श्रीमद्भगवद्गीतायां कर्मविचारविमर्शः

डा. विनायकभट्टः
सहायकप्राध्यापकः, पूर्वमीमांसाविभागः
श्रीराजराजेश्वरीसंस्कृतमहाविद्यालयः
श्रीसोन्दास्वर्णवल्लीमठः, शिरसि, उत्तरकन्नडमण्डलम्

गीताशास्त्रे निरूपितः कर्मविचारः प्रस्तूयते। भगवता व्यासेन प्रणीते महाभारते भीष्मपर्वणि अन्तर्गतं भवति इदं गीताशास्त्रम्। महाभारतयुद्धप्रसङ्गे विषण्णहृदयम् अर्जुनं दृष्ट्वा तस्य कर्तव्यबोधनार्थं भगवान् श्रीकृष्णः गीताशास्त्रमिदम् उपदिदेश। अर्थात् अत्र अर्जुनः निमित्तमात्रः। तं निमित्तीकृत्य लोकाय शास्त्रमिदम् उपदिष्टवान् इत्यर्थोऽवगन्तव्यः। प्रायः मनुष्यस्य सर्वमपि आवश्यकं कर्तव्यं कर्म भगवता गीतायां प्रतिपादितं दृश्यते।

भगवद्गीता अध्यात्मविद्या। सर्वासाम् उपनिषदां सारसङ्ग्रहभूतं वर्तते इदं गीताशास्त्रम्।

जराजन्ममरणादिदुःखदावाग्निदग्धः पूर्वजन्मकर्मवशात् आधिव्याधिपरिपीडितोऽज्ञानान्धतमसि निमीलितनयनो जीवः भौतिकप्रपञ्चस्य विषयायासितो वर्तते। अतः त्रिविधतापपरिहाराय नित्यनिरतिशयानन्दस्वरूपं मोक्षपदं समधिगन्तुं जीवः सत्यं साधनमेकम् अपेक्षत एव। तत् साधनमेव ज्ञानमिति अध्यात्मशास्त्रस्य गीताशास्त्रस्य सिद्धान्तः।

अत्र मोक्षसाधनविषये दार्शनिकानां विप्रतिपत्तिः दृश्यते। यथा नास्तिकदर्शनेषु अन्यतमाः चार्वाकाः ‘मृत्युरेव अपवर्गः’ इति वदन्ति। जैनास्तु ‘सम्यक् दर्शनज्ञानचारित्राणि मोक्षमार्गः’ इत्याहुः। आस्तिकदर्शनेष्वपि नैयायिकाः ‘प्रमाणप्रमेयादिपदार्थतत्त्वज्ञानात् निःश्रेयसाधिगमः’ इति ब्रुवन्ति। ‘पदार्थसाधर्म्यवैधर्म्याभ्यां निःश्रेयससिद्धिः’ इति वैशेषिकाः आमनन्ति। वेदान्तिनस्तावत् ‘ज्ञानादेव तु कैवल्यम्’ इति कैवल्यनिरूपणं कुर्वन्ति।

मीमांसकास्तु —

दुःखात्यन्तसमुच्छेदे सति प्रागात्मवर्तिनः ।
सुखस्य मनसा भुक्तिः मुक्तिरुक्ता कुमारिलैः ॥

इति मोक्षस्वरूपम् उपवर्णयन्ति। किञ्च ‘तस्मात् कर्मक्षयादेव हेत्वभावे न मुच्यते’ इति वचनेन कर्मक्षयादेव मोक्षः प्राप्यते इति अवगम्यते। ‘शरीरसम्बन्धो बन्धः, तदभावो मोक्षः’ इति न्यायरत्नाकरे निरूपितम्। इत्यादिरूपेण मोक्षस्वरूपविचारे दार्शनिकानां मतभेदाः सन्ति।

तत्र वेदान्तमते ज्ञानादेव मोक्ष इत्युक्तम्। अत्र ज्ञानमित्युक्ते आत्मज्ञानं परमात्मज्ञानमित्यर्थः। तर्हि तत् कथं लभ्यते ? इति चेत् ‘चित्तशुद्धिद्वारा’ इत्युच्यते। तर्हि चित्तशुद्धिं कथं सम्पादयेत् ? इत्युक्ते कर्मानुष्ठानात् इति। तदुक्तमाचार्यशङ्करभगवत्पादैः ‘चित्तस्य शुद्धये कर्म’ इति। एवञ्च चित्तशुध्यर्थं कर्म कर्तव्यम् इत्यर्थो भवति।

