व्यपदेशिवदेकस्मिन् इति परिभाषार्थविचारः
आचार्यः पङ्कजकुमारव्यासः
अध्यक्षः, व्याकरणविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः,
तिरुपतिः (आ.प्र.) 517507
परिभाषावतरणम् –
तत्र “पदाङ्गाधिकारे तस्य च तदन्तस्य च”[1] इति परिभाषास्वीकारे पदमङ्गञ्च विशेष्यीकृत्य पदाधिकारे अङ्गाधिकारे च तदन्तविधिर्भवति इति। तेन पदाधिकारे अङ्गाधिकारे च पदस्य अङ्गस्य च विधीयमानं कार्यं यथा पदस्य अङ्गस्य च भवति तथैव तदन्तस्यापि भवति। परन्तु पदाङ्गाधिकारे एव तयोः विशेष्यत्वेन तदन्तस्य तस्य च ग्रहणात्, ततोऽन्यत्र विशेषणविशेष्यभावेन “येन विधिस्तदन्तस्य”[2] इति सूत्रबलात् केवलं तदन्तस्य कार्यं सिद्ध्येत्, न तु तस्यापि। एवं सति प्रातिपदिकाधिकारो यत्र वर्तते तत्र प्रातिपदिकं विशेष्यं भवति, तत्तत् सूत्रे उच्चरितानुपूर्वीविशिष्टं प्रातिपदिकं च विशेषणं भवति। तथा सति सूत्रानुसारेण यद्यदानुपूर्वीविशिष्टं प्रातिपदिकं विशेषणीकृतं, तत्र तस्य प्रातिपदिकस्य सूत्रेण विधीयमानं कार्यं तदानुपूर्वीविशिष्टान्तस्य भवतीति।
तत्र प्रातिपदिकाधिकारे “अत इञ्”[3] इति सूत्रं पठितम्। ‘अत’ इति तस्य विशेषणम्। तेन ‘अदन्तात् प्रातिपदिकात्’ इत्याद्यर्थः सिद्ध्यति। दाक्षिः इत्याद्युदाहरणम्। दक्षस्यापत्यं पुमान् इत्यर्थे अदन्तप्रकृतिकषष्ठ्यन्तात् दक्ष इति प्रातिपदिकात् “अत इञ्” इति सूत्रेण इञ्प्रत्यये, दक्ष+ङस्+इ इति जाते प्रातिपदिकत्वात् सुब्लुकि दक्ष+इ इति जाते “यचि भम्”[4] इत्यनेन भत्वात् “यस्येति च”[5] इत्यनेन भस्य अवर्णस्य लोपे दक्ष्+इ इति जाते “तद्धितेष्वचामादेः”[6] इत्यनेन आदिवृद्धौ दाक्षि इति जाते पुनः प्रातिपदिकत्वात् सौ विभक्तिकार्ये दाक्षिः इति सिद्ध्यति। तद्वत् वासुदेववाचकात् अ-इत्यस्मात् ‘अस्यापत्यम् इत्यर्थे ‘इः’ इति रूपमपीष्टम्। परन्तु केवलात् ‘अ’ इति प्रातिपदिकात् अदन्तत्वाभावात् उक्तसूत्रेण इञ् न सिद्ध्यति। अतः तत्साधनाय परिभाषेयमारब्धा –“व्यपदेशिवदेकस्मिन्”[7] इति।
परिभाषार्थः प्रकृते समन्वयश्च –
विशिष्टोऽपदेशो व्यपदेशः = मुख्यव्यवहारः इत्यर्थः, व्यपदेशोऽस्यास्तीति व्यपदेशी। व्यपदेशिनि इव व्यपदेशिवत् “तत्र तस्येव” [8]इति सप्तम्यन्तात् वतिप्रत्ययः। यद्वा व्यपदेशिना तुल्यं वर्तते इति व्यपदेशिवत् “तेन तुल्यं क्रिया चेद्वतिः”[9] इति वतिप्रत्ययः। एकस्मिन् = असहायेऽपि मुख्यव्यवहारवत् कार्याणि कर्तव्यानि इति सामान्यार्थः। अत्र परिभाषायां निमित्तसद्भावात् इति पदमध्याहरति ग्रन्थकारः। निमित्तसद्भावात् इत्यस्यार्थः मुख्यव्यवहारहेतुः। निमित्तमित्युक्ते कस्य? इत्याकाङ्क्षायां प्रकृतपरिभाषया