवेचितानि सन्ति। वेदेषु, उपनिषत्सु, न्याय-वैशेषिक-दर्शनेषु, व्याकरणे, निरुक्ते, ज्योतिषे, छन्दःशास्त्रे, वास्तुशास्त्रे, आयुर्वेदे च अनुसन्धानस्य प्रायोगिक-पक्षः स्पष्टतया दृश्यते इति उदाहरणैः सह निरूपितम्।
पाणिनि-यास्क-कणाद-गौतम-प्रभृतयः ऋषयः अनुसन्धान-परम्परायाः महान् प्रवर्तकाः आसन् इति विवेचनमत्र कृतम्। आधुनिक-विज्ञानस्य कतिपयानि सिद्धान्तानि अपि प्राचीन-भारतीय-चिन्तनपरम्परया सह साम्यं वहन्ति इति सूचितम्। विशेषतया अनुसन्धानकर्मणि आध्यात्मिकप्रज्ञायाः, मनोनिग्रहस्य, तार्किक-चिन्तनस्य, प्रायोगिक-परीक्षणस्य च महत्त्वं प्रकाश्यते। अयं शोधलेखः प्रतिपादयति यत् संस्कृतवाङ्मये निहितानि अनुसन्धान-सूत्राणि आधुनिक-शोधप्रविधेः कृते अपि प्रेरणास्रोतोरूपेण ग्राह्याणि सन्ति। अतः भारतीय-ज्ञानपरम्परायाः पुनर्मूल्याङ्कनं कृत्वा अनुसन्धानक्षेत्रे तेषां पुनःप्रयोगः अपेक्षितः इति निष्कर्षः प्रस्तूयते।
कूट-शब्दाः
अनुसन्धानम्, शोध-प्रविधिः, संस्कृत-वाङ्मयम्, वैदिक-साहित्य्यम्, भारतीय-ज्ञान-परम्परा, वेदाङ्गानि, दर्शनशास्त्रम्, कल्पनाशक्तिः, सकारात्मक-दृष्टिः, आध्यात्मिक-प्रज्ञा, ताटस्थ्यवृत्तिः, विषयाभिरुचिः, अनुसन्धान-सूत्राणि, ऋषि-परम्परा, वैदिक-अनुसन्धानम्।
Introduction
अनुसन्धानम् आधुनिक-शैक्षिक-जीवनस्य अत्यन्तमहत्त्वपूर्णः विषयः वर्तते। ज्ञानस्य विस्तारः, नूतनतत्त्वानामन्वेषणम्, समस्यासमाधानञ्च अनुसन्धानस्य मूललक्ष्यं भवति। “शोध” इति शब्दः संस्कृतधातोः “शुध्” इत्यस्मात् निष्पन्नः, यस्य सामान्यः अर्थः परिशोधनम्, विशुद्धीकरणम्, नूतनतत्त्वस्य अन्वेषणं चेति भवति। आधुनिके वैज्ञानिकयुगे अनुसन्धानं केवलं भौतिक-विज्ञान-क्षेत्रे एव सीमितं नास्ति, प्रत्युत् साहित्ये, दर्शने, भाषाविज्ञाने, आयुर्वेदे, ज्योतिषे, समाजशास्त्रे, अध्यात्मविद्यायाञ्च समानरूपेण आवश्यकतां वहति।
भारतीय-ज्ञानपरम्परायां अनुसन्धानस्य इतिहासः अत्यन्तं प्राचीनः अस्ति। वैदिकऋषयः ब्रह्माण्डस्य, जीवस्य, प्रकृतेः, आत्मनः, मनसश्च गूढतत्त्वानामन्वेषणं तपसा, ध्यानयोगेन, तर्केण, अनुभवेण च कृतवन्तः। वेदेषु, उपनिषत्सु, वेदाङ्गेषु, पुराणेषु, दर्शनेषु च अनुसन्धानस्य विविधाः पद्धतयः प्रतिपादिताः दृश्यन्ते। ऋग्वेदस्य नासदीयसूक्ते, पुरुषसूक्ते, अथर्ववेदस्य ब्रह्मसूक्तेषु, उपनिषदां ब्रह्मविद्यासु च विश्वोत्पत्तेः, चेतनायाः, सत्यस्य च गभीरानुसन्धानं द्रष्टुं शक्यते। अतः संस्कृतवाङ्मयं केवलं धार्मिक-साहित्यं नास्ति, अपितु विश्वस्य प्राचीनतम-अनुसन्धान-परम्परायाः आधारभूतं ज्ञानभाण्डारम् अस्ति।
भारतीय-ऋषयः अनुसन्धानं केवलं बाह्यपदार्थानामवलोकनरूपेण न मन्यन्ते स्म, किन्तु अन्तःप्रज्ञा, आत्मानुभवः, ध्यानम्, तर्कः, प्रयोगः, निरीक्षणं च अनुसन्धानस्य प्रमुखसाधनानि इति स्वीक्रियन्ते स्म। पाणिनिना व्याकरणशास्त्रे, यास्केन निरुक्ते, कणादेन वैशेषिकदर्शने, गौतमेन न्यायशास्त्रे, चरकेण सुश्रुतेन च आयुर्वेदे यानि सिद्धान्तानि प्रतिपादितानि, तानि अनुसन्धानपरम्परायाः उत्कर्षस्य प्रमाणानि सन्ति। एतेषां ग्रन्थानां अध्ययनात् ज्ञायते यत् प्राचीनभारतीयविद्वांसः सूक्ष्मनिरीक्षणे, तार्किकविश्लेषणे, प्रायोगिक-परीक्षणे च अत्यन्तं प्रवीणाः आसन्।
अद्यतनकाले अनुसन्धानप्रविधिः मुख्यतया पाश्चात्य-वैज्ञानिक-दृष्ट्या परिभाष्यते, किन्तु भारतीयपरम्परायां निहितानां अनुसन्धानसूत्राणां पुनर्मूल्याङ्कनम् अत्यावश्यकम्। संस्कृतवाङ्मये निहिताः सिद्धान्ताः केवलं ऐतिहासिकदृष्ट्या न महत्त्वपूर्णाः, अपितु आधुनिक-अनुसन्धान-क्षेत्रेऽपि प्रेरणास्रोतोरूपेण ग्राह्याः सन्ति। दृढसंकल्पः, ताटस्थ्यवृत्तिः, सकारात्मक-दृष्टिः, विषयाभिरुचिः, कल्पनाशक्तिः, आध्यात्मिक-प्रज्ञा च अनुसन्धानस्य सफलतायाः मूलाधाराः इति भारतीयपरम्परा प्रतिपादयति।
प्रस्तुत-अध्ययने संस्कृतवाङ्मये निहितानां अनुसन्धान-सूत्राणां, अनुसन्धान-प्रविधीनाञ्च विश्लेषणात्मकं अध्ययनं क्रियते। वेद-उपनिषद्-वेदाङ्ग-दर्शन-साहित्य-आयुर्वेदादिषु निहिताः अनुसन्धानतत्त्वानि आधुनिकशोधदृष्ट्या परिशील्यन्ते। अस्य अध्ययनस्य प्रमुखः उद्देश्यः एषः यत् भारतीय-ज्ञानपरम्परायाः अनुसन्धानदृष्टिं पुनः प्रकाश्य आधुनिकशोधक्षेत्रे तस्याः प्रासंगिकतां प्रतिपादयितुम्।
साहित्य-समीक्षणम्
अनुसन्धानक्षेत्रे साहित्य-समीक्षणस्य महत्त्वं अत्यधिकं वर्तते। पूर्ववर्तीविद्वद्भिः कृतानां ग्रन्थानां, सिद्धान्तानां, मतानाञ्च समीक्षात्मकमध्ययनमेव साहित्य-समीक्षणम् इति कथ्यते। अस्य प्रमुखः प्रयोजनः अस्ति यत् शोधार्थी स्वविषयसम्बद्धं पूर्वसंचितं ज्ञानं ज्ञात्वा तत्र नूतनदृष्ट्या स्वीयमनुसन्धानं स्थापयेत्। आधुनिक-शोधप्रविधौ Literature Review इति नाम्ना प्रसिद्धोऽयं विभागः संस्कृत-वाङ्मयेऽपि प्राचीनकालादेव विभिन्नरूपेण दृश्यते।
वैदिक-साहित्ये, उपनिषत्सु, वेदाङ्गेषु, दर्शनेषु च पूर्वाचार्यमतानां परीक्षणं, तेषां समर्थनं, खण्डनं, पुनर्व्याख्यानञ्च दृश्यते। एतदेव साहित्य-समीक्षणस्य मूलस्वरूपम्। विशेषतः न्याय, मीमांसा, वेदान्त, व्याकरणादिषु शास्त्रेषु पूर्वपक्ष-सिद्धान्त-उत्तरपक्ष-रूपेण विस्तीर्णा समीक्षा परम्परा दृश्यते। शङ्कराचार्यः, रामानुजाचार्यः, मध्वाचार्यः, वाचस्पतिमिश्रः, कुमारिलभट्टः, प्रभाकराचार्यः च पूर्वाचार्यमतानि समालोच्य स्वसिद्धान्तान् स्थापितवन्तः। अतः भारतीय-शास्त्रीय-परम्परायां साहित्य-समीक्षणं केवलं वर्णनात्मकं नास्ति, प्रत्युत् तर्काधारितं विश्लेषणात्मकं चास्ति।
