विक्रमोर्वशीये दार्शनिकतायाः अंशाः
Jimna K. B.
Ph.D. Research Scholar, Department of Vedānta
Sree Sankaracharya University of Sanskrit , Kalady
Keralam, India
E mail – jimnajimmi@gmail.com
सारांशः
संस्कृतसाहित्ये कालिदासः प्रथमस्थानीयो भवति। तस्य रचनावैशिष्ट्यम् अद्यापि विराजते। तस्य कृतिषु प्रकृतिसौन्दर्यं दार्शनिकविषयाः मानवीयविषयाः इत्यादयश्च द्रष्टुं शक्यन्ते। कालिदासस्य नाटकेषु विक्रमोर्वशीयं प्रसिद्धं नाटकं भवति। अस्मिन् नाटके पञ्च अङ्काः सन्ति। अस्य नाटकस्य कथायाः मूलाधारः ऋग्वेदस्य दशममण्डलस्य पञ्चमं सूक्तं भवति [संख्या सत्यापनीया]। तत्तु संवादसूक्तविभागे विद्यमानं पुरूरवसः उर्वश्याश्च संवादसूक्तं भवति।
कालिदासः स्वकीयेन रचनावैभवेन कथातन्तुना सह नाटकीयतायाः अंशान् योजयित्वा मूलांशं नाटकरूपेण परिवर्तितवान्। पुरूरवसः उर्वशीनाम्न्याः अप्सरसश्च मेलनं, तदनन्तरं तेषां जीवने आगताः परिवर्तनाः समस्याश्च इतिवृत्तरूपेण स्वीक्रियन्ते।
नाटकमिदं स्वीकृत्य मुख्यरूपेण संस्कृतनाटकेषु दार्शनिकतायाः अंशाः अनेन शोधपत्रेण अन्विष्यन्ते। संस्कृतनाटकप्रणेतृषु केचन दार्शनिकं पाण्डित्यम् अपि प्रदर्शितवन्तः। तत्र कालिदासस्य विक्रमोर्वशीयनाम्नि नाटके अपि वेदान्तदर्शनस्य समन्वयः कर्तुं शक्यते। तदनन्तरं साहित्यस्य वेदान्तदर्शनस्य च परस्परसम्बन्धः कथं वर्तते, कालिदासस्य कृतिषु वेदान्तदर्शनस्य प्रभावः कथं कीदृशश्च भवति इति अस्मिन् शोधपत्रे परीक्ष्यते।
प्रमुखशब्दाः
विक्रमोर्वशीयम्, कालिदासः, दार्शनिकता, वेदान्तदर्शनम्, संस्कृतनाटकम्, ऋग्वेदः, पुरूरवोर्वशीसंवादसूक्तम्, साहित्यम् ।।
प्रस्तावना
संस्कृतसाहित्ये महाकविः कालिदासः प्रथमस्थानीयो भवति। तस्य रचनावैशिष्ट्यम् अद्यापि विराजते। तस्य कृतिषु प्रकृतिसौन्दर्यं दार्शनिकविषयाः मानवीयविषयाः इत्यादयश्च सम्यक् द्रष्टुं शक्यन्ते। संस्कृतसाहित्ये वेदाः पुराणानि रामायणं महाभारतादयश्च महान्तो ग्रन्थाः कालिदास-भास-भवभूतिप्रभृतीनां महाकवीनां कृतिषु प्रेरणां प्रदत्तवन्तः। महाकविना कालिदासेन विरचितस्य विक्रमोर्वशीयस्य मूलाधारः ऋग्वेदस्य संवादसूक्ते विद्यमानं पुरूरवोर्वशीसंवादसूक्तं (ऋ. १०.९५) भवति।
कालिदासः स्वकीयेन रचनावैभवेन कथातन्तुना सह नाटकीयतायाः अंशान् योजयित्वा मूलांशं नाटकरूपेण परिवर्तितवान्। अस्य नाटकस्य कथा शतपथब्राह्मणे, महाभारते, विष्णुपुराणे, भागवतपुराणे, कथासरित्सागरे, वेदार्थदीपिकायां तथा मत्स्यपुराणे पद्मपुराणे चापि वर्णिता वर्तते। एवं साहित्यस्य दार्शनिकतायाश्च परस्परसम्बन्धः, तदनन्तरं विक्रमोर्वशीये दार्शनिकतायाः अंशाश्च अनेन शोधपत्रेण अन्विष्यन्ते।
