श्रीशिवरामेन्द्रसरस्वतिप्रणीत – रत्नप्रकाशव्याख्यायाः पस्पशाह्निकस्येकमवलोकनम्

डा.कुमुदा राव् एच्.ए

सारांशः

विदितवेदितव्यमेव तत्रभवतां विदुषां यत् वेदोपकारिषु सकलाङ्गेषु मुख्यस्थानीयं मुखं व्याकरणमेव। अत एव ‘मुखं व्याकरणम्’ (पा शि) इति जोघुष्यते लोके। तदेतद् व्याकरणं ‘त्रिमुनि व्याकरणम्’ इत्येव प्रसिद्धम्। त्रिमुनित्वेन पाणिनि-कात्यायन-पतञ्जलिमुनयः ज्ञाताः। तेषु पतञ्जलिना रचितं महाभाष्यं शास्त्रान्तरभाष्यापेक्षया विलक्षणम्। अत एव बहुभिः वैयाकरणैः महाभाष्यस्य मथनं कृतं स्वीयव्याख्यानैः। तत्र एकं प्रौढं विशिष्टं श्रीशिवरामेन्दसरस्वतीमुनिभिः प्रणीतं रत्नप्रकाशव्याख्यानम्। महाभाष्यस्यैव व्याख्याने प्रवृत्तोsयं पदे पदे प्रदीपं खण्डयति। ‘अथ शब्दानुशासनम्’ इत्यत्र ‘अथ’ शब्दस्य द्योतकत्वं प्रतिपादयति कैयटः। तत्खण्डयित्वा वाचकत्वं प्रत्यपादयत् रत्नप्रकाशकारः। ‘शब्दानुशासनम्’ इत्यत्र ‘उत्तरपदार्थान्तर्गतस्यापि पूर्वपदार्थस्य बुद्ध्या प्रविभागात्मिका प्रत्यवमर्शः’ इति चोक्तम्।

कुञ्जिशब्दाः –  व्याकरणम्, महाभाष्यम्, कैयटः, रत्नप्रकाशः, अथ शब्दानुशासनम्, द्योतकत्वम्, वाचकत्वम्

उपोद्घातः

नमः पाणिनिकात्यायनपतञ्जलिभ्यः । नमः शब्दविद्यासम्प्रदायकर्तृभ्यो नमो वंशर्षिभ्यो नमो महद्भ्यो गुरुभ्यः ।

इह खलु सकललोकव्यवहारनिर्वहणाय भाषैव जुषते प्रधानभावम् । अन्तरेण भाषां लोका न समर्था भवन्ति नैजमाशयमवबोधयितुम् । अपरञ्च भाषयापि सुसंस्कृतया भवितव्यम् । सुसंस्कृता भाषा हि शब्दसाधुत्वमपेक्षते । साधुशब्दयोगे हि व्याकरणाध्ययनं प्रधानं कारणम् । यतः प्रधाने च कृतो यत्नः फलवान् भवति । अत एव भर्तृहरिरप्याह वाक्यपदीये –

‘साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः’ इति ।

प्राचीनसूत्रटीकापरम्परायां विशेषः व्याकरणशास्त्रे यत् – सूत्रम्, वार्तिकम्, भाष्यम् इति ग्रन्थक्रमः। आदौ पाणिनिसूत्राणि, ततः तेषां सूत्राणामुक्तानुक्तदुरुक्तचिन्तापराणि कात्यायनवार्तिकानि, तदनन्तरं पतञ्जलेः अतिविस्तरविस्तीर्णं महाभाष्यम् । 

महाभाष्यम्

‘अलब्धगाधे गाम्भीर्यादुत्तान इव सौष्ठवात् ।

तस्मिन्नकृतबुद्धीनां नैवावस्थित निश्चयः ॥’ 

इति महाभाष्यस्य वस्तुभूतामवस्थां वर्णयति भर्तृहरिः स्वीये वाक्यपदीये । प्राचीनसंस्कृतवाङ्मये पतञ्जलिरचिताया व्याकरणसूत्राणां टीकाया समाख्या ‘महाभाष्यम्’ इति । यद्यपि ब्रह्मसूत्रभाष्यम्, शाबरभाष्यम् इत्यादयो बहवो भाष्यग्रन्थाः प्रसिद्धाः प्राचीनग्रन्थेषु, तथापि इदमेव महाभाष्यमिति सम्प्रदायरूढिः ।

महाभाष्यस्य टीकाः

व्याकरणभाष्यस्योपर्यनेकाष्टीकाः विलिखिताः । तत्र कैयटस्य ‘प्रदीप’ नाम्नी व्याख्या प्रसिद्धा। तदुपरि विद्यमानासु व्याख्यासु श्रीशिवरामेन्द्रसरस्वतीयतिभिः रचिता रत्नप्रकाशव्याख्या महत्त्वपूर्णा । १६७५ – १७५० वैक्रमाब्देषु स्थिताः इमे हि आचार्याः हरिहरेन्द्रवर्याणां शिष्याः इति श्रूयते । विष्णुमित्रस्य क्षीरोदव्याख्यानं, सिद्धान्तकौमुदीं, शब्दकौस्तुभं चोद्धृत्य दूषयति यत्र कुत्र । प्रदीपञ्च प्रायः प्रतिपदमुद्धृत्य खण्डयति । ग्रन्थोsयं १७०१ मितवैक्रमाब्दे सम्पूर्णमभूत् इति व्याकरणशास्त्रेतिहासे लोकमणिदंहालः । 

