भारद्वाजादीनाम् ऋषीणां प्रश्नविषयकपरामर्शविचारः
Dr. Vadiraja K S
Assistant Professor
Dayananda Sagar College of Arts, Science and Commerce
Bengaluru – 560078
Mobile – 7760118401
E Mail – vadirajaks-dsjbs@dayanandasagar.edu
प्रस्तावना
प्रश्नमूलकं ज्ञानसाधनं सर्वेषु विद्याक्षेत्रेषु प्राचीनकालादेव स्वीकृतमस्ति । अस्याः प्रवृत्तेः सर्वोत्कृष्टं दृष्टान्तरूपेण प्रश्नोपनिषदः आख्यायिका प्रदर्श्यते । अस्मिन् ग्रन्थे षड् ऋषयः – भारद्वाजः, सत्यकामः, गार्ग्यः, आश्वलायनः, भार्गवः, कात्यायनः इति – ब्रह्मविषयकां जिज्ञासां मनसि धृत्वा समित्पाणयः सन्तः आचार्यं पिप्पलादमुपसन्नाः । तेभ्यः आचार्येण संवत्सरं ब्रह्मचर्येण सह वासः अङ्गीकृतः, अनन्तरं यथेच्छं प्रश्नान् कर्तुम् अनुमतिश्च प्रदत्ता ।
अत्रोपनिषदि प्रत्येकं ऋषिः स्वकीयैः विशिष्टैः प्रश्नैः तत्त्वजिज्ञासां प्रकटितवान् । केचन “कुतः”, “कथम्”, “केन” इति मूलकारणप्रकारसाधनानि पृच्छन्ति, अपरे “कति”, “कतरः”, “कः” इति संख्याविशेषनिर्धारणाय प्रयतन्ते, अन्ये “कस्मिन्”, “कानि”, “कस्य” इति आधारकर्तृफलसम्बन्धान् अन्विष्यन्ति । एतेषां प्रश्नानां शैली विषयगाम्भीर्यं बोधयति, साङ्ख्यिकान् मीमांसकान् च ज्ञानमार्गान् सूचयति ।
बालकेभ्यः आरभ्य ऋषिपर्यन्तं प्रश्नकरणस्य स्वाभाविका प्रवृत्तिः ज्ञानविकासस्य मूलं भवति । प्रश्नोपनिषद् इदमेव तत्त्वं प्रतिपादयति यत् सत्यजिज्ञासुः सदैव विनयेन, श्रद्धया, सेवाभावेन च गुरुमुपसृत्य प्रश्नैः ज्ञानं लभते । अत्र दृष्टं भवति यत् प्रश्नः केवलं संशयनिवृत्त्यै न, अपि तु बुद्धेः तीक्ष्णतायै, चिन्तनस्य गहनतायै च साधनत्वेन कार्यं करोति । तस्मात् प्राश्निकी प्रवृत्तिः एव ज्ञानोदयस्य प्रथमं सोपानम् इति सन्देशः अस्य उपनिषदः मूलभूतः ।
ज्ञानप्राप्तौ प्राश्निकप्रवृत्तिः नितराम् अपेक्ष्यते । यः विषयः ज्ञातव्यः तस्य विषये प्रश्नान् पृष्ट्वा, ज्ञानं प्राप्तव्यम् । अत्र प्रश्नकरणे सीमा नास्ति । ज्ञातव्यमिति इच्छया यावन्तः अपि प्रश्नाः प्रष्टुं शक्यन्ते । प्रश्नोपनिषदि आख्यायिकेयं श्रूयते । [1]भारद्वाजः, सत्यकामः, गार्ग्यः, आश्वलायनः, भार्गवः, कात्यायनः इति षड् ऋषयः बभूवुः ।
“सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः” ॥
ते ब्रह्मपराः ब्रह्मनिष्ठाः तज्जिज्ञासायुक्ताः सन्तः, पिप्पलादम् आचार्यम् उपसर्तुः । कथम् उपसृतवन्तः? समित्पाणयः सन्तः। ऋषयः वानप्रस्थाः इत्यतः, तेषाम् अग्निकार्यं विहितम् । अतः तस्मिन् अग्निकार्ये उपयुज्यमानाः समिधः गृहीत्वा गुरुमुपसर्पेत् इति उच्यते । पुनश्च यः एवं समिधः गृहीत्वा आगच्छति, सः ज्ञानप्राप्तये आगच्छति इति ज्ञानिनां मतम् । किञ्च रिक्तपाणिर्न सेवेत राजानं देवतां गुरुम् इत्यपि वाक्यं श्रूयते ।
