भारतीयज्ञानपरम्परायां सततविकासस्य धोरणी उताहो SDGs इत्येतेषां भारतीयदृष्ट्या पुनर्विचारः

Dr. Pami Sardar
Research Scholar
Department Of Sahitya
National Sanskrit University, Tirupati
Contact – 9441657951
Email – sardarpami1993@gmail.com  


    

भूमिका –

भारतीयज्ञानपरम्परा वेद-उपनिषद्-भगवद्गीता-रामायण-महाभारत-धर्मशास्त्र-अर्थशास्त्र-आयुर्वेद-योगादिषु निहितानां तत्त्वानां समुच्चयः अस्ति। अस्यां परम्परायां प्रकृतिसंरक्षणम्, सर्वभूतहितम्, धर्मपालनम्, संयमः, समता, लोकसंग्रहः, तथा “वसुधैव कुटुम्बकम्” इत्यादयः जीवनमूल्यरूपेण प्रतिष्ठिताः सन्ति।

सततविकासलक्ष्याणि दारिद्र्यनिर्मूलनम्, गुणवत्तायुक्तशिक्षा, आरोग्यसंवर्धनम्, लैङ्गिकसमता, स्वच्छजलम्, पर्यावरणसंरक्षणम्, जलवायुपरिवर्तननिवारणम्, आर्थिकसमृद्धिः, शान्तिः, न्यायः इत्यादीनि वैश्विकलक्ष्याणि निर्दिशन्ति। एतानि लक्ष्याणि भारतीयज्ञानपरम्परायां प्रतिपादितैः नैतिकैः, सामाजिकैः, आध्यात्मिकैः च सिद्धान्तैः सह कथं सुसम्बद्धानि सन्ति, कुतः भिद्यन्ते वा, इति अस्य विषयस्य प्रमुखोऽध्ययनविषयः।

अतः अस्मिन् शोधे भारतीयज्ञानपरम्परायाः शाश्वतजीवनदर्शनस्य आधारेण सततविकासलक्ष्याणां पुनर्विचारः क्रियते, येन आधुनिकविकासस्य प्रक्रियायां भारतीयचिन्तनस्य प्रासङ्गिकता, उपादेयता, वैश्विककल्याणे च तस्य योगदानं स्पष्टं भवति। अस्य अध्ययनस्य उद्देश्यं परम्परागतभारतीयमूल्यानां आधुनिकसततविकाससङ्कल्पनया सह समन्वयं प्रदर्शयितुं तथा अधिकसमग्रं, नैतिकं, पर्यावरणानुकूलं च विकासदर्शनं प्रस्तुतं भवति।

मुख्यशब्दाः –

  • भारतीयज्ञानपरम्परा,
  • सततविकासः,
  • सततविकासलक्ष्याणि (SDGs),
  • धर्मः,
  • लोकसंग्रहः,
  • वसुधैव कुटुम्बकम्,
  • पर्यावरणसंरक्षणम्,
  • सर्वभूतहितम्।

सारांशः –

वैश्विकविकासस्य प्रमुखाधाररूपेण स्वीकृतानि सन्ति। तेषां मूलोद्देश्यः दारिद्र्यनिर्मूलनम्, गुणवत्तायुक्तशिक्षा, आरोग्यसंवर्धनम्, पर्यावरणसंरक्षणम्, लैङ्गिकसमता, आर्थिकसमृद्धिः, सामाजिकन्यायः च इत्यादयः सन्ति।

भारतीयज्ञानपरम्परायां तु वेदोपनिषदादिषु, भगवद्गीतायाम्, रामायणे, महाभारते, अर्थशास्त्रे, आयुर्वेदे, योगशास्त्रे च प्रकृतिसंरक्षणम्, धर्माधारितजीवनम्, लोकसंग्रहः, सर्वभूतहितम्, संयमः, समत्वभावः, तथा “वसुधैव कुटुम्बकम्”[1] इत्यादयः मूल्याः प्रतिपादिताः सन्ति। एते सिद्धान्ताः सततविकासस्य मूलभावनाभिः सह सामञ्जस्यं वहन्ति।

समाजस्य उपयोगिता –

अस्मिन् शोधे भारतीयज्ञानपरम्परायाः आलोकस्य आधारेण सततविकासलक्ष्याणां समीक्षात्मकः पुनर्विचारः कृतः अस्ति। भारतीयदर्शनस्य समग्रजीवनदृष्टिः केवलम् आर्थिकविकासं न, अपितु नैतिकं, आध्यात्मिकं, सामाजिकं, पर्यावरणीयं च सन्तुलनं महत्त्वपूर्णं मन्यते। अतः आधुनिक SDGs संकल्पनायाः सफलकार्यान्वयने भारतीयज्ञानपरम्परायाः मूल्याः महत्त्वपूर्णं मार्गदर्शनं दातुं समर्थाः इति प्रतिपाद्यते।

