[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

प्रतीकाधिकरणस्य तात्पर्यसमीक्षणम्

डा.नागराजभट्टः
सहायकाचार्यः

कुञ्चिकाशब्दाः– अधिकरणम्, उपासनं, प्रतीकम्, अहंग्रहः, सम्पदुपासनं, कर्माङ्गोपासनम्, अध्यासः, अविद्यानिवृत्तिः, शारीरकमीमांसा चेति।

शोधपत्रसारः

ब्रह्मसूत्रचतुर्थाध्यायस्य प्रथमपादे तृतीयं प्रतीकाधिकरणं प्रतीकोपासनायाः स्वरूपं विचारयति। “मनो ब्रह्मेत्युपासीत”[1] इत्यादिना उपनिषत्सु श्रूयमाणं प्रतीकोपासनम् इतरोपासनाप्रकारेभ्यः स्वरूपतः फलतश्च भिद्यते इत्येवं निरूप्यते। तत्र आलम्बनप्राधान्येन विधीयमानं ध्यानं प्रतीकोपास्तिरिति कथ्यते। मनआदित्यादिषु ब्रह्मविकारतया प्रत्यगभिन्नब्रह्माभिन्नत्वात् जीवाभेदसिद्धेः, प्रतीकेषु अहंग्रहः कर्तव्य इति केचित् आक्षिपन्ति। तत्र मनःआदिषु प्रतीकेषु आत्मग्रहो नैव कर्तव्यः जीवप्रतीकयोः स्वरूपभेदात्, अहंग्रहत्वेन शास्त्रविध्यभावाच्च। इत्थं प्रकृतशोधपत्रे प्रतीकाधिकरणदिशा प्रतीकाहंग्रहोपासनयोः विशेषाविशेषविचारः वितन्यते।

भूमिका
भगवता बादरायणाचार्येण प्रणीतसूत्राणि एव वेदान्तदर्शनमिति व्यवह्रियते। ब्रह्मतत्त्वप्रतिपादकानाम् उपनिषद्व्याक्यानाम् अद्वितीये ब्रह्मण्येव परमतात्पर्यप्रदर्शनार्थं शारीरकसूत्राणां प्रवृत्तिरिति शङ्कराचार्याः प्राहुः यथा “वेदान्तवाक्यकुसुमग्रथनार्थत्वात् सूत्राणाम्”[2] इति। प्रसङ्गसङ्गत्या ब्रह्मतत्त्वप्रतिपादनानुकूलाः, तत्तत्त्वबोधापेक्षिताश्च विषयाः सन्दिग्धवेदान्तवाक्यविचारव्याजेन शारीरकमीमांसायां समुपदिष्टाः। तत्र समन्वयाविरोधसाधनफलाख्यैः चतुर्भिरध्यायैः वेदान्तवाक्यतात्पर्यं विचारयन्ती शारीरकमीमांसा सूत्रप्रस्थानम् (न्यायप्रस्थानम्) इति गीयते। तत्र चतुर्थाध्यायप्रथमपादस्य केषुचिदधिकरणेषु  फलविचाराङ्गतया साधनपरविचारोऽपि विहितः। प्रकृतशोधपत्रे तद्गतमेव प्रतीकाधिकरणमधिकृत्य प्रतीकोपासनायाः स्वरूपं विचार्यते। तत्प्रसङ्गसङ्गत्या उपासनायाः स्वरूपं, तत्प्रकारश्च प्रदर्शितः।

उपासनायाः स्वरूपम्
विहितविषये चित्तवृत्तेः अकुण्ठितप्रवाह एव उपासनमिति वक्तुं युक्तम्। तदुक्तं शङ्कराचार्येण “उपासनं च यथाशास्त्रं तुल्यप्रत्ययसन्ततिरसङ्कीर्णा च अतत्प्रत्ययैः शास्त्रोक्तालम्बनविषया च”[3] इति।