विक्रमोर्वशीये महाकविः कालिदासः जीवनदर्शनं स्पष्टरूपेण प्रतिपादयति। अस्मिन् नाटके भारतीयसभ्यतायाः संस्कृतेः राजनीतेः धर्मस्य दर्शनस्य चेत्यादीनाम् उज्ज्वलानि तत्त्वानि निरूप्य कविः सन्मार्गस्य सन्देशं प्रेरणां च ददाति। अनेन मङ्गलश्लोकेनैव कवेः वेदान्तविषयकं दार्शनिकं च पाण्डित्यं कियत् महत्त्वपूर्णम् अस्तीति ज्ञातुं शक्यते। यथा—
वेदान्तेषु यमाहुरकपुरुषं व्याप्य स्थितं रोदसी
यस्मीन्त्रीश्वर इत्यनन्यविनयः शब्दो यथाथक्षिरः।
अन्तर्यश्च मुमुक्षुभिर्नियमित प्राणादिभिर्मृग्यते
स स्थाणु स्थिरभक्तियोग सुलभो निश्रयसास्तुवः ।।[1]
अत्र कविना पुरुषत्वं मुमुक्षुत्वम् इत्यादयो वेदान्तस्य प्रधानसिद्धान्ताः प्रतिपाद्यन्ते। धर्मार्थकाममोक्षा इति पुरुषत्वस्य मुमुक्षुत्वस्य च कथनेनैव अस्मिन् नाटके वेदान्तस्य दार्शनिकतायाश्च अंशाः विशेषरूपेण सन्तीति निःसंशयं वक्तुं शक्यते। युगपरिवर्तनसमये लोके स्त्रीणां स्थितिः अपि परिवर्तते। स्त्रियः पूजनीयाः आदरणीयाश्चेति भारतीयसंस्कृतेः विशेषता अस्ति। कालिदासोऽपि एतस्मात् आशयात् भिन्नो नासीत्। नाटकेऽपि तद् द्रष्टुं शक्यते।
उर्वशी उवाच—
स्थाने इयमपि देवि शब्देनोच्चार्यते ।
नहि किमपि परिहीयते रचितः ओजस्वितया ।।[2]
कविः विक्रमोर्वशीये भारतीयसभ्यतां संस्कृतिं च श्रोतृगणानां सम्मुखम् उपस्थापितवान्। सः मध्ये मध्ये गुरुभक्तिः पितृभक्तिः इत्यादीनां गुणानां वर्णनं कृत्वा एतेषाम् आशयानां महत्त्वमधिकृत्य प्रेरणां दत्तवान्। नाटके राजा पुरूरवाः तापसीं सत्यवतीं प्रति वदति—
तत्रभवत् च्यवनाय मम प्रेरणाममायेदयिष्यसि ।[3]
एवं नारदस्य आगमनसमये पुरूरवसा उक्तम्—
अयं विष्टरो नुगृह्यताम् ।[4]
अयं प्रसङ्गः गुरुभक्तेः विशिष्टं सन्देशम् अस्माकं सम्मुखे प्रदर्शयति। गुरुजनानां निर्देशः पालनीय इति भारतीयसभ्यतायाः एकः मुख्य आशयः। उपनिषत्सु पुराणेषु च विद्यमानानि दार्शनिकतत्त्वानि गुरुमुखादेव प्राप्तव्यानि। आध्यात्मिकाधिभौतिकाधिदैविकात् तापत्रयात् रक्षितुं गुरोः अनुग्रहः आवश्यक एव।
संसारापारपात्थ्यो थे पारगन्तुं महेश्वरी
श्रीगुररोश्चणां… भजनैकैवैका… वलम्बनं
सच्छिदानन्दस्वरूपं ही गुरुर्ब्रह्म न संशयः।[5]