इह तावद् भगवान् पाणिनिः शब्दजिज्ञासुजनानुग्रहाय द्वादश समाः समाराधितान्महेश्वराच्चतुर्दशसूत्रीमवाप्य स्वयं व्याकरणं प्रणिनाय । यत् स्मरन्ति –

येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । 

कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ इति ।

तत्र च ‘वार्तिकज्ञा विपश्चितः’ इति । तदेतदपि पतञ्जलिराक्षेपसमाधानपूर्वकमिष्ट्यादिभिश्च परिचस्कार । तदिदं ‘त्रिमुनि व्याकरणम्’ (का-२-१-१९) इत्यूचुर्वृद्धाः । 

तत्र यद्यपि प्रेक्षावत्प्रवृत्तयेsनुबन्धचतुष्टयमवश्यं वाच्यं, तथापि ग्रन्थलाघवार्थं सूत्रकारस्तन्नावदत् । किञ्च ‘ब्राह्मणेन निष्कारणः’ (म भा १-१-१८) इत्यादिस्मृतेर्वेदाध्ययनवत् व्याकरणाध्ययनस्यापि नित्यतया विहितत्वेन सन्ध्योपासनादाविव प्रयोजनप्रतिपत्तिमन्तरेणापि प्रत्यवायपरिहारार्थितयैवोत्तमाधिकारिभिः सुज्ञानञ्च प्रयोजनम् । तदुक्तम् –

तस्माद् विज्ञायमानत्वान्नोक्तं शास्त्रकृता स्वयम् ।

शास्त्रेण सर्वशब्दानामन्वाख्याने प्रयोजनम् ॥ इति । (त वा १-३-२७-५८)

वार्तिककारस्तु ‘शास्त्रपूर्वके प्रयोगे धर्मः’ (वा १-१-९) इति परमप्रयोजनं मध्यमाधिकारिणं प्रत्युपदर्शितवान् । भाष्यकारस्तु मन्दाधिकारिणां प्रवृत्तेः प्ररोचकप्रयोजनप्रतिपत्तिप्रवणत्वात् व्यवहितफलेषु च स्वर्गापूर्वादिषु झटित्यनाश्वासात् साक्षात्प्रयोजनं शब्दव्युत्पत्तिलक्षणं तावदाह – अथ शब्दानुशासनम् इति ।

रत्नप्रकाशे पस्पशाह्निकम्

प्रकृतप्रबन्धे यतिवर्याणां शैली निदर्शनरूपेण अन्यमततुलनप्रदर्शनपुरस्सरं ईषदिव प्रस्तूयते ।

अथ शब्दस्य द्योतकत्व-वाचकत्वविचारः

‘अथ शब्दानुशासनम्’ इति शास्त्रारम्भप्रतिज्ञापरवाक्यगतस्याथशब्दस्य आनन्तर्यार्थकत्वं खण्डयित्वा अधिकारार्थत्वं प्रत्यपादयत् रत्नप्रकाशकारः ।

तदनु वाचकत्वमुपास्थापयत् ।

तत्र प्रदीपः

‘अधिकारः प्रस्तावः द्योत्यत्वेनास्य प्रयोजनमित्यर्थः’ इत्युक्त्वा ‘अथ’ शब्दस्य द्योतकत्वं प्रास्तापयत्। द्योतकत्वे प्रमाणञ्च निपातानां द्योतकत्वप्रतिपादकवाक्यपदीयम् इति । तथा च- कैयटः महाभाष्यकृद्वाक्यस्य – ‘अथेत्ययं शब्दोsधिकारार्थः प्रयुज्यते’ इत्यस्य व्याख्यानं कुर्वाणः प्रतिपादयति यत् अधिकारार्थ इत्यत्र अर्थशब्दः प्रयोजनपरः । एवञ्चाधिकारः अर्थात् प्रस्तावः द्योतकत्वेन प्रयोजनं यस्य सः तादृशः ‘अथ’ शब्दः अत्र वाक्ये प्रयुज्यते । एवञ्च निपातस्य अथशब्दस्य द्योत्यार्थकत्वं भाष्यकृदभिप्रायत्वेन व्याख्याति । नैतावन्मात्रं, किन्तु समेषां निपातानां द्योतकत्वमङ्गीकुर्वाणोsसौ तत्र वाक्यपदीयकर्तुः निर्णयं संवदति । तथा हि – ‘निपातानाञ्च द्योतकत्वं वाक्यपदीये निर्णीतम्’ इति ।

रत्नप्रकाशः

इमे हि यतिवर्याः द्योत्यत्वं निरस्य युक्तित्रयद्वारा वाचकत्वं समुपास्थापयत् । यच्च –

