प्रो. सि. जि. पुरुषोत्तमवर्येण अनूदिते श्रीरामायणदर्शने उत्प्रेक्षालङ्कारः

हनुमन्तरायः के डि
शोधच्छात्रः,   अलङ्कारशास्त्रविभागः, R.N. Ph.D/SF-AL/2021-06,  
कर्णाटकसंस्कृतविश्वविद्यालयः, पम्पमहाकविमार्गः, चामराजपेटे, बेङ्गलूरु -560018,
E-mail: – hanusan92@gmail.com, Mob No: – 7406507126

  • पीठिका

कविब्रह्मणा निर्मिते काव्यसंसारे अनेके रस-रीति-ध्वनीत्यादयः प्रकाराः सम्प्रदायाः सम्प्रदर्शिताः। तेषु दण्डिभामहरुद्रटवामनभट्टोद्भटादिभिः आलङ्कारिकैः अलङ्कारसम्प्रदायः निरूपितः। इमे आलङ्कारिकाः शब्दार्थगतान् अलङ्कारान् एव काव्ये आत्मनः इति आमनन्ति। दण्डिभामहरुद्रटवामनभट्टोद्भटेभ्यः अन्ये सर्वे आलङ्कारिकाः अलङ्कारस्य आत्मस्थानं अनङ्गीकुर्वन्तोऽपि काव्ये अलङ्कारस्य विशिष्टं स्थानं ददति। “काव्यशोभाकरान् धर्मान् अलङ्कारान् प्रचक्षते ते च अद्यापि विकल्प्यन्ते कस्तान् कार्त्स्येन वक्षति”[1] इति दण्डी काव्यसामान्यलक्षणं जगाद। ‘सौन्दर्यमलङ्कारः’[2] इति वामनः अलङ्कारलक्षणम् आचचक्षे। ‘कविप्रतिभोत्थितः विच्छित्तिविशेषः अलङ्कारः[3] इति कुन्तकः अलङ्कारस्वरूपं निजगाद। ‘शब्दार्थयोरस्थिरा ये धर्माः शोभातिशायिनः रसादीनुपकुर्वन्तोऽलङ्कारास्तेङ्गदादिवत्’[4] इति विश्वनाथः स्वकीयम् अलङ्कारस्वरूपं व्याजहार। “रसादिभिन्नव्यङ्ग्यभिन्नत्वे शब्दार्थान्यतरनिष्ठा या विषयिता सम्बन्धावच्छिन्ना चमत्कृतिजनकतावच्छेदकता तदवच्छेदकत्वम् अलङ्कारत्वम्”[5] इति अलङ्कारस्य सामान्यलक्षणं कुवलयानन्दस्य चन्द्रिकाव्याख्याकारः वैद्यनाथः निजगाद।  सर्वेऽपि आलङ्कारिकाः अलङ्काराः काव्यस्य शोभां वर्धयन्ति इति अभिप्रायं प्राकटीकुर्वन्। अलङ्कारशास्त्रग्रन्थप्रवक्तारः शब्दार्थगतत्वेन द्विधा विभक्तानाम् अलङ्काराणां सामान्यलक्षणम् एवं जगदुः। यथा पूर्वोक्तैः अलङ्कारलक्षणेषु लक्षितेषु शताधिकेषु अलङ्कारेषु ‘उत्प्रेक्षा’ इति अलङ्कारः अन्यतमः विद्यते। तदधुना विमर्शनं कुर्मः।