संसारसागरस्य तरणार्थं गुरुचरणकमलम् एव एकः उपायः इति सारः। एतादृशे अस्मिन् नाटके दार्शनिकतायाः अंशाः वेदान्तसम्बन्धिनो विषयाश्च सूक्ष्मरूपेण सन्तीति सम्यक् द्रष्टुं शक्यते। एवं प्रकारेण इदं नाटकं गुरुजनानां निर्देशः शिरसावहनीय इति प्रेरणां ददाति। नाटकं मित्रतानिर्वाहस्यापि सन्देशं ददाति। चित्रलेखा उर्वश्याः सुखे तथा दुःखेऽपि सर्वदा तस्याः समीपे वर्तते। उर्वशी लतारूपेण परिवर्तिता जाता। तस्मिन् समये चित्रलेखा अतीव दुःखिता आसीत्। अन्येषां दुःखे कः दुःखी भवति? तत्तु द्वयोः मध्ये विद्यमानया एकत्वभावनयैव। तत्र सूक्ष्मरूपेण दया एकत्वं चेति वेदान्तस्य अंशोऽपि द्रष्टुं शक्यते।
कविना तपः, तपस्वी, ऋषिः, मुनिजनाः तथा आश्रमव्यवस्था इत्यादयो विषयाः उपस्थापिताः। अस्मिन् नाटके तपश्चर्यायाः कियत् महत्त्वं दत्तम् इति अस्मात् श्लोकाद् अवगन्तुं शक्यते। नाटके पुरूरवाः वदति—
नहि सुलभवियोगा कर्तुमात्मप्रियाणि
प्रभवति परवत्ता शासने तिष्ठ भर्तुः।
अहमपि तव सुनावद्य विन्यन्य राज्यं
विचरति मृगयूथान्याश्रयिष्ये वनानि । [6]
अनन्तरं वर्णाश्रमव्यवस्थां प्रति कालिदासस्य अभिप्रायः एवम् आसीत्। नाटके पुरूरवसा उक्तम्—
अयि वत्सा । उषितं त्वया पूर्वस्मिन्नाश्रमे ।
द्वितीयमध्यासितुं तव समयः ।[7]
कालिदासः विक्रमोर्वशीये धर्मस्यापि महत्त्वं प्रतिपादयति। प्रजारक्षणं राज्ञः प्रमुखो धर्मः। राजा पुरूरवाः स्वप्रजानां सुरक्षाविषये सर्वदा प्रयत्नशीलः आसीत्। उर्वशी पुरूरवसं प्रजारक्षणधर्ममधिकृत्य एवम् उद्बोधयति—
प्रियंवद महान खलु कालः आवयोः प्रतिष्ठानन्त्रिर्गतयो।
कदाचिद् सुचिष्यन्ति प्रकृतयः आवाभ्याम् । तदोहिगच्छावः ।[8]
पुरूरवसः क्षत्रियोचितस्य कर्मणः फलमेव उर्वशी। पुरूरवाः केशिनामकात् दैत्यात् उर्वशीं रक्षितवान्। अनन्तरम् आश्रमव्यवस्थां प्रति कथ्यते। आश्रमव्यवस्थायाः विरुद्धं कार्यं कृतमिति कारणात् तापसी सत्यवती कुमारम् आयुम् उर्वश्यै दत्तवती। अतः निश्चितरूपेण आश्रमव्यवस्था पालनीया आसीत्; एवं ते आश्रमव्यवस्थायाः कियत् प्राधान्यं महत्त्वं च दत्तवन्तः इति ज्ञातुं शक्यते।
एवं विक्रमोर्वशीये न केवलं शृङ्गाररसः, अपि तु वेदान्तस्य दार्शनिकतायाश्च अंशा अपि सन्तीति निःसंशयं वक्तुं शक्यते। कविकुलगुरुः श्रीकालिदासः स्वकीयेन रचनावैभवेन दार्शनिकतायाः अंशान् सरलरूपेण विक्रमोर्वशीयनाम्ना नाटकेन सामान्यजनानां सम्मुखे प्रदर्शितवान्। संस्कृतसाहित्ये कालिदासस्य यादृशं पाण्डित्यम् आसीत् तादृशं दार्शनिकविषयेष्वपि आसीत्। तादृशपाण्डित्याभावे वेदात् अस्य नाटकस्य मूलरूपं स्वीकृत्य एतादृशम् उत्तमं नाटकं रचयितुं न शक्यते।
साहित्यस्य दार्शनिकतायाश्च परस्परसम्बन्धः