संस्कृत-साहित्यशास्त्रे अपि मम्मट, आनन्दवर्धन, अभिनवगुप्त, विश्वनाथ-प्रभृतयः आचार्याः पूर्वसिद्धान्तानामवलोकनपूर्वकं नूतनसाहित्यदृष्टीन् प्रतिपादितवन्तः। रससिद्धान्तः, ध्वनिसिद्धान्तः, वक्रोक्तिसिद्धान्तः, औचित्यसिद्धान्तश्च एतेषां विमर्शानां फलरूपेण विकसिताः। अत्र स्पष्टं दृश्यते यत् साहित्य-समीक्षणं नूतन-अनुसन्धानस्य आधारभूमिरूपेण कार्यं करोति।
आधुनिके शोधक्षेत्रे C. R. Kothari, Dipak Kumar Bhattacharyya-प्रभृतयः विद्वांसः साहित्य-समीक्षणं अनुसन्धानस्य आवश्यकाङ्गरूपेण स्वीकुर्वन्ति। तेषां मतानुसारं साहित्य-समीक्षणेन शोधार्थी विषयस्य पूर्वस्थितिं, अनुसन्धाने विद्यमानाः दोषान्, अवकाशान्, नवीन-अनुसन्धानस्य दिशाञ्च ज्ञातुं शक्नोति। एतदेव संस्कृत-परम्परायामपि “पूर्वपक्ष-उत्तरपक्ष-परम्परा” इति रूपेण दृश्यते।
प्रस्तुत-अध्ययनस्य सन्दर्भे विविधेषु ग्रन्थेषु निहितानां अनुसन्धान-सूत्राणां परिशीलनं कृतम्। वेदाः, उपनिषदः, वेदाङ्गानि, न्याय-वैशेषिक-दर्शनम्, आयुर्वेदः, व्याकरणम्, साहित्यशास्त्रं च अस्य अध्ययनस्य मूलस्रोतांसि सन्ति। एतेषां ग्रन्थानां अध्ययनात् ज्ञायते यत् प्राचीनभारतीयविद्वांसः अनुसन्धानस्य वैज्ञानिक-दृष्टिमवलम्ब्य कार्यं कृतवन्तः। आधुनिक-शोधप्रविधेः अनेकतत्त्वानि भारतीय-ज्ञानपरम्परायामेव पूर्वमेव विद्यमानानि आसन् इति साहित्य-समीक्षणेन स्पष्टं भवति।
अतः साहित्य-समीक्षणं केवलं पूर्वग्रन्थानां संक्षिप्तपरिचयः नास्ति, प्रत्युत् नूतन-अनुसन्धानस्य दिशानिर्देशकं बौद्धिकाधारं च वर्तते। संस्कृतवाङ्मये निहितानां अनुसन्धानतत्त्वानां सम्यगवलोकनं विना भारतीय-अनुसन्धानपरम्परायाः वास्तविकं स्वरूपं ज्ञातुं न शक्यते।
संशोधनं नाम किम् ?
संशोधनं नाम नूतनज्ञानस्य आविष्करणप्रक्रिया। तदेव शोधस्य प्रमुखं लक्ष्यं भवति, यद्यपि तत् कस्यचित् शोधार्थिनः रुच्यनुसारं परिवर्तते। शोधप्रविधिविषये चिन्तकानां तथा तद्विषयक-आलोचकानां मतानुसारम् अनुसन्धानस्य उद्देश्यं केनापि शोधार्थिना निश्चितरूपेण निर्धारयितुं न शक्यते, यतः एषा प्रवृत्तिः उत्कृष्टशिक्षाया विषयभेदात्, सीमाभेदात्, बुद्धिस्तरभेदात्, व्यवसायबाहुल्यात्, अध्यवसायप्रधानतायाश्च नानाधारां प्राप्य प्रवर्तते। तथापि केचन विषयाः शोधविषयप्रवर्तनायां शोधोद्देश्यनिर्धारणे अवश्यमेव चिन्तनीयाः भवन्ति। तस्मादत्र तस्मिन् विषये किञ्चिद् विचार्यते। शोधोद्देश्यं च शोधार्थिविशेषानुसारं भिद्यते। तस्य मानसिकसंस्कृतिरपि तत्र कारणं भवति। प्रायः “इतरेतरजन्मानः इतरेतरप्रकृतयः” इति न्यायेन जीवनलक्ष्यं शोधार्थिनः शोधकर्मप्रवृत्तिं च निश्चितं करोति। अतः विस्तीर्णे शोधसमुद्रे शोधोद्देश्यस्य नियमनम् अत्यन्तं कठिनं भवति। तथापि लोके प्रचलितोद्देश्यानां जनानां सर्वेक्षणमाधारेण विचारकाः शोधोद्देश्यानि निरूपयन्ति, येषामुपवर्णनम् अत्र क्रियते।
(१) नूतनवस्तूपलब्धिः
संसारे पाञ्चभौतिकाः पदार्थाः विद्यमानाः सन्ति। निखिलं जीवनं जीवानां तेषामेव आधारेण प्रवर्तते इति सत्यम्। तत्र चैतन्यं नाम एकं स्वतंत्रं सात्त्विकं तत्त्वं प्राणिनां मस्तिष्के नित्यं निवसति। अन्येन प्रकारेण वक्तुं शक्यते यत् तदेव तत्त्वं प्राणिनः जीवयति। तत्र द्वौ अंशौ भवतः इति मन्ये, एकः बाह्यवातावरणेन सम्बद्धः, अपरश्च आध्यात्मिकः, अलौकिकः, बाह्यवातावरणेन अस्पृष्टश्च। अतः उभयोरपि अंशयोः चिन्तनशक्तिः स्वाभाविकी भवति। एतस्मात् कारणात् भौतिकजीवनसम्बद्धं चैतन्यं भौतिकविज्ञानक्षेत्रे नित्यं विचरन् सहजतया तस्मिन्नेव विषये चिन्तयति, पदार्थानां वैविध्यहेतुं जिज्ञासते च। कदाचित् परमाणोः अप्यन्वेषणं प्राचीनैः ऋषिभिः आधुनिकवैज्ञानिकैश्च कृतम्, तत्फलमेव स्यात्। आधुनिकवैज्ञानिकसमयेऽपि अनुसन्धानस्य द्विविधा अवधारणा दृश्यते। प्रथमं वस्तुसंघटनायाः स्वरूपज्ञानं, तत्र स्थितानां परमाण्वादीनां पारस्परिकसम्बन्धज्ञानस्य विश्लेषणं च। द्वितीयं कस्यचित् पदार्थस्य अन्तिमभागस्य परिशीलनम्। अस्मिन् सन्दर्भे प्राचीना ऋषयः कणादयः आधुनिकवैज्ञानिकाश्च स्वस्वभाषायां नातिभिन्नं मतं प्रकटयन्ति। अपरश्च आध्यात्मिकप्रज्ञांशः प्रकृतेः अदृष्टं तत्त्वं ज्ञातुं सामाजिकान् धर्मसाधनादिना प्रेरयति। अत एव उपनिषदि उक्तम् “आत्मा वा अरे द्रष्टव्यः” इति। आधुनिकशोधप्रवृत्तावपि अनुसन्धानस्य उद्देश्यं सम्यक् शोधस्य माध्यमेन तदेव जीवति, केवलं भाषाभेदेन। आधुनिकविज्ञानक्षेत्रेऽपि कस्यचित् वस्तुनः प्रकृतिज्ञानाय लक्ष्यानुसारं तस्य अन्तर्भागस्य अध्ययनं परिशीलनञ्च विधीयते। “जीन्स”, “बैक्टीरिया”, “सेल्स” इत्यादयः पारिभाषिकशब्दाः आधुनिकविज्ञानक्षेत्रे अनुसन्धानस्य उपलब्धयः एव सन्ति। अनेन प्रकारेण प्रबन्धनस्य विविधेषु क्षेत्रेषु, कलाक्षेत्रेषु, सामाजिकक्षेत्रेषु च अनुसन्धानप्रवृत्तयः तत्तद्विषयकसमस्यानां मूलकारणमवगम्य समाधानाविष्करणमेव उद्दिशन्ति।
(२) ज्ञानविकासः