ईश्वरार्पणबुद्ध्या अनुष्ठीयमानम् उपासनं तु साकारोपासकान् चित्तैकाग्र्यसम्पादनद्वारा परम्परया ज्ञानोत्पत्तौ उपकरोति। ये च कर्मफलासक्ताः शास्त्रप्रदर्शितकामनायाम् अभिरताः ते यथाविधि उपासनमनुष्ठाय तत्तदुपासनजन्यफलं भुञ्जते। अतः ये मन्दाधिकारिणः प्रवृत्तिमार्गगाः ते उपासनोपायोपेताः तत्तदनुष्ठानजन्यफलमनुभूय ततो विरक्ताः पुनरपि उपासनोपायशरणाः चित्तैकाग्र्यसम्पादनमुखेन ज्ञानिनो भवन्ति इति हेतोः  उपासनायाः अस्ति माहात्म्यम्।

उपासनाप्रकारः

उपासनेषु अनेके प्रकाराः तन्त्रमन्त्रवेदान्तशास्त्रादिषु प्रदर्शिताः। किन्तु शारीरकमीमांसाशाङ्करभाष्यदिशा उपासनायाः चातुर्विध्यं प्रदर्शयितुं शक्यते। तद्यथा प्रतीकोपासनं, सम्पदुपासनं, कर्माङ्गोपासनम्, अहंग्रहोपासनं चेति। तदुक्तं “न चेदं ब्रह्मात्मैकत्वविज्ञानं सम्पद्रूपं, न चाध्यासरूपं, नापि आज्यावेक्षणादिकर्मवत्कर्माङ्गसंस्काररूपम्”[4] इति।

निकृष्टे अल्पालम्बने कस्यचिदुत्कृष्टस्य सम्पादनं ध्यानं सम्पदुपासनमिति वक्तुं शक्यते। तदुक्तं भाष्यरत्नप्रभाकारेण “अल्पालम्बनतिरस्कारेण उत्कृष्टवस्त्वभेदध्यानं सम्पत्”[5] इति। “अनन्तं वै मनोऽनन्ता विश्वेदेवाः”[6] इत्यत्र अनन्तफलावाप्तये आनन्त्यसादृश्यात् निकृष्टेऽपि मनसि विश्वेदेवाः अभेदेन उपास्या इति सम्पदुपासनाया उपनिषत्सु उपदेशो भवति।

विहितकर्मोपकारकं कर्मसमृद्धिकारकं च उपासनं कर्माङ्गोपासनमिति कथ्यते। इदं च कर्माङ्गतया एव अनुष्ठेयम्।

स्वस्वरूपमेव परब्रह्मस्वरूपादभिन्नतया “अहमेव परं ब्रह्म” इति जीवब्रह्मैक्यरूपेण आत्मग्रह एव अहंग्रहोपासनमिति प्रथितम्। “एष त आत्मा सर्वान्तरः”[7] इत्याद्युपनिषद्वाक्यानि अहंग्रहोपासनाम् उपदिशन्ति। अस्यां विद्यायां विरक्तः साधनचतुष्टयसम्पन्नः संन्न्यासी एव अधिकारी भवतीति विज्ञेयम्।

“मनो ब्रह्मेत्युपासीत”,“आदित्यो ब्रह्मेत्यादेशः”[8] इत्यादिना उपनिषत्सु प्रतीकोपासनानि विहितानि। आलम्बनस्य प्राधान्येन विधीयमानं ध्यानं प्रतीकोपासनमिति कथितम्। ब्रह्मदृष्ट्यारोपेण मनआदित्याद्यालम्बनस्य प्राधान्येन क्रियमाणं ध्यानं प्रतीकोपास्तिरिति तदर्थसंक्षेपः।

अधिकरणसंरचनम्

पञ्चाङ्गोपेतः षडङ्गोपेतो वा विचार क्रियते अस्मिन् वाक्यतात्पर्यनिर्णयार्थमिति अधिकरणं पूर्वोत्तरमीमांसाशास्त्रे प्रसिद्धमस्ति। प्रयोजनम् अधिकरणस्याङ्गमिति केचित्। तदुक्तं

“विषयो विशयश्चैव पूर्वपक्ष: तथोत्तरम्। सङ्गतिश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम्” इति।

