कुवलयानन्दस्थ-अपह्नुत्यलङ्कारे आर्षतत्त्वम्
बि. लक्ष्मीप्रवीणा
शोधच्छात्रा, अद्वैतवेदान्तविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः
ई-मेल् – praveenalakshmi990@gmail.com
शोधसंक्षेपः
अप्पय्यदीक्षितेन्द्राणां साहित्यिकीसृष्टिः केवलं काव्यशास्त्रस्य सीमासु न बद्धा, अपितु सा स्वान्तर्गतान् दार्शनिकवैदिकसिद्धान्तान् प्रकटयितुं प्रवृत्ता वर्तते। अस्य प्रत्यक्षमुदाहरणं तेषां प्रथिते कुवलयानन्द नामके अलङ्कारग्रन्थे प्राप्यते। अलङ्कारशास्त्रे अपह्नुतिः इति कश्चन तादृशः अलङ्कारः वर्तते, यत्र प्रकृतस्य नाम सत्यस्य निषेधं कृत्वा, अप्रकृतस्य नाम आरोपितस्य स्थापना क्रियते। एषा प्रक्रिया वेदान्तशास्त्रस्य अध्यारोपवादन्यायेन स्वीक्रियते। तथा च उपनिषदां “नेति नेति” सिद्धान्तेन सह साम्यं भजते। अस्मिन् शोधपत्रे कुवलयानन्दस्यअपह्नुतिप्रकरणं समाश्रित्य तत्र निहितानाम् आर्षतत्त्वानां, वेदान्तप्रक्रियायाः, श्रुतिरहस्यानां च विस्तरेण मौलिकं विवेचनं क्रियते।
1.उपोद्घातः
भारतीयबौद्धिकपरम्परायां साहित्यं, दर्शनं च पृथग्भूते विषयद्वये न स्तः। उभयोरपि मूननक्ष्यं मानवजीवनस्य परिष्कार एव। दर्शनं यत्र तत्त्वस्य अन्वेषणं करोति, तत्र साहित्यं तदेव तत्त्वं सौन्दर्यरूपेण सहृदयरूपेण प्रतिष्ठापयति। अत एव संस्कृतसाहित्यस्य महान् भागः केवलं मनोरञ्जलपरः न दृश्यते, अपितु ज्ञावप्रदः, संस्कारजनकः, आध्यात्मिकदृष्टेः संवर्धकश्च भवति।
अलङ्कारशास्त्रेऽपि एषः तथ्यः स्पष्टतया दृश्यते। अलङ्कारः केवलं वाक्यस्य शोभावर्धनाय न प्रयुज्यन्ते, किन्तु ते कवेः अन्तर्निहितदृष्टिं, तत्त्वचिन्तनं, जीवनबोधकं च प्रकाशयन्ति। अस्य दृष्टान्तरूपेण श्रीमदप्पय्यदीक्षितस्य कुवलयानन्दः विशेषरूपेण उल्लेखनीयः।
काव्यप्रकाश कुवलयानन्दादिषु ग्रन्थेषु अलङ्काराणां बाह्यसौन्दर्यमेव सामान्यतः दृश्यते, परन्तु यदा परमवैदिकाः, दार्शनिकनिष्ठाः, प्रकाण्डपण्डिताः लेखनीं गृह्णन्ति, तदा अलङ्कारलक्षणेषु, उदाहरणेषु च शास्त्रान्तराणां गभीरं तत्त्वं स्वतः एव प्रस्फुटति।
2.अप्पय्यदीक्षितस्य व्यक्तित्वं कृतित्वं च
षोडशशताब्द्यां दक्षिणभारते प्रादुर्भूताः श्रीमदप्पय्यदीक्षितः संस्कृतवाङ्मयस्य बहुमुखप्रतिभासम्पन्नेषु महापुरुषेषु अन्यतमः आसीत्। तस्य जन्म तमिलनाडुप्रान्तस्य अडयप्पालम् ग्रामे अभवत् इति सामान्यतः स्वीकृतम्। बाल्यादेव असाधारणप्रतिभायाः परिचयं दत्त्वा सः वेद-वेदाङ्ग-मीमांसा-वेदान्त-व्याकरण-अलङ्कारादिषु शास्त्रेषु पारङ्गतः अभवत्।