  • उत्प्रेक्षायाः लक्षणानि

सादृश्यमूलेषु अलङ्कारेषु अन्यतमः उत्प्रेक्षालङ्कारः, तमनेके आलङ्कारिकाः स्वमतिविभवानुसारम् अनेकधा व्याचक्षीरन् क्रैस्तवर्षस्य पञ्चमशतके विद्यमानः भामहः उत्प्रेक्षायाः उल्लेखं प्रथमं व्याहरत्- “अविवक्षितसामान्या किञ्चिच्चोपमया सह। अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता ॥”[6] यत्र उपमेयस्य उपमानेन सह सामान्यधर्मः स्पष्टतया न विवक्षितः भवति, किन्तु किञ्चित् उपमानसादृश्यं सूचितं भवति, तथा च उपमेये उपमानस्य गुणः क्रिया वा आरोप्यते, एवं च तस्यां कल्पनायां विशेषातिशयः दृश्यते सा उत्प्रेक्षा इति कथ्यते’ इति उत्प्रेक्षायाः स्वरूपं निजगाद। ‘किंशुकव्यपदेशेन तरुमारुह्य सर्वतः। दग्धाऽदग्धमरण्यान्याः पश्यतीव विभावसुः ॥”[7] अर्थात् वसन्तकाले रक्तवर्णयुक्तानि किंशुकपुष्पाणि वृक्षेषु विकसितानि सन्ति। तानि दृष्ट्वा कविः कल्पयति यत् अग्निदेवः किंशुकनाम्ना वेशं धृत्वा वृक्षमारुह्य सर्वतः पश्यति इव ‘अरण्येषु कियत् भागः दग्धः, कियत् अदग्धः इति’। अत्र किंशुकपुष्पाणां रक्तवर्णः अग्निसदृशः। अतः अग्निः किंशुकरूपेण वृक्षे आरुह्य वनानि निरीक्षते इति कल्पना कृता। वस्तुतः अग्निः न वृक्षमारोहति, न पश्यति; किन्तु कविकल्पनया एषा सम्भावना व्यक्ता। एवम् उत्प्रेक्षायाः उदाहरणम् उवाच। भामहात् अर्वाचीनः दण्डी “अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा। अन्यथोत्प्रेक्ष्यते यत्र तामुत्प्रेक्षां विदुर्यथा ॥”[8] इति उत्प्रेक्षास्वरूपं वदन् चेतनानाम् अचेतनानां वा वास्तवगुणादीन् विहाय अन्यथाप्रकल्प्यवर्णनम् उत्प्रेक्षा इति अभिप्रैति। “मध्यन्दिनार्कसन्तप्तः सरसीं गाहते गजः। मन्ये मार्त्तण्डगृह्याणि पद्मान्युद्धर्तुमुद्यतः॥”[9] इतीमं लक्ष्यम् उज्जहार। क्रिस्तशकैकादशशतमाने विद्यमानः मम्मटः “सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्।”[10] इति उत्प्रेक्षां निरूपयन् प्रकृतस्य उपमेयस्य समेन उपमानेन सह एकरूपतया तादात्म्येन यत्सम्भावनम् उत्कटैककोटिकः संशयः सा उत्प्रेक्षा नाम अलङ्कारः इत्याह। उत्प्रेक्षा हि इव ध्रुवं प्रायो नूनं मन्ये शङ्के अवैमि ऊहे तर्कयामि जाने उत्प्रेक्षाम् इत्यादिभिः प्रतिपादकैः सहिताः यत्र उत्प्रेक्षासामग्री तत्र वाच्योत्प्रेक्षा यत्र च प्रतिपादकशब्दरहितम् उत्प्रेक्षासामग्रीमात्रं तत्रव्यङ्ग्यो उत्प्रेक्षा भवति। “उन्मेषं यो मम न सहते जातिवैरी निशायाम्। इन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः॥”[11] इति पद्येन मम्मटः तां लक्ष्यीचकार। “सम्भावनानुमानेन सादृश्येन भयेन वा। निर्वण्यातिसहयोद्रेकप्रतिपादनवाञ्छया॥’’[12] इति वक्रोक्तिजीवितकारः कुन्तकः स्वकीयम् उत्प्रेक्षास्वरूपं व्याचक्षे। “वाच्यवाचकसामर्थ्याक्षिप्तस्वार्थैरिवादिभिः। तदिवेति तदेवेति वादिभिर्वाचकं विना॥ समुल्लिखितवाक्यार्थयोजनम्। उत्प्रेक्षा.. ॥”[13] इति परिष्कृतं कुन्तकस्य उत्प्रेक्षालक्षणम्। सम्भावनानुमानोत्प्रेक्षा सम्भावनसादृश्योत्प्रेक्षा सम्भवनोभयोत्प्रेक्षा चेति उत्प्रेक्षात्रयम्। “राशीभूतः प्रतिदिनमिव त्र्यम्बकस्यादृहासः॥”[14] इत्यादिभिः श्लोकैः कुन्तकः लक्ष्यीचकार। कुन्तकात् अर्वाचीनः कविराजः विश्वनाथः “भवेत्सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना”[15] इति स्वनिर्मिते साहित्यदर्पणाख्ये ग्रन्थे उत्प्रेक्षालक्षणमाह। प्रकृतस्य उपमेयस्य परः सदृशतया उपकल्पितः असम्भावनीयः अर्थः तादात्म्येन तत्स्वरूपेण सम्भावना उत्प्रेक्षा।

