शब्दब्रह्मस्वरूपनिरूपणम्

डा. एन्.आर्. रङ्गनाथताताचार्यः, 
सहायकाचार्यः, व्याकरणविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः

कस्यापि शास्त्रस्य आचार्यस्य प्रतिपाद्यविषयनिरुपणार्थम् आचार्यस्य तात्पर्यविषयीभूतार्थप्रकाशनमावश्यकम् । तात्पर्यविषयीभूत एवार्थः तत्ग्रन्थस्य प्रतिपाद्यविषयो भवति । सर्वसम्मतस्तात्पर्यविषयीभूतार्थनिर्णायकोपायश्च-

उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।

अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ।। इति

 उपक्रमश्च ग्रन्थस्य आद्यो भागः । अवसानभागश्च उपसंहारः । उपक्रमोपसंहारादिना आद्यन्तभागयोः एकार्थपर्यवसायित्वं लक्ष्यते । तयोः यस्मिन् एकस्मिन्नेवार्थे पर्यवसानं ज्ञायते स एव अर्थः तद्‌ग्रन्थस्य प्रतिपाद्य- विषयो भवति । अत एवोक्तम् “येन चोपक्रम्यते येन चोपसंह्रियते स एव शब्दार्थः” तदेवं वाक्यपदीयग्रन्थस्यापि उपक्रमोपसंहाराभ्यां शब्दात्मक ब्रह्मैव मुख्यः प्रतिपाद्यविषय इति स्पष्टं प्रतीयते । तथा च वाक्यपदीयग्रन्थस्य उपक्रमवाक्येन भर्तृहरिः स्फुटममिधत्ते-

अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।

विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ इति

उपसंहारे चोक्तम् – अपि प्रयोक्तुरात्मानं शब्दमन्तरवस्थितम् । प्राहुर्महान्तमृषभं येनसायुज्यमिष्यते ।। इति

अनादिनिधन-उत्पत्तिविनाशरहितं अथवा आद्यन्तरहितंकालकृतपरिच्छेदशून्यम् अथवा पूर्वापर विभागरहितम् अर्थात् देशकृतपरिच्छेदशून्यम् । अत्र केचित् – यच्च ब्रह्मणः जगद्रू‌पेण अविवर्तावस्थायां सर्वविकल्पातीतं रूपं तदेवात्र अनादिनिधनमिति निर्दिष्टमित्याहुः।

नागेशभट्टापि ‘शब्दब्रह्माभवत्परा’ इत्यत्र शब्दब्रह्मणः नित्यतोक्तिर्यावत् सृष्टिस्थित्या व्यवहारनित्यतया च नेया इत्याहुः, तन्न समीचीनम् । भर्तृहरिवृषभदेवादिव्याख्यानविरुद्धत्वात्। तथाहि हरिणा अनादिनिधनमितिकारिकावृत्तौ सर्वास्ववस्थासु अनाश्रितादिनिधनं ब्रह्मेति प्रतिज्ञायते इत्युक्तम् । वृषभदेवोप्यत्रैव सादरः । तथा ह्याह- न केवलमविवर्तावस्थायां विवर्तावस्थायामपि । अक्षराणां गकारादीनां निमित्तत्वात् अक्षरमित्युच्यते, कार्यकारणयोः अभेदोपचारात् । शब्दतत्त्वं शब्दात्मकं पश्यन्तीवाग्रूपं ब्रह्म इत्यर्थः ।

वैखर्य्यामध्यमायाश्च पश्यन्याश्चैतद‌द्भुतम् अनेकतीर्थभेदायात्रैय्या वाचः परं पदम् ।। इति हरिणोक्तत्वात् । ननु सर्वविकल्पातीततत्त्वं ब्रह्म कथं शब्दतत्त्वं इति चेन्न । विकाराणां प्रकृत्यन्वयित्त्वात् शब्दत्त्वोपपत्तेः । तथा हि घटकुण्डलकलशाद‌यो विकारा मृत्सुवर्णादिप्रकृत्यन्विता दृश्यन्ते । तथैव एते रुपादयो विषयाः शब्दरूपानुगता एव दृश्यन्ते । तदुक्तं –

न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।

अनुबिद्धमिवज्ञानं सर्वं शब्देन भासते ।।

अतः एषां प्रकृतिः शब्दतत्त्वमेव ब्रह्मेति । तच्च ब्रह्म विवर्ततेऽर्थभावेन स्वरुपाद‌प्रच्युतं सत् स्वाविद्यारुपया शक्त्या अर्थाकारेण प्रतिभासते इति भावः । अधिष्ठानविषमसत्ताककार्यापत्तिर्विवर्तः । स्वप्नविषयप्रतिभासवत् । तत एन शब्दाख्यात् उपसंहृतक्रमात् ब्रह्मणो जगदाख्या विकाराः प्रक्रियन्ते ।।

शब्दस्य परिणामोऽयमित्याम्नायविदो विदुः ।

द्वन्द्वोभ्य एव प्रथमं इदं विश्वं व्यवर्तत ।।

इत्येकस्यामेव कारिकायां विवर्तपरिणामशब्दयोः उपादानात् पुरा एकस्मिन्नेवार्थे द्वयोः प्रयोगः इत्यनुमीयते । तच्च ब्रह्मशब्दतत्त्वं अद्वितीयमेव । तदुक्तं हरिणा –

एकमेव यदाम्नात भिन्न शक्तिव्यपाश्रयात्।

अपृथक्त्वेऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते ॥ इति

यच्छब्दतत्त्वं ब्रह्म एकमेवाद्वितीयमित्यादिश्रुतिभिः एकमेव कथितम् । तथा च श्रुतयः ‘सलिल एवैको द्रष्टाद्वैत एवाभवदिति ।’ ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमिति, अत्र शक्तिपदेन कारणगता तत्कार्यानुकूला योग्यता विवक्षिता । तथाच भिन्नभिन्नकार्यजन्ययोग्यतारूपां शक्तीनां समाश्रयाच्छक्तिगतभेदारोपात् भिन्नभिन्नत्वेन प्रतीयमानं इत्यर्थः ।

शब्दतत्त्वे ब्रह्मणि विद्यमानं यदेकत्वं तद‌विरोधेन परस्परं विरोधिन्यः ब्रह्मणः आत्मभूताः देशकालाविभागेन समुचिताः शक्तयः सन्ति । ताश्च स्वाश्रयगतमेकत्वं न विरुन्धन्ति । विलक्षण कार्योदयेन च तासां वैलक्षण्यं अनुमीयते ।

अभिन्नस्यापि ब्रह्मणः सर्वकार्यजनकत्वात् सर्वव्यवहारहेतुत्वमपीत्यत आह-

एकस्य सर्वबीजस्य यस्य चेयमनेकधा ।

भोक्तृ‌भोक्तव्यरूपेण भोगरूपेण च स्थितिः ।।

सर्वबीजस्य यस्य एकस्य ब्रह्मणः तत्त्वान्यत्वाभ्यां सत्त्वासत्त्वाभ्यां च अनिर्वाच्या शक्तिरूपा स्थितिरनेकधा भोक्तृ‌भोक्तव्यरूपेण भोगरूपेण च लोकव्यवहाराय प्रवर्तते । भोक्ता पुरुषः भोक्तव्याः विषयाः भोगः विषयोपभोगजन्यसुखदुःखाद्यनुभवः इति विवेकः । तद्वक्ष्यति-

सर्वशक्त्यात्मभूतत्त्वं एकस्यैवेति निर्णयः ।

भावानामात्मभेदस्य कल्पनास्यादनर्थिका ।। इति