अप्पय्यदीक्षितस्य विशेषता केवलं बहुशास्त्रपाण्डित्यमात्रं नास्ति, तस्य रचनासु शास्त्रीयगाम्भीर्यं तथा काव्यमाधुर्यं समन्वितरूपेण दृश्यते। परम्परानुसारं तेन शताधिकग्रन्थाः विरचिताः इत्यपि प्रसिद्धम्। तेषु सिद्धान्तलेशसंग्रहः, परिमलः, न्यायरक्षामणिः, चतुर्मतसारसंग्रहः, कुवलयानन्दः इत्यादयः विशेषतया ख्यातिमलभन्त। यद्यपि दीक्षितः अद्वैतवेदान्तपरम्परायां प्रतिष्ठितः आचार्यः आसीत्, तथापि तस्य दृष्टिः संकीर्णा नासीत्। भिन्नभिन्न दर्शनानां विषयेऽपि सः निष्पक्षभावेन विचारं प्रस्तुतवान्। एषा उदारता तस्य ग्रन्थेषु सर्वत्र दृश्यते।
कुवलयानन्दः तस्य अलङ्कारशास्त्रीयप्रतिभायाः श्रेष्ठं प्रमाणम्। अयं ग्रन्थः पूर्वाचार्याणां मतानि समाहृत्य स्वकीयशैल्या प्रस्तुतः। यद्यपि अस्य मुख्यविषयः अलङ्कारनिरूपणम्, तथापि दीक्षितस्य वेदान्तनिष्ठा तत्रापि निरन्तरं प्रकाशते। विशेषतः स्वनिर्मितेषु उदाहरणेषु ईश्वरभक्तिः, अद्वैतदृष्टिः, उपनिषदर्थबोधः च स्वाभाविकरूपेण समन्विताः दृश्यन्ते। अतः कुवलयानन्दस्य अध्ययनं केवलमलङ्कारशास्त्रस्य अध्ययनं न, अपितु अप्पय्यदीक्षितस्य दार्शनिकदृष्टेः अवगमनस्यापि एकः महत्वपूर्णः मार्गः इति वक्तुं शक्यते।
3.कुवलयानन्दस्य स्वरूपं साहित्यशास्त्रे स्थानं च
अलङ्कारशास्त्रपरम्परायां कुवलयानन्दः नाम ग्रन्थः विशिष्टं स्थानं धारयति। अयं ग्रन्थः केवलं पूर्वाचार्यमतसंग्राहकः नास्ति, अपितु तेषां मतानां परिशीलनपूर्वकं सुबोधशैल्या प्रस्तुतः स्वतन्त्रग्रन्थः अस्ति। अलङ्कारशास्त्रस्य अध्ययनं कुर्वतां विद्यार्थिनां कृते यथा काव्यप्रकाशः महत्वपूर्णः, तथैव कुवलयानन्दः अपि व्यापकतया स्वीकृतः ग्रन्थः अस्ति।
अस्य ग्रन्थस्य रचनायां दीक्षितेन पूर्वाचार्याणां विशेषतः जयदेवकृतस्य चन्द्रालोकस्य प्रभावः स्वीकृतः, तथापि प्रभावस्वीकारः न नामानुकरणम्। यत्र यत्र आवश्यकं मन्यते तत्र तत्र दीक्षिताः स्वतन्त्रदृष्ट्या विषयानपि व्याख्याति। अस्य कारणात् कुवलयानन्दः केवलं संक्षिप्तग्रन्थत्वेन न, अपितु स्वतन्त्रालोचनात्मकग्रन्थत्वेन प्रतिष्ठां प्राप्तवान्।