१) क्रियान्वयिनां निपातविशेषाणां क्रियाविशेषद्योतकताया भ्वादिसूत्रे भगवता व्यवस्थापितत्वेsपि सर्वत्र निपातानां द्योतकत्वाश्रयणे मानाभावात् ।

२) वाचकपदसमभिव्याहाराभावे द्योतकत्वकल्पनाया असम्भवात् द्योत्यवाच्यलक्ष्यभेदेन शब्दार्थस्य त्रैविध्येनार्थशब्दस्य वाच्यपरस्य प्रयोजनपरतया व्याख्यानानौचित्यात् ।

३) विशेषणविशेष्यभाववैपरीत्येन तद्व्याख्याने मानाभावाच्च ।

इत्थञ्च रत्नप्रकाशकारस्तु ‘अथ’ शब्दस्य वाचकत्वमभिमन्यते । ‘अधिकारः प्रस्तावः द्योत्यत्वेनास्य प्रयोजनमित्यर्थः । निपातानाञ्च द्योतकत्वं वाक्यपदीये निर्णीतम्’ इति कैयटमनूद्य द्योतकत्वं खण्डयति । क्रियान्वयिनां निपातविशेषाणां क्रियाविशेषद्योतकताया भ्वादिसूत्रे भगवता व्यवस्थापितत्वेsपि सर्वत्र निपातानां द्योतकत्वाश्रयणं न युक्तम् । तथा हि – चन्द्र इव मुखं दृश्यते इति – ‘इव’ पदसमभिव्याहारे सादृश्यार्थः प्रतीयते । तदभावे तु न प्रतीयत इत्यन्वयव्यतिरेकाभ्यां च निपातसामान्यस्य वाचकत्वमेव युज्यते । उक्तञ्च –

निपातानां वाचकत्वमन्वयव्यतिरेकयोः ॥ इति ।

वै भू का ४७

अपि च वाचकपदसमभिव्याहारे द्योतकत्वकल्पनाया असम्भवात् द्योत्य-वाच्यलक्ष्यभेदेन शब्दार्थस्य त्रैविध्येनार्थशब्दस्य वाच्यपरस्य प्रयोजनपरतया व्याख्यानमनुचितम् । विशेषंणविशेष्यभाववैपरीत्येन व्याख्याने च मानाभावः इति ‘अथ’ शब्दविषये वाचकत्वमङ्गीकार्यमिति ।

अत्र उद्योतः

स्वरूपतो मङ्गलार्थम्, अर्थतोsधिकारार्थम् इति अथशब्दः उभयार्थं प्रयुज्यत इति भावः । तेन ‘सकृदुच्चारितः शब्दः सकृदेवार्थं गमयतीति व्युत्पत्तिविरोधो न । तस्यानुभयार्थत्वे अधिकृतं शब्दानुशासनम्’ इत्येव वदेत् । अव्ययं विभक्तीति सूत्रीयभाष्यानुसारेण प्राद्युपसर्गभिन्नचादिनिपातानां द्योतकत्ववाचकत्वे उभयस्मिन् स्वीकृते वाचकशब्दसमभिव्याहारसहकृतलाघवसत्वे तेषां द्योतकता अनन्यलभ्यः शब्दार्थ इति न्यायात्, अन्यथा वाचकतेति नियमस्यावश्याभ्युपगन्तव्यतया प्रकृते बाधकाभावात् अथशब्दस्याधिकारवाचकत्वमेव सम्यगिति नागेशः अभिप्रैति ।

तत्र ‘परे तु’ विश्रुतशैल्या स्वमतं प्रतिपादयन् – ‘अथ शब्दानुशासन’मित्यत्र अथशब्दस्य वाचकत्वमङ्गीकुर्वाणः तस्याभिधेयमर्थम् अधिकृतम् इति स्वीकृतिपुरस्सरं रत्नप्रकाशमतं पोषयति ।

निपातार्थविषये भर्तृहरिमतम् –

वैयाकरणानां निकाये आचार्याणां ग्रन्थेषु निपातार्थविषये त्रयः पक्षाः विवेचिताः दरीदृश्यन्ते । तत्र प्रथमः पक्षः – निपातानां विशेषार्थद्योतकत्वम् । अयमाशयः – धातुमात्रेण प्रकर्षादिविशेषाणामप्रतीत्या, उपसर्गसम्बन्धाच्च तत्प्रतीत्या उपसर्गाणां विशेषार्थद्योतकत्वम् इत्यायाति। यथा – ‘अनुभवति’ इत्यत्र उपसर्गस्यानुभवार्थद्योतकत्वम् । उक्तञ्च भर्तृहरिणा –

‘क्वचित्सम्भाविनो भेदाः केवलैरनिदर्शिताः ।

उपसर्गेण सम्बन्धे व्यज्यते प्रपरादिना ॥’ इति ।

वाक्यपदीयम् ।

तत्र तत्रोपसर्गाणां  विशेषार्थवाचकत्वमपि चर्चितमस्ति । स चायं द्वितीयः पक्षः । यथा – प्रतिष्ठिते इत्यत्र गतिनिवृत्तिः स्थाधातोरर्थः, उपसर्गस्य च गत्यर्थोsभिधेयः । यदुक्तं वाक्यपदीये –