यं कञ्चित् पदार्थं विसम्भावयः प्रेक्षा हि प्रायेण उत्प्रेक्षा भवति अतः एतादृशी नामव्युत्पत्तिः। उत्कटैकतरकोटिकः संशयः सम्भावना, संशये कोटिद्वयं वर्तते यथा “अयं स्थाणु पुरुषो वा” इत्यादौ स्थाणोः विधानरूपा एकाकोटिः पुरुषो वा इति पुरुषस्य पुनर्विधानरूपा अपराचकोटिर्वर्तते। यस्मिन् संशये कोटिद्वयमध्ये एकस्याः कोटेः उत्कटत्वं सैव संशयस्य कोटिः सम्भावनापदव्यपदेश्या भवति। उपमेयस्य उपमानतया निश्चितप्राया सम्भावना उत्प्रेक्षापदार्थः। दोलायमानायाः अपरस्याः कोटेः निश्चितप्रयत्येन निरासः। अत्र च संशयस्य उत्कटैककोटिकतया सन्देहालङ्कारे नातिव्याप्तिः। रूपकभ्रान्तिमदतिशयोक्तिषु अलङ्कारेषु आरोपभ्रमाध्यवसायानां निश्चयरूपत्वात् च नातिव्याप्तिः। वाच्या उत्प्रेक्षा इवादीनाम् अप्रयोगे गम्योत्प्रेक्षा ते उभे अपि जातिगुणक्रियाद्रव्यात्मना प्रत्येकं द्विधा भूत्वा अष्टधा भवति। इमे अष्टौ अपि भावाभावाभ्यां द्विधा विभज्यन्ते पुनः निमित्तस्य गुणाक्रियात्मकतया विभज्य द्वात्रिंशत्प्रकाराः उत्प्रेक्षाः भवन्ति ज्ञाने मौनं क्षमाशक्तौ इत्यादिभिः पद्यैः उत्प्रेक्षां समन्वेति विश्वनाथः।

“उत्प्रेक्षोन्नीयते यत्र हेत्वादिर्निह्नुतिं विना।”[16] इति चन्द्रालोककारः जयदेवः उत्प्रेक्षायाः लक्षणमाह। यत्र वाक्यार्थे निषेधं गोपनं विना हेतुफलस्वरूपादिः उत्कटसंशयविषयीक्रियते तदुत्प्रेक्षा इत्याशयः। ‘त्वन्मुखाश्रीकृते नूनं पद्मैः वैरायते शशी।’[17] इति श्लोकार्धम् उदाजहार। “मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः। उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः॥”[18] इति दण्डिना उक्तेषु पदेषु अन्यतमः उत्प्रेक्षा वाक्ये उच्यते, तदा अगूढोत्प्रेक्षायां वस्तुहेतुफलात्मकेन प्रत्येकं त्रिधा विभज्य षडुत्प्रेक्षाप्रकाराः वर्तन्ते। जयदेवात् अर्वाचीनः अप्पयदीक्षितः “सम्भावनास्यादुत्प्रेक्षा”[19] इति जयदेवोक्तलक्षणम् एव अनुवदन् अन्यधर्मसम्बन्धनिमित्तेन अन्यस्य अन्यतादात्म्यसम्भावनम् उत्प्रेक्षा। अन्यस्य विषयिणः यः धर्मः तत्सम्बन्धरूपेण निमित्तेन अन्यस्य अन्यविषयकम् अन्यस्य विषयिणः तादात्म्येन सम्भावनमिति फलितम् उत्प्रेक्षायाः लक्षणं भवति। उक्तास्वरूपोत्प्रेक्षा अनुक्तास्वरूपोत्प्रेक्षा सिद्धाहेतूत्प्रेक्षा असिद्धाहेतूत्प्रेक्षा सिद्धाफलोत्प्रेक्षा असिद्धाफलोत्प्रेक्षा चेति उत्प्रेक्षा षड्विधाः भवन्ति। “धूमस्तोमं तमःशङ्के कोकीविरहशुष्मणाम्”[20] इत्यादिना श्लोकेन उदाहरति। अप्पय्यदीक्षितात् अर्वाचीनः पण्डितराजजगन्नाथः ‘तद्भिन्नत्वेन प्रमितस्य पदार्थस्य रमणीयतद्वृत्तितद्धर्मसम्बन्धनिमित्तकं तत्वेन सम्भावनं धर्म्युत्प्रेक्षा, तदभाववत्वेन प्रमितस्य पदार्थस्य रमणीयतत्समानाधिकरणतद्धर्मसम्बन्धनिमित्तकं तद्वत्वेन सम्भावनं धर्मोत्प्रेक्षा’[21] चेति उत्प्रेक्षाद्वयं लक्षयति। दीक्षितोक्तप्रकारान् षट् उत्प्रेक्षाभेदान् अयमङ्गीकरोति ‘तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्ट’[22] इति गद्यभागं स्वरूपोत्प्रेक्षाप्रसङ्गे व्याहरत्। एवमनेके आलङ्कारिकाः उत्प्रेक्षालङ्कारस्य लक्षणानि कथयामासुः। उपर्युक्तलक्षणानुसारम् अनूदिते श्रीरामायणदर्शने प्रो. सि. जि. पुरुषोत्तमवर्यः उत्प्रेक्षालङ्कारं योजयामास। अधुना उत्प्रेक्षालङ्कारस्य विशर्मशनं कुर्मः।