विशेषतः अपह्नुत्यलङ्कारप्रकरणे दीक्षितस्य दार्शनिकपाण्डित्यं अधिकतया प्रकाशते। यत्र सामान्यलङ्कारदृष्ट्या केवलं निषेधपूर्वकः आरोपः दृश्यतेस तत्र गम्भीरतया चिन्तयन्तः वेदान्तीयार्थपरम्परा अपि प्रत्यभिज्ञायते।
4.अपह्नुत्यलङ्कारः – स्वरूपं, प्रयोजनं, विकासश्च
भारतीयालङ्कारशास्त्रे अपह्नुत्यलङ्कारः प्राचानकालादेव चर्चितः। भामह, दण्डी, उद्भट, मम्मट, विश्वनादयः प्रायः सर्वेऽपि एतस्य स्वरूपं निरूपितवन्तः। यद्यपि तेषां लक्षणेषु किञ्चित् वैचित्र्यं दृश्यते, तथापि मूलतत्त्वे सर्वेषां सामञ्जस्यं वर्तते। अपह्नुति इति शब्दस्य व्युत्पत्तिः “अप + ह्नु (गोपने)” इत्यस्मात् धातोः भवति। अतः अस्य सामान्यः अर्थः गोपनम्, तिरस्कारः, निषेधः वा इति।
अपह्नुतिः नाम कस्यचिद्वस्तुनः स्वरूपं गोपयित्वा तत्र वस्त्वन्तरस्य स्थापनम्। यथा नेदं नभस्तलं किन्तु समुद्रः इति। इयं गोपन स्थापनयोः द्वैधीभावप्रक्रिया आर्षग्रन्थेषु सृष्टेः मिथ्यात्वप्रतिपादनाय तथा च ब्रह्मणः सत्यत्वप्रदर्शनाय उपयुक्ता दृश्यते। उपनिषत्सु जगद्रूपस्य प्रकृतेः निषेधं कृत्वा, चिद्रूपस्य परमात्मनः स्थापना कृतम्।
अपह्नुतेः लक्षणम् –
शुद्धापह्नुतिरन्यस्यारोपार्थो धर्मनिह्नवः[1]। निषेधपूर्वकमारोपः अत्र क्रियते।
अस्य लक्षणस्य सूक्ष्मपरीक्षणेन ज्ञायते यत् अपह्नुतेः केन्द्रबिन्दुः निषेधः अस्ति। प्रथमं यत् वस्तु प्रत्यक्षतया दृश्यते तस्य निषेधः क्रियते, तदनन्तरं काव्यकल्पनया अन्यस्य वस्तुनः स्थापना भवति। एषा प्रक्रिया पाठकस्य बुद्धौ चमत्कारं जनयति।
नायं चन्द्रः, अपितु रजनीमुखे प्रस्फुरन्ती मुक्तामाला।
अत्र चन्द्रस्य निषेधः कृतः, मुक्तामालायाः आरोपः कृतः। फलतः साधरणदर्शनस्य स्थाने नवीनकल्पना उद्भवति। एतदेव अपह्ननुतेः काव्यसौन्दर्यम्। परन्तु अस्य अलङ्कारस्य महत्त्वं केवलं काव्यकल्पनायां सीमितं नास्ति, निषेध-आरोपात्मकत्वात् अयं मानवीयज्ञावप्रक्रियायाः अपि प्रतिनिधित्वं करोति। मानवाः अपि वस्तूनां स्वरूपं ज्ञातुं प्रायः निषेधमार्गमेव स्वीकरोति। इदं न, तदपि न इति विचारक्रमेण अन्ते सत्यस्य प्रकाशः भवति। अयं भावः उपनिषदां वेदान्ते च विशेषतया दृश्यते।
5.अपह्नुतिः तथा अध्यारोपवादन्यायः