वेदाः ज्ञानस्य भण्डारा इति सर्वसम्मतं भवति। वेदेषु विद्यमानानि तत्त्वानि भिन्नभिन्नरूपेण अस्माकं सम्मुखे वर्तन्ते। नाट्यशास्त्रम् अपि तादृशम् अस्ति। भरतमुनिना विरचितं नाट्यशास्त्रं प्राचीनम् अस्ति। भरतमुनिप्रणीतस्य नाट्यशास्त्रस्य अध्ययनेन ज्ञायते यत् तस्मिन् समये एव नाट्यशास्त्रं पूर्णरूपेण विकसितं जातम्। तस्य सिद्धान्ताः नाटककारेषु अपि ज्ञायन्ते।
नाटकं ख्यातवृत्तं स्यात् पञ्चसंन्धि संन्वितम् ।
विलासद्वैर्यादिगुणवद्युक्तं नानाविभूतिभिः ।।[9]
साहित्यदर्पणे विश्वनाथकविराजेन रूपकस्य दशसु प्रकारेषु प्रथमं नाटकम् इति नामकं रूपकं सविस्तरं वर्णितम् अस्ति। नाटकस्य कथा केवलं कविकल्पिता न भवति; सा इतिहासं प्रदर्शयति। किमपि दार्शनिकं मूल्यं नास्ति चेत् तद् नाटकं न भविष्यति।
नाट्यशास्त्रस्य अध्ययनेन नाट्योत्पत्तिविषये वयम् एतद् ज्ञातुं शक्नुमः यत् नाट्यशास्त्रस्य सृष्टिप्रक्रियायां स्वयं ब्रह्मा हिन्दुधर्मस्य संस्कृतस्य च आदिस्रोतसां वेदानाम् उपरि आधारितं नाट्यं सृष्टवान् इति। नाट्यशास्त्रस्य उत्पत्तिद्वारा अयम् आशयः अपि ज्ञायते, तद्यथा—
जग्ग्राह पाठ्यम ऋग्वेदात् सामभ्यो गीतमेव च।
यजुर्वेदादभिनयान् रसानार्थदणादपि ।[10]
भरतमुनिना नाट्यशास्त्रं पञ्चमवेद इति स्वीक्रियते। कथम् इति चेत्—अन्येषां चतुर्णां वेदानां सम्मिलनेनैव अस्योत्पत्तिः। ऋग्वेदात् पाठ्यतत्त्वं, सामवेदात् सङ्गीतं, यजुर्वेदात् अभिनयः, अथर्ववेदाच्च रसतत्त्वं स्वीकृतम्। अत्र साहित्यस्य वेदानां दर्शनानां च परस्परसम्बन्धविषये स्पष्टता ज्ञायते।
भारतीयनाट्यशास्त्रस्य मूलरूपं संवादसूक्तात् एव स्वीकृतम्। संवादसूक्तेषु प्रमुखाः—
पुरूरवोर्वशीसंवादः (ऋ. १०.९५)
यमयमीसंवादः (ऋ. १०.१०)
सरमापणिसंवादः (ऋ. १०.१०८)
साहित्यस्य वेदान्तस्य च परस्परसम्बन्धं दृढीकर्तुम् एकं प्रमाणम् अपि अस्ति—
नृत्ताय सूतं गीताय शैलुषं धर्मायसभाचकन्नरिष्ठायै भीमलं नमर्त्यभहसाय कारिमानन्दाय स्त्रीषश्वम्पुमदे कुमारी पुत्रं मेधायै रथकारं धैय्ययि तक्षाणाम् ।।[11]
“वेदे केवलं कर्मकाण्डस्य याग-यज्ञानां च वर्णनमेव अस्तीति केचन अभिप्रयन्ति। परन्तु तत् समीचीनं नास्ति। वेदे ज्योतिषं, गणितं, भूगर्भविज्ञानम्, अध्यात्मविषयः, योगः, राजनीतिः, समाजशास्त्रं, दर्शनशास्त्रम्, आयुर्वेदः इत्यादीनां सविस्तरं विवरणम् अस्ति”[12] इति महर्षेः दयानन्दस्य अभिप्रायः।
सः एतदपि अङ्गीकरोति यत् मनुष्याणां जननादारभ्य मृत्युपर्यन्तं यावत्यः समस्याः भविष्यन्ति तासां समाधानं कस्मिंश्चिद् रूपेण वेदेषु भविष्यति। अतः तस्य ऋग्वेदादिभाष्यभूमिकायाम् एतेषु सर्वा विद्याः प्रतिपादिताः सन्ति।