“सत्यं ज्ञानमनन्तं ब्रह्म” इति वाक्यं ज्ञानस्य शाश्वतरूपं ब्रह्मरूपञ्च स्पष्टतया प्रतिपादयति। एतत् सत्यस्य सम्बन्धं ज्ञानेन ब्रह्मणा च सूचयति। अत्र सत्यस्य विकासः ज्ञानरूपेण दृश्यते, तस्य पुनः ब्रह्मरूपत्वं प्रतिपाद्यते। अर्थात् ब्रह्मा सर्जनकौशलसम्पन्नः इति मन्यते। तथैव शोधकर्मणा प्राप्तं ज्ञानं नूतनवस्तुनः जनकं भवति, तदेव अनुसन्धानक्षेत्रे विकासः कथ्यते। उदाहरणतया कस्यचित् वस्तुनः स्वरूपज्ञानानन्तरं तद्गतक्रियाप्रतिक्रियाज्ञानद्वारा, समविषमावस्थोत्पादनेन च तस्य उपयोगः लोककल्याणाय क्रियते। एवं ज्ञातवस्तुनः नियतगुणधर्मज्ञानानन्तरं अन्योऽपि गुणः शोधार्थिनः प्रज्ञया प्रकाशितो भवति। तेन ज्ञानस्य विस्तारो भवति। अनयैव रीत्या ज्ञानविकासस्य सिद्धान्तः सिद्धो भवति, तदुद्दिश्यैव शोधार्थी शोधकर्मणि प्रवर्तते। अस्यैव धारणायाः आधारेण कस्यचित् नियतवस्तुनः गुणधर्मज्ञानं परस्य वस्तुनः गुणधर्मैः सह प्रयोगशालायां प्रतिक्रियाज्ञानार्थं संयोज्यते। उदाहरणतया निम्बपादपस्य सर्वरोगनिवारकत्वं प्रसिद्धम्। तस्य निम्बरसस्य अन्यपादपरसेन सह संयोगेन कः नूतनगुणः उत्पद्यते इति निम्बगुणधर्मज्ञानानन्तरमेव ज्ञायते। परस्य पादपस्य गुणधर्मज्ञानानन्तरं उभयोः रसयोः मिश्रणेन प्रतिक्रिया अवगम्यते। विज्ञानक्षेत्रीयम् एतदनुसन्धानं न केवलं तस्मिन्नेव क्षेत्रे प्रवर्तते, प्रत्युत तस्य सिद्धान्तः स्वल्पभेदेन अन्येष्वपि अनुसन्धानविषयेषु प्रयुज्यते। यथा काव्यशास्त्रीयानुसन्धाने कस्यचित् कवेः भावनापरिशीलनार्थं तेन प्रयुक्तपदवाक्यानां मनोवैज्ञानिकरीत्या अध्ययनं क्रियते। तदा शोधार्थिना तस्य मनोवैज्ञानिकस्वरूपं साध्यते। एवं प्रकारेण कस्यचित् वस्तुनः मौलिकतत्त्वावगमनाय कार्यकारणभावनापरिशीलनात्मकम् अध्ययनं विधीयते। अतः अत्र ज्ञानस्य परिवर्धनं विकासो वा शोधकर्मणः प्रमुखम् उद्देश्यं मन्यते।
शोधस्य उद्देश्येषु अन्यतमम् इदं उद्देश्यं विज्ञानविषयेषु क्रियमाणानां शोधकार्याणां कृते अत्यन्तमावश्यकं मन्यते। गणितप्रभृतिषु शास्त्रेषु प्रायः समस्या एव मुख्यविषयो भवति। तथैव सामाजिकविषयेषु तथा प्रबन्धनक्षेत्रस्य सर्वेषु विभागेषु समस्यासमाधानप्रधानैषा प्रवृत्तिः शोधकार्येषु विशेषं महत्वं वहति। उदाहरणार्थं वैश्विकोष्णतासमस्यायाः समाधानविषये विश्वे प्रवर्तमानानि शोधकार्याणि निर्देष्टुं शक्यन्ते। तत्र एका अवधारणा वर्तते यत् प्रकृतिः स्वयमेव सर्वासां समस्याणां नियमनं करोति। तत्र बहवः विचाराः प्रचलन्ति, यथा CO₂ नियमनविषये, यत्र आक्सीजनम्, मिथेनतत्त्वञ्च महत्त्वपूर्णं मन्यते। तथैव सामाजिकाः विविधाः समस्याः आधारीकृत्य प्रतिदिनं शोधकार्याणि प्रवर्तमानानि दृश्यन्ते। अनेनैव प्रकारेण जलप्रबन्धनम्, आपदाप्रबन्धनादिक्षेत्रेषु समस्यासमाधानमूलकमेव शोधकार्यं प्रवर्तते। भाषा-साहित्य-क्षेत्रेष्वपि भाषा, लिपि, शब्दप्रवृत्ति, साहित्यगतविविधतत्त्वानि च आधारीकृत्य यानि शोधकार्याणि अद्य दृष्टिपथं आगच्छन्ति, तत्रापि कारणकार्यअन्वेषणप्रवृत्त्या सह समस्यासमाधानस्य भावो दृश्यते। उदाहरणतया कस्यचित् वैदिकऋषेः वास्तविकजीवनवृत्तान्तवर्णनस्य समस्या गृह्यते, यतः तेषां जीवनवृत्तान्तविषये स्पष्टं साक्ष्यं न लभ्यते। तथैव कालिदास-शेक्सपीयरप्रभृतिप्राचीनकवीनां यथार्थजीवननिर्णयस्य समस्याऽपि शोधार्थिभिः अनुभूयते। अतः शोधस्य उद्देश्येषु समस्यासमाधानगवेषणा प्रमुखा मन्यते।
(३) यशःप्राप्तिः
यद्यपि साम्प्रतिके शैक्षणिकानुसन्धानवातावरणे तथा व्यावसायिकशिक्षणसंस्कृतौ यशःप्राप्तेः विशेषमहत्त्वं न दृश्यते, तथापि केचन अद्यापि यशःप्राप्त्यर्थं शोधकार्ये प्रेरिताः दृश्यन्ते। व्यावसायिकानुसन्धानं प्रायः अस्मादुद्देश्याद् भिन्नं भवति, किन्तु तत्रापि यशःप्राप्तिः भवत्येव। अस्य संकेतः आचार्य-मम्मटेन प्रदत्तः। यद्यपि काव्यप्रयोजनं शोधप्रयोजनं न भवति, तथापि कवित्वे या अन्वेषणात्मिका दृष्टिः नित्यनूतनचमत्कारसर्जनाय प्रवर्तते, सा आधुनिकशोधोद्देश्यमपि सूचयति। कस्य शब्दस्य प्रयोगेण विशिष्टा ध्वन्यनुभूतिः भविष्यतीति भट्टनारायण-विशाखदत्तादीनां नाटककाराणां गवेषणदृष्टिरेव आसीत्, येन तेषां यशः अद्यापि पाठकानां हृदये विद्यमानम्। अत्र नूतनावधारणा एव यशसः मूलकारणं भवति। बहूनि साहित्यतत्त्वानि अध्ययनं कृत्वा यदा कश्चित् नवीनां धारां प्रवर्तयति, तदा सा नूतनावधारणा इति कथ्यते, या पुनः चमत्कारप्रधानापि भवति। अत एव “कापरा-महोदयेन” उक्तम् यत् सूचनासंग्रहः विचारप्रवर्तनाय आवश्यकः, परन्तु वास्तविकरूपेण मानवबुद्धिः विचारविश्लेषणप्रधानैव भवति। अयं भावः अत्र पूर्णतया संगच्छते। अर्थात् पुनः पुनः ग्रन्थाध्ययनेन तद्गतसूचनानां परिशीलनं शोधार्थिनः हृदये स्पष्टतया विकसितं भवति। ततः स्वतंत्रविचारः मूर्तरूपं धारयति। तदाधारेण शोधार्थिनः यशः प्रसृतं भवति। अतः आचार्यमम्मटस्य या काव्यपरिभाषा वर्तते, सा यदि शोधप्रविधिदृष्ट्या विश्लेष्यते, तर्हि शोधोद्देश्यं पूर्णतया सफलं भवति। अनेनैव प्रकारेण स्थायिभावस्य अनुसन्धानम् अस्माकं शास्त्रज्ञानस्य परमं तत्त्वं मन्यते। यस्य भावस्य अवगमनेन साहित्ये कृतमनुसन्धानं मानवमूल्यवैविध्यं प्रकाशयित्वा शोधार्थिनं यशस्विनं करोति। तस्मात् विशेषतः साहित्यकला-सन्दर्भे मानवभावना, मानवजीवनमूल्यञ्च आधारीकृत्य प्रवर्तमानम् अनुसन्धानं यशःप्राप्तेः साधनं भवतीति मम मतम्।
(४) उपाध्युपलब्धये अनुसन्धानम्