अत्र चन्द्रस्य अध्यारोपवादन्यायः अत्यन्तं महत्वपूर्णः। अद्वैतवेदान्तस्य शिक्षणापद्धतौ अस्य विशेषस्थानमस्ति। आचार्यशङ्करपरम्परायां अस्य प्रयोगः सर्वत्र दृस्यते। अध्यारोपः नाम यत्र वस्तुनि वस्त्वन्तरस्य कल्पना क्रियते। अपवादः नाम तस्य कल्पितरूपस्य निवर्तनं कृत्वा वास्तविकस्वरूपस्य प्रकाशनम्। रज्जुसर्पदृष्टान्तः अत्र सर्वाधिकप्रसिद्धः। अन्धकारे कश्चित् पुरुषः रज्जुं दृष्ट्वा तां सर्प इति मन्यते। अत्र सर्पस्य आरोपः जातः रज्जौ। पश्चात् प्रकाशे सति ज्ञायते यत् एषा रज्जुरेव, न तु सर्पः। अत्र सर्पकल्पनया बाधः जातः, एषा एव अध्यारोपवादन्यायः। अद्वैतवेदान्ते जगदपि एवमेव व्याख्यायते। ब्रह्मणि नामरूपात्मकस्य जगतः आरोपः अध्यारोपः इत्युच्यते। ब्रह्मज्ञावसमये तस्य मिथ्यात्वबोधः अपवादः उच्यते। यदि अस्मिन् सन्दर्भे अपह्नुत्यलङ्कारः परीक्ष्यते, तर्हि उभयोः प्रक्रिययोः आश्चर्यजनकं साम्यं दृश्यते। अपह्नुतौ प्रथमं दृश्यवस्तुनः निषेधः, तदनन्तरं नूतनार्थस्य प्रतिष्ठा। अध्यारोपवादे प्रथमं कल्पना, पश्चात् तस्य निवृत्तिः तथा सत्यप्रतिष्ठा। उभयत्रापि बुद्धेः प्रवाहः एकस्मिन्नेव मार्गे सञ्चरति। अतः अपह्नुत्यलङ्कारः केवलं काव्यालङ्कारः इति न वक्तव्यम्। सः भारतीयदार्शनिकपरम्परायाः एकस्य गम्भीरस्य विचारक्रमस्य साहित्यिकरूपान्तरणमिव प्रतीतिः जनयति।
6.आर्षचिन्तनपरम्परायां निषेधस्य स्थानम्
भारतीयदर्शनपरम्परायां निषेधः केवलं खण्डनाय न प्रयुज्यते। तस्य प्रयोजनं सत्यस्य अधिकस्पष्टरूपेण प्रकाशनमस्ति। यदा किञ्चिद् तत्त्वं प्रत्यक्षलक्षणैः निर्देष्टुं न शक्यते, तदा ऋषयः निषेधमार्गं स्वीकुर्वन्ति। उपनिषदां बहुषु स्थलेषु एषा पद्धतिः दृस्यते। ब्रह्मणः स्वरूपं वर्णयितुं यदा शब्दाः असमर्थाः भवन्ति, तदा श्रुतिः नेति नेति इति वदति। अयं निषेधः शून्यवादस्य प्रतिपादनं न, अपितु सीमितधर्माणां निरसनम्। यत् किञ्चिद् मनसा गम्यते, वाचा वर्ण्यते, इन्द्रियैः ज्ञायते वा – तत् ब्रह्मणः पूर्णस्वरूपं न भवति इति बोधयितुमेव एषः निषेधः प्रयुज्यते। एवं दृष्टे सति अपह्नुत्यलङ्कारस्य निषेधः अपि नकारात्मकप्रवृत्तिमात्रं नास्ति, सः नूतनार्थस्य आविर्भावाय मार्गं निर्माति।
7.उपनिषदां नेति नेति सिद्धान्तः तथा अपह्नुत्यलङ्कारः
उपनिषदां प्रतिपादनशैलीषु “नेति नेति[2]“ इति पद्धतिः अत्यन्तं महत्त्वपूर्णा मन्यते। बृहदारण्यकोपनिषदि ब्रह्मस्वरूपनिरूपणप्रसङ्गे ऋषिः अथात आदेशो नेति नेति[3] इति वदन् ब्रह्मणः स्वरूपं प्रत्यक्षरूपेण निरूपयितुं व प्रयतते, अपितु सर्वोपाधीनां क्रमशः निषेधेन तस्य अनुभवरूपं स्वरूपं बोधयति। अयं निषेधः वस्तुतः तत्त्वस्य अप्रकाशनं न, प्रत्युत तस्य विशुद्धस्वरूपस्य प्रकाशनाय उपक्रमः।