[2]तदा आचार्यः पिप्पलादः उवाच यत्, यद्यपि यूयं तपस्विनः एव, तथापि विशेषतः संवत्सरं कालं यावत् ब्रह्मचर्येण, श्रद्धया च वासं गुरुशुश्रूषापराः सन्तः कुरुथ । अनन्तरं भवदिच्छानुसारं यस्य विषये जिज्ञासा उदेति, तद्विषयकप्रश्नान् प्रष्टुं शक्नुवन्ति । युष्माभिः पृष्टस्य विषये यदि जानीमः, सर्वं वक्ष्यामः इति उवाच भगवान् पिप्पलादः । एवमाचार्योक्तरीत्या सर्वे अपि संवत्सरादूर्ध्वमुपसर्प्याचार्यं प्रश्नान् पृष्ट्वा ज्ञानमापुः ।
“तान्ह ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ । यथाकामं प्रश्नान् पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्ष्यामः इति”[3] ॥
इदमवधेयं यत्, प्रश्नकरणेन ज्ञानप्राप्तिरित्येकोंsशः। अत्र प्रश्नप्रतिवचनविधानं वयं द्रष्टुं शक्नुमः । प्रश्नकरणप्रवृत्तिः तदा भवति यदा जिज्ञासा भवति । एकस्य विषयस्य विषये ज्ञानं यदा भवति, इतोपि ज्ञातुम् उत्सहते तदा प्रश्नाः उद्भूयन्ते । किञ्च यदा विषयस्य किमपि ज्ञानं न भवति परन्तु जिज्ञासा भवति तदा अपि प्रश्नाः उद्भूयन्ते । यदि प्राश्निकप्रवृत्तिः अधिका भवति तर्हि बुद्धिः तीक्ष्णा भवति ।
लौकिकं सामान्यम् उदाहरणम् अस्ति यत् लघुबालाः चत्वारि अथवा पञ्च वयस्काः बालाः तदा तदा प्रश्नान् पृच्छन्तः एव भवन्ति । तेषां प्रश्नकरणं कीदृशं भवति इति चेत् पित्रोः कदाचित् अमर्षः अपि स्यात् । तेषां प्रश्नाः लघवः भवन्ति । यथा एतत् किमर्थम् एवम् अस्ति । तत् कथं चलति । एतत् किम् अस्ति । प्रधान्येन त्रिविधाः प्रश्नाः भवन्ति । किम् कथं किमर्थम् । एभिः त्रिभिः प्रश्नैः एकस्य विषयस्य ज्ञानं बालः प्राप्नोति । तेषु बालेषु जिज्ञासाप्रवृत्तिः अधिका भवति । तत्कारणात् प्राश्निकप्रवृत्तिः जागृता भवति । यदा बालः युवकः भवति तदा विभिन्ना प्राश्निकप्रवृत्तिः भवति । विमर्शात्मकरूपेण प्रश्नान् पृच्छति ।
अत्र उपनिषदि के के कीदृशान् प्रश्नान् पृष्टवन्तः इति विमृश्यते । प्रथमः कबन्धी कात्यायनः पृच्छति-
अथ कबन्धी कात्यायनः उपेत्य पप्रच्छ ।
भगवान् कुतो ह वा इमाः प्रजाझ् प्रजायन्त इति[4] ॥
अत्र कात्यायनः पृच्छति यत् कुतः इमाः ब्राह्मणाद्याः प्रजाः प्रजायन्ते अथवा उत्पद्यन्ते इति । अत्र कुतः इति प्रश्नवाचकं पदं प्रयुक्तम् । अत्र मूलस्य ज्ञानार्थम् इदं पदं प्रयुक्तं वर्तते । प्रत्येकं वस्तु अथवा विषयस्य मूलम् अथवा कारणम् इत्येतत् विद्यत एव । तस्य ज्ञानार्थं कुतः अथवा कस्मादिति प्रश्नः क्रियते ।
