बालब्रह्मानन्दीयोक्त: आत्मतत्त्वप्राप्तिविचारः
निरंजन हरिश्चन्द्र भट्टः
शोधच्छात्रः, अद्वैतवेदान्तविभागः
केन्द्रीयसंस्कृतविश्वविद्यालयः
श्रीराजीवगान्धीपरिसरः,शृङ्गेरी
E Mail – niranjanbhat2020@gmail.com
Abstract
सर्वद्वैताभावोपलक्षित-सच्चिदानन्दस्वरूप-नित्य-शुद्ध-बुद्ध-मुक्तस्वभावप्राप्त्यनुकूलासकृद्ब्रह्मचिन्तनमेव मननम् इति विद्वद्वचः । तद्विहाय मानवः किञ्चित्क्षणीकमिच्छन्, “योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः[ कठोपनिशत् (२.२.७)]” इतिरीत्या जननमरणरूपसंसारे पतितो पथिको भवति । उक्तं च श्रुतावपि “तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम्”[ बृहदारण्यकोपनिषत् (४.४.६)] इति । तन्मनोभिषङ्गवशादेव ताच्छील्यम् । तच्छिल्यप्रत्ययोपादानात् साधुकारी साधुर्भवति पापकारी पापो भवति, यथाचारी भवतीति यावत् । एवं तत्र तत्र कामक्रोधादिपूर्वकपुण्यापुण्यमयत्त्वम्, देहात् देहान्तरसञ्चाररूप संसारस्य हेतुः । एवं अज्ञानतत्कार्यभूतस्य संसारस्य अपगमनाय नैक विध उपायान् अस्मत्पूर्वजाः अदुः । सर्वोपायानां च अन्तिमतया ब्रह्मज्ञाने पर्यवसानं कथितम्। एवं स्व मति विस्ताराय शिश्योद्धाराय च नैकैः ग्रन्थाः रचिताः । तत्र काशीपुरस्थबालब्रह्मानन्दयतयः मानदीपिका इति ग्रन्थं दशसु प्रकरेषु रचयामासुः । प्रकरणग्रन्थेऽस्मिन् मानदीपिकाख्ये मोक्षसाधनतत्फलादि विषये विस्तृततया श्रुति स्मृत्यादि उद्धरणपूर्वकं ब्रह्मप्रतिपत्तिविषयं अनुग्राहयामासुः । सर्वविध दुःख जिहासार्थं स्वात्मतत्त्वप्रतिपत्तिः सर्वैः कर्तव्यमाद्यं कार्यमिति विदितमेव । तत्र कर्मादीनां मोक्षकारणत्वं नैव भवितुमर्हति अनित्यत्वात् । श्रुति स्मृत्याधारेण निर्णितं यत् ज्ञानमेव साक्षात् मोक्षकारणं भवतीति ।
मोक्षस्वरूपम्
“यस्मिन् सर्वं यतः सर्वं यस्सर्वं सर्व दृक्तथा ।
सर्वभावपदातीतं स्वात्मानं तं स्मराम्यहं ॥”[1]
‘धर्मार्थकाममोक्षाणां चतुर्णां पुरुषार्थानां मोक्ष एव परमपुरुषार्थः । पुरुषैः अर्त्यते, प्राप्यते इति पुरुषार्थः । धर्मार्थकामाः अपि मोक्षार्थं एव प्रवृद्धाः । तस्य नित्यत्वात् “न सः पुनरावर्तते न सः पुनरावर्तते”[2] इत्यादि श्रुतिशतेभ्यः । तर्हि कः मोक्षः ? विमोचनमेव मोक्षः । कस्मात् ? इति चेत्,जगति विषयाः अस्मासु विविधान् व्यामोहान् उत्थाय, विविधान् चेष्टान् कारयति । ते एव आशापाशाः तेन विमोचनम् मोक्षः। अथवा, लोकजीवने अन्यान्यानि कार्यणि करणियान्येव भवन्ति तेन विना लोके सार्थकजीवनं न सिध्यति। तादृशकार्यकरण संदर्भे धर्माधर्मौ भवतः तेन पुण्यपापौ जायेते, तदेव कर्मभन्धनम्, तेन विमोचनं मोक्षः।