  • श्रीरामायणदर्शने उत्प्रेक्षालङ्कारः

कन्नडसाहित्यक्षेत्रे आदिमः ज्ञानपीठप्रशस्तिभाग् कविः कुवेम्पुमहोदयः विद्यते। अयं महोदयः अनेकानि काव्यानि कन्नडभाषायाम् अरचयत्। श्रीमद्वाल्मीकिरामायणस्य इतिवृत्तमाधृत्य श्रीरामायणदर्शनाख्यस्य महाकाव्यस्य रचनामपि अकरोत्। तस्य महाकाव्यस्य अनुवादः संस्कृते प्रो. सि. जि. पुरुषोत्तममहाभागः अकरोत्। अस्मिन् महाकाव्ये अयोध्यासम्पुटम्, किष्किन्धासम्पुटम्, लङ्कासम्पुटम्, श्रीसम्पुटञ्चेति चत्वारि सम्पुटानि विद्यन्ते। महाकाव्येस्मिन् कविः अनेकान् अलङ्कारान् मनोज्ञं योजयामास। तेषु अलङ्कारेषु उत्प्रेक्षालङ्कारः अन्यतमः वर्तते। तदधुना विमर्शनं विधीयते मयात्र।

अयोध्यासम्पुटस्य शिलातपस्विनीसञ्चिकायां रामः यदा गौतमस्य आश्रमं प्रविशति तदा सः आश्रमः कीदृशः आसीदिति एवमवर्णयत् कविः।

पुरतो भाति स्म कानने,

वनभित्तिकाग्रतः, परितोऽपि वल्मीक

संवृतमहाशिला, शैलवल्कावृता,

परिवर्तिवेणुघनवनमातृवक्षस्स्थिता।

स्वां सतीमारक्षितुं ह्यात्तरूप इव

पतिदेवशापः शिलाशयो रक्ताक्षः

नित्यमपि रक्षकः कालपीतलपट्टिकः

व्याघ्रो महान् प्रेक्ष्य सहसागतांश्च तान्[23]

ततःस्थलात् तटिदिवादृश्यतां ययौ।

ऋषिकृपावचनेन रामः आरुह्य शिलां

लास्यमारब्धवान्। शनैश्चरणचुम्बनात्

दृषदेवनवनीततां गतेवाचकम्पे,

प्रेमसामीप्येन चापि सान्निध्येन

संसर्गतश्चाबला तरलिता यथा।

वनाभिमुखं दीमकपिण्डैः सह श्यामलाच्छादितं शिला वनदेव्याः वक्षसि आविर्भूतवती। सा शिलामवलम्ब्य रक्तनेत्रेण सतीं रक्षति स्म, यथा भर्तुः शापः रक्षकरूपं जग्राह। कृष्णपीतपट्टिकायुक्तः उलूकः तान् आगच्छन्तं दृष्ट्वा उत्थाय क्षणमात्रेण अन्तर्धानः जातः। ऋषिकृपावचनेन रामः तां शिलामारुह्य लास्यमारब्धवान्। सा शिला शनैः रामचरणचुम्बनात् दृषदेव नवनीततां गता इव आचकम्पे।