स वाचको विशेषाणां सम्भवाद् द्योतकोsपि वा । इति ।

शास्त्रे तत्र तत्र सहितौ धातूपसर्गौ सहैव विशिष्टार्थं ब्रूतः । एवञ्च विशिष्टार्थाभिधाने उपसर्गाणां सहकारित्वमित्येष तृतीयः पक्षः । तथा हि प्रजयतीत्यादौ प्रकृतिविशिष्टं जयं धातूपसर्गौ सहैव प्रतिपादयतः । तदिदमुक्तं वाक्यपदीये –

शक्त्याधानाय धातोर्वा सहकारी प्रयुज्यते । इति ।

यद्यपि त्रयोsप्येते पक्षाः शास्त्रे चर्चिताः तत्रोपसर्गाणां विशेषार्थद्योतकत्वमेव सिद्धान्तितम् । एवञ्च ‘प्रतिष्ठिते’ इत्यत्र धातूनामनेकार्थत्वेन प्रकरणादिना अनुमानप्रयोगेण च स्थाधातोरेव गत्यर्थकत्वं भवति । प्रशब्दस्तु तादृशस्य विलक्षणार्थस्य द्योतनमात्रं कुरुते । तदिदं सिद्धान्तवचनमाचार्यैः आस्थीयते –

स्थादिभिः केवलैर्यच्च गमनादिर्न गम्यते ।

तत्रानुमानाद् द्विविधात् तद्धार्मा प्रादिरुच्यते ॥ इति ।

एवं पक्षत्रयमाश्रितमाचार्यैः । इयमेव सरणिः उपसर्गेतरनिपातेsपि विद्यते । क्वचित् निपाताभिसम्बन्धेन विशेषार्थद्योतकत्वमभिहितम् । अन्यत्र च विशिष्टार्थाभिधाने उपसर्गेतरनिपातानां सहकारित्वं प्रतिपादितम् । तदिदं सङ्कलितं हरिणा –

निपाता द्योतका केचिद् पृथगर्थाभिधायिनः ।

आगमा इव केचित् स्युः सम्भूयार्थस्य वाचकाः ॥ इति ।

विशकलितविवेचनेन इदं तावत् प्रतिभाति यत् – उपसर्गाणामिव तदितरनिपातानामपि द्योतकत्वमेव हरिभ्योsपि रोचते । तथा हि – ये किल वाचकाः घटादयः शब्दाः तेषां स्वातन्त्र्येणार्थबोधनाय प्रयोगोsनुभूयते । यदि च निपाताः वाचकाः भवेयुः, तदा घटादिवत् केवला अपि प्रयुज्येरन् । एवञ्च निपाता न वाचका केवलानामप्रयोगात् प्रत्ययवदित्यनुमानेन निपातानां वाचकत्वाभावः प्रसिद्ध्यति । तदिदं निपातानां द्योतकत्वमभ्यधायि हरिणा –

चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः ।

प्रत्ययो वाचकत्वेsपि केवलो न प्रयुज्यते ॥ इति।

तदिदं चादि-प्रादिसाधारणं भर्तृहरिणामनुमतं द्योतकत्वम् । एतदेव महावैयाकरणस्यकैयटस्यापि श्रद्धेयम् ।

अत्रायं निष्कर्षः – 

उपसर्गः, निपातः, अव्ययमिति लिङ्गविभक्तिशून्यस्य त्रिधा विभागः पाणिनीये दृश्यते । स्वरादिनिपातमव्ययम् (१-१-३७) इति अव्ययसंज्ञाबोधकं प्रधानं सूत्रम् । स्वरादयः निपाताश्च अव्ययसंज्ञाः भवन्ति । स्वरादयः परिगणिताः । चादयोsसत्त्वे इति सूत्रेण निपातसंज्ञा उच्यते । सत्त्वं नाम द्रव्यम् । तद्भिन्नमद्रव्यम् । लिङ्गवचनादिशून्यमित्यर्थः । अद्रव्यार्थाः चादयः निपातसंज्ञाः भवन्ति । च वादयः चादिगणे बहवः पठिताः । उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाता इत्युक्तम् । चादयः इति आकृतिगणोsयम् । इत्थमव्ययेषु उपसर्गा अपि निर्दिष्टाः । प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि आङ्, नि, अधि, अपि, अति, सु, उद्, अभि, प्रति, परि, उप इति प्रादयः द्वाविंशतिः। ‘उपसर्गाः क्रियायोगे’ (१-४-७१) क्रियायोगे प्रभवतीत्यादौ एतेषामुपसर्गसंज्ञा, गतिश्च (१-४-६०) इति सूत्रेण गतिसंज्ञा चोक्ता । क्रियायोगाभावे एतेषां केवलम् अव्ययसंज्ञैव वर्तते । इत्थम् उपसर्गाः निपाताश्चेति अव्ययेषु द्विविधाः वर्तन्ते । चादीनां समुच्चयार्थः अनुभवसिद्धः । क्रियायोगे प्रभवतीत्यादौ विशिष्यार्थो लभ्यते । अतः एते अर्थवन्तः । स्वतः ते अर्थवन्तः, अर्थात् तदर्थवाचकाः, अथवा प्रकृत्यर्थस्यैव द्योतका वेति शास्त्रेषु विचारः प्रवृत्तः । 