अथवा जीवः पूर्वपूर्वकर्मशेषवशात् जन्ममरणं प्राप्य कष्टमनुभवति तदेव संसारः । तेन विमोचनं मोक्षः । अथवा लोकजिवनम् कष्ट- निष्ठुरादिना भारः । दारिद्र्य कार्पण्यादयः स्वातन्त्र्य भंजकाः । अतः जिवस्य क्लेशभारनिवृत्तिः मोक्षः। ‘सर्वतन्त्रस्वतन्त्रसिद्धान्त पदार्थलक्षणे द्वात्र्त्रिंशत् मोक्षलक्षणानि उक्तानि । तर्हि तावंति मोक्षाणि सन्तिवा इति चेन्न । सतुमोक्षः एकएव । पुनः काले काले मोक्षस्य विषये बहुविधमतभेदाः सिद्धान्ताः उत्पन्नाः सन्ति । अचार्यैः बहुविध मतान् अवलोक्य मोक्षस्वरुपमुक्तमेव । अज्ञाननिवृत्तिः आत्मतत्वप्राप्तिः मोक्षः इति ।
मोक्षस्य कर्मकारणत्वम्
एवं च किमौपनिषदमात्मज्ञानं क्रतुप्रयोगापेक्षितकर्तृप्रतिपादकतया क्रत्वर्थं भवति उत स्वतन्त्रमेव मोक्षसाधनमिति विचार्यमाणे पूर्वपक्षस्तावत् कर्म एव कारणम् अथवा ज्ञानकर्मणोः अङ्गाङ्गिभावेन समुच्चय इति यथा
मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः। ‘
नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया ॥
सर्वत्रैवहि विज्ञानं संस्कारत्त्वेन गम्यते ।
पराङ्गं चाऽऽत्मविज्ञानादन्यत्रेत्यवधारणात् ॥
विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्रुते ।
ननु निःस्रेयसज्ञानात् बन्धहेतोर्नकर्मणः ।
नैकस्मादपि तत् किन्तु ज्ञानकर्मसमुच्चयात् ॥[3] इति
आमुष्मिकस्वर्गादिफलभोगभागी शरीराद्यतिरिक्तः नित्यः कर्ता आत्मा उपनिषत्सु प्रतिपाद्यते । तस्य आत्मनः कर्तृत्वेन कर्मशेषत्वात् आत्मज्ञानं कर्माङ्गकर्तृद्वारा क्रत्वर्थमिति । अतः ‘तरति शोकमात्मवित्’[4] (छा.उ.७/१/३) इत्याद्यात्मज्ञाने या फलश्रुतिः सा अर्थवादः । यथा यस्य पर्णमयी जुहुर्भवति न स पापं श्लोकं श्रुणोति इत्यादिषु पर्णमयीद्रव्ये या फलश्रुतिः सा न फलपरा पर्णमयीद्रव्यस्य फलवत्वमर्थत्वात् । तद्वत् अत्रापि फलश्रुतेः अर्थवादत्वम् । तथा च अनुमानम् आत्मज्ञानं कर्माङ्गम्, अफलत्वे सति कर्माङ्गाश्रयत्वात् पर्णमयीत्वादिवत् इति । ननु ‘य आत्माऽपहतपाप्मा’[5] (छा.उ.८/७/१) इत्यदिश्रुतिषु आत्मनः असंसारित्वोक्तेः अकर्तृब्रह्मात्मज्ञानस्य न कर्माङ्गत्त्वमिति चेत् न ‘न वा अरे सर्वस्य कामाय सर्व प्रियं भवति आत्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः’[6] (बृ. उ.२/४/५) इत्यत्र यस्यार्थे सर्वं प्रियं भोग्यं स आत्मा द्रष्टव्य इति भोग्यलिङ्गेन आत्मनः भोक्तृत्वं सूचितमिति तद्भिन्नाकर्तृत्वम् आत्मनः नास्ति । अतः अपहृतपाप्मत्वादिकम् आत्मनः स्तुत्यर्थम् इति । अपि च जनकप्रभृतीनां ब्रह्मविदां ‘जनको ह बहुदक्षिणेन यज्ञेनेजे’[7] ‘यक्ष्यमाणो वै भगवन्तोऽहमस्मि’[8] (छा.उ.५/११/५) इत्यदिवाक्येषु कर्मसम्बन्धः श्रूयते । अर्कश्चेन्मधु विन्देत किमर्थं पर्वतं बजेत् इति न्यायेन यदि केवलात् आत्मज्ञानात् मोक्षसिद्धिः स्यात् किमर्थं जनकादयः बह्वयासं कर्म कुर्युः । अतः ब्रह्मविदां कर्माचारदर्शनात् आत्मज्ञानस्य कर्माङ्गत्वम्।