        ‘सा शिला शनैः रामचरणचुम्बनात् दृषदेव नवनीततां गता इव आचकम्पे’ वाक्येऽस्मिन् वस्तुतः शिला इति पदं उपमेयं वर्तते परम् अत्र उपमानत्वेन सम्भावना कृता वर्तते अतः अत्र उत्प्रेक्षालङ्कारः विद्यते।

किष्किन्धासम्पुटस्य हे लक्ष्मण! सञ्चिकायां सीतापहरणावसरे रावणस्य सीतादर्शनकातरं कथमासीदिति कविः एवं निरूपयति।

तस्थौ हि

तत्रैव सुविडंब्य बकखगध्यानमिव-

पक्ष्मभिः संछाद्य मानसं भावमपि

शाद्वलेनागुप्तवापीं यथा। कथमयं

यतिजनानुचितः सगन्धश्च इत्येव

संशयभिया हता परितः समालोक्य

कातरतरा बभूवैव सीता यदा[24]

उदमीलयच्चक्षि राक्षसो रसिकस्तदा।

परवधूकामी स सुन्दरीं दृष्टवान्

अक्ष्णैव रतिभावमासार्य पिबतीव।

        बकखगध्यानं सुविडम्ब्य शाद्वलेनागुप्तवापीं यथा मानसभावमपि सञ्छाद्य रावणः तत्रैव तस्थौ। कथमयं मुनिः यतिजनानुचितः सुगन्धः इति संशयभयहता सीता परितः समालोक्य यदा कातरतरा बभूव तदा रसिकराक्षसः अक्षि उदमीलयत्। परवधूकामी स रावणः अक्ष्णा एव रतिभावरसमासार्य पिबतीव तां सुन्दरीं सीतां ददर्श।

       ‘परवधूकामी स रावणः अक्ष्णा एव रतिभावरसमासार्य पिबतीव तां सुन्दरीं सीतां ददर्श’ वाक्येऽस्मिन् रावणरतिभावः उपमेयं, रसपानम् उपमेयञ्च विद्यते। अत्र आसार्य पिबतीति पदेन उपमानोपमेययोः सम्भावना विहिता वर्तते। तस्मात् अत्र वस्तूत्प्रेक्षालङ्कारः सङ्गच्छते।

किष्किन्धासम्पुटस्य सत्यव्रतस्त्वामसिसञ्चिकायां  रामस्य स्नेहात् सुग्रीवः वालिना सह योद्धुं स्वभ्रातरमाह्वयति। तावत्पर्यन्तं सः वनप्रदेशः शान्तस्वरूपेण आसीत्। सुग्रीवस्य गर्जनेन वनं कथमभवदिति कविः एवं वर्णयति।

प्रतिरसितमेव शैलेनापि तीव्रमिव;

पृथुशिलागोलाश्चकम्पिरे तत इतः;

धूताश्च बहुतरं तरवः; चीत्कृतं

अटविपक्षिकुलैश्च; चकिताश्च मृगकोल-

वनमहिषसिंह-दन्ति-व्याघ्रनिकराश्च

परिवाह्य तरलतरबहुतरङ्गा यथा

शान्तमभवत् गर्जनं भिदुर रव समम्;[25]

वनगहनमौनाम्बुधिर्बभासे पुनः

जडतामवाप्त इव।

        सुग्रीवगर्जनेन गिरिः प्रतिध्वनिता अभवत्। बृहदुपलाः चकम्पिरे। तरवः बहुतरं धूताः। पक्षिणः चीत्कृतवन्तः। मृगकोलवनमहिषसिंहदन्तिव्याघ्रनिकराः चीत्कृताः। तरलतरबहुशब्दतरङ्गाः परिवाह्य यथा शान्तमभवत् तथा भिदुररवसमं सुग्रीवगर्जनं शान्तमभवत्। पुनः जडतामवाप्तः इव वनगहनमौनाम्बुधिः बभासे।