उपसर्गाणां द्योतकत्वं निपातानां वाचकत्वमिति नैयायिका वदन्ति । उभयोरपि द्योतकत्वमेवेति कैयटतदनुयायि दीक्षितादयः । ‘उपसर्गेण धात्वर्थो बलादन्यत्र नीयते’ इत्य्क्त्या उपसर्गयोगे प्रभवतीत्यादौ भवतीत्यपेक्षया अन्यार्थः प्रतीयते । सः न धात्वर्थः, न वा उपसर्गार्थः । अन्यथा तत्प्रयोगे तदर्थबोधः प्रसज्येत । 

अतः अनुभवतीत्यादौ धातोः तत्तदर्थलक्षकत्वम्, उपसर्गस्य तथा ग्रहणे तत्पर्यग्राहकत्वञ्च वक्तव्यम् । तदेव द्योतकत्वम् । उपसर्गाणां द्योतकत्वे योsयं हेतुः तुल्युक्त्या तेनैव हेतुना निपातानामपि द्योतकत्वमेव । चैत्रमिव पश्यतीत्यादौ चैत्रनिरूपितसादृश्यविशिष्टे चैत्रशब्दस्य लक्षणा । निपातः तात्पर्यग्राहकः । एवं रूपेण प्रादिचाद्योः वैषम्याभावात् उभयोरपि द्योतकत्वमेवेति कैयटादयः । एवञ्च अथशब्देन अधिकारार्थः द्योत्यते इति प्रदीपकृतोक्तम् । 

रत्नप्रकाशकृता तन्निराकृतम् । क्रियान्वयिनां निपातविशेषाणां क्रियाविशेषद्योतकताया भ्वादिसूत्रे भगवता व्यवस्थापितत्वेsपि सर्वत्र निपातानां द्योतकत्वाश्रयणे मानाभावात् इत्युक्त्वा निपातानां वाचकत्वमपि समर्थयामास । अधिकारार्थ इत्यत्र अर्थशब्दस्य वाच्यपरत्वेन प्रयोजनपरत्वेन व्याख्यानं न युक्तमिति कैयटं निरस्तवान् । यद्यपि नागेशभट्टः बहुत्र रत्नकारमतं निराकरोति तथापि क्वचित् तनामानिर्देशपूर्वकं तन्मतं समर्थयति सः । मञ्जूषायां महता ग्रन्थेन नागेशः निपातानां वाचकत्वं द्योतकत्वञ्च समर्थयामास । पर्वतात् आ इत्यादौ पर्वतादर्वाक् इत्यर्थप्रतीतेः तत्र वाचकत्वमेवेति निरुक्ते स्पष्टं । निपातानां द्योतकत्व‍-वाचकत्वञ्च भर्तृहरिणापि स्वीकृतम् । यथा –

निपाता द्योतकाः केचित्पृथगर्थाभिधायिनः ।

आगमा इव केsपि स्युः सम्भूयार्थस्य वाचकाः ॥ इति ।

किञ्च अव्ययं विभक्तीति सूत्रे अव्ययं समृद्ध्यादीनां वाचक इति कैयटेनोक्तत्वात् स्ववचोविरोधश्च । अतः निपातानां लक्ष्यानुसारेण कुत्रचित् वाचकत्वं कुत्रचित् द्योतकत्वमिति फलितम् ।

शब्दानुशासनशब्दसाधुत्वम् –

अनुशिष्यन्ते असाधुशब्देभ्यो विविच्य ज्ञाप्यन्ते शब्दाः साधवोsनेनेति अनुशासनम्, करणे ल्युट् । शब्दानामनुशासनमिति कर्मषष्ठ्यन्तस्य शेषष्ठ्यन्तस्य वा समासः । व्याकरणशास्त्रस्येदमन्वर्थं नाम। यत्र कर्तृकर्मवाचकं पदद्वयं प्रयुज्यते तत्रैव ‘उभयप्राप्तौ कर्मणि’ इति नियमप्रवृत्तिः, ‘कर्मणि च’ इति समासनिषेधश्च । यथा आश्चर्यो गवां दोहोsगोपेनेति । प्रसङ्गेsस्मिन् कैयटः ‘आचार्यस्य कर्तुः प्रयोजनाभावात् अनुपादानादुभयप्राप्त्यभावान्न’ ‘उभयप्राप्तौ’ इत्यनेन षष्ठी, अपि तु ‘कर्तृकर्मणोः कृति’ इत्यनेनेति ‘कर्मणि च’ इति समासनिषेधाप्रसङ्गात् इध्मप्रव्रश्चनादिवत् समासः’ इत्यभिप्रैति । इन्द्रादीनाममपि व्याकरणकर्तृत्वस्य प्रसिद्धत्वेन तद्व्यावृत्तेः पाणिनिपदोपादानप्रयोजनस्य सत्त्वात्, सत्यपि प्रयोजने तत्फलकपदप्रयोगस्य विवक्षाधीनस्याभावे दोषाभावाच्च कैयटस्याभिप्रायः निरस्तः इति यतिवर्याः मन्यन्ते । 