ज्ञानकर्मसमुच्चयः
शरीराद्यतिरिक्तः नित्यः कर्ता आत्म अपि च ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’[9] (छा.उ. १/१/१०) इति श्रुत्या एव विद्यायाः कर्मशेषत्वश्रवणात् न केवलमात्मज्ञानात् पुरुषार्थसिद्धिः । ‘तं विद्याकर्मणी समन्वारभेते’[10] (बृ.उ.४/४/२) इत्यत्र च परलोकं गच्छन्तं जीवं विद्याकर्मणी अनुगच्छत इति विद्याकर्मणोः साहित्यदर्शनादपि विद्यायाः अस्वातन्त्र्यम् ‘आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः’[11] (छा.उ.८/१५/१) इति च श्रुतिः ब्रह्मचर्यात् अभिसमावर्तनं कृत्वा गार्हस्थ्ये स्थितः स्वाध्यायाध्ययनं कुर्वन् कर्माणि च अनुतिष्टन् ब्रह्मलोकं प्राप्नोति इति दर्शयति । अवघातादिविधिवत् अध्ययनविधेः दृष्टार्थत्वात् अर्थावबोधपर्यन्तं व्यापारः अस्ति । ततश्च ब्रह्मापि वेदार्थ इति वेदार्थज्ञानवतः कर्मविधानात् ब्रह्मज्ञानमपि कर्माङ्गमिति। ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’[12] (ई.उ.२) इत्यादिनियमादपि आत्मज्ञानस्य कर्मशेषत्वमिति ।
अत्र आक्षेपाणां समाधानम् इत्थं क्रियते आत्मनः कर्तृत्वेन कर्माङ्गकर्तृद्वारा आत्मज्ञानस्य कर्माङ्गत्वं यदुक्तं तत्रोच्यते यदि देहाद्यतिरिक्तः भोक्ता कर्ता आत्मा इति एतस्मिन्नेवार्थे वेदान्ताः पर्यवसिताः स्युः तर्हि आत्मज्ञानस्य क्रत्वङ्गत्वं स्यात् । न त्वेतदस्ति। ‘यः सर्वज्ञः सर्ववित्’[13] (मु.उ. १/१ / ९) इत्यादिवेदान्तेषु शारीराधिकः कर्तृत्वभोक्तृत्वादिसंसारधर्मरहितः अपहतपाप्मत्वादिविशेषणः परमात्मा वेद्यत्वेन उपदिश्यते । यः कर्ता कर्माङ्गं नासौ वेदान्तवेद्यः यच्च वेदान्तवेद्यं ब्रह्म न तत् कर्माङ्गम् । अतः न आत्मज्ञानस्य कर्माङ्गत्वम् । नापि फलश्रुतेः अर्थवादत्वम् । ‘आत्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे दृष्टव्यः’[14] (बृ. उ. २/४/५ ) इत्यत्र उपक्रमे श्रुतस्य प्रियादिसूचितस्य संसार्यात्मनः ‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’[15] (बृ.उ.