अयं शोधः भारतीयज्ञानपरम्परायाः शाश्वतजीवनमूल्यानि आधुनिकसततविकासलक्ष्यैः सह समन्वययति। तेन समाजे पर्यावरणसंरक्षणस्य, प्राकृतिकसंसाधनानां विवेकपूर्णोपयोगस्य, सामाजिकसमतायाः, नैतिकजीवनस्य, लोककल्याणस्य च महत्त्वं सुदृढीभवति।

अध्ययनमिदं जनसामान्येषु, विद्यार्थिषु, शिक्षकेषु, नीतिनिर्मातृषु, शोधकर्तृषु च भारतीयदृष्ट्या सततविकासस्य व्यापकावबोधनं जनयति। भारतीयज्ञानपरम्परायां प्रतिपादिताः धर्मः, लोकसंग्रहः, सर्वभूतहितम्, वसुधैव कुटुम्बकम् इत्यादयः सिद्धान्ताः समकालीनवैश्विकसमस्यानां समाधानाय मार्गदर्शकरूपेण उपयुज्यन्ते।

अस्य शोधस्य निष्कर्षाः शिक्षानीतिनिर्माणे, पर्यावरणसंरक्षणकार्यक्रमेषु, ग्रामविकासे, सामाजिकसमरसतायां, सततजीवनशैलीप्रवर्तने च महत्त्वपूर्णं योगदानं दातुं शक्नुवन्ति। अतः अयं शोधः केवलम् अकादमिकदृष्ट्या न, अपितु सामाजिक-नैतिक-पर्यावरणीयदृष्ट्यापि अत्यन्तम् उपादेयः अस्ति।

उपसंहारः –

प्रस्तुताध्ययने भारतीयज्ञानपरम्परायाः आलोकस्य आधारेण सततविकासलक्ष्याणां (SDGs) समीक्षात्मकः पुनर्विचारः कृतः। अध्ययनस्य परिणामाः सूचयन्ति यत् भारतीयज्ञानपरम्परायां प्रतिपादिताः धर्मः, ऋतं, लोकसंग्रहः, यज्ञभावना, अपरिग्रहः, समत्वम्,[2] सर्वभूतहितम्, तथा “वसुधैव कुटुम्बकम्” इत्यादयः सिद्धान्ताः सततविकासस्य आधारभूततत्त्वैः सह न केवलं सामञ्जस्यं वहन्ति, अपितु तेषां नैतिक-दार्शनिकाधारमपि सुदृढीकुर्वन्ति।

संयुक्तराष्ट्रसङ्घेन प्रतिपादितानि सततविकासलक्ष्याणि दारिद्र्यनिर्मूलनम्, गुणवत्तायुक्तशिक्षा, आरोग्यसंवर्धनम्, पर्यावरणसंरक्षणम्, सामाजिकसमता, न्यायः, आर्थिकसमृद्धिः च इत्यादीनि वैश्विकलक्ष्याणि अभिलषन्ति। भारतीयज्ञानपरम्परायां तु एतानि तत्त्वानि प्राचीनकालादेव जीवनव्यवस्थायाः अविभाज्याङ्गत्वेन स्वीकृतानि दृश्यन्ते। ईशावास्योपनिषदि “तेन त्यक्तेन भुञ्जीथाः” इति वचनं संयमयुक्तोपभोगस्य सन्देशं ददाति; भगवद्गीतायां “लोकसंग्रहमेवापि सम्पश्यन् कर्तुमर्हसि” [3](३.२०) इति समाजहितप्रधानं कर्म प्रतिपाद्यते; महोपनिषदि “वसुधैव कुटुम्बकम्”[4] इति वैश्विकबान्धव्यम् उद्घोष्यते। एतानि तत्त्वानि आधुनिकसततविकासदर्शनस्य मूलभावनाभिः सह प्रत्यक्षं सामञ्जस्यं वहन्ति।

अध्ययनमिदं प्रतिपादयति यत् सततविकासस्य सफलकार्यान्वयनाय केवलं वैज्ञानिक-आर्थिकोपायाः पर्याप्ताः न भवन्ति; अपि तु मूल्याधारितजीवनदृष्टिः, नैतिकदायित्वबोधः, पर्यावरणचेतना, सामाजिकसमरसता, आध्यात्मिकसंयमश्च अनिवार्याः। एतादृशी समग्रदृष्टिः भारतीयज्ञानपरम्परायां सम्यक् विकसिताऽस्ति।