तत्र श्रुतिस्मृतिविहितानि कर्माणि नित्यनैमित्तिककाम्यभेदेन त्रेधा विभक्तानि। नित्यं सन्ध्यावन्दनादिकं, नैमित्तिकं ‘ग्रस्ते स्नायात्’ इत्यादिवाक्यविहितस्नानादिकं, काम्यञ्च ‘अग्निहोत्रं जुहुयात् स्वर्गकामः’ इत्यादिवाक्यविहिताग्निहोत्रादिकम्। तर्हि एतेषां कर्मणाम् अनुष्ठानमात्रेण चित्तशुद्धिः सम्भवति वा ? किञ्च गीताशास्त्रे उल्लिखितं कर्म इत्युक्ते एतदेव वा ? इत्यादिसंशयाः समुद्भवन्ति। तत्र सर्वकर्मसंन्यासपूर्वकात्मज्ञाननिष्ठामात्रेण कैवल्यपदं तु न लभ्यते। किन्तु यथा प्रयाजानुयाजाद्युपकृतमेव दर्शपूर्णमासादिकर्म स्वर्गसाधनं भवति तथा श्रौतस्मार्तविहितकर्मानुष्ठानसम्पादितज्ञानादेव तत्पदप्राप्तिः इति श्रुतिस्मृतिषु निश्चितोऽर्थः। तथा च उक्तम् ‘कर्मण्येवाधिकारस्ते’, ‘कुरु कर्मैव तस्मात्त्वम्’ इत्यादीनि वाक्यानि तत्र प्रमाणानि।

एवं केषाञ्चन वैदिककर्मणां हिंसादिगुणयुक्तत्वात् अधर्मप्रतिपादकत्वमित्यपि न मन्तव्यम्। गुरुभ्रातृपुत्रादिहिंसालक्षणमत्यन्तक्रूरमपि युद्धलक्षणं क्षात्रं कर्म क्षत्रियाणां स्वधर्म एव। तथा च उक्तम् — ‘ततः स्वधर्मं कीर्तिञ्च हित्वा पापमवाप्स्यसि’ इति।

तस्मात् सर्वकर्मसंन्यासपूर्वकात् आत्मज्ञानात् न कैवल्यं, परन्तु श्रौतस्मार्तकर्मसहकृतादेव ज्ञानात् कैवल्यपदप्राप्तिः इति। अयमेव ‘ज्ञानकर्मसमुच्चयः’ इति भाट्टमीमांसकानां पक्षः। न तु वेदान्तिनाम्।

तत्र नित्यनैमित्तिकयोः कर्मणोः पापक्षयः एव फलम्। तथा च वाक्यशेषः — ‘धर्मेण पापमपनुदति’ इति। काम्यकर्मणान्तु तत्तद्विध्युक्तफलमिति व्यवस्था। चित्तशुध्यर्थम् अनुष्ठीयमानं कर्म नित्यं नैमित्तिकञ्च। गीताशास्त्रे प्रस्तुतं कर्म नित्यनैमित्तिकमेव। एवम् अग्निहोत्रादिकर्मणां काम्यत्वेऽपि निष्कामरूपेण केवलम् ईश्वरार्पणबुद्ध्या अनुष्ठीयते चेत् चित्तशुद्धेः कारणं भवति इत्यपि गीताशास्त्रस्य आशयः।

तत्र भगवद्गीतायां तृतीयाध्याये कर्मयोगो विचार्यते। कर्म इति पदस्य कार्यं, क्रिया, उद्योगः एवम् अनेकार्थाः। एवञ्च शरीरवाङ्मनसां प्रवृत्तिरिति कर्मशब्दस्य तात्पर्यम्।