दार्शनिकविषयान् उद्धृत्य नाटकस्य निर्माणम् अतिकठिनं कार्यम् अस्ति। किन्तु साहित्यपण्डितानां पाण्डित्यं दार्शनिकविषयेष्वपि अस्तीति कारणात् ते एतस्यां समस्यायां सफलतां प्राप्तवन्तः। मनुष्याणां समस्तं लौकिकं तात्पर्यम् अथवा इच्छा साहित्ये भावनारूपेण प्राप्तुं शक्यते। अत्रैव दर्शनस्य साहित्यस्य च परस्परसम्बन्धः दृष्टिगोचरः अस्ति। दर्शनस्य अन्तिमं लक्ष्यं मानवान् निःश्रेयसभावं प्राप्तुं योग्यान् कर्तुम् अस्ति। साहित्यस्य लक्ष्यं मानवानां कृते अलौकिकानन्दस्य परिपूर्णतां दातुम् अस्ति। अत्र अलौकिकानन्द इत्युक्ते संवेदनशीलता सूक्ष्मता अनिर्वचनीयता चेति। यथा दर्शने मोक्षप्राप्तिः अलौकिकानन्द इति, अत्र वयम् अनुभवितुं शक्नुमः किन्तु तद् वक्तुं न शक्यते। साहित्येऽपि एतादृशम् अस्ति; साहित्ये रसस्य अन्तिमावस्था अलौकिकी इति कथ्यते।
सहितस्य भावः साहित्यम्। तत् सहृदयत्वं मानवीयतायाः लक्षणम्। अतः साहित्यपण्डिताः कठिनान् दार्शनिकविषयान् तेषां मूल्यानि आवश्यकताश्च काव्यं नाटकम् इत्यादिभिः साहित्यसृष्टिभिः सरलरूपेण सामान्यजनेभ्यः दत्तवन्तः। नाटककाराः अपि एवं दार्शनिकविषयेभ्यः तानि तानि तत्त्वानि उद्धृत्य स्वरचनानैपुण्येन रसैः वर्णनैश्च संयोज्य नाटकस्य निर्माणं कृतवन्तः। एवमेव नाटकेषु दार्शनिकतायाः अंशाः जाताः। अनन्तरं वेदान्तदर्शनस्य सिद्धान्तानां साहित्यस्य च परस्परसम्बन्धमधिकृत्य अन्यद् एकं प्रमाणं प्रस्तूयते—
‘ The vedanta philosophy is admitted on all hands. The most profound containing at once the highest and the deepest human thought. Here then is a great drama composed in the Sanskrit language, allegorical from beginning to end containing the quintessence of Vedanta philosophy and religion”. [13]
श्रीनिवासेन सङ्कल्पसूर्योदयः इति ग्रन्थस्य भूमिकायाम् एवं सूचितम् अस्ति।
उपसंहारः
नाट्यशास्त्रं साहित्यस्य आधारग्रन्थः अस्ति। भारतीयनाट्यशास्त्रस्य मूलांशः संवादसूक्तात् एव स्वीकृतो भवति। विक्रमोर्वशीयनाटकस्य मूलांशः अपि ऋग्वेदस्य पुरूरवोर्वशीसंवादसूक्तम् (१०.९५) एव। अतिकठिनाः विषयाः अपि काव्ये नाटके सङ्गीते इत्यादिषु साहित्यरूपेषु सम्यक् स्पष्टरूपेण ज्ञातुं शक्यन्ते। एतत्कारणेनैव साहित्यपण्डिताः स्वरचनाकौशलेन दार्शनिकमूल्यानि वेदान्ततत्त्वानि च सरलरूपेण सामान्यजनेभ्यः दत्त्वा तान् उद्बोधितवन्तः।