मुख्यव्यवहारस्यैव अतिदिश्यमानपदार्थत्वात् प्रत्यासत्त्या तस्यैव निमित्तमत्र विवक्षितः। एवमध्याहृते निमित्तसद्भावाद् इति पदे परिभाषार्थः एवं सम्पद्यते – निमित्तसद्भावात् = अदन्तत्वादिमुख्यव्यवहारस्य यन्निमित्तम् अकारात्पूर्वं यद् वर्णान्तरसमभिव्याहाररूपं ससहायत्वमिति तत्सद्भावात् विशिष्टोऽपदेशः = अदन्तत्वादिमुख्यव्यवहारो यस्य ‘दक्ष’इत्यस्यास्ति स व्यपदेशी। यस्तु = अकारमात्रं व्यपदेशहेत्वभावात् = अदन्तत्वरूपमुख्यव्यवहारस्य यो हेतुः वर्णान्तरसमभिव्याहाररूपः तदभावात्, अविद्यमानव्यपदेशोऽसहायः = केवलाकारः, स तेन तुल्यं दक्ष इति अदन्तेन तुल्यं वर्तते, अतः तस्मिन् एकस्मिन् असहायेऽपि मुख्यव्यवहारः कर्तव्यः। एतेन प्रकृते अदन्तप्रातिपदिकप्रकृतिकात् षष्ठ्यन्तात् दक्षशब्दात् “अत इञ्” इत्यनेन विधीयमान इञ्, वासुदेववाचकात् केवलात् असहायाकारादपि अदन्तत्वव्यवहारातिदेशात् सिद्ध्यति। तेन अ+इ इति जाते भसंज्ञायाम् “यस्येति च” इति अकारलोपे ‘इ’ इत्यस्मात् प्रातिपदिकत्वे स्वादिकार्ये ‘इः’ इत्यभीष्टं रूपं सिद्ध्यति।
आद्यन्तत्वमुख्यधर्मस्य सम्बन्धवैशिष्ट्यम् –
अथेदानीं परिभाषया अतिदिश्यमानौ आदित्वान्तत्वधर्मौ केन सम्बन्धेन विशिष्टौ विवक्षितौ इति विचार्यते। तत्र “आद्यन्तवदेकस्मिन्”[10] इति सूत्रे भाष्ये ‘सत्यन्यस्मिन् यस्मात् पूर्वं नास्ति परमस्ति स आदिरित्युच्यते। सत्यन्यस्मिन् यस्मात् परं नास्ति पूर्वमस्ति सोऽन्त इत्युच्यते’[11] इत्याद्यन्तशब्दौ निरुक्तौ। अनेन स्पष्टं यत् आदिः अन्तो वा कस्मिँश्चित् समुदाये एव भवितुमर्हतः। तादृशाद्ये अन्त्ये च विद्यमानधर्मः आदित्वम् अन्तत्वञ्च तत्समुदायविशिष्टं भवति। तदेव किञ्चित् परिष्कृत्यैवं वक्तुं शक्यते – “स्वघटकत्व-स्वघटकपूर्वत्व-स्वघटकोत्तरत्व-अभाववत्त्वैतत्त्रितयसम्बन्धेन यत्किञ्चित् समुदायविशिष्टे आदिशब्दः शक्तः”। एवमेव “स्वघटकत्व-स्वघटकोत्तरत्व-स्वघटकपूर्वत्व-अभाववत्त्वैतत्त्रितयसम्बन्धेन यत्किञ्चित् समुदायविशिष्टे अन्तशब्दः शक्तः”।[12] स्वशब्देनात्र समुदायः विवक्षितः। परिष्कृतस्य दक्षशब्दे समन्वयः – स्वं नाम द् अ क् ष् अ इति समुदायः, तद्समुदायघटकीभूताः सर्वे वर्णाः, तद्घटकत्वरूपधर्मः तत्तद्वर्णेषु, तद्घटकत्वधर्मवान् अकारः, तद्घटकत्वधर्मवत्त्वमकारे इति प्रथमसम्बन्धः। स्वं नाम समुदायः, तत्समुदायघटकीभूतेभ्यः पूर्वपूर्ववर्णेभ्यः उत्तरः यः वर्णः, तादृशोत्तरत्वधर्मः उत्तरवर्णे, तादृशोत्तरत्वधर्मवान् अकारः, तादृशोत्तरत्वधर्मवत्त्वमकारे इति द्वितीयसम्बन्धः। स्वं नाम समुदायः, तत्समुदायघटकीभूतोत्तरत्वधर्मविशिष्टे वर्णे अकारे, तदवधिकपूर्वत्वस्य तत्समुदायघटकीभूतवर्णान्तरेषु सत्त्वात् स्वस्मिन् तादृशपूर्वत्वाभावरूपधर्मस्याभावात् स्वघटकपूर्वत्वाभावः अकारे इति तृतीयसम्बन्धः। एतादृशत्रितयसम्बन्धेन समुदाविशिष्टत्वस्य दक्षशब्दे सत्वात् तत्र अदन्तत्वरूपः व्यवहारः मुख्यः।