 आचार्यस्य कर्तुः प्रयोजनाभावादनुपादानमिति वचने साधुत्वं न प्रतिभाति । श्रूयते च – इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः ।

पाणिन्यमरजैनेन्द्रा जयन्त्यष्टौ च शाब्दिकाः ॥

इति अष्टविधव्याकरणसत्ता प्रतिपादकवचनम् । प्रकृतं पाणिनीयव्याकरणमधिकृत्य विषयप्रस्तुतिः इति ज्ञापनं पाणिनिपदोपादानप्रयोजनम् इति यतिवर्याणामाशयः । इत्थञ्च शब्दानामिदमनुशासनं न त्वर्थानामित्यर्थनिवृत्तौ तात्पर्यात् सतोsप्याचार्यस्य कर्तुः अविवक्षितत्त्वान्न सामर्थ्येन कर्तुः प्रयोजनम् इति उभयप्राप्त्यभावः इति फलितम्।

‘अथ शब्दानुशासनम्’ इति शब्दानामनुशासनप्रतिज्ञा कृता । ततः अनुशासनीयशब्दनिर्णयः क्रियते – ‘केषां शब्दानाम्’ इति । 

समासे गुणीभूतस्य कथं परामर्शः –

शब्दानुशासनम् इति समासे ‘केषां शब्दानाम्’ इति गुणीभूतानामुत्तरपदार्थान्तर्भूतानां शब्दानां निष्कृष्य कथं परामर्शः इति चेत् –

अत्र केचित् – समासान्तर्गतस्यापि विग्रहवाक्यावस्थायां विभक्तत्वेनाप्यवगमात् शब्दशब्दस्य परामर्शः । यथा राजपुरुषोsयं कस्य राज्ञ इति । यद्यपि शब्दानुशासनशब्दस्य रूढत्वम् । तथाप्यवयवार्थस्यात्यन्तासम्भवेन असत्स्ववयवार्थेषु योsन्यत्रार्थे प्रयुज्यते ।

तत्रानन्यगतित्वेन समुदायः प्रसिद्ध्यति ॥ (त वा १-४-२२-२)

इति समुदायस्यैवार्थान्तरे रूढत्वाद् विग्रहोपस्थानाभावे कस्याश्वस्येति न भवति प्रत्यवमर्शः । इह त्ववयवार्थोsप्यस्तीत्युक्तमित्याहुः । हरदत्तस्त्वाह – ‘स्यादयं दोषो यदि केषामित्येवोच्येत । तदा हि शब्दानामित्यनुषङ्ग आश्रयणीयः स्यात्, स च समासे गुणीभूतस्यानुपपन्नः । इह तु विशेष्यं शब्दानामिति स्वशब्देनोपादीयते, तत्तु प्रकृतगुणीभूतशब्दपरमित्येतावत् । तच्च नानुपपन्नं बुद्धौ सन्निहितत्वात् राजपुरुषोsयं कस्य राज्ञ इतिवत् (प म १५) एवञ्च शब्दानामिति स्वशब्देन निर्दिष्टानामेव किमा परामर्शो न तु शब्दानुशासनमित्यत्र समासे गुणीभूतानामित्युक्तं भवति । अत एव पुनः शब्दशब्दोपादानमिति । एतेन ‘तस्मिन्नद्रौ’ (मेघदूत पूर्वमेघ २)  इत्यत्राद्रिपदोपादानं व्याख्यातम्, अन्यथा रामगिरेः पूर्वत्र समासे गुणीभूतस्य तस्मिन्नित्यनेन परामर्शो न स्यात् ।

अन्ये त्वाहुः – यत्तदोर्बुद्धिस्थमात्रपरामर्शित्वात् समासे गुणीभूतस्यापि बुद्ध्या पृथक्कृतस्य परामर्शो नानुपपन्नः इति ।

रत्नप्रकाशकारस्तु – ‘उत्तरपदार्थान्तर्गतस्यापि पूर्वपदार्थस्य बुद्ध्या प्रविभागात्मिका प्रत्यवमर्शः । यथा राजपुरुषः इत्युक्ते कस्य राज्ञः’ इति प्रदीपकथनमयुक्तम् इति वदति। तत्र प्रदर्शिताः युक्तयः –

१) पूर्वपदार्थस्य उत्तरपदार्थान्तर्गति तत्प्रविभागोक्तेः शास्त्रलोकविरोधात् ।

२) विशिष्टेsर्थे समासस्यैव शक्तेः वैयाकरणैरभ्युपगमात् ।

३) विशिष्टविषय एव प्रश्नः कर्तव्यः न तु विशेषणविषय इत्यत्र मानाभावेन तदुपपादनायासस्यानर्थक्याच्च इति ।

अनुशासनीयशब्दनिर्णयाधिकरणे उपस्थापितप्रश्नमित्थं समाधीयते – ‘लौकिकानां वैदिकानाञ्च’ इति । वेदे भवा वैदिकाः, अध्यात्मादित्वाट्ठञ् । लोके विदिता लौकिकाः इत्यत्र लोकसर्वलोकादिति ठञ् ।