भारतीयदर्शनपरम्परायां एषा विचारपद्धतिः बहुधा दृश्यते। यदा ऋषयः वदन्ति – नायमात्मा शरीरः, न प्राणः, न मनः, न बुद्धिः, एवं रूपेण ते आत्मतत्त्वस्य निषेधं न कुर्वन्ति, किन्तु आत्मनः उपाधिभ्यः भेदं प्रदर्शयन्ति। एषा प्रक्रिया विवेकस्य आधारभूता वर्तते। अपह्नुत्यलङ्कारेऽपि समानो भावः दृश्यते। यत्र कविः वदति – नायं चन्द्रः, तत्र सः चन्द्रस्य अस्तित्वं न निराकरोति, अपितु तस्य साधारणप्रत्यक्षरूपं अतिक्रम्य सौन्दर्यस्य नूतनां दिशं उद्घाटयति। अतः उपनिषदां निषेधप्रक्रिया तथा अपह्नुत्यलङ्कारस्य काव्यप्रक्रिया इत्येतयोः मध्ये केवलं रूपभेदः, न तु तात्त्विकभेदः।
यदि सूक्ष्मदृष्ट्या विचार्यते, तर्हि उपनिशदः सत्यस्य अनावरणार्थं निषेधं कुर्वन्ति, कविः च सौन्दर्यस्य उत्कर्षार्थं निषेधं करोति। उभयत्रापि प्रथमदृष्ट्या प्रतीयमानं रूपं पर्याप्तं न मन्यते। तदतीतस्य कस्यचित् गूढतरस्य अर्थस्य अन्वेषणमेव उभयोः समानं लक्ष्यं भवति। अतः अपह्नुत्यलङ्कारः केवलं अलङ्कारिककौशलमिति न मन्तव्यम्। सः भारतीयचिन्तनपरम्परायाः निषेधप्रधावदृष्टेः साहित्यिकरूपं इव दृश्यते।
8.कुवलयानन्दोदाहरणेषु आर्षतत्त्वानां विस्तृतपरिसीलनम्
कुवलयानन्दे दत्तेषु उदाहरणेषु बहुषु स्थलेषु अप्पय्यदीक्षितस्य वेदान्तनिष्ठा स्पष्टतया दृश्यते। तेषां उदाहरणानि केवलं अलङ्कारप्रदर्शनार्थं न रचितानि, अपितु तेषु आध्यात्मिकदृष्टेः, भक्तिभावस्य, आर्षसंस्कारस्य च सन्निवेशः दृश्यते।
नायं सुधांशुः, किं तर्हि व्योमगङ्गासरोरुहम्[4]।।
अस्य श्लोकस्य सामान्यालङ्कारिकव्याख्याने चन्द्रस्य निषेधः तथा गङ्गा सरोरुहस्य आरोपः इति कथ्यते। किन्तु गम्भीकदृष्ट्या अत्र बहवः तात्त्विकार्थाः निहिताः सन्ति। चन्द्रः भारतीयपरम्परायां मनसः प्रतीकत्वेन स्वीकृतः। मनः चञ्चलं, परिवर्तनशीलं, क्षयवृद्धिधर्मकं च भवति, कविः तस्य निषेधं कृत्वा तत्र गङ्गारूपस्य पवित्रत्वस्य आरोपं करोति। अनेन केवलं दृश्यसौन्दर्यं न वर्धते, अपितु मनसः लौकिकमर्यादाः अतिक्रम्य आध्यात्मिकपवित्रतायाः बोधः अपि सूचितो भवति। पुनः चन्द्रकलङ्कस्य स्थाने विष्णोः सान्निध्यस्य