अद्यत्वे अस्य उद्देश्यस्य प्राधान्यं विभिन्नेषु विश्वविद्यालयेषु शोधकार्यरतछात्रेषु विशेषतया दृश्यते। नित्यं नूतननियमपरिवर्तन-परिवर्धनप्रसङ्गात् एष उद्देश्यः शोधकर्मप्रवृत्तौ मुख्यताम् अनुभवति। विश्वविद्यालयीयशिक्षणनिमित्तम् एषा उपाधिः अनुसन्धानस्य आवश्यकाङ्गं भवति। विश्वविद्यालय-अनुदान-आयोगस्य नियमेषु अनुसन्धानकार्यस्य प्राबल्यात् व्याख्यातृपदे नियुक्तये एम्.फिल्-स्तरे सम्पादितलघुशोधप्रबन्धस्य तथा पीएच.डी. उपाधेः आवश्यकता स्वीक्रियते। इदानीं व्याख्यातृपदस्य नाम “सहायकाचार्यपदम्” (Assistant Professor) इति जातम्। तत्र नेट्, जे.आर.एफ्., स्लेट् इत्यादिपरीक्षोत्तीर्णता अपि वैकल्पिकरूपेण स्वीकृता अस्ति। तथापि विश्वविद्यालयीयशिक्षणप्रक्रियायां तथा तत्सम्बद्धमहाविद्यालयेषु अनुसन्धानकार्यस्य आवश्यकत्वात् विशेषतः पीएच.डी. उपाधेः महत्त्वं वर्धितम्। पूर्वं स्नातकोत्तरकक्षोत्तीर्णानन्तरं साक्षात्कारमाध्यमेन योग्यतामूल्यांकनं कृत्वा अध्यापकनियुक्तिः भवति स्म। परन्तु जनसंख्यावृद्ध्या, प्रतिस्पर्धावृद्ध्या, राष्ट्रियशिक्षणसंस्कृतौ गुणवत्तारक्षणदृष्ट्या च विश्वविद्यालय-अनुदान-आयोगेन योग्यतामानदण्डेषु समये समये परिवर्तनं कृत्वा शोधकार्यस्य प्रोत्साहनार्थं छात्रवृत्त्यादिसुविधाः प्रदत्ताः। तेन शोधकार्यप्रवृत्तिः अधिका अभवत्, शोधोपाधिश्च अध्यापकनियुक्त्यर्थं मानकीकृता जाता। यदा तत्रापि गुणात्मकसंशोधने सन्देहः उत्पन्नः, तदा राष्ट्रस्तरीययोग्यतापरीक्षा अध्यापनकार्ये इच्छुकानां कृते निर्धारिताऽभवत्। तथापि सर्वास्ववस्थासु शोधस्य महत्त्वं कदापि न्यूनं नाभवत्, विशेषतः विश्वस्तरीयविश्वविद्यालयानां अनुसन्धानप्रतिस्पर्धायाम्। अतः अद्य शोधस्य प्रमुखमुद्देश्यं जीवनवृत्त्युपलब्धिः तथा विश्वविद्यालयेषु अध्यापनव्यवसायस्य प्राप्तिरिति मन्यते।
(५) राष्ट्रियगौरवाय :-
कस्यापि राष्ट्रस्य बौद्धिकसम्पदा (Intellectual Property), समृद्धिः एवं विकासः (Prosperity and Development), सुरक्षा तथा शान्तिः (Protection and Peace) इमे सर्वे तस्य गौरवस्य आधाराः भवन्ति। विशेषतः भारतस्य विश्वपटलस्य उपरि प्रकाशमानत्वस्य मूलकारणं अस्य राष्ट्रस्य ऋषीणां बौद्धिकसम्पदैव अस्ति, या वेदेषु, पुराणेषु, ज्योतिषे, आयुर्वेदे तथा विविधवैज्ञानिकशास्त्रेषु निहिता दृश्यते। अत्र विशेषतया ज्ञातव्यं यत् अस्माकं ऋषयः कालदर्शिनः आसन्, किन्तु प्रतिशोध-प्रतिक्रियादिदोषेभ्यः रहिताः। केचन तान् आधुनिकभाषायां “वैज्ञानिकाः” इति कथयन्ति, किन्तु वैज्ञानिकशब्दः तेषां महत्त्वं सम्पूर्णतया न बोधयति इति मन्ये। यतः आधुनिकवैज्ञानिकाः मुख्यतया क्रिया-प्रतिक्रियामूलकविचारेषु पदार्थविश्लेषणे च प्रवृत्ताः भवन्ति, परन्तु अस्माकं ऋषयः दृश्य-अदृश्य-वस्तूनां ज्ञातारः, रचनाविकाससिद्धान्तेषु निपुणाश्च आसन्। एतदेव कारणं यत् ते मानवानां भौतिकजीवनं दैवीजीवनरूपेण परिवर्त्य ततोऽपि उच्चतरविकासमार्गे प्रेरयितुं समर्थाः आसन्। अस्य संकेताः कतिपयेषु आधुनिकवैज्ञानिकानां ग्रन्थेषु विचारेषु च अद्यापि दृश्यन्ते।
अतः राष्ट्रियबौद्धिकसम्पदः विकासायापि अनेकाः शोधार्थिनः अनुसन्धानकार्येषु प्रवर्तन्ते। उदाहरणार्थं “पृथिवी”, “आकाश” इत्यादीनां नाम्नां मिसाइलविकासे प्रयोगः भारतस्य सांस्कृतिकवैज्ञानिकदृष्टेः प्रदर्शनार्थं क्रियते। प्राचीनर्षीणां भौतिकविज्ञानदृष्ट्या सह आध्यात्मिकदृष्टिरपि आसीत्। तेषां मते पृथिवी सर्वं धारयति, नियच्छति च। अतः आर्यावर्तभूमेः रक्षणार्थं आधुनिकवैज्ञानिकाः अपि भारतीयनामयुक्तास्त्राणां विकासेन राष्ट्रबलं प्रदर्शयन्ति। तथैव जीवनप्रबन्धनक्षेत्रे, सामाजिकक्षेत्रे च प्रवर्तमानानामनुसन्धानानां उद्देश्यं राष्ट्रगौरववर्धनमेव भवति। एषा प्रवृत्तिः राष्ट्रधर्मेण सम्बद्धा दृश्यते, यस्य संकेतः वेदेषु राष्ट्रसूक्तमन्त्रेषु अपि लभ्यते। समाजप्रबन्धनक्षेत्रे, अर्थप्रबन्धने, ज्ञानप्रबन्धनादिक्षेत्रेषु च अनुसन्धानप्रवृत्तेः महत्त्वं स्पष्टं दृश्यते।
A. P. J. Abdul Kalam महोदयेन स्वकीयग्रन्थे Ignited Minds “Learning from Saints and Seers” इति प्रकरणं लिखितम्। अनेन स्पष्टं भवति यत् अनुसन्धानस्य उद्देश्यं केवलं ज्ञानलाभः न, अपितु राष्ट्राभिवृद्धिः तथा राष्ट्रगौरवस्थापनमपि अस्ति। एतत्कारणात् अनेकाः शोधार्थिनः भारते विविधेषु शोधकर्मसु संलग्नाः दृश्यन्ते। तथैव राष्ट्रसमृद्धिमपि लक्ष्यीकृत्य अस्माकं देशे कृषिवैज्ञानिकाः अत्यन्तं समर्पणेन शोधकार्येषु प्रवृत्ताः सन्ति, येन राष्ट्रस्य गौरवं निरन्तरं वर्धते।
(६) व्यष्टि-समष्टि-दर्शनम् :-
आधुनिकानुसन्धानस्य उद्देश्येषु व्यष्टेः समष्ट्या सह सम्बन्धस्थापनं, तस्य परीक्षणं, तदनुसारं परिकल्पनायाः (Hypothesis) प्रमाणीकरणं, सिद्धान्तनिर्माणं, सिद्धान्तस्य प्रयोगफलप्राप्तिश्च प्रमुखतया गण्यते। अस्मिन् सन्दर्भे Sri Aurobindo, Swami Vivekananda तथा पाश्चात्यचिन्तकेषु James Lovelock, Fritjof Capra प्रभृतयः विशेषतया पठनीयाः सन्ति। तेषां विचाराः वेदेषु नासदीयसूक्तस्य सृष्टिविचारे, सांख्यदर्शने प्रकृतिविकृतिविश्लेषणे, वेदान्ते मायाब्रह्मस्वरूपनिरूपणे, जीव-ब्रह्मणोः सम्बन्धचिन्तने च अत्यन्तमुपयोगिनः भवन्ति।
अत्र शोधार्थिनः कृते महानवसरः अस्ति, यत्र पारलौकिकवस्तु लौकिकवस्तुना सह तुलनीयम् भवति। प्रकृतिः भौतिकपदार्थेषु अनुभूयते, तथा सामाजिकसंरचनायाः दृष्ट्या भूमण्डलीकरणस्य सकारात्मकफलदृष्ट्या प्रत्येकस्य वस्तुनः, देशस्य, समाजस्य, मनुष्यस्य, पर्यावरणस्य च योगदानं स्वीकृतं भवति। एतदेव अन्तर्निहितं तत्त्वं मानवकल्याणदृष्ट्या विश्वस्तरीयसंगठनानां कार्येषु दृश्यते। विश्वमानवसमूहस्य समस्यासमाधानार्थं विविधाः वैश्विकसंस्थाः निरन्तरं कार्याणि कुर्वन्ति। अनेन प्रकारेण शोधोद्देश्येषु एतदपि एकं महत्त्वपूर्णम् उद्देश्यं मन्यते।