३/५/१) इत्यादिवाक्यशेषैः परमात्मनात्यन्ताभेदः उपदिश्यत इति न कोपि विरोधः। शुद्धबुद्धोदासीनब्रह्मरूपता एव शारीरस्य पारमार्थिकं स्वरूपम्। कर्तृत्वादिकं तु अविद्याकल्पितम् । तथा च आत्मज्ञानस्य न कर्माङ्गत्वम् । यदुक्तं जनकादीनां कर्माचारदर्शनात् ज्ञानस्य क्रतुशेषत्वमिति तत्रोच्यते -आत्मज्ञानस्य अकर्मशेषत्वेऽपि ब्रह्मविदां आचारदर्शनं समानम्। श्रुतिर्यथा एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च, वित्तैषणायाश्च, लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’[16] (बृ.उ.३/५/१) इति । ‘एतावदरे खल्वमृतत्वमिति होत्क्त्वा याज्ञवल्क्यो विजहार’[17] (४ / ५ / १५ ) इति च ब्रह्मविदां याज्ञवल्क्यादीनाम् अकर्मनिष्ठत्वं दर्शयति । जनकादीनां तु कर्तृत्वाद्यभिमानाभावेन अनधिकारित्वात् लोकसंग्रहार्थं क्रियमाणमपि कर्म न भवति ।
आक्षेपाणां समाधानम्
विद्यायाः कर्मशेषत्वे या श्रुतिः उदाहृता ‘यदेव विद्यया करोति’[18] (छा.उ.१/१/१०) इति सा असार्वत्रिकी न अशेषविद्याविषया ‘ओमित्येतदक्षरमुद्गीथमुपासीत’[19] (छा.उ. १/१/१) इत्यत्र उद्गीथविद्यायां प्रकृतत्वात् । ‘तं विद्याकर्मणी समन्वारभेते’[20] (वृ.उ.४/४/२) इति फलारम्भे विद्याकर्मणोः साहित्यं यदुक्तं तन्न तत्र विभागः विवक्षितः । विद्या अन्यं पुरुषमन्वारभते कर्म अन्यमिति । अविभागेऽपि न दोषः । यतः इदं समन्वारम्भवचनं न मुमुक्षुविषयम् । ‘इति नु कामयमानः’[21] (४/४/६) इति संसारिविषयत्वेन उपसंहारदर्शनात् ।
‘आचार्यकुलाद्वेदमधीत्य’[22] (छा. उ. ८/१५/१) इत्यादिना वेदार्थज्ञानवतः कर्मविधानात् ब्रह्मज्ञानमपि कर्माङ्गमिति यदाशङ्कितं तत्रोच्यते अर्थावबोधपर्यन्तं वेदाध्ययनं कर्मसु उपयुज्यते तत् कर्माधिकारकारणं भवति । किन्तु उपनिषदध्ययनवतः तदध्ययनस्य कर्मसु अनुपयोगात् न आत्मज्ञानस्य अधिकारकारणत्वम् । आत्मज्ञानं स्वातन्त्र्येणैव प्रयोजनवत् भवति । ‘कुर्वन्नेवेह कर्माणि जिजीविषेत्’[23] (ई. उ. २ ) इति नियमश्रवणात् ज्ञानस्य कर्माङ्गत्वमिति न च वाच्यम् । यतः ‘न कर्म लिप्यते नरे’[24] (ई.उ.२) इति श्रुतिः कर्म कुर्वत्यपि विदुषि विद्यासामर्थ्यात् न संसारापत्तिः इति दर्शयति । अतः कुर्वन्नेवेह कर्माणि इति नियमश्रवणं विद्यास्तुत्यर्थम् । अपिच ‘एतद्ध स्म वै तत्पूर्वं विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोकः’[25] (बृ.उ.४/४/२२) इति स्वेच्छातः कर्मसाधनप्रजादित्यागलिङ्ग ज्ञानस्य स्वातन्त्र्येण मोक्षहेतुत्वं दर्शयति । किंच ‘यत्र वा अस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन पश्येत्तत्केन कं जिघेत्’[26] (बृ. उ. २/४/१४) इत्यादिना कर्माधिकारहेतुभूतस्य अविद्याकल्पितस्य क्रियाकारकफललक्षणस्य समस्तस्य जगतः ब्रह्मज्ञानेन उपमर्दश्रवणात् न केवलं कर्मसु अनुपयोगित्वात् ज्ञानस्य कर्मानङ्गत्वं कर्मनाशकत्वाच्च।