अतः आधुनिकविकासनैत्यां, शिक्षाव्यवस्थायां, पर्यावरणनीतिषु, ग्रामविकासकार्यक्रमेषु, सामाजिककल्याणयोजनासु च भारतीयज्ञानपरम्परायाः मूल्यानां समुचितः समावेशः करणीयः। एतेन न केवलं सततविकासलक्ष्याणां सिद्धिः सुलभा भविष्यति, अपितु मानवीयः, न्यायपूर्णः, पर्यावरणसन्तुलितः, सांस्कृतिकमूल्यसमन्वितश्च विकासमॉडलः विश्वसमाजाय आदर्शरूपेण प्रतिष्ठास्यते। अतः भारतीयज्ञानपरम्परा आधुनिकसततविकासविमर्शे न केवलं प्रासङ्गिकी, अपितु अनिवार्या इति निष्कर्षः अस्य अध्ययनस्य सारभूतः।

परीशिलितग्रन्थसूची –

1.ऋग्वेदः — (परम्परागतः ग्रन्थः; लिखित संस्करणानि प्रायः 19–20 शताब्द्याः सम्पादितानि)

2.अथर्ववेदः (भूमिसूक्तम् सहितम्) — (सम्पादित संस्करणाः 19–20 शताब्दी)

3. ईशावास्योपनिषद् — (प्राचीनम्; आधुनिक सम्पादित संस्करणाः 19–21 शताब्दी)

शास्त्रीयग्रन्थाः (धर्म–नीति–प्रकृतिसम्बद्धाः)

मनुस्मृतिः — (मानक सम्पादित संस्करणः 1886–1912 कालः; विविध प्रकाशनानि)

4.याज्ञवल्क्यस्मृतिः — (सम्पादित संस्करणः 19–20 शताब्दी)

5.कौटिलीयम् अर्थशास्त्रम् — (Text reconstructed edition: 1909, R. Shamasastry)

6.वराहमिहिरस्य बृहत्संहिता — (English/Sanskrit editions widely published 1884 onwards)

पर्यावरणम् एवं सततविकाससम्बद्धाः आधुनिकग्रन्थाः –

7.Environment and Ancient Sanskrit Literature — Dr. Aruna Goel, Published: 2003

8.Environmental Consciousness and Sustainable Development in Indian Knowledge System — Vedprakash Borkar, Published: 2024

9.Paryāvaraṇa-sahasrasrotasvinī (Environmental Sanskrit Literature Festschrift),  Published: 2011

आधुनिक-अनुसन्धानम् एवं IKS सन्दर्भग्रन्थाः –

10.Sustainable Development in Indian Knowledge Systems (Journal article, EPH Journal),  Published: 2020

11.Reimagining Sustainability: Integrating Indian Knowledge Systems,  Published: 2025


[1] अत्र प्रतिपाद्यते यत् सततविकासलक्ष्याणि (SDGs) आधुनिकवैश्विकनीतिपरिप्रेक्ष्ये दारिद्र्यनिवारणं, गुणवत्तायुक्तशिक्षा, स्वास्थ्यसंवर्धनं, पर्यावरणसंरक्षणं, लैङ्गिकसमानता, आर्थिकविकासः, सामाजिकन्यायश्च इत्यादीनि उद्देश्यानि लक्ष्यीकुर्वन्ति। भारतीयज्ञानपरम्परायां तु वेद-उपनिषद्-रामायण-महाभारत-अर्थशास्त्र-आयुर्वेद-योगशास्त्रादिषु धर्माधारितजीवनम्, लोकसंग्रहः, सर्वभूतहितम्, संयमः, समत्वभावः तथा “वसुधैव कुटुम्बकम्” इत्यादयः मूल्यमान्यताः प्रतिपादिताः सन्ति। एते सिद्धान्ताः सततविकासलक्ष्यैः सह सुसंगताः भवन्ति इति अत्र सूचितम्।

[2] भारतीयज्ञानपरम्परायां धर्मः, ऋतम्, लोकसंग्रहः, यज्ञभावना, अपरिग्रहः, समत्वम्, सर्वभूतहितम् इत्येते सिद्धान्ताः जीवनस्य नैतिक-आध्यात्मिक-समन्वयस्य मूलाधाररूपेण स्वीकृताः सन्ति।

[3] भगवद्गीता ३.२०

[4] महोपनिषद