       ‘जडतामवाप्तः इव वनगहनमौनाम्बुधिः बभासे’ इत्यस्मिन् वाक्ये अम्बुधे विद्यमानं मौनत्वं जडतामापन्नत्वेन सम्भावयति। तस्मात् अत्र वस्तूत्प्रेक्षालङ्कारः स्फुटतया आवेद्यते।

        किष्किन्धासम्पुटस्य सुव्रीवाज्ञासञ्चिकायां रामलक्ष्मणौ प्रति सहाय्यार्थं सुग्रीवस्य आज्ञा कीदृशी आसीदिति कविः एवमवर्णयत्।

पुनः पुनश्चैव गिरिविपिनकन्दरान्

सहसैव वसुधां तथा व्योमसुतलमपि

त्वरितं परिभ्रम्य विससर्प सरितां पतेः[26]

सीमा दिगन्तमपि वार्धिघोषेणेव

स्पर्धमाना इव च सुग्रीव डिण्डिमाज्ञा।

पुनः पुनः गिरिवनकन्दरान् वसुधां व्योमसुतलमिव त्वरितं सीमादिगन्तमपि परिभ्रम्य सरितां पतेः वार्धिघोषेण स्पर्धमाना इव सुग्रीवस्य डिण्डिमाज्ञा विससर्प।

        अत्र उपमानं वार्धिघोषणम्, उपमेयं डिण्डिमाध्वनिः च विद्यते। स्पर्धमाना इति पदेन उपमानोपमेययोः सम्भावना क्रियमाणा वर्तते। अतः अत्र वस्तूत्प्रेक्षालङ्कारः स्फुटतया सहृदयेन अनुभूयते।

        किष्किन्धासम्पुटस्य आसीत् महेन्द्राचलस्सः सञ्चिकायां महेन्द्राचले सीतान्वेषणाय अङ्गदस्य आध्यक्षे एका सभा समारब्धा। तं क्षणं कविः एवं कथयति।

हेमन्त[27]

शिशिरयोः सन्धिगतचातुर्दशीतीव्र

शीतलनिशायां च शीतांशु चन्द्रिकायां

अतितरां क्लिन्ना बभूवार्द्रवसनेव

रात्र्या तयाश्लिष्टधात्र्यपि हिमाहता,

कम्पमाना भृशम्

        सभायाः आरम्भावसरे सन्ध्याकारणात् सूर्यः समुद्रे अस्तङ्गतः इव बभासे। ताराप्रशासने शीतलनिशीथिनी चन्द्रिका सा ज्योत्स्नाभभूमिका अभवत्। हेमन्तशिशिरयोः सन्धिगतचातुर्दश्यां तीव्रशीतलनिशायां शीतांशुचन्द्रिकायाम् अतितरां क्लिन्ना आर्द्रवसना इव तया रात्र्या आश्लिष्टा हिमहता धात्री अपि भृशं कम्पमाना बभूव।

        अत्र आर्द्रवसनायाः सम्भावना धात्र्यां द्योतते इति हेतोः अत्र धर्म्युत्प्रेक्षालङ्कारः विद्यते।

  • उपसंहारः

        कविः काव्येस्मिन् स्वप्रतिभानुसारेण उत्प्रेक्षालङ्कारं सुन्दररूपेण योजयामास। अलङ्काराणां योजनेन काव्यस्य शोभा वर्धते। सहृदयानां हृदये काव्यस्य पठनेन आनन्दः सम्भवति। अपि च कविः काव्येषु अलङ्कारैः सह काव्यलक्षणानुसारम् अन्यान् काव्यांशान् योजयति। अपि च काव्ये अन्यानि बहूनि उत्प्रेक्षालङ्कारस्य उदाहरणानि अपि वयं द्रष्टुं शक्नुमः। प्रो. सि. जि. पुरुषोत्तमवर्येण अनूदितश्रीरामायणदर्शने उत्प्रेक्षालङ्कारः मनोज्ञतया दृश्यते।

परामर्शनग्रन्थाः

१. काव्यादर्शः, दण्डी, व्याख्याकारः श्रीरामचन्द्रमिश्रः, प्रकाशनम्- चौखम्बा विद्याभवन वाराणसी, 1996

२. साहित्यदर्पणम्, विश्वनाथः, सम्पादकः कमलापति जी त्रिपाठी, चौखम्बा विद्या भवन वाराणसी, 1957

