पुरुषोत्तमशब्दे समासविचारः

डा.ना.रा.रङ्गनाथताताचार्यः,
सहायकाचार्यः, व्याकरणविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः

श्रीमते हयग्रीवाय नम :।

श्रीमते रामानुजाय नमः ।

“ ब्रह्मशब्देन च स्वभावतो निरस्तनिखिलदोषः अनवधिकातिशयासंख्येयकल्याणगुणगणः पुरुषोत्तमः अभिधीयते ” इति भाष्यश्रीसूक्तिः। अत्र नारायणोऽभिधीयते विष्णुरभिधीयते इत्येवमादिप्रकारेणानुक्त्वा पुरुषोत्तमोभिधीयते इति पठनेन आचार्याणां आशयः कः, कथं पुरूषोत्तमपदस्य ब्रह्मशब्दवाच्यत्वं, पुरुषोतम इति (यौगिकः) योगरूढः उत रुढि: , योगरुढे व्याकरणरीत्या कथम् अयं शब्दः साधुः भवतीति यथामति विचार्यते दासेनात्र ।

यस्मात्क्षरमतीतोहम् अक्षरादपि चोत्तमः ।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।।

इति गीतावचनेन पुरुषोतमशब्देन नारायणस्यैव प्रतिपादनात् “येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्याम् ” इति श्रुतौ अक्षरसत्यपदाभ्यां समानाधिकरणेन पुरुषपदेन बह्मण एव निर्देशात् “अथातो ब्रह्मज्ञिज्ञासा ” इति सौत्रं ब्रह्मपदमपि उत्तमपुरुषस्य नारायणस्यैव वाचकं न देवतान्तरस्येति सुचनाय श्रीभाष्ये पुरुषोत्तमपदं प्रयुक्तम् इति श्रीसुदर्शनसूरिभिः श्रुतप्रकाशिकायां इत्थं पुरुषोत्तमपदस्य प्रयोजनमुक्तम् ॥

पुरुषोत्तम इत्यत्र उत्तमशब्देन उत्कृष्टस्यैव प्रतिपादनात् यस्मात्क्षरमतीतोहम् इत्यादिगीतावचनानुसारेण क्षराक्षरावधिकोत्कर्षस्य च परब्रह्मण्येव सत्वात् तादृशोत्कर्षवतः ब्रह्मण एव निरतिशयबृहत्वरूपशक्यतावच्छेदकत्वेन बह्मपदशक्यत्वं संभवतीति ख्यापनाय श्रीभाष्ये पुरुषोत्तमपदं निर्दिष्टमिति अपरं समाधानं । अत्र च यः पुरुषोत्तम: स एव ब्रह्मपदवाच्यो भवति । कुत इत्युक्ते पुरुषोत्तमपदलभ्यस्य क्षराक्षरावधिकोत्कर्षस्य ब्रह्मपदप्रवृत्तिनिमित्तनिरतिशयोपपादकत्वादिति तेषाम् आशय:।

शङ्कराचार्यप्रभृतिभिः अद्वैतिभिः जीवाभिन्नात्मन एव ब्रह्मरूपत्वमड्गीकृतमिति स्पष्टम् । तत्र पुरुषोत्तमशब्देन जीवसामान्यविलक्षणात्मनः प्रतीत्या जीवाभिन्नात्मनः ब्रह्मरूपत्ववर्णनमसङ्गतमिति सुचनाय श्रीभाष्ये पुरुषोत्तमपदमुपात्तम् । अत्र भगवदपेक्षया अवराणां जीवानां पुरुषोत्तमत्वं व्यवहाराभावात् जीवाभिन्नात्मनः ब्रह्मरूपत्वं न संभवति किंतु जीवविलक्षणस्य भगवत एव उपपद्यते इति तृतीयं समाधानम् । एवं च पुरुषोत्तमशब्दस्य ब्रह्मशब्दवाच्यत्वं युज्यत एव ।

अत्रायं पूर्वपक्षी –  नन्वेतत्सर्वं तदा उपपद्येत यदि पुरुषोत्तमशब्दस्य योगशक्तिमत्वं स्यात् , किन्तु तदेव न समासासम्भवात्। ‘ न चापि  वेदेपि समाननामा रूढ्या तु कामं पुरुषोत्तमोऽस्तु ’ इति श्लोकेन पृच्छति ।