अस्माच्छोधपत्रात् साहित्यस्य दार्शनिकतायाश्च परस्परसम्बन्धः सम्यक् ज्ञातुं शक्यते। एवं संस्कृतसाहित्यपण्डितानां दार्शनिकतायां वेदान्ते च पाण्डित्यम् अपि ज्ञायते। कविकुलगुरुः महाकविः कालिदासः एतेभ्यः पण्डितेभ्यः भिन्नो नासीत्। तस्य नाटकेषु विक्रमोर्वशीयं प्रधानं भवति। नाटकस्य मूलांशः ऋग्वेदस्य पुरूरवोर्वशीसंवादसूक्तात् (ऋ. १०.९५) एव स्वीकृतः अस्ति। अस्मिन् नाटके गुरुभक्तिः, आश्रमव्यवस्था, धर्मार्थकाममोक्ष इति पुरुषत्वं, भारतीयसभ्यता इत्यादयः अनेके दार्शनिकविषयाः सन्ति। नाट्यशास्त्रं पञ्चमवेद इति रूपेण स्वीकृतं भवति। अतः तदाधारेण विरचितेषु काव्येषु नाटकेषु अपि वेदस्य दार्शनिकतायाश्च अंशाः निश्चयेन भविष्यन्ति। एवं प्रकारेण साहित्यस्य दार्शनिकतायाश्च परस्परसम्बन्धः अपि निःसंशयरूपेण अस्ति। एवं कविकुलगुरुः महाकविः कालिदासः केवलं साहित्यपण्डितः नासीत्, अपि तु दार्शनिकपण्डितः वेदान्तपण्डितश्च इत्यपि स्पष्टरूपेण संशयं विना वक्तुं शक्यते।
ग्रन्थसूची
संस्कृतग्रन्थाः
- रविशंकर नागर (सम्पादकः), [ग्रन्थनाम अनुपलब्धम्], परिमल पब्लिकेशन्स्, दिल्ली, Vol. I, १९८९।
- विश्वनाथ कविराज, नाट्यशास्त्रम् [शीर्षकं साहित्यदर्पणः इति सत्यापनीयम्], चौखम्बा कृष्णदास अकादमी, वाराणसी।
हिन्दीग्रन्थाः
- शशि भानु विद्यालंकार, संस्कृत नाटकों में दार्शनिक तत्त्व, संजय प्रकाशन, दिल्ली, १९९८।
- सुधा पालीवाल, विक्रमोर्वशीयम् का समीक्षात्मक अध्ययन, ईस्टर्न बुक लिंकर्स, दिल्ली।
मलयालग्रन्थाः
- Divakaran Nair, Gitapanchakam, Ed. 1, Sahithi Books, Thrissur, September 2013.
- Kalidasa, Kalidasa Krithikal (complete works, Sanskrit original and Malayalam translation), First DCB Ed., DC Books, Kottayam, December 2004.
- Narayana Pisharadi, Bharatamuniyude Natya Sasthram (Vol. 1), Kerala Sahitya Academy, Thrissur, 1997.
[1]विक्रमोर्वशीयम् १/२
[2]विक्रमोर्वशीयम् ३/११८
[3]विक्रमोर्वशीयम् ५/२१३
[4]विक्रमोर्वशीयम् ५/२२२
[5]गुरुगीता, २५-P-२६ [सन्दर्भः सत्यापनीयः]
[6]विक्रमोर्वशीयम् ५/१७
[7]विक्रमोर्वशीयम् ५/२१३ [टि. ३ सह समानः – सत्यापनीयः]
[8]विक्रमोर्वशीयम् ४/१९५
[9]साहित्यदर्पणम् ६/७
[10]नाट्यशास्त्रम् १/१७
[11]यजुर्वेदसंहिता, अध्यायः – , मन्त्रः ६ [अध्यायसंख्या सत्यापनीया]
[12]डॉ. शशि भानु विद्यालंकार, संस्कृत नाटकों में दार्शनिक तत्त्व, पृ. १०४ [लेखकनाम सत्यापनीयम्]
[13]डॉ. शशि भानु विद्यालंकार, संस्कृत नाटकों में दार्शनिक तत्त्व, पृ. १०५ [उद्धरणस्य मूलस्रोतः सत्यापनीयः]