ज्ञानसैव पुरुषार्थसाधनत्वम्
एवं च मोक्षः प्राप्यते इत्यपि न वदामः वयं यतोहि अप्राप्तस्य खलु प्राप्तिः नित्यप्राप्तस्य प्राप्तिः कुतः । आत्मातु सर्वदा सिद्ध एव । “सर्वोहि आत्मास्तित्वं प्रत्येति न नाहमस्मि इति”[27] “अविनाशीवा अरेऽयमात्मा”[28] अस्मि, अस्तीत्यादिना सर्वोपि आत्मास्तित्वां अंगीकुर्वंति अनुभवंति च । मोक्षस्य आत्म स्वरूपत्वात् मोक्षोपि सिद्ध एव । अनारभ्यत्वात् मोक्षस्य । न तावदुत्पाद्यः । नित्यत्वात् । नाप्योपि । तर्हि “अभयं वै जनकप्राप्तोसि”[29] इति प्रापणमुक्तं खलु तदपि प्रकरणम् मोक्षसैव इति चेत्, सत्यं तत्र अज्ञानादागत द्वैतभाव नाशनद्वारा पूर्वं विद्यमानसैव आत्मा प्रकटीकृतः नतु अविद्यमानः इति । अज्ञाननाश एवहिमोक्षो नाम न कार्य भूतः । “बंधमोक्षौ न विद्येते नित्यमुक्ततयात्मनः”[30] । यथा रजत दर्शनसंधर्वेपि शुक्तिरेव आसीत् । दृष्टं सत्यं किंतु कदापि वस्तुनि रजतं नासिदेव । ज्ञानानंतरं किं शुक्तिरुत्पन्ना न किंतु आसीदेव । तथा सर्वदा सर्वमिदं स्वरूपेणैव अस्ति, नाम अत्मत्वेनैव अस्ति । अग्रेविद्यमानः घटः कदापि पटो न भवति । “इदम् सर्वं यदयमात्मा”[31] । “आत्मौपम्येन सर्वत्र”[32] इत्यादिभ्यः । “तत्वमसि” “अहं ब्रम्हास्मि”[33] “अयमात्माब्रह्म”[34] इत्यत्रापि पूर्वं उपाधिसहिततया, अज्ञानसहिततया विद्यमानस्यैव आत्मनः प्रत्यगात्मत्वेन, अविशयतया प्रतिपादयत्, अविद्याकल्पित भेधअपनयन द्वार मोक्षप्राप्तिः उक्तः I तत्स्वकण्ठे विद्यमान विस्मृतकण्ठाभरणस्य प्राप्तिर्यथा तथा गौणमुख्यभावेन मोक्षः प्राप्यते इति । तत्र नष्टं शुक्तेः अज्ञानं, प्राप्तं शुक्तिज्ञानम् । तदेव पूर्वं भद्धइव आसीत् ज्ञानानंतरं मुक्तइव । कः बद्धः इति पृष्टेसति आचार्याः अपि कुचोद्यतया यः पृछ्चति सः इति तत्वमॆव वदन्ति । तेषामाशयोपि स एव । अतः मोक्षो नाम अज्ञाननिवृत्तिः,स्वात्मन्यवस्थनं । अस्तु तत्तादृश मोक्षस्य साधनं किं इति चेत् । श्रवणं मननं निधिध्यासनं इति वदंति । वेदान्तस्रवणं तु गुरुमुखादेव शास्त्राणां यथार्थतत्त्व प्रतिपत्तिः । श्रवणेन ज्ञातं ज्ञानं यदा विवेकपूर्वकं चिन्त्यते तदेव मननम् इति कथ्यते । मननस्य उद्देश्यं श्रुतस्य अर्थस्य असंदिग्ध बोधः । मननिते अर्थे चित्तसमधिः निधिध्यासनं इत्युच्यते । अथवा योगोक्तरीत्या ध्यानधारणसमाधिर्वा वा कारणम् । किंतु यदि ज्ञानाभावः, यदि संशयज्ञानं, यदि विपरीत ज्ञानं वा उच्यते अज्ञानमिति सर्वंतत् ज्ञानेनैव निवर्त्यते, नतु कर्मणा अन्यतमेनापि 1 दृष्टविशयत्वात् कर्म सामर्त्यस्य उत्पत्याप्तिविकारसंस्काराहि कर्म सामर्त्यस्य विषयाः । न तत् व्यतिरिक्त