‘एकस्मिन्’शब्दवृत्तिरसहायत्वधर्मस्य सम्बन्धवैशिष्ट्यम् -
पूर्वोक्तरीत्या परिभाषायाम् ‘एकस्मिन्’शब्दवृत्तिः असहायत्वधर्मोऽपि “मुख्यधर्माश्रयासमभिव्याहृतत्व-मुख्यधर्माश्रयाघटितत्व-मुख्यधर्माश्रयाघटकत्व-एतत्त्रितयसम्बन्धविशिष्टो” भवेदिति बोध्यम्। एतस्य वासुदेववाचके केवले अकारे समन्वयः – मुख्यधर्मः अदन्तत्वधर्मः, तदाश्रयः यत्किञ्चित्समुदायः (समुदाये एव आदित्वान्तत्वस्य सम्भवात्) तत्र समुदाये असमभिव्याहृतः अकारः, तदसमभिव्याहृतत्वम् अकारे इति प्रथमसम्बन्धः। मुख्यधर्मः अदन्तत्वधर्मः, तदाश्रयः यत्किञ्चित्समुदायः, तेन अघटितः अकारः, तदघटितत्वमकारे इति द्वितीयसम्बन्धः। मुख्यधर्मः अदन्तत्वधर्मः, तदाश्रयः यत्किञ्चित्समुदायः, तस्य अघटकः अकारः, तदघटकत्वमकारे इति तृतीयसम्बन्धः। एतत्त्रितयसम्बन्धेन विशिष्टः भवति असहायत्वधर्मः।
परिभाषायाम् ‘एकस्मिन्’ इत्यस्य प्रयोजनम् –
अत्र परिभाषायां यदि एकस्मिन् इति पदं न स्यात् तर्हि ससहायेऽपि कस्मिँश्चित् वर्णमात्रे मुख्यव्यवहारातिदेशात् क्वचित् दोषा भवेयुः।
तत्राद्यो दोषः – सभासन्नयने भवः इत्यर्थे भकारोत्तरवर्तिनि ससहायेऽपि आकारे आदित्वमारोप्य ततः वृद्धसंज्ञायां “वृद्धाच्छः”[13] इति छप्रत्ययापत्तिः। “वृद्धिर्यस्याचामादिस्तद्वृद्धम्”[14] इति वृद्धसंज्ञाविधायकशास्त्रेण यस्य समुदायस्य अचां मध्ये आदिः अच् वृद्धिसंज्ञकः तस्यैव वृद्धसंज्ञा विधीयते। प्रकृते भकारोत्तरवर्तिनि आकारे स्वघटकत्व-स्वघटकपूर्वत्ववत्त्वस्य सत्त्वेन वर्णान्तरप्रयुक्तोत्तरत्वस्य आकारे सत्त्वात् स्वघटकोत्तरत्वाभाववत्त्वस्याभावेऽपि प्रकृतपरिभाषया स्वघटकोत्तरत्वाभाववत्त्वरूपविशेषणस्य आरोपेण पूर्वोक्तत्रितयसम्बन्धेन समुदायनिरूपितादित्वस्य अतिदेशात् सभासन्नयनशब्दस्य वृद्धत्वात् छः प्रत्ययः स्यात्।
द्वितीयः दोषः – दरिद्राधातौ रेफोत्तरवर्तिनि ससहायेऽपि इकारे अन्तत्वमारोप्य इवर्णान्तधातोः “एरच्”[15] इत्यनेन विधीयमानोऽच्प्रत्ययः स्यात्। अत्र रेफोत्तरवर्तिनि इकारे स्वघटकत्व-स्वघटकोत्तरत्ववत्त्वस्य सत्त्वेन वर्णान्तरप्रयुक्त-पूर्वत्वस्य इकारे सत्वात् स्वघटकपूर्वत्वाभाववत्त्वस्याभावेऽपि प्रकृतपरिभाषया स्वघटकपूर्वत्वाभाववत्त्वरूपविशेषणस्य आरोपेण पूर्वोक्तत्रितयसम्बन्धेन समुदायनिरूपितान्तत्वस्य अतिदेशात् दरिद्राधातोः इकारान्तलक्षणः अच्प्रत्ययः स्यात्।