ब्रह्मसूत्रचतुर्थाध्यायस्य प्रथमपादस्य तृतीयमधिकरणं भवति प्रतीकाधिकरणम्। “न प्रतीके न हि सः” इतीदम् एकमेव सूत्रम् एतस्मिन्प्रतीकाधिकरणे उपलभ्यते। “मनो ब्रह्मेत्युपासीत”, “आदित्यो ब्रह्मेत्यादेशः”[9] इतीमानि उपनिषद्वाक्यानि प्रतीकोपासनविधायकानि एव अधिकरणस्य विषयवाक्यानि भवन्ति। अतः अधिकरणस्य प्रधानविषयस्तावत् प्रतीकोपासनमिति निश्चेतुं शक्नुमः।मनआदित्यादिप्रतीकेषु आत्मग्रहः(अहंग्रहः) कर्तव्यः, न वेति अस्याधिकरणस्य विशयः(संशयः) भवति। उभयथापि ध्यानसम्भवात् प्रतीकेषु अहंग्रहः कार्यः न वेति संशयः युज्यत एव। मनआदिषु प्रतीकेषु अहंग्रहः कर्तव्य एव इति पूर्वपक्षस्याशयः। प्रतीके अहंग्रहः न कर्तव्यः स्वरूपभेदात्, विध्यश्रवणाच्च इति वेदान्तसिद्धान्तो भवति। वस्तुतस्तु प्रतीकपदेन सर्वं चराचरात्मकं प्राकृतं जडरूपं वस्तुजातं स्वीकर्तव्यम्। प्रतीकस्य जडत्वेन, प्रतीकाहंपदार्थयोः स्वरूपभेदात्, न तत्र अहंग्रहः कर्तव्य इति भावः। ब्रह्मात्मना तु जीवप्रतीकयोः समत्वे स्वीकृते, मनःप्रभृतीनां प्रतीकत्वमेव बाध्येत। तस्मात् प्रतीके अहंग्रहो न कर्तव्य इति उत्तरपक्षः। पूर्वत्र आत्मत्वोपासनाधिकरणेन जीवब्रह्मणोरभेदात् अहंग्रहः प्रोक्तः, एवमेव ब्रह्मविकारतया प्रत्यगभिन्नब्रह्माभेदसिद्धेः जीवाभेदात्, मनःप्रभृतिषु प्रतीकेषु अहंग्रहः कर्तव्य इति दृष्टान्तसङ्गत्या इदमधिकरणमारभ्यते। प्रतीकाहंग्रहोपासनयोरविशेष एव पूर्वपक्षे फलं किन्तु सिद्धान्ते तयोः भेदसिद्धिरेव इति अधिकरणस्य प्रयोजनं व्याख्येयम्।

भाष्यदिशा प्रतीकाधिकरणसमालोचनम्

आत्मत्वोपासनाधिकरणेन परमात्मनि तादात्म्येन अहंग्रहः कार्य इति प्रसाधितम्। जगद्योनेः ब्रह्मणः विकारभूताः भवन्ति मनःप्रभृतयः। तस्मात् ब्रह्मकार्यतया ब्रह्माभिन्नमनआदिषु प्रतीकेष्वपि अहंग्रहः कर्तव्यः इति संशयो भवति। तदुक्तं भाष्यकारेण “ब्रह्मणः श्रुतिष्वात्मत्वेन प्रसिद्धत्वात्प्रतीकानामपि ब्रह्मविकारत्वात् ब्रह्मत्वे सति आत्मत्वोपपत्तेः”[10] इति। नित्यशुद्धमुक्तस्वभावं ब्रह्म आत्मत्वेन गृह्यते उपास्यते  ’अहमेव परं ब्रह्म’ इति यतः उपनिषत्सु “तत्त्वमसि” “अहं ब्रह्मास्मि” इति जीवात्मनः स्वरूपत्वेन ब्रह्म श्रुतत्वात्। अस्मिन्नर्थे उपपत्तिरपि भवति। अद्वैतवेदान्तिभिः कार्यकारणयोरभेदः तदनन्यत्वन्यायेन अभ्युपगम्यते। कार्यकारणयोरनन्यत्वात् मृद्घटयोरिव मनआदित्यादिप्रतीकानां ब्रह्मकार्यत्वेन तादात्म्यं युज्यत एव। तदुक्तं वाचस्पतिमिश्रैः “उपपन्नं च मनःप्रभृतीनां ब्रह्मविकारत्वेन तादात्म्यम्”[11] इति। घटशरावादीनां मृद्विकारतया मृदात्मकत्वमेव यथा तथा मनआदीनां ब्रह्मविकारतया ब्रह्मस्वरूपत्वमेव। उपदेशभेदात् “मनो ब्रह्म” इति मनःप्रभृतिषु प्रतीकेषु ब्रह्मविकारतया अहंग्रहो न सम्भवति।