पुरुषोत्तमः इत्यत्र  पुरुषश्चासौ उत्तमश्च, पुरुषेभ्यः उत्तमः, पुरुषाणां उत्तमः, पुरुषेषु उत्तमः इति चतुर्धा समासः अस्ति। “ सन्महत्परमोत्तममोत्कृष्टाः पूज्यमानैः” – इति पाणिना उत्तमशब्दस्य प्रथमान्ततया पठितत्वात् “प्रथमानिर्दिष्टं समास उपसर्जनम्” इति उपसर्जनसंज्ञायां उपसर्जनं पुर्वम्  इति  पूर्वनिपाते नीलोत्पलम् इतिवत् उत्तमपुरुषः इत्येव स्यात् उत्तमशब्दस्य परनिपातश्च न सङ्गच्छते इति चेत् उच्यते – ‘ विशेषणं विशेष्येण बहुलम् ’ इति बहुलग्रहणात् क्वचित्  विशेषणस्य पूर्वनिपातः अपि प्रामाणिकः अतः समानाधिकरणसमासः अपि साधुरेव । क्वचित् प्रवृत्तिः, क्वचिदप्रवृत्तिः, क्वचित् अन्यदेतत् इति तस्य अर्थ:। तथा प्रयोगः लोके केवलं श्रूयते एव । “ऋषिभिस्तपसा योगावेदितं पुरुषोत्तमम् ” इति श्रुतौ प्रार्थितः पुरुषोत्तमः इत्यादिस्मृतौ हरिर्यथैकः पुरुषोत्तमः इति रघुकाव्यादौ च दृष्टः । इत्थं “ विशेषणं विशेष्येण ” इति  समासे न दोष : ।

पुरुषेभ्यो उत्तमः इति पञ्चमीतत्पुरुषे अपि न साधुः, उत्तमपदयोगे पञ्चमीप्रापकाभावात् क्रियानिरूपितावधित्वस्यैव अपादानत्वात्  उत्तमत्वनिरूपितावधित्वस्य अतथात्वात् अत्र –“ उपादाने पञ्चमी ” इत्यस्य अप्रवृत्तेः इति चेन्न, “ पञ्चमी विभक्ते ” इत्यनेन योगाविभागं कृत्वा (योगः इष्टसिद्धि:) पञ्चमीतत्पुरुषोऽपि सिद्ध्यति । न च तस्मिन् सुत्रे ( पञ्चमी विभक्ते ) उदाहरणे माधुराः पाटलीपुत्रकेभ्य आद्यतराः इत्यादौ  तरप्प्रत्ययस्यैव साधुत्वे व्याकरणमहाभाष्यादौ प्रतिपादितत्वात् तमप्प्रत्ययघटितपुरुषोत्तमशब्दे  पञ्चमीसमासाश्रयने महाभाष्यादिग्रन्थविरोधः भवतीति वाच्चम् । नागोत्तमादिस्थलेषु शाब्दिकोक्तरीत्या तद्वदत्र पुरुषोत्तमशब्दे अपि योगविभागात् पञ्चमीसमासः संभवत्येव ।

पुरुषाणां उत्तमः इति षष्ठीतत्पुरुषः अपि न ,  “ न निर्धारणे ”  इति निर्धारणषष्ठ्याः समासनिषेधात् इति तदपि  न समीचीनम् ।षष्ठीतत्पुरुषः युज्यत एव।  तथा च कैयटानुयायिनस्तु -यस्मान्निर्धार्यते, यश्चैकदेशो निर्धार्यते, यश्च निर्धारणहेतुः एतत्त्रयसंनिपात एव “न निर्धारण” इति निषेधप्रवृत्तेः इत्याहुः।  अत्र न वयं निर्धारणषष्ठीं ब्रुमः, किंतु “द्वाविमौपुरुषौ” इत्यारभ्य “उत्तमःपुरुषस्त्वन्यः” इत्यधमप्रतियोगित्वोक्त्या संबन्धिशब्दतया संबन्धषष्ठी सिध्यति  इति नायं  दोषः षष्ठीतत्पुरुषस्वीकारे ।

पुरुषेषु उत्तमः इति न सप्तमीसमासः । “सप्तमी शौण्डैः”  इति शौण्डादिगणे उत्तमशब्दः पाणिनिणा न पठितम्  अतः तन्न युज्यते  इति । तन्न – नृपोत्तमः, गुरूत्तमः इत्यादिप्रयोगसाधनाय वैयाकरणाः पूर्वोक्तसुत्रे “सप्तमी ”  इति योगं विभागं  कुर्वन्ति । तेन सप्तमीसमासः अपि सिद्ध्यति ।

किंच  “ दुर्गाण्यातितरत्याशु पुरुषः  पुरुषोत्तमम् ”  , “ भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ” , “ न च  तेन विना निद्रां लभते पुरुषोत्तम: ”  इत्येवं बहुषु स्थलेषु पुरुषोत्तमप्रयोगः दृश्यते । अत: अयं शब्दः योगरूढ्यापि साधुरेव । “न चापि वेदेपि समाननामा रूढ्या तु कामं पुरुषोत्तमोस्तु” इति वचनम् अनादरणीयमेव ।