शोधाय सामान्यावधानता :-
अद्य शोधप्रविधिक्षेत्रे विविधाः प्रवृत्तयः दृश्यन्ते। आधुनिकशोधप्रसङ्गे प्रायः आधुनिकज्ञानविज्ञानयोः सम्बन्धिन्यः शोधप्रविधयः अधिकं प्रचलिताः सन्ति। उदाहरणतया सामाजिकशोधप्रविधिः, प्रबन्धनशोधप्रविधिः इत्यादयः। उत्पादनाभिमुखी शोधप्रविधिः आर्थिकक्षेत्रे तथा औद्योगिकसंस्थासु विशेषं महत्त्वं प्राप्नोति। तत्र “Research Cell” इति संस्थाः अपि कार्यरताः दृश्यन्ते। औद्योगिकसंस्थासु HR विभागस्य सम्बन्धः विशेषरूपेण अनुसन्धानप्रवृत्त्या सह भवति। अतः आवश्यकतामवलोक्य अनेकाः शोधप्रविधिग्रन्थाः अधुना आपणेषु उपलब्धाः भवन्ति। किन्तु वास्तवतः शोधकार्यस्य सीमा निश्चितुं न शक्यते। स्वसौविध्यानुसारं विशेषशोधप्रविधीनिर्माणं तु पृथग्विषयः।
उपर्युक्तविषयकशोधप्रविधीनां परिशीलनात्मकाध्ययनेन केचन सामान्यगुणाः दृश्यन्ते, अन्ये तु विशेषविषयसंबद्धाः भवन्ति। विशेषतः संस्कृतभाषा-साहित्यानुसन्धानक्षेत्रे शोधप्रविधिग्रन्थानां न्यूनता अनुभवते। कराङ्गुलिपरिमिताः एव ग्रन्थाः अद्यापि संस्कृताध्ययनक्षेत्रे उपलब्धाः। तथापि ये शोधप्रविधिलेखकाः सामान्यशोधावधारणां प्रकाशयन्ति, ते अस्मान् मार्गदर्शनं कुर्वन्ति इति मन्तव्यम्। संस्कृतभाषा-साहित्य-शोधप्रविधेः लेखने संकोचः भवतु नाम, परन्तु अत्र विचारणीयं यत् शोधकार्यस्य सामान्ययोग्यता का इति। अस्यैव प्रकरणस्य अयं मुख्याभिनिवेशः।
(अ) शोधस्य सामान्याः योग्यताः :-
शोधकार्यं कस्यचित् नूतनपदार्थस्य अन्वेषणं भवतीति सिद्धम्। तस्मात् नूतनतत्त्वप्राप्तये शोधार्थिना सुनिश्चितकार्यक्रमेण अग्रे गन्तव्यं भवति। सुनिश्चितकार्यक्रमनिर्धारणे सर्वप्रथमम् इच्छाशक्तेः दृढता आवश्यकाऽस्ति। यद्यपि एषा विधिः तकनीकीदृष्ट्या प्रत्यक्षतया न प्रयुज्यते, तथापि सा अनपेक्षणीया न भवति। इच्छाशक्तिः तदैव उत्पद्यते, यदा शोधार्थिनः अन्तः वैषयिकज्ञानं सुदृढं भवति। ज्ञानजन्या नूतनतत्त्वान्वेषणेच्छा उत्पद्यते, ततः क्रियात्मकप्रवृत्तिः आरभ्यते। शोधार्थिनः एषा प्रवृत्तिः एव तस्य व्यापारः, यत् अन्ते अभिष्टफलप्राप्तिं जनयति। एषैव अनुसन्धानविधिसम्बद्धा शास्त्रीयपद्धतिः अस्ति।
कदाचित् केवलम् उत्साहः अथवा परानुकरणजनिता प्रेरणा शोधकर्मणि प्रवर्तयति, किन्तु तस्मात् विरामः श्रेयस्करः। प्राचीनज्ञानविज्ञानक्षेत्रेभ्यः आरभ्य आधुनिकज्ञानविज्ञानपर्यन्तं सर्वत्र एषा जिज्ञासामूलका प्रवृत्तिः दृश्यते। अस्मादेव कारणात् गभीरशास्त्रधारासु “अथातो धर्मजिज्ञासा”, “अथातो ब्रह्मजिज्ञासा” इत्यादयः सूत्ररूपेण प्रादुर्भूताः। आधुनिकचिकित्साक्षेत्रे, आभियान्त्रिकीक्षेत्रे, भौतिकशास्त्रादिक्षेत्रेषु अपि सर्वकारप्रेरितशिक्षणनीतिषु सति सर्वे शिक्षितयुवानः उच्चशोधकर्मसु प्रवर्तन्ते इति न दृश्यते। अन्यान्यपि सामाजिक-आर्थिक-कारणानि भवन्ति, तथापि मुख्यं कारणं तु इच्छाशक्तेः अभाव एव इति मन्यते।
दृढसंकल्पः
ज्ञाने प्राप्तेऽपि सर्वेषां जनानां नूतनवस्त्वन्वेषणे इच्छा जायते इति न कश्चित् सामान्यः नियमः शोधव्यापारे। अत्र Bhagavad Gita मध्ये भगवता उक्तं वचनम् “कश्चिन्मां वेत्ति तत्त्वतः” इति प्रमाणरूपेण ग्राह्यम्। अत्र आध्यात्मिकतत्त्वानुसन्धानस्य गूढविधिः स्पष्टतया दृश्यते। अतः केवलमिच्छायाः उपस्थितौ अपि यदि शिवसंकल्पः न भवति, तर्हि शोधे प्रवृत्तिः न उत्पद्यते। एतस्मात् कारणात् सर्वेषु शोधविषयेषु एषः सामान्यः नियमः स्वीक्रियते यत् शोधार्थी शिवसंकल्पवान्, दृढसंकल्पवान् च भवेत्।
यदा शोधार्थिनः अन्तः दृढसंकल्पना भवति, तदा तस्य प्रयत्नः प्रभावशाली भवति। संकल्पशक्त्याः प्रभावेण एव अस्माकं प्राचीना ऋषयः वेदान्तदर्शनाध्ययनयोगाभ्यासेन ब्रह्मप्राप्तिमार्गं ज्ञातवन्तः। तथैव अन्यानि दर्शनानि अपि ऋषीणां शुभसंकल्पेन दृढनिश्चयेन च सफलानि जातानि। वैदिकऋषीणां समुदायेषु भरद्वाजादयः ऋषयः, गार्ग्यादयः ऋषिकाश्च जगतः मूलकारणान्वेषणे सफलाः अभवन्। आधुनिकसमाजेऽपि अनेकाः भारतीयवैज्ञानिकाः अन्तरिक्षविज्ञानक्षेत्रे दृढसंकल्पकारणात् एव स्वलक्ष्ये सफलाः भवन्ति।
अस्मिन् सन्दर्भे Kalpana Chawla इत्यस्याः नामस्मरणं गौरवावहम्। सा दृढसंकल्पबलात् मृत्युभयं न स्वीकृतवती, प्रत्युत स्वलक्ष्यप्राप्त्यर्थं सम्पूर्णजीवनं समर्पितवती।
ताटस्थ्यवृत्तिः
अनुसन्धानकार्ये रतस्य शोधार्थिनः योग्यतासु ताटस्थ्यवृत्तिः अपि अत्यावश्यकी मन्यते। नीरक्षीरविवेकयुक्तस्य शोधार्थिनः अनुसन्धानमेव लोके महत्त्वं धारयति। अस्मिन् सन्दर्भे देश-काल-परिस्थित्यानुकूलं ताटस्थ्यं शोधार्थिना अवलम्बनीयम्। यस्याः ताटस्थ्यवृत्तेः कारणेन समाजे शुभभावना, शान्तिः, सौहार्दं च वर्धते, सा एव प्रशंसनीया मन्यते। विशेषतः सामाजिकशास्त्रसम्बद्धेषु विषयेषु एष नियमः पालनार्थं महत्त्वपूर्णः।
कदाचित् ऐतिहासिकानुसन्धानक्षेत्रे एषा वृत्तिः सम्यक् न पाल्यते इति चिन्तनीयम्। ताटस्थ्यपूर्णानुसन्धाने एतदपि विचारणीयं यत् यादृच्छिकवर्णनं ताटस्थ्यं न भवति। अद्यतनशोधप्रबन्धलेखने तस्य ह्रासः दृश्यते। “मम शोधप्रबन्धे नूतना दृष्टिः वर्तते” इति केवलं व्यक्तिगतवर्णनशैल्या यदि कथ्यते, तर्हि तत् शोधदौर्बल्यस्य आवरणमेव भवति।