कल्पना कर्तुं कविः प्रवर्तते। अत्र लौकिकदोषस्य स्थाने दिव्यचैतन्यस्य प्रतिष्ठापनं दृश्यते। अस्य भावस्य सम्बन्धः वेदान्ते प्रतिपादितेन सर्वं खल्विदं ब्रह्म[5] इति सिद्धान्तेन सहजतया स्थापयितुं शक्यते। अस्य प्रकारस्य उदाहरणेषु कविः वस्तूनां बाह्यरूपं न पश्यति, सः तेषां माध्यमेन आध्यत्मिकसत्यस्य अनुभवमपि पाठकस्य चेतसि जागरयितुमिच्छति। एष एव आर्षदृष्टेः वैशिष्ट्यम्।
9.अपह्नुतेर्भेदाः तेषां तात्त्विकमहत्त्वं च
कुवलयानन्दे अपह्नुतेः विविधभेदाः निरूपिताः। सामान्यतः अलङ्कारशास्त्रे एतेषां भेदानां विवेचनं केवलं काव्यभेददृष्ट्या क्रियते। किन्तु वेदान्तीयदृष्ट्या निरीक्ष्यमाणे तेषां विशेषः दार्शनिकार्थोऽपि ज्ञायते।
9.1 शुद्धापह्नुतिः
शुद्धापह्नुतौ प्रत्यक्षतः दृश्यमानस्य वस्तुनः निषेधः क्रियते तथा तत्रान्यस्य वस्तुनः आरोपः विधीयते। अयं प्रकारः उपनिषदां नेति नेति प्रतिपादनस्य सर्वाधिकं समीपवर्ती दृश्यते। यथा ब्रह्मविषये श्रुतिः जगत्सम्बद्धान् सर्वान् धर्मान् निरस्य अन्ते तस्य परमार्थस्वरूपं बोधयति, तथैव शुद्धापह्नुतिः अपि प्रथमं निषेधेन पाठकस्य चित्तं विमुक्तं कृत्वा नूतनार्थस्य प्रतिष्ठापनं करोति।
अर्थात् उपमेयस्य शङ्कायां सत्यां तस्य निषेधं कृत्वा तत्र उपमानस्यारोपः यदि क्रियते सा शुद्धापह्नुतिः। अस्याः प्रक्रियायाः साक्षात् सम्बन्धः वेदान्तस्य अध्यारोपवाद सिद्धान्तेन सह वर्तते।
9.2 पर्यस्तापह्नुतिः
पर्यस्तापह्नुतौ कस्यचित् धर्मस्य स्वाश्रयात् अपसारणं कृत्वा अन्यत्र तस्य आरोपः क्रियते। अयं प्रकारः वेदान्तस्य प्रतिबिम्बवादस्य स्मरणं जनयति। यथा ब्रह्मणः चैतन्यं जगति विविधरूपेण प्रतिबिम्बितमिव दृश्यते, तथैव अत्र गुणस्य स्थानान्तरगमनं कल्प्यते।
9.3 भ्रान्तापह्नुतिः
भ्रान्तापह्नुतिः विशेषतया ज्ञानप्रक्रियासम्बद्धा दृश्यते। भ्रान्तेः आधारेण कृतः आरोपः, तस्य परिष्कारः, नूतनदृष्टेः उदयश्च अस्य मूलतत्त्वम्। वेदान्ते जीवस्य देहात्मबुद्धिः भ्रान्तिरूपा मन्यते। गुरूपदेशेन तस्याः निवृत्तिः भवति। अपह्नुत्यलङ्कारेऽपि भ्रान्तदृष्टेः परिवर्तनं मुख्यभूमिकां निर्वहति। अतः अस्य भेदस्य सम्बन्धः आध्यत्मिकज्ञानप्रक्रियया सह अपि द्रष्टुं शक्यते।
9.4 छेकापह्नुतिः