प्रथमदोषवारणम् – परिभाषायाम् ‘एकस्मिन्’ इति विशेषणाभावे पूर्वोक्तदोषः प्रसज्यते। यदा तु एकस्मिन् इति विशेषणं परिभाषायां दीयते तदा असहाये एव परिभाषाप्रवृत्तौ सभासन्नयनशब्दस्याकारे समुदायसमभिव्याहृतत्व-समुदायघटितत्व-समुदायघटकत्वरूपधर्मस्य सत्त्वात् असहायत्वाभावात्, स्वघटकत्व-स्वघटकपूर्वत्ववत्त्वस्य सत्त्वेऽपि वर्णान्तरप्रयुक्तोत्तरत्वस्य आकारे सत्त्वात् स्वघटकोत्तरत्वाभाववत्त्वस्याभावे तत्र स्वघटकत्वादिसम्बन्धत्रयविशिष्ट-समुदायनिरूपितादित्वस्याभावात् वृद्धसंज्ञाया अप्रवृत्तौ न छप्रत्ययापत्तिः।
द्वितीयदोषवारणम् – एवमेव दरिद्राधातौ विद्यमाने इकारे समुदायसमभिव्याहृतत्व-समुदायघटितत्व-समुदायघटकत्वरूपधर्मस्य सत्त्वात् असहायत्वाभावात् स्वघटकत्व-स्वघटकोत्तरत्ववत्त्वस्य सत्त्वेऽपि वर्णान्तरप्रयुक्तपूर्वत्वस्य इकारे सत्वात् स्वघटकपूर्वत्वाभाववत्त्वस्याभावे स्वघटकत्वादिसम्बन्धत्रयविशिष्टसमुदाय-निरूपितान्तत्वस्याभावात् “एरच्” इत्यनेन न इवर्णान्तलक्षणस्य अचः प्रसक्तिः।
उक्तरीत्या असहाये एव व्यपदेशिवद्भावस्वीकारात् हरिषु इत्यादौ सुब्यस्माद्विहितस्तदादितदन्तत्वपरूपधर्मविशिष्टसमुदायस्य सत्त्वेन ‘सौ’ समुदायसमभिव्याहृतत्व-समुदायघटितत्व-समुदायघटकत्वरूपधर्मस्य सत्त्वात् असहायत्वाभावात् तस्मिन् तदादित्वधर्मस्य अतिदेष्टुम् अशक्यतया सोः पदत्वं न भवति। सोः पदत्वे तु “सात्पाद्योः”[16] इति षत्वनिषेधो स्यादित्यनिष्टप्रसङ्गः।
परिभाषायाः लोकन्यायसिद्धत्वम् असहायविषयकत्वञ्च –
अनया परिभाषया असहाये एव व्यपदेशिवद्भावो भवति इत्येतत् लोकन्यायसिद्धम्। यथा लोकेऽपि बहुपुत्रसत्त्वे नैकस्मिन् ज्येष्ठत्वकनिष्ठत्वादिव्यवहारः अयं मे ज्येष्ठः कनिष्ठो मध्यम इति किन्तु एकपुत्रसत्त्वे एव। एवञ्च प्रकृतदृष्टान्तेन अस्याः असहायविषयकत्वं स्पष्टं तेन इहापि शास्त्रे एकस्मिन् असहाये एव तदादितदन्तत्वादिमुख्यव्यवहारः न तु बहुषु सत्सु तेषु कस्मिँश्चिदेकस्मिन्निति।
परिभाषया अशास्त्रीयस्यापि धर्मस्यातिदेशः तत्फलञ्च –
यथा पूर्वं निरूपितं यदियं परिभाषा लोकन्यायसिद्धा, अतः नानया केवलं शास्त्रीय[17]स्यैव धर्मस्यातिदेशोऽपितु अशास्त्रीयस्यापि। शास्त्रीयं नाम शास्त्रबोधितत्वम्। यथा यस्मिन्विधिस्तदादावल्ग्रहणे, येनविधिस्तदन्तस्य इत्यादिभिः शास्त्रैः बोधिता आदित्वान्तत्वादिधर्माः। एतद्विपरीतं शास्त्राबोधितत्वम् अशास्त्रीयम्। यथा एकाच्त्वादिधर्माः ये केनापि शास्त्रेण न बोधिताः। अनया रीत्या परिभाषया क्रियमाणस्य अशास्त्रीयस्याप्यतिदेशस्य एतानि फलानि सन्ति।
(क) तत्राद्यम् “इयाय” इत