विशयोस्ति कर्मसामर्त्यस्य । उत्पादयितुं, प्रपयितुं, विकर्तुं, संस्कर्तुं च सामर्थ्यं कर्मणः । लोके सिद्धत्वात् । न च मॊक्षः एषां पदार्थानां अन्यतमः। नित्यत्वात् “तद्यतेह कर्मजितो लोकः क्षीयते एवमेवामुत्र पुण्यजितोलोकः क्षियते”[35]। ’यत् कृतकं तदनित्य’ । अत एव मोक्षः अविकर्योनित्यश्च। असंस्कार्यष्च अत एव। असाधन द्रव्यात्मकत्वाच्च । न च संस्क्रियमाणः संस्कार निवर्त्यो वा मोक्षः, तस्य स्वब्भावात् एकत्वाच्च ।
अतः “न कर्मणा न प्रजया न धनेन त्यागेनैके अमृतत्व मानषुः”[36] “स एष नेति नेतीत्यात्मा”[37] । इति रीत्या अनात्मसु आत्मभावत्यागः मोक्ष साधनं भवति ।
उपसंहारः
एवञ्च
“ध्यानेनात्मनि पश्यंति केचिदात्मानमात्मना
अन्ये सांख्येन योगेन कर्मयोगेनचापरे ॥
अन्येत्वेवमजानंतः श्रुत्वान्येभ्यउपासते
तेपिचातितरंत्येव मृत्युं श्रुतिपरायणाः ॥”[38]
इति रीत्या इत्थं साधनमिति न । साधकबेधेन साधनानि भिद्यते । यद्वा भवतु सर्वं ज्ञाने परिसमाप्यते । ज्ञानमेकमेव साधनं इति वक्तुं नैव क्लेशोस्ति । “तमेव विदित्वा अतिम्रुत्युमेति नान्यपन्था विद्यतेयनाय”[39] । “ब्रह्मवित् ब्रह्मैव भवति”[40] इत्यादयोपि ज्ञानमेव मोक्ष साधनम् इति वदन्ति। इति शम् ।
परिशीलितग्रन्थसूची
१. शास्त्री, वामन, अद्वैतब्रह्मसिद्धिः (सदानन्दयति), परिमल पब्लिकेशन्स, दिल्ली,१९९३.
२. शर्मा, शीतांशुशेखरदेव, अद्वैतसिद्धिः (मधुसूदनसरस्वती), योगेन्द्रनाथप्रणीतया बालबोधिन्याख्यया व्याख्यया सहिता, तारा पब्लिकेशन्स, १९७१.
३. शास्त्री, अनन्तकृष्ण, भामती-कल्पतरु-परिमल-उपबृंहितब्रह्मसूत्रशाङ्करभाष्यम् (शङ्कराचार्यः) , राष्ट्रियसंस्कृतसंस्थानम्, देहली, २०१२.
४. शास्त्री, आचार्यजगदीश, ब्रह्मसूत्रशाङ्करभाष्यम् (शङ्कराचार्य), मोतीलाल बनारसीदास, १९८०.
५. शास्त्री, एस् आर् कृष्णमूर्ति, एन्.वीलिनाथन्, शास्त्रसिद्धान्तलेशसङ्ग्रहः (श्रीमदप्पय्यदीक्षितेन्द्र), श्रीमदप्पय्यदीक्षितेन्द्रग्रन्थावलिप्रकाशनसमितिः , सिकन्दराबाद, १९७३.
६. शास्त्री, एस् आर् कृष्णमूर्ति, ब्रह्मविद्याभरणम् (अद्वैतानन्दस्वामी), The Sanskrit Education Society, Madras, 1976.
७. शास्त्री, एस्. सुब्रह्मण्य, उपनिषद्भाष्यम् (शङ्कराचार्य) , महेश-अनुसन्धान-संस्थानम्, वाराणसी, १९७९.
[1] The Yoga Vasistha of Valmiki. Translated by Vihari-Lala Mitra, Low Price Publications, 1998
[2] The Chandogya Upanishad. Translated by Swami Swahananda, Sri Ramakrishna Math, 1956.
[3] Kumarila Bhatta. Slokavartika. Translated by Ganganatha Jha, Sri Satguru Publications, 1983.
[4] The Chandogya Upanishad: With the Commentary of Sankaracarya. Translated by Swami Gambhirananda, Motilal Banarsidass Publishers, 2006.
[5] The Chandogya Upanishad: With the Commentary of Sankaracarya. Translated by Swami Gambhirananda, Motilal Banarsidass Publishers, 2006.
[6] Brhadaranyaka-Upanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Pratishthan, 2010
[7] Brhadaranyaka-Upanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Pratishthan, 2010
[8] The Chandogya Upanishad: With the Commentary of Sankaracarya. Translated by Swami Gambhirananda, Motilal Banarsidass Publishers, 2006.
[9] The Chandogya Upanishad: With the Commentary of Sankaracarya. Translated by Swami Gambhirananda, Motilal Banarsidass Publishers, 2006.
[10] Brhadaranyaka-Upanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Pratishthan, 2010.
[11] The Chandogya Upanishad: With the Commentary of Sankaracarya. Translated by Swami Gambhirananda, Motilal Banarsidass Publishers, 2006.
[12] Isavasyopanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Series Office, 2012.
[13] Mundakopanisad: With the Sanskrit Commentary. Edited by V.S. Shastri, Chaukhamba Sanskrit Pratishthan, 2015.
[14] Brhadaranyaka-Upanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Pratishthan, 2010.
[15] Brhadaranyaka-Upanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Pratishthan, 2010.
[16] Brhadaranyaka-Upanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Pratishthan, 2010.
[17] Brhadaranyaka-Upanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Pratishthan, 2010.
[18] The Chandogya Upanishad: With the Commentary of Sankaracarya. Translated by Swami Gambhirananda, Motilal Banarsidass Publishers, 2006.
[19] The Chandogya Upanishad: With the Commentary of Sankaracarya. Translated by Swami Gambhirananda, Motilal Banarsidass Publishers, 2006.
[20] Brhadaranyaka-Upanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Pratishthan, 2010.
[21] Brhadaranyaka-Upanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Pratishthan, 2010.
[22] The Chandogya Upanishad: With the Commentary of Sankaracarya. Translated by Swami Gambhirananda, Motilal Banarsidass Publishers, 2006.
[23] Isavasyopanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Series Office, 2012.
[24] Isavasyopanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Series Office, 2012
[25] Brhadaranyaka-Upanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Pratishthan, 2010.
[26] Brhadaranyaka-Upanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Pratishthan, 2010.
[27] Brahmasutra-Shankara-Bhashyam. Edited by J.L. Shastri, Chaukhamba Sanskrit Series Office, 2005.
[28] Brhadaranyaka-Upanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Pratishthan, 2010
[29] Brhadaranyaka-Upanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Pratishthan, 2010
[30] Vivekachudamani of Sri Sankaracarya. Translated by Swami Madhavananda, Advaita Ashrama, 1921.
[31] Brhadaranyaka-Upanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Pratishthan, 2010
[32] Srimad Bhagavad Gita (Sadhaka Sanjivani). Translated by Swami Ramsukhdas, Gita Press, 2005.
[33] Brhadaranyaka-Upanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Pratishthan, 2010
[34] Mandukyopanisad: With Gaudapada Karika and Sankara Bhashya. Edited by R.S. Sastri, Chaukhamba Sanskrit Pratishthan, 2012.
[35] Chandogya Upanishad: With Sanskrit Commentary. Edited by V.S. Shastri, Chaukhamba Sanskrit Pratishthan, 2015.
[36] Minor Upanishads. Translated by Swami Madhavananda, Advaita Ashrama, 1968.
[37] Brhadaranyaka-Upanisad: With the Bhashya of Sankaracarya. Edited by S.R. Shastri, Chaukhamba Sanskrit Pratishthan, 2010
[38] The Bhagavad Gita: With the Commentary of Sankaracarya. Translated by Swami Gambhirananda, Motilal Banarsidass Publishers, 1991.
[39] The Svetasvatara Upanisad: With the Commentary of Sankaracarya. Translated by Swami Tyagisananda, Sri Ramakrishna Math / Motilal Banarsidass, 1949.
[40] Mundakopanisad: With the Sanskrit Commentary. Edited by V.S. Shastri, Chaukhamba Sanskrit Pratishthan, 2015.