यथा “अहं ब्रह्मास्मि”, “तत्त्वमसि” इत्यादिषु प्रत्यगात्मनः ब्रह्मात्मत्वम् उपदिश्यते तथा “मनो ब्रह्म” “आदित्यो ब्रह्म” इत्यत्र प्रतीकस्थले नोपदिश्यते। प्रतीकोपदेशप्रसङ्गे मनआदित्यादिप्रतीकानां गौण्या ब्रह्मात्मत्वेन उपास्यत्वं विधीयते। तदभिन्नाभिन्नस्य तदभिन्नत्वमिति न्यायेन प्रतीकेषु अहंग्रहः कार्य इत्यपि अयुक्तम्। यतः प्रतीके अहमिति अश्रुतेः। उपासना तु यथाशास्त्रं कर्तव्या भवति।यद्रूपेण विहिता सा तद्रूपेणैव बोद्धव्या “यावद्वचनं वाचनिकम्” इति न्यायात्।

पुनश्च ब्रह्मविकारतया ब्रह्मात्मत्वं, ततः प्रतीकेषु आत्मग्रह इत्यपि न युज्यते। ब्रह्मविकारतया सर्वत्र अहंग्रहे कृते प्रतीकस्यैवाभावात् प्रतीकग्रहणमेव अनर्थकं स्यात्। मनआदीनां ब्रह्मस्वरूपतया अहन्त्वग्रहे विकाराणां तेषां स्वरूपमेव बाध्यते। प्रतीकस्वरूपोपमर्दे जाते मनःप्रभृतिषु प्रतीकत्वम्, आत्मग्रहो वा नैव उपपद्यते।

प्रतीकाहंग्रहोपासनयोः भेदविचारः

अहंग्रहोपासनाभिः प्रतीकोपास्तिः न भिद्यते इति केचित्। किन्तु वेदान्तसिद्धान्तानुसारं प्रतीकाहंग्रहोपासनयोः स्वरूपतः फलतश्च वैरूप्यमस्तीति गम्यते। अहंग्रहोपासनायाः फलं तु अविद्यानिवृत्त्युपलक्षितः निरतिशयसुखानुभूतिरूपः मोक्ष एव। प्रतीकोपासनायाम् आपेक्षिकं यत्किञ्चित्फलं तत्तदुपासनाविधिप्रकरणे उपदिश्यते इति फलनिरूपिता भेदसिद्धिरनयोः भवति।

अहंग्रहोपासना तु असकृदेव उपदिश्यते वेदान्तेषु। अभ्यासेन असकृदुपदिश्यमानस्य अर्थस्य माहात्म्यं, शास्त्रस्य तन्मात्रतात्पर्यवत्वं च गम्यते। किन्तु प्रतीकोपासनायाः सकृदेव उपदेशो भवतीति उपदेशविधिकृता भेदसिद्धिः प्रतीकाहंग्रहोपासनयोः।

अहंग्रहोपासनायाम् अभेददृष्टिरपेक्षते।जीवेश्वरयोरैक्यज्ञानफला अहंग्रहोपास्तिः। भेददृष्ट्या तु जीवपरमात्मनोरैक्यानुपपत्तिरिति हेतोः अभेददृष्टिरेव कर्तव्यत्वेन विधीयते। किन्तु विष्णुप्रतिमान्यायेन उपदिश्यमानं प्रतीकोपासनं तत्त्वतः भेददृष्टिमेव निरूपयति। ध्येयविषयस्य प्रतीके(अल्पालम्बने) अभेददृष्ट्यारोपेण प्रवर्तमानं प्रतीकोपासनं परमार्थतः आरोप्यालम्बनयोः भेदमेव निरूपयति।उत्कृष्टफलावाप्तये गौणी एव अभेददृष्टिः सम्भवति प्रतीकोपासनायामिति ज्ञेयम्। आरोपिताभेददृष्ट्या उपदिश्यमानप्रतीकविद्या परमार्थतया आरोप्यालम्बनयोरभेदं न साधयति। उपनिषत्सु अभेदोपदेशप्रसङ्गे भेददृष्टिः सर्वदा निन्द्यते। यथा “मृत्योः स मृत्युमाप्नोति”, “सर्वं तं परादात्”[12] इति।किन्तु अभेददृष्टिस्तुतिः सर्वोपनिषत्सु विनाऽपवादं समानाकारेण संदृश्यते। ततश्च भेददृष्टिनिन्दाऽभेददृष्टिस्तुतिकृता प्रतीकाहंग्रहोपासनयोः भेदसिद्धिः।