द्वितीयः भार्गवः वैदर्भिः प्रश्नं पप्रच्छ । कति देवाः प्रजां शरीरलक्षणां विधारयन्ते अर्थात् विशेषेण धारयन्ते । कतरे बुद्धीन्द्रियकर्मेन्द्रियविभक्तानामेतत्प्रकशनं स्वमाहात्म्यप्रख्यापनं प्रकाश्यन्ते कः असौ पुनरेषां वरिष्ठः प्रधानः कार्यकरणलक्षणानाम् इति ।
अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजां
विधारयन्ते कतर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठः इति[5] ॥
अत्रः वैदर्भिः प्रश्नकरणार्थः कति कतरः कः इति पदानाम् उपयोगं चकार । तस्य संख्याविषययिणी जिज्ञासा उत्पन्ना तथा किंविषयिणी च जिज्ञासा । अतः कति कतरः कः इति पदान् प्रयुज्य प्रश्नं पप्रच्छ ।
कौसल्यः आश्वलायनः प्रश्नं पप्रच्छ । प्राणैः निर्धारिततत्त्वैः उपलब्धमहिमा अपि प्राणः हि एवं संहतत्वात् अस्य कार्यत्वम् अस्ति । अतः सः प्रश्नं करोति यत् कुतः कस्मात् कारणात् एषः प्राणः जायते । जातः कथं अर्थात् केन वृत्तिविशेषेण आयाति अस्मिन् शरीरे । प्रविष्टः च आत्मनः कथं प्रविभागं कृत्वा प्रतितिष्ठति । केन वा वृत्तिविशेषेण अस्मात् शरीरात् उत्क्रामति । कथं बाह्यम् अधिभूतम् अधिदैवतम् अध्यात्मं च धारयति ।
अथ हैनं कौसल्यश्चाSश्वलायनः पप्रच्छ ।
भगवन् कुत एष प्राणो जायते कथमायात्यस्मिन् शरीरे ।
आत्मानं वा प्रविभज्य कथं प्रातिष्ठते
केनोत्क्रमते कथं बाह्यमभिधत्ते कथमध्यात्ममिति[6] ॥
अत्र आश्वलायनः प्रश्नकरणार्थम् एतेषां पदानां प्रयोगं चकार । कुतः, कथं, केन । कुतः इति पदं कारणस्य अथवा मूलस्य ज्ञानं प्राप्तुं प्रयुक्तमस्ति। कथम् इत्येतत् पदं प्रकारविषयकजिज्ञासानिवृत्यर्थं प्रयुक्तं वर्तते । केन इति पदं कार्यसाधनाय साधनम् अथवा करणविषयकजिज्ञासानिवृत्यर्थं प्रयुक्तं वर्तते।
सौर्यायणिः गार्ग्यः प्रश्नं पप्रच्छ यत् एतस्मिन् शिरःपाण्यादिमति पुरुषे कानि करणानि स्वापं कुर्वन्ति अर्थात् स्वव्यापाराद् उपरमन्ते । कानि च करणानि जागरणम् अर्थात् स्वव्यापारं कुर्वन्ति । कतरः देवः अर्थात् कार्यकरणरूपः स्वप्नान् पश्यति । किं कार्यलक्षणेन देवेन निर्वर्त्यते किंवा करणलक्षणेन केनचिद् । जागरणस्य तथा स्वप्नस्य च व्यापारे उपरते यत् प्रसन्नं सुखं भवति तत् कस्य भवति । संहतानि करणानि स्वाम्यर्थानि परतन्त्राणि च जाग्रद्विषये तस्मात् स्वापे अपि संहतानां पारतन्त्र्यैणैव कस्मिन्श्चित्संगतिः भवेत् । कार्यकरणसङ्घातः यस्मिन् च प्रलीनः सुषुप्तप्रलयकालयोः तद्विशेषं बुभुत्सोः सः कः स्याद् । कस्मिन् सर्वे सम्प्रतिष्ठिताः भवन्ति इति दीर्घः प्रश्नः विमर्शात्मकः अनेन पृष्टः ।
अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ ।
भगवन् तस्मिन् पुरुषे कानि स्वपन्ति ।
कानि अस्मिन् जाग्रति । कतर एष देवः स्वप्नान् पश्यति ।
कस्यैतत्सुखं भवति कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति[7] ॥
अत्र सौर्यायणी गार्ग्यः विविधमुखेन प्रश्नान् चकार । कस्मिन्, कानि, कतरः, कस्य इत्येवं प्रश्नवाचकपदानि उपयुक्तानि । अत्र कस्मिन् इति पदप्रयोगेन आधारविषयकजिज्ञासा निवृत्यर्थं प्रयुक्तं वर्तते इति ज्ञायते । कानि इत्येतत् क्रियायाः कर्तृविषयकजिज्ञासा अस्ति इति ज्ञायते । कतरः इत्येतत्पदं निर्दिष्टकर्तृविषयकजिज्ञासा वर्तते इति द्योत्यये । कस्य इत्यनेन क्रियायाः फलस्य सम्बन्धः केन सह भवति इति ज्ञातुं प्रयुक्तं वर्तते ।
शैब्यः सत्यकामः प्रश्नं पप्रच्छ । एषः ओङ्कारविषये प्रश्नं पृच्छति । यः मरणपर्यन्तमपि ओङ्कारम् आभिमुख्येन चिन्तयति सः कतमं लोकं जयति । यस्मात् ज्ञानकर्मभिः जेतव्याः लोकाः अनेके सन्ति ।
अथ हैनं शैब्यः सत्यकामः पप्रच्छ । । स यो ह वै तद्भगवन्मनुष्येषु ।
प्रायणान्तमोंकारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति[8] ॥
अत्र सत्यकामः सरलरूपेण प्रश्नं चकार । जिज्ञासा का इत्युक्ते एतादृशः पुरुषः किं फलं प्राप्नोति इति । अत्र कार्यकारणभावरूपेण प्रश्नः पृष्टः । अर्थात् दीर्घकालं यावत् कृतया क्रियया कीदृशं फलं स्यादिति संशयात्मकः प्रश्नः अत्र दृश्यते ।
सुकेशा भारद्वाजः प्रश्नं पप्रच्छ । कौसल्यः राजपुत्रः मामुपगम्य प्रश्नम् अपृच्छत । षोडशकलं पुरुषं त्वं जानासि किम् । अहं न जानामि इति अवोचम् । यदि अहं भवता पृष्टं पुरुषं जानामि स्म तर्हि किमर्थं भवादृशं शिष्यं न ब्रूयाम् । अहं जाने यत् मूर्खवत् अनृतं न वक्तव्यम् इति । सः राजपुत्रः एवं प्रत्यायितः तूष्णीं व्रीडितो रथमारुह्य प्रवव्राज । अतः न्यायतः उपसन्नाय योग्याय विद्या वक्तव्या एव । अनृतं च न वक्तव्यम् । अतः भवन्तं पृच्छामि कुत्र असौ पुरुषः विद्यते इति ।
भगवन्हिरण्यनाभः कौसल्यः राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत ।
षोडशकलं भारद्वाज
पुरुषं वेत्थ तमहं कुमारमब्रुवं नाहमिमं वेद यद्यहमिममवेदिषं
कथं ते नावक्ष्यमिति
समूलो वा एष परिशुष्यति योsनृतमभिवदति तस्मानार्हाम्यनृतं वक्तुं
स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति[9] ॥