अत्रेयमाशङ्का – ननु कथं भेदेन निर्देशः? ‘य एव लौकिकास्त एव वैदिका’ (शा १-३-३०) इति जैमिनिनोक्तत्वात् ‘प्रयोगचोदनाभावादर्थैकत्वमविभागात्’ (जै १-३-३०) इति चेत् – उच्यते । केचित् व्यवस्थितविषयाः शब्दाः नियतानियतानुपूर्वीस्वरकास्तद्भेदात् भेदेन निर्देशः । यद्वा प्रदीपकारः वदति – वैदिकानां लौकिकत्वेन प्राधान्यख्यापनाय पृथगुपादानम् । यथा ब्राह्मणा आयाताः वसिष्ठोsप्यायात इति वसिष्ठस्य । तेषां तु प्राधान्यं यत्नेनापभ्रंशपरिहारात् इति । प्रदीपकारोक्तिममुमित्थं खण्डयति रत्नप्रकाशकारः – सर्वेषां वैदिकानां लौकिकत्वाभावेन ब्राह्मणवसिष्ठन्यायाविषयत्वात् । लोकवेदसाधारणेषु यत्नसाम्येन वेदसाधारणेष्विव लौकिकासाधारणेष्वपि यत्नविशेषदर्शनेन च वैदिकानां तथा प्राधान्यासिद्धेश्च इति। यदप्युक्तं प्रदीपकारेण भाषाशब्दानामेव लौकिकत्वमिति भेदेन निर्देश इति, तदपि न । लौकिकशब्देन प्रथमोच्चारितेन यावतामुपस्थितिः सम्भवति तावत्परत्वं तस्याभ्युपगम्य तेनानुपस्थाप्यपरतया एव वैदिकशब्दस्य वक्तुमुचितत्वात् । तदैव लोकशब्दस्यादौ प्रयोगस्योपपन्नत्वाच्च । 

लौकिकशब्दानुदाहृतं गौरश्वः पुरुषो हस्ती शकुनिर्मृगो ब्राह्मण इति । गौरश्वः पुरुषः इत्यादिना शब्दस्वरूपे निदर्शितेsपि लोके शब्दप्रयोगो बहुधार्थपर एव दृष्ट इति अत्राप्यर्थपर एव निर्देश इति मन्यमानः मन्दबुद्धिः कश्चित् पृच्छति – अथ गौरित्यत्र कः शब्दः? इति । प्रश्नस्यास्याशयं कैयटः एवमभिव्यनक्ति – ‘गौरिति विज्ञाने प्रतिभासमानेषु कः शब्दः इत्यर्थः’ इति । शब्दशब्दाभिधेयः कः इति भावः । 

एतदुपरि रत्नप्रकाशखण्डनम् – गौरिति विज्ञाने गुणक्रिययोर्भानाभावेन ‘गौरिति ज्ञानं किञ्चित्, तत्रैतेsर्था भासन्ते’ इत्येतत्सूक्ष्मार्थं जानता ततः स्थूलरूपस्य श्रोत्रेन्द्रियग्राह्यशब्दस्य सुज्ञानत्वेन च तद्विषयकप्रश्नस्यासम्भवात्, लोकव्यवहारे हस्तेन यो निदर्श्यते स वा तद्गतधर्मविशेषो वा शब्दः इत्येव प्रश्नस्वरूपवर्णनस्यौचित्याच्च प्रदीपवचनं निरस्तम् इति । समाधानरूपेणोपात्तं – सास्नालाङ्गूलककुदखुरविषाण्यर्थरूपं न शब्दः, गुणाश्रयत्वात् । इङ्गितं चेष्टितं निमिषितमिति, सोsपि न शब्दः, कृदन्तधातुवाच्यत्वात् । शुक्लो नीलः कपिलः कपोत इत्यपि न शब्दः, द्रव्यकर्मेतरसामान्यवत्वादिति भावः । भिन्नेष्वभिन्नं छिन्नेष्वच्छिन्नं सामान्यभूतमपि न शब्दः, आश्रयेषु नष्टेष्वपि स्वयमनश्यत्वात्, नित्यत्वादिति भावः । तदेवं विशेषरूपेण पृष्ठेषु द्रव्यादिषु शब्दत्वं निरस्य येनोच्चारितेन सस्नालाङ्गूलककुदखुरविषाणिनां सम्प्रत्ययो भवति स शब्दः इति उच्यते ।

रत्नप्रकाशकारेण स्फोटविचारो विस्तरेण पृथगेव कर्तुमुचितमिति, अत्र मया न कृतः इति सः विचारः न प्रस्तुतः । 