उदाहरणतया यदि कश्चित् शोधार्थी साहित्यध्वनिविश्लेषणप्रसङ्गे कथयेत् यत् नूपुरध्वन्यभावात् अत्र ध्वनिः नास्ति, तथा च प्राचीनटीकाकारः तद्विपरीतं मतं प्रतिपादयेत्, तदा शोधार्थिना केवलं “एषा मम नूतना दृष्टिः” इति कथनं पर्याप्तं न भवति। एषा वृत्तिः स्वच्छन्दतामात्रं जनयति। शोधार्थिना न्यायाधीशवत् निष्पक्षभावेन शोधप्रबन्धलेखनं करणीयम्।
शोधकार्यं न केवलं व्यक्तिविशेषस्य कृते भवति, प्रत्युत समाजस्य बौद्धिकसम्पद्रूपेण भवति, यस्मात् अग्रे बौद्धिकविकासधारा प्रवहति। अतः शोधविषयकसमस्यासमाधाने मर्यादितं ताटस्थ्यव्यवहारं शोधार्थिना आचरितव्यम्।
सकारात्मिका दृष्टिः
शोधकर्मणि बहवः अवरोधाः तथा समस्याः आगच्छन्ति। Natyashastra मध्ये यथा नाटकस्य कथानके आरोह-अवरोहस्थितिः दृश्यते, तथैव शोधार्थिनः जीवनमार्गेऽपि उत्थान-पतनरूपा अवस्था भवति। कदाचित् शोधार्थी मन्यते यदयं विषयः अत्यन्तं सरलः, अतः अल्पकालेन साध्यः। तदा गभीरचिन्तनस्य अवसरः नश्यति। पुनः कदाचित् स एव विषयः अत्यन्तं दुरूहः इति मनसि जायते, तेन नैराश्यं, फलविषये शंका च उत्पद्यते। एष एव नकारात्मकमनोवृत्तेः प्रारम्भः।
शोधार्थिना यथाशक्ति एतस्मात् आत्मानं रक्षितव्यम्। नकारात्मकभावना शोधकार्यस्य प्रगतेः अवरोधकत्वेन तिष्ठति। सकारात्मिका दृष्टिः इच्छाशक्तेः, विश्वासस्य, स्वस्थमानसिकस्थितेः, एकाग्रचित्तवृत्तेः च फलरूपा भवति। अद्यतनानुसन्धानक्षेत्रे एतस्याः स्पष्टमहत्त्वं न दृश्यते, किन्तु संस्कृतशास्त्रीयग्रन्थानां परिशीलनेन एतत् स्पष्टं भवति यत् अनुसन्धानकर्मणि सकारात्मिकदृष्टेः अत्यन्तम् आवश्यकता अस्ति।
उदाहरणतया Nachiketa, Prahlada, Hanuman इत्येषां व्यक्तित्वानि ग्रहीतुं शक्यन्ते। सकारात्मिकदृष्टेः प्रभावेण एव हनुमान् सञ्जीवनीवनस्पतिम् आनयत्। नचिकेताः मृत्युलोकं गत्वा यमेन सह संवादं कृत्वा मृत्युतत्त्वस्य रहस्यं ज्ञातवान्। प्रह्लादः अपि सकारात्मकभक्तिशक्त्या अग्निदाहशक्तिं जयितवान्।
याज्ञवल्क्यः अपि उक्तवान् —
“वेदार्थपुराणानि सेतिहासानि शक्तितः ।
जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥”
मीमांसादर्शने एषा सकारात्मिका भावना “भावना” इति रूपेण निरूपिता। एषा भावना यजमानस्य प्रवृत्तिं सुदृढां करोति। Kanada परमाणुवादे, Albert Einstein तथा A. P. J. Abdul Kalam स्वस्वशोधकार्येषु दृढसकारात्मकदृष्ट्या एव सफलतां प्राप्तवन्तः।
विषयाभिरुचिः
अनुसन्धानस्य मुख्यविषये शोधार्थिनः अभिरुचिः अत्यन्तं महत्त्वपूर्णा भवति। अधीतशास्त्रसम्बद्धविषयस्य चयनमेव शोधार्थिनः कृते शोधकर्मणि सफलता जनयति। अधुना बहवः छात्राः केवलं मार्गदर्शकहस्तक्रीडनकत्वेन शोधकर्म इच्छन्ति, किन्तु एषा वृत्तिः श्रेयस्करी न भवति। शोधकार्यं मूलतः शोधार्थिनैव सम्पादनीयम्। तस्य यशः अपयशश्च मुख्यतया शोधार्थिनः एव भवति। मार्गदर्शकः तु केवलं पथप्रदर्शकः भवति, यथा सूर्यः चन्द्रश्च मार्गं प्रकाशयतः, किन्तु गन्तव्यदिशं न निर्दिशतः।
दुरूहविषये आवश्यकतायां मार्गदर्शकः पृष्टव्यः, किन्तु विषयगताभिरुचिवान् शोधार्थी एव अनुसन्धानकार्ये यथार्थतया प्रवर्तितुं शक्नोति। उर्वराशक्तिहीनायां भूमौ यथा बीजाङ्कुरणं न भवति, तथैव अभिरुचिविहीने शोधार्थिनि सम्यक् अनुसन्धानोत्साहः न जायते।
अधुना University Grants Commission द्वारा शोधप्रवेशपरीक्षायाः विधानं कृत्वा अनावश्यकछात्रसम्मर्दः किञ्चित् न्यूनीकृतः। तथापि विषयाभिरुचिः स्वनिर्णयप्रसूता भवतीति निश्चितं वक्तुं कठिनम्। व्यवसायप्रधानदृष्टिः अनेकानां शोधार्थिनां अध्यवसायात्मिकभावनां तथा उच्चानुसन्धानाभिरुचिं ह्रासयति। केवलं जीवनवृत्त्यर्थं कृतम् अनुसन्धानं शोधस्य अपेक्षितं स्तरं स्थिरं कर्तुं न शक्नोति।
शास्त्रेषु ज्ञानशक्तिः, इच्छाशक्तिः, क्रियाशक्तिश्च क्रमशः वर्णिताः। एतासां संयुक्तचेष्टया विशिष्टज्ञानस्य प्राप्तिः भवति। उपर्युक्ताः सर्वे गुणाः शोधकर्मणि आवश्यकाः। अत एव वेदार्थग्रहणप्रसङ्गे नानाभिरुचयः मानवेषु दृश्यन्ते। केचन वैदिकसाहित्ये अध्यात्ममेव पश्यन्ति, यथा Sri Aurobindo प्रभृतयः, अन्ये तु यज्ञप्रधानदृष्ट्या वेदान् व्याख्यायन्ति। अतः अनुसन्धानक्षेत्रे विषयाभिरुचिः अनिवार्या एव।
न कामेन पुनर्मघो भवामि सं चक्षेकं पृश्निमेतामुवाजे ।
केन तु त्वमथर्वन् काव्येन केन जातेनासि जातवेदाः ।।
अथर्ववेदः ५/११/२
अस्य मन्त्रस्य “न कामेन पुनर्मघो भवामि” इति भागः सूचयति यत् केवलमिच्छा प्रयासस्य सफलतायै पर्याप्ता न भवति। तत्र विषयविशेषे अभिरुचिरपि अनिवार्या भवति। अभिरुचेः कारणेन उत्साहः जायते, स एव मानवस्य मानसिकशक्तिं वर्धयति। केवलः कामः अथवा सामान्येच्छा आलस्ययुक्तस्य जनस्यापि भवितुं शक्नोति, किन्तु अभिरुचिः तं कर्मणि प्रवर्तयति। आधुनिकशोधप्रविधौ अपि एषः भावः अत्यन्तं महत्त्वपूर्णः मन्यते। शोधार्थिना केवलं शोधेच्छया न भवितव्यं, अपि तु अनुसन्धानविषये गाढाभिरुचिरपि अपेक्षिता।
एतदेव यास्काचार्येणोक्तम् यत् साक्षात्कृतधर्माणः ऋषयः अन्येभ्यः मन्त्रान् उपदिष्टवन्तः। “बिल्मग्रहणाय” इत्युक्त्या शोधनीयतत्त्वस्य ग्रहणमेव सूचितं भवति। अस्य भावः अयं यत् प्रियविषये अन्तर्निहिततत्त्वस्य अन्वेषणार्थं निरन्तरप्रयत्नः आवश्यकः। पाणिनीयसूत्रम् “रुच्यर्थानां प्रियमाणः” (१/४/३३) इति यद्यपि व्याकरणदृष्ट्या चतुर्थीविधानं प्रतिपादयति, तथापि मीमांसकदृष्ट्या तत्र प्रयोजनबुद्धिः, उत्साहः, विषयाभिमुखता च प्रकाश्यते। “अन्यकर्तृकोऽभिलाषो रुचिः” इति व्याख्यानेन शोधविषयं प्रति विशेषाभिरुचिः द्योत्यते। अतः अनुसन्धानस्य प्रसङ्गे एतदर्थं ग्राह्यम् यत् विषयाभिलाषपूर्वकं यत् नूतनतत्त्वं लोकहिताय प्रस्तूयते तत् समाजस्य कल्याणाय भवति।
एवं शास्त्रविशेषे प्रीतिरेव जनं अनुसन्धानकर्मणि प्रेरयति। एतदतिरिक्तमपि अनेकानि तत्त्वानि सम्यगनुसन्धानस्य सामान्यावधानतारूपेण स्वीकर्तुं शक्यन्ते, यथा वेदे उक्तम् –
मनसे चेतसे धिय आकूतय उत चित्तये ।
मत्यै श्रुताय चक्षसे विधेम हविषा वयम् ।।
तथैव –
ब्रह्मचारी ब्रह्मभ्राजद् बिभर्ति तस्मिन् देवा अधि विश्वे समोताः ।
प्राणापानौ जनयन्नादव्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ।।
अत्र स्पष्टं दृश्यते यत् वैदिकज्ञानम्, वाक्शुद्धिः, मानसिकबलम्, प्रज्ञा च शोधविषये अभिरुचिं जनयन्ति। तस्य फलस्वरूपं मनुष्यः उत्साहपूर्वकं अनुसन्धानकार्ये प्रवर्तते।
कल्पनाशक्तिः सकारात्मकस्वप्नं च
कस्यचित् वस्तुनः मूलस्वरूपज्ञानाय केवलं बाह्यदर्शनं न पर्याप्तं भवति। तत्र कल्पनाशक्तेः अपि विशेषः अंशः भवति। न्यायशास्त्रे, सांख्यशास्त्रे च एषः अनुमानरूपेण स्वीकृतः। अनुसन्धानप्रक्रियायां कार्यकारणसम्बन्धज्ञानं, वस्तुनः सूक्ष्मस्वरूपावगमनं च कल्पनाशक्त्याधारितमेव भवति। अतः आधुनिकशोधप्रविधौ सकारात्मककल्पना तथा सत्स्वप्नस्य अत्यधिकं महत्त्वं स्वीक्रियते।
भारतस्य पूर्वराष्ट्रपतिः A. P. J. Abdul Kalam स्वकीयग्रन्थे Ignited Minds स्वप्नस्य प्रेरणात्मकमहत्त्वं प्रतिपादयन् लिखति –
“Dream, Dream, Dream,
Dreams transform into thoughts
And thoughts result in action.”
अस्य भावः अयं यत् कल्पनाशक्तिः चिन्तनं जनयति, चिन्तनं कर्मणि परिणमति। संस्कृतभाषासाहित्ययोः क्षेत्रे अपि कल्पनैव काव्यसृष्टेः मूलशक्तिरेव आसीत्। भारतीयदर्शनपरम्परायामुपनिषदां ब्रह्मजगत्सम्बद्धचिन्तनधाराः ऋषीणां गम्भीरकल्पनाशक्तेः फलरूपेण विकसिताः। तदनन्तरं विविधाः आध्यात्मिकदर्शनधाराः अपि तस्याः प्रेरणया प्रवृत्ताः। अतः सिध्यति यत् रचनात्मककल्पना शोधार्थिनं स्वलक्ष्यप्राप्तौ सहायं करोति।
संस्कृतसाहित्ये अनुसन्धानसूत्राणि
संस्कृतभाषा स्वयमेव अद्भुतमनुसन्धानफलमिति वक्तुं शक्यते। तस्याः मूलं आर्षप्रज्ञायामस्ति। प्रारम्भे वैदिकभाषारूपेण तस्याः प्रकाशः अभवत्, पश्चात् लौकिकसंस्कृतभाषासाहित्यारूपेण सा विकसिताभूत्। ऋतम्भराप्रज्ञारूपिणी आर्षीप्रज्ञा ज्ञाताज्ञातवस्तूनां परिशीलनाय आधारभूता बभूव।
ऋग्वेदस्य नासदीयसूक्तम्, पुरुषसूक्तम्, प्रजापतिसूक्तम्, अथर्ववेदस्य उच्छिष्टब्रह्मसूक्तं च मूलतत्त्वानुसन्धानस्य महानि उदाहरणानि सन्ति। उपनिषदः अपि ब्रह्मज्ञानद्वारा सर्वतत्त्वावगमनस्य मार्गं प्रतिपादयन्ति। “ब्रह्म सत्यं जगन्मिथ्या” इत्यादयः वेदान्तसिद्धान्ताः ऋषीणां गहनगवेषणस्य परिणामाः एव।
तथैव सांख्यस्य सत्कार्यवादः, बौद्धानां शून्यवादः, जैनानां स्याद्वादः इत्यादयः भारतीयबौद्धिकपरम्परायाः अनुसन्धानफलानि मन्यन्ते। यद्यपि “अनुसन्धानप्रविधि” इति आधुनिकशब्दः प्राचीनग्रन्थेषु न दृश्यते, तथापि तस्य मूलतत्त्वानि वेदपुराणधर्मशास्त्रादिषु सर्वत्र सन्ति।
अथर्ववेदे अपि उक्तम् –
बृहता मन उपह्वये मातरिश्वना प्राणापानौ ।
सूर्याच्चक्षुरन्तरिक्षाच्छोत्रं पृथिव्याः शरीरम् ।
सरस्वत्या वाचमुपह्वयामहे मनोयुजा ।।
अस्य मन्त्रस्य गूढार्थः अयं यत् मनः, बुद्धिः, वाणी, प्राणशक्तिः च एकाग्रतया संयोजनीयाः, येन अनुसन्धानकर्म सफलं भवेत्। शोधार्थिनः कृते एकाग्रचित्तता, धैर्यम्, प्रज्ञा, सत्यनिष्ठा च अत्यावश्यकानि भवन्ति।
अथर्ववेदे पुनरुक्तम् –
सत्यमहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः ।
न मे दासो नार्यो महित्वा व्रतं मीमाय यदहं धरिष्ये ।।
अत्र सत्यान्वेषणस्य महत्त्वं प्रतिपादितम्। यदा परिकल्पनायाः परीक्षणं प्रमाणैः सह सिद्धं भवति, तदा शोधार्थी दृढविश्वासेन स्वमतं स्थापयति। अतः अनुसन्धानस्य अन्तिमलक्ष्यं सत्यस्य अन्वेषणमेव इति वैदिकदृष्ट्या स्पष्टं भवति।
उपर्युक्त-विस्तृत-विवेचनात् स्पष्टतया ज्ञायते यत् भारतीयपरम्परायां अनुसन्धानं केवलं शैक्षणिक-प्रक्रिया नास्ति, अपितु ज्ञानस्य, सत्यस्य, मानवकल्याणस्य च समन्वित-साधना अस्ति। वैदिक-साहित्ये, उपनिषत्सु, वेदाङ्गेषु, दर्शनशास्त्रेषु च अनुसन्धानस्य मूलतत्त्वानि अत्यन्तं सूक्ष्मरूपेण प्रतिपादितानि दृश्यन्ते। शोधस्य प्रयोजनं न केवलं नूतन-वस्तूनामाविष्कारः, किन्तु सत्यान्वेषणम्, राष्ट्रगौरववर्धनम्, समाजोपकारः, मानवमूल्यसंरक्षणं, आत्मविकासश्च इति बहुविधं भवति।
अत्र दृढसंकल्पः, ताटस्थ्यवृत्तिः, सकारात्मिका-दृष्टिः, विषयाभिरुचिः, कल्पनाशक्तिः, स्वप्नदर्शनं, आध्यात्मिक-प्रज्ञा, तार्किकता, प्रामाणिकता च अनुसन्धानस्य प्रमुखाधारतया निरूपिताः सन्ति। ऋषयः न केवलं दार्शनिकाः आसन्, अपितु महान् अनुसन्धानकर्तारः अपि आसन्, ये अन्तःप्रज्ञया, योगबलena, तर्कशक्त्या, अनुभवेन च विश्वस्य गूढतत्त्वानामन्वेषणं कृतवन्तः। वेदेषु “सत्यं”, “प्रज्ञा”, “मनोनिग्रहः”, “धैर्यम्”, “एकाग्रता” इत्यादीनि अनुसन्धानस्य अनिवार्यतत्त्वानि मन्यन्ते।
विशेषतया संस्कृत-साहित्ये अनुसन्धानस्य स्वरूपं बहुविस्तृतं दृश्यते। व्याकरणे पाणिनीय-अष्टाध्यायी, निरुक्ते यास्कस्य निर्वचनपद्धतिः, छन्दःशास्त्रे पिङ्गलाचार्यस्य गणनापद्धतिः, ज्योतिषे कालगणना, वास्तुशास्त्रे भूमिशोधनविज्ञानम्, वेदान्ते ब्रह्मतत्त्वानुसन्धानम्, सांख्ये प्रकृतिविकृतिविवेचनम्, बौद्धदर्शने क्षणिकवादः, जैनदर्शने स्याद्वादः इत्यादयः सर्वे अनुसन्धानपरम्परायाः गौरवपूर्णानि उदाहरणानि सन्ति।