छेकापह्नुतौ कविना अत्यन्तकौशलपूर्वकं निषेधस्य आरोपस्य च समन्वयः क्रियते। अत्र वाच्यार्थः तथा व्यङ्ग्यार्थः उभौ समानरूपेण प्रभावं जनयतः। एवं प्रकाराः भेदाः केवलं अलङ्कारिकवैचित्र्यस्य परिचायकाः न सन्ति, अपितु मानवबुद्धेः ज्ञानप्रक्रियायाः विविधरूपाणामपि सूचकाः भवन्ति।
10. साहित्यदर्शनयोः समन्वयः
भारतीयपरम्परायां साहित्य दर्शनं च कदापि परस्परविरुद्धे न स्तः। दर्शनं यत् तत्त्वरूपेण प्रतिपादयति, साहित्यं तदेव अनुभवरूपेण जनमानसे प्रतिष्ठापयति। अतः अनेकाः कवयः दार्शनिकाश्च एकस्मिन्नेव समाहिताः दृश्यन्ते। अप्पय्यदीक्षितः अस्य समन्वयस्य उत्कृष्टं उदाहरणम्। अद्वैतवेदान्तस्य गम्भीरतत्त्वानि ज्ञात्वापि सः केवलं शास्त्रचर्चायां न निमग्नः अभवत्। तानि एव तत्त्वानि काव्यरूपेण, अलङ्काररूपेण, भक्तिरूपेण च समाजे प्रसारितवान्। अपह्नुत्यलङ्कारस्य विवेचनमपि अस्य तथ्यस्य प्रमाणं भवति। यत्र सामान्यपाठकः काव्यचमत्कारं पश्यति, तत्र तत्त्वचिन्तकः वेदान्तस्य सूक्ष्मसन्देशं अनुभवति। एष एव भारतीयवाङ्मयस्य वैशष्ट्यं यत् एकः एव ग्रन्थः विविधस्तरेषु भिन्नानुभवान् जनयितुं समर्थः भवति।
11. उपसंहारः
उपर्युक्तविमर्शात् स्पष्टतया ज्ञायते यत् कुवलयानन्दस्थः अपह्नुत्यलङ्कारः केवलं काव्यशोभावर्धनस्य साधनं नास्ति। तस्य अन्तःस्थले भारतीयदर्शनपरम्परायाः, विशेषतः अद्वैतवेदान्तस्य, सूक्ष्मप्रभावः निहितः वर्तते। अपह्नुतेः निषेध-आरोपात्मकप्रक्रिया वेदान्तस्य अध्यारोपवादन्यायेन सह गाढं साम्यं वहति। तथैव उपनिषदां नेति नेति प्रतिपादनपद्धत्याः प्रतिबिम्बमपि अस्मिन्नेलङ्कारे द्रष्टुं श्कयते। अप्पय्यदीक्षितेन प्रयुक्तानि उदाहरणानि केवलं कविप्रतिभायाः परिचायकानि न, अपितु तस्य आर्षसंस्कारस्य, वेदान्तनिष्ठायाः, आध्यात्मिकदृष्टेः च द्योतकानि सन्ति। अतः कुवलयानन्दस्य अपह्नुतिप्रकरणस्य अध्ययनं साहित्यशास्त्रीयदृष्ट्या यथा महत्त्वपूर्णम्, तथैव भारतीयदार्शनिकपरम्परायाः अन्तरङ्गस्वरूपावगमनेऽपि उपादेयम्। एषः अलङ्कारः साहित्यस्य दर्शनस्य च मध्ये सेतुरिव कार्यं करोति इति निःसंशयं वक्तुं शक्यते।
सन्दर्भग्रन्थसूची
कुवलयानन्दः,
चन्द्रालोकः
काव्यप्रकाशः,
साहित्यदर्पणः
बृहदारण्यकोपनिषद्,
छान्दोग्योपनिषद्,
ब्रह्मसूत्रम्
[1] अप्पय्यदीक्षित कुवलयानन्द, अपह्नुति-प्र
[2] बृहदारण्यक 2.3.6
[3] बृहदारण्यक 2.3.6
[4] कुवलयानन्द, शुद्धापह्नुति
[5] छान्दोग्य 3.14.1