कर्म विना जन्तुः न तिष्ठति। तथा च उक्तम् — ‘न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्’ इति। एवं मनुष्योऽपि स्वजीवननिर्वहणार्थं किञ्चित् कर्म अवश्यम् अनुतिष्ठत्येव। ‘यद् यद्धि कुरुते जन्तुः तत्तत् कामस्य चेष्टितम्’ इति वचनात् क्रियमाणं सर्वमपि कर्म सकाममेव भवति। अत्र ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते’ इति मीमांसान्यायानुसारम् अपि मनुष्यः किञ्चित् फलमुद्दिश्यैव कर्म करोति इत्यर्थः। तेन क्रियमाणेन कर्मणा पुण्यपापयोः उत्पत्तिः भवति। परं तयोः पुण्यपापयोः सम्बन्धेन सुखदुःखयोः अनुभवः सम्भवति। एवं रूपेण समागतयोः सुखदुःखयोः अनुभवात्मकः एव संसारः इत्युच्यते। तत्रैव संसारे बन्धनरूपेण स्थित्वा जीवाः जीवनं यापयन्ति। अत्र सर्वकर्मपरित्यागेन जीवनमेव न प्रवर्तते। एवमेव कर्माणि कुर्वन् तत्रैव संसारे स्थीयते चेदपि परमात्मसाक्षात्कारं सम्प्राप्तुं संसारबन्धनतः मुक्तिः असाध्या। एवञ्च कर्मत्यागः अपि न शक्यः, कर्मबन्धः अपि। अतः इत्युभयोः मध्यमार्ग एव कर्मयोगः इत्युच्यते।

अतः ‘नियतं कुरु कर्म त्वम्’ इत्यादिना भगवान् श्रीकृष्णः नित्यनैमित्तिकनिष्कामकर्माण्येव अनुष्ठातुं बोधयति। तदेव चित्तशुद्धिकारणं भवति इति भगवदादेशः।

ननु श्रुतावेव स्वर्गादिफलसाधनत्वेन यागाः अनुष्ठेयत्वेन विधीयन्ते, तेषाम् अनुष्ठाने कर्मसङ्ग्रहात् पुनः शरीरात्मसम्बन्धरूपो बन्धः एव जायते खलु ? इति चेत् उच्यते वार्तिककारैः —

मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ।
नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया ॥ इति ।

तत्र नित्यनैमित्तिकयोः कर्मणोः अनुष्ठानेन, काम्यकर्मणां निषिद्धकर्मणां च परित्यागेन (अननुष्ठानेन) कर्मबन्धः कर्मसङ्ग्रहो वा न भवति। परन्तु चित्तशुद्धिरेव भवति। तदेव ज्ञानस्य कारणम्। तद्वारा निःश्रेयसपदप्राप्तिरिति भगवद्गीतायां भगवता श्रीकृष्णेन प्रतिपादितः कर्मविचारः निरूपितः।

श्रुतिस्मृतिविहितानि कर्माणि नित्यनैमित्तिककाम्यभेदेन त्रेधा विभक्तानि। तत्रापि श्रुत्युक्तानि नित्यकर्माणि, स्मृत्युक्तानि नित्यकर्माणि, श्रुत्युक्तानि नैमित्तिककर्माणि, स्मृत्युक्तनैमित्तिककर्माणि, श्रुत्युक्तकाम्यकर्माणि, स्मृतिप्रतिपादितकाम्यकर्माणि चेति विभागाः भवन्ति।

उदाहरणार्थम् आहिताग्नेः सायंप्रातःकालयोः अवश्यं कर्तव्यत्वेन विहितं कर्म अग्निहोत्रम्। इदञ्च श्रुत्युक्तं नित्यकर्म। अर्थात् अस्य नित्यत्वबोधकं विधिवाक्यं श्रुतौ विद्यते। अतः इदं श्रौतकर्म इत्युच्यते।

एवञ्च अग्निहोत्रं विहितम्। अनन्तरं कल्पसूत्रकाराः अग्निहोत्रानुष्ठानार्थं कर्म (सूत्रम्) रचयामासुः। तदनन्तरं प्रयोगकाराः तानि सूत्राणि आधारीकृत्य श्रुत्या बोधितकर्मणाम् अनुष्ठानार्थं प्रयोगव्यवस्थाम् अकार्षुः।

॥ इति ॥

――――――――――――――――――――――――――――――

पादटिप्पण्यः (Footnotes):

१. मानमेयोदयः – पृ. सं. २०१

२. श्लो. वा. – १०६ (सम्बन्धाक्षेपपरिहारः)

३. भ. गी. – २.४७

४. भ. गी. – ४.२५

५. भ. गी. – २.३३

६. भ. गी. – ३.५

७. भ. गी. – ३.८