३. कुवलयानन्दः, अप्पय्यदीक्षितः, व्याख्याकारः वैद्यनाथः, प्रकाशनम्- निर्णयसागरः मुम्बैनगरम्, 1917

४. काव्यालङ्कारः, भामहः, सम्पादकौ बटुकनाथशर्मा-बलदेवोपाध्यौ, प्रकाशनम्- चौखम्बा संस्कृतसंस्थानम् वाराणसी, 1981

५. चन्द्रालोकः, जयदेवः, सम्पादनम्- महादेवगङ्गाधरबाक्रे, गुजरातीमुद्रणालयः मुम्बैनगरम्, 1971

६. काव्यप्रकाशः, मम्मटः, प्रकाशनम् भारतीयविद्याप्रकाशनम् वाराणसी, 1985

७. वक्रोक्तिजीवितम्, राजानककुन्तकः, प्रकाशनम् फिर्मा के एल् मुख्योपाध्यायप्रकाशनं कोल्कत्तानगरम्, 1961

८. काव्यालङ्कारसूत्रवृत्तिः, वामनः, प्रकाशनम् श्रीरङ्गनगरस्थ श्रीवाणीविलासमुद्रायन्त्रालयः, 1909

९. रसगङ्गाधरः (द्वितीयाननम्), पण्डितराजजगन्नाथः, प्रकाशनम् चौखम्बा विद्याभवनं वाराणसी, 2006 

१०. श्रीरामायणदर्शनम् (पूर्वार्धम्), प्रो. सि. जि. पुरुषोत्तमः, प्रकाशनम् लक्ष्मीप्रकाशनम् बेङ्गलूरुनगरम्, 2004


[1] काव्यादर्शः, द्वितीयः परिच्छेदः, १ कारिका

[2] काव्यालङ्कारसूत्रवृत्तिः, प्रथमाधिकारः, २

[3] वक्रोक्तिजीवितम्, प्रथमोन्मेषः

[4] साहित्यदर्पणम्, दशमपरिच्छेदः, १ कारिका

[5] कुवलयानन्दः, द्वितीयपृष्ठम् (अलङ्कारचन्द्रिकाव्याख्या)

[6] काव्यालङ्कारः, दितीयपरिच्छेदः ९१

[7] काव्यालङ्कारः, दितीयपरिच्छेदः ९२

[8] काव्यादर्शः, द्वितीयपरिच्छेदः २२१

[9] काव्यादर्शः, द्वितीयपरिच्छेदः २२२

[10] काव्यप्रकाशः, दशमोल्लासः ९२

[11] काव्यप्रकाशः, दशमोल्लासः ४१६ उदाहरणश्लोकः

[12] वक्रोक्तिजीवितम्. तृतीयोन्मेषः, २४

[13] वक्रोक्तिजीवितम्. तृतीयोन्मेषः, २५, २६

[14] वक्रोक्तिजीवितम्. तृतीयोन्मेषः, ९३ उदाहरणश्लोकः

[15] साहित्यदर्पणम्, दशमपरिच्छेदः, ४०

[16] चन्द्रालोकः, पञ्चमो मयूखः, २९

[17] चन्द्रालोकः, पञ्चमो मयूखः, २९

[18] काव्यादर्शः, द्वितीयपरिच्छेदः २३४

[19] कुवलयानन्दः ३२ कारिका

[20] कुवलयानन्दः ३३ कारिका

[21] रसगङ्गाधरः, द्वितीयाननम्, ६९६ पु.सं

[22] रसगङ्गाधरः, द्वितीयाननम्, ७०२ पु.सं

[23] श्रीरामायणदर्शनम्, अयोध्यासम्पुटं, शिलातपस्विनी, २८०

[24] श्रीरामायणदर्शनम्, किष्किन्धासम्पुटः, हे लक्ष्मण! ५२०+६६-

[25] श्रीरामायणदर्शनम्, किष्किन्धासम्पुटः, सत्यव्रतस्त्वमसि ११०

[26] श्रीरामायणदर्शनम्, किष्किन्धासम्पुटः, सुग्रीवाज्ञा २३०

[27] श्रीरामायणदर्शनम्, किष्किन्धासम्पुटः, आसीत् महेन्द्राचलस्सः  १९०