आधुनिकशोधप्रविधौ यानि तत्त्वानि महत्त्वपूर्णानि मन्यन्ते, यथा Hypothesis, Observation, Testing, Analysis, Creativity, Positive Thinking, Intellectual Curiosity इत्यादीनि, तेषां बीजरूपं भारतीयशास्त्रेषु पूर्वमेव निहितम् अस्ति। ए.पी.जे. अब्दुल कलाम-महोदयेनोक्तं “Dream, Dream, Dream…” इति वचनमपि भारतीय-ऋषिपरम्परायाः कल्पनाशक्ति-साधनां स्मारयति।
अतः निष्कर्षतया वक्तुं शक्यते यत् संस्कृत-वाङ्मये अनुसन्धानं विज्ञानस्य, दर्शनस्य, अध्यात्मस्य, साहित्यस्य, समाजविकासस्य च समन्वितं रूपम् अस्ति। एषा परम्परा केवलं प्राचीन-गौरवस्य प्रतीकं नास्ति, अपितु आधुनिक-विश्वस्य कृते अपि दिशादर्शिका अस्ति। यदि आधुनिक-अनुसन्धान-प्रक्रिया भारतीय-शास्त्रीय-तत्त्वैः सह समन्विता भवेत्, तर्हि ज्ञान-विज्ञानयोः अधिकं सम्यक्, मानवीयं, कल्याणकरं च स्वरूपं विकसितुं शक्येत।
उपसंहारः
अस्य विस्तृतस्य विवेचनस्य सारः अयं यत् भारतीय-संस्कृत-वाङ्मये अनुसन्धानस्य अत्यन्तं समृद्धा, प्राचीना, वैज्ञानिकदृष्ट्या च गम्भीरा परम्परा विद्यते। वेदाङ्गेषु, साहित्यशास्त्रे, आयुर्वेदे, न्याय-वैशेषिकदर्शने, व्याकरणे, ज्योतिषे, वास्तुशास्त्रे च अनुसन्धानेन सम्बन्धितानि बहूनि तत्त्वानि सूत्ररूपेण निहितानि सन्ति। एतानि सूत्राणि केवलं धार्मिक-आध्यात्मिक-परम्परायाः अवशेषा न सन्ति, अपितु आधुनिक-विज्ञानस्य, तर्कशास्त्रस्य, मनोविज्ञानस्य, चिकित्साशास्त्रस्य, भाषाविज्ञानस्य च मूलाधारतया द्रष्टुं शक्यन्ते।
शिक्षा-वेदाङ्गे ध्वनि-विज्ञानस्य, उच्चारण-शुद्धेः, शारीरिक-मानसिक-अनुशासनस्य च अनुसन्धानात्मकं स्वरूपं दृश्यते। व्याकरणशास्त्रे पाणिनिना चतुर्दश-माहेश्वरसूत्राणां माध्यमेन ध्वनि-संरचनायाः महान् वैज्ञानिक-विश्लेषणं कृतम्। निरुक्ते यास्काचार्येण शब्दार्थानुसन्धानस्य तार्किक-पद्धतिः प्रतिपादिता। छन्दःशास्त्रे पिङ्गलाचार्यस्य गणनापद्धतिः आधुनिक-computational-analysis इत्यस्य बीजरूपा मन्यते। ज्योतिषशास्त्रे कालगणना, ग्रह-नक्षत्र-प्रभाव-विश्लेषणम्, ऊर्जा-गति-निर्णयश्च अनुसन्धानात्मक-दृष्ट्या व्यवस्थितः आसीत्।
साहित्यशास्त्रे रससिद्धान्तः, ध्वनिसिद्धान्तः, सामान्यीकरणसिद्धान्तश्च मानव-मनोविज्ञानस्य अत्यन्तं सूक्ष्मं विवेचनं कुर्वन्ति। भवभूति-कालिदासादयः कवयः केवलं काव्य-रचनाकाराः नासन्, अपितु मानव-हृदयस्य अनुसन्धानकर्तारः आसन्। रसस्य अनुभूतेः माध्यमेन मानवानां स्थायिभावानां, मानसिक-प्रतिक्रियाणां च अनुसन्धानं भारतीयाचार्यैः कृतम्।
आयुर्वेदे “शोधन” तथा “शमन” इति द्विविध-चिकित्सापद्धतिः आधुनिक-research-methodology इत्यस्य परिशोधन-प्रक्रियामिव प्रकाशयति। रोग-निदानम्, लक्षण-विश्लेषणम्, कारण-अनुसन्धानम्, उपचार-निर्धारणम् इत्यादयः सर्वे आधुनिक-वैज्ञानिक-अनुसन्धानस्य मूलभूत-तत्त्वानि एव सन्ति।
न्याय-वैशेषिकदर्शने “उद्देशः, लक्षणम्, परीक्षा” इति त्रिविधा प्रक्रिया आधुनिक research design, hypothesis formation, testing इत्यादीनां समाना दृश्यते। गौतम-कणादयोः परमाणु-सिद्धान्तः आधुनिक atomic theory इत्यस्य पूर्वरूपत्वेन द्रष्टुं शक्यते।
अत्र विशेषतया प्रतिपादितं यत् भारतीय-अनुसन्धान-परम्परायां आध्यात्मिकता, तपः, अन्तःप्रज्ञा, एकाग्रता, कल्पनाशक्ति, तर्कशक्ति, अनुभवः च परस्पर-संयुक्ताः आसन्। आधुनिक-विज्ञानं यद्यपि प्रयोगशाला-आधारितं दृश्यते, तथापि तस्य मूलभूत-मानसिक-आचाराः, अनुशासनं, एकाग्रता, पवित्रता, ध्यानम् इत्यादयः भारतीय-परम्परायाः प्रभावं स्मारयन्ति।
अतः निष्कर्षतः वक्तुं शक्यते यत् संस्कृत-वाङ्मयम् अनुसन्धानस्य महासागरः अस्ति। तत्र निहितानि सूत्राणि आधुनिक-विज्ञानस्य सूत्रवत् उपयोगिनि सन्ति। यदि एतानि तत्त्वानि सम्यक् अध्ययनपूर्वकं आधुनिक-अनुसन्धान-प्रणाल्या सह संयोज्यन्ते, तर्हि विश्वमानवस्य कृते अधिकं समन्वितं, मानवीयं, आध्यात्मिक-वैज्ञानिकं च ज्ञानतन्त्रं निर्मातुं शक्यते।
Bibliography
- C. R. Kothari. Research Methodology: Methods and Techniques. New Delhi: New Age International Publishers.
- Ganesh Pandey. शोध-प्रविधिः. वाराणसीः।
- Dipak Kumar Bhattacharyya. Research Methodology. New Delhi.
- B. M. Jain. Research Methodology. Jaipur.
- Redman and Mory. Research and New Knowledge.
- A. P. J. Abdul Kalam. Ignited Minds: Unleashing the Power Within India. New Delhi: Penguin Books.
- Johann Wolfgang von Goethe. Selected Quotations and Writings.
- Bhagavad Gita. Gita Press Edition.
- Manusmriti. Chaukhamba Sanskrit Series.
- Yoga Sutras of Patanjali. With Vyasa Bhashya.
- Brihadaranyaka Upanishad. Gita Press Edition.
- Tarkasangraha with Kiranavali Tika.
- Ramji Pandey. भारतीय नाट्य-सिद्धान्त एवं विकास.
- Panini. अष्टाध्यायी.
- Yaska. निरुक्तम्.
- Atharva Veda. Sanskrit Edition.
- Rigveda. Sanskrit Edition.
- Shukla Yajurveda. Sanskrit Edition.
- Mandukya Upanishad with गौडपादकारिका.
- Ashtanga Hridaya. Sutrasthana Edition.
- शोधप्रविधिप्रवेशः – डा.देवेन्द्रनाथ पाण्डेयः