अत्र भारद्वाजः स्वकीयं प्रश्नं न पृच्छति । किन्तु राजपुत्रेण पृष्टं प्रश्नं पृच्छति । अत्र कुत्र इति प्रश्नवाचकः शब्दः प्रयुक्तः अस्ति । अधिकरणविषयकजिज्ञासायाः निवृत्यर्थं अत्र प्रश्नः उत्थापितः वतते । अत्र सुकेशस्य व्यक्तित्वं चित्रितमस्ति । यदा कश्चन जिज्ञासुः ज्ञानं प्राप्तुं यतते तदा कथं बोधकेन भाव्यम् इति प्रदर्शितम् । अत्र सुकेशा भारद्वाजः उत्तरं न जानाति परन्तु जानामि इति स्वात्मनः प्रख्यापनं न कृतवान् । अपि तु न जानामि इत्येव स्वात्मनः विषये प्रख्यापनं चकार । यः न जानाति चेदपि जानामि इत्याकारकवृत्तिं मनसि निधाय व्याख्यानं कर्तुम् आरभते सः मूढः एव ।
**उपसंहारः**
प्राश्निकोपनिषदि दृष्टो ऽयं प्रश्न-परम्परायाः विशिष्टः महत्त्वपूर्णः च प्रपञ्चः। अस्मिन् ग्रन्थे षड्भिः ऋषिभिः स्वकीयैः जिज्ञासाविषयैः ये विविधाः प्रश्नाः पृष्टाः, तेषां स्वरूपं विश्लेष्यमाणं स्पष्टतया प्रतिभाति यत् प्रश्नकरणं हि ज्ञानप्राप्तेः मूलसोपानमस्ति। ‘कुतः’, ‘कथम्’, ‘केन’, ‘कति’, ‘कस्मिन्’, ‘कस्य’, ‘कुत्र’ इत्यादिभिः प्रश्नवाचकैः पदैः जिज्ञासायाः विविधा आयामाः – मूलकारणम्, प्रक्रिया, साधनम्, संख्या, आधारः, सम्बन्धः, स्थानम् इत्यादयः – सर्वेऽपि समाविष्टाः भवन्ति।
एतेषाम् ऋषीणां प्रश्नाः केवलं बौद्धिककौतूहलं न, अपितु ब्रह्मविषयकायाः गहनायाः अन्वेषणायाः साक्षात् प्रतिबिम्बनम् आसन्। ते समित्पाणयः सन्तः, गुरुशुश्रूषापराः, ब्रह्मचर्यव्रतं च पालयित्वा एव प्रश्नाधिकारं प्राप्तवन्तः, येनास्य जिज्ञासायाः गम्भीरतायाः परिचयः लभ्यते। अत्रैव शिष्टाचारस्य, सत्यवक्तृत्वस्य च महत्त्वमपि सुकेशस्य उदाहरणेन स्फुटीकृतम् – यत् न जानन् अपि जानामीति वक्तुं न, अपि तु ‘नाहं वेद’ इति सत्यं स्वीकृत्य पुनरपि शिक्षणाय उद्यमः करणीयः।
लौकिकेऽपि जीवने बालानाम् अविरतप्रश्नशीलता बुद्धेः तीक्ष्णतायाः पूर्वसूचिका भवति। एवमेव उपनिषदि अपि, प्रश्नानां द्वारैव तत्त्वज्ञानस्य उत्तराणि प्रकटितानि। तस्मात् निष्कर्षः एषः भवति यत् **‘प्रश्नः एव ज्ञानस्य मूलम्’** इति। सा प्रवृत्तिः या प्रश्नं करोति, सा एव तत्त्वं विज्ञातुं प्रवर्तते। अतः जिज्ञासुः सन्, सम्यक् विधिना, सत्यनिष्ठया च प्रश्नान् कुर्वन् एव जनः ज्ञानराशिं समधिगच्छति – इदमेव प्राश्निकोपनिषदः सार्वकालिकं सन्देशम् इति निर्विवादम्।
॥ इति समाप्तम् ॥
[1] प्रश्नोपनिषत् १ – १ – १
[2] प्रश्नोपनिषत् १ – १ – २
[3] प्रश्नोपनिषत् १ – १ – ३
[4] प्रश्नोपनिषद् – १-१
[5] प्रश्नोपनिषद् – २-१
[6] प्रश्नोपनिषद् -३ -१
[7] प्रश्नोपनिषत् ४-१
[8] प्रश्नोपनिषत् ५-१
[9] प्रश्नोपनिषद् ६-१