उपसंहारः

“न स पुनरावर्तते”[13] इति श्रुतेः मोक्ष एव परमपुरुषार्थ इति विदितमेव सर्वेषाम्। सकार्यायाः अविद्यायाः आत्यन्तिकनिवृत्त्या स्वस्वरूपावस्थितिरेव मोक्षः। “तरति शोकमात्मवित्”[14] इत्यादिश्रुतेः आत्मज्ञानमेव मोक्षोपाय इत्यवगम्यते। ततः कर्मणां भक्तेः उपासनानां च तत्सहकारिकारणत्वं नैव निवार्यते। शास्त्रविहितानि कर्माणि फलाभिसन्धिराहित्येन अनुष्ठितानि चित्तशुद्धये भवन्ति। एवमेव प्रतीकाद्युपासनानि तु चित्तैकाग्र्यसम्पादनहेतुत्वेन ज्ञानोत्पत्तौ उपकुर्वन्ति। अतश्च प्रतीकेषु अहंग्रहो न कार्यः तत्र अहमिति विध्यश्रवणात्। पुनश्च जीवप्रतीकयोः जडाजडत्वेन मिथः स्वरूपभेदादपि प्रतीके नाहंग्रह इत्येव प्रतीकाधिकरणतात्पर्यमिति शम्।

परिशीलितग्रन्थसूची

१.आचार्यजगदीशशास्त्री(सम्पादकः), २००५, ब्रह्मसूत्रशाङ्करभाष्यम्, वाराणसी, मोतीलाल बनारसीदास।

२.अनन्तकृष्णशास्त्री(सम्पादकः), २०००, ब्रह्मसूत्रशाङ्करभाष्यम्

(भामतीकल्पतरुपरिमलोपेतम्), वाराणसी, कृष्णदास अकादमी।

३.स्वामी विद्यानन्दगिरिः(व्याख्याता),२००२, छान्दोग्योपनिषत् शाङ्करभाष्ययुता, ऋषिकेश, श्रीकैलास विद्या प्रकाशन।

४.एस.सुब्रह्मण्यशास्त्री(सम्पादकः),२००४, उपनिषद्भाष्यम्(खण्डः१), वाराणसी,  श्रीदक्षिणामूर्तिमठ प्रकाशन।

***

[1] . छा.उ.३।१८।१

[2] . शारीरकमीमांसाभाष्यम्-१.१.२

[3] . तै.भा.१.३.४

[4] . ब्रह्मसू.शा.भा.पृ.७६

[5] . रत्नप्रभा १.१.४

[6] . बृ.उ ३.१.९

[7] . बृ.उ ३.४.१

[8] . छा.उ.३।१८।१, छा.उ. ३।१९।१

[9] . छा.उ.३.१८.१, छा.उ.३. १९।१

[10] . ब्रह्मसू.शा.भा.पृ.८३४

[11] . भामती.पृ.८३४

[12] . बृ.उ.४.४.१९, बृ.उ. ४.५.७

[13] . छा.उ.८.१५

[14] . छा.उ.७.१.३

****

Correspondence Address

Dr.NAGARAJA BHAT

Assistant Professor,

Department of Sanskrit & Philosophy,

School of Indian Heritage,

Ramakrishna Mission Vivekananda Educational & Research Institute.

(Formerly Known as Vivekananda University)

Belur Math, Howrah – 711202,

West Bengal, India

Mob.No.9123069483

Email: soham.nagarajbhat@gmail.com

[/vc_column_text][/vc_column][/vc_row]