अथवा इति पक्षान्तरम् आविष्कृतं भाष्यकारेण । तच्च – प्रतीतपदार्थको लोके ध्वनिः शब्द इति । अत्र कैयटः – ध्वनिस्फोटयोर्भेदस्य तपरसूत्रे व्यवस्थापितत्वादिहाभेदेsपि न दोषः, द्रव्यादयो न शब्दशब्दवाच्या इत्यत्र तत्पर्यादिति । तदिदं वचनं खण्डयति यतिवर्याः यथा – स्फोटस्यैव शब्दवाच्यत्वं न तु ध्वनेरित्यत्र मानाभावात्, ‘शब्दे निनादनिनदध्वनिध्वानरवस्वनाः’ इति ध्वनिपर्यायत्वेन शब्दस्य बालकेनापि ज्ञातत्वाद्, ‘उक्तः शब्दः, स्वरूपमप्युक्तम्’ इत्युत्तरभाष्येण तद्धरिग्रन्थेन च विरोधाच्च कैयटोक्तिः दुष्टा इति ।

उत्तरग्रन्थे व्याकरणाध्ययनस्य मुख्यप्रयोजनानि एवं आनुषङ्गिकप्रयोजनानि च प्रस्तोष्यन्ते । शब्दनित्यत्वानित्यत्वविचारः प्रस्तुतः । तत्र ‘कथं पुनरिदं  भगवतः पाणिनेराचार्यस्य लक्षणं प्रवृत्तम्’ इति आक्षेपभाष्यं ‘सिद्धे शब्दार्थसम्बन्धे’ इति वार्तिकद्वारा समाधीयते । आक्षेपस्य भावं ‘किमाचार्य एव स्रष्टाशब्दार्थसम्बन्धानाम्, अथ स्मर्तेति प्रश्नः’ इति चित्रयति कैयटः । ‘ब्रह्माण्डस्य शब्दार्थसम्बन्धातिरिक्तात्मकत्वाभावेन पाणिनेस्तदन्तर्गतस्य ऋषिविशेषस्य तत्स्रष्टृत्वाप्रसक्तेः कैयटाशयः असम्मतः’  इति रत्नप्रकाशकारः ।

‘सिद्धे शब्दार्थसम्बन्धे’ इति वाक्यैकदेशमुपपाद्य यदि तर्हि लोक एषु प्रमाणम्, शास्त्रेण किं क्रियत इति सन्दिह्यते । तत्र कैयटः – अत्र भाष्यकारेण सम्भवतीमप्येकवाक्यतामनाश्रित्य वाक्यत्रयं स्थापितम् । सिद्धे शब्दार्थसम्बन्धे शास्त्रं प्रवृत्तमित्येकं वाक्यम् । कथं ज्ञायत इति प्रश्ने लोकतो ज्ञायत इति द्वितीयम् । लोकत इत्यस्यावृत्या लोकतोsर्थप्रयुक्त इत्यादि तृतीयम् इति । तदित्थं खण्डयति रत्नप्रकाशकारः वार्तिककाराभिमतैकवाक्यतायाः पदपदार्थशोधनद्वारा भगवता निदर्शितत्वेन ‘वाक्यत्रयपरत्वेन व्याख्यातम्’ इत्यत्र मानाभावात् । ‘यथा लौकिकवैदिकेषु’ इत्यंशस्यापि पार्थक्येन निदर्शितत्वेन ‘वाक्यचतुष्टयं निदर्शितम्’ इत्यनुक्तौ बीजाभावात्। प्रश्नपूर्वकं पृथग्दर्शित्वस्य गौरवग्रस्तत्वेन दर्शनमात्रेणैव कुत्र दृष्ट एतादृशो धर्मनियम इति प्रश्नस्य तत्रापि सम्भवाच्च वाक्यभेदाश्रयणकल्पनौचित्यात् कैयटः असमीचीनः इति ।

इत्थं यतिवर्याणां टीका कैयटं प्रतिपदं खण्डयन्ती अग्रे सरति । 

सङ्केताक्षरसूची –

१) वा प – वाक्यपदीयम्

२) वै भू/भू सा – वैयकरणभूषणसारः

३) म भा – महाभाष्यम्

४) त वा – तन्त्रवार्तिकम्

५) वा – वार्तिकम्

 परामृष्ट-ग्रन्थसूची

१) अष्टाध्यायीसूत्रपाठः, पुष्पा दीक्षित, ग्यानभारतीप्रकाशनम्, देहली, २००९।

२) पातञ्जलमहाभाष्यम् (प्रथमभागः), पतञ्जलिः, वाणीविलासप्रकाशनम्, वाराणसी, १९८७।

३) परिभाषेन्दुशेखरः, नागेशः, आन्ध्रविश्वविद्यालयः, वाल्टियर्, १९५५।

४) भूषणसारसमीक्षा, डा के वि रामकृष्णमाचार्युलु, रा सं वि, तिरुपतिः, १९९६।

५) महाभाष्यप्रदीपव्याख्यानानि – सम्पादकः एम् एस् नरसिंहाचार्य, पाण्डिचेरि,१९७३।

६) महाभाष्यव्याख्यानानि – फ्रेञ्च् इन्स्टिटूट्, पाण्डिचेरी, १९७५।

७) वाक्यपदीयम्, भर्तृहरिः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी, १९८०।

Postal address –
Kumuda Rao H A
w/o Mahendra M Hegde
#207, Sri Krishna nivas, Krishna garden layout
Gulakamale, Kaggalipura
Bengaluru-560082
Mob No – 8762161446
Email ID – kumuda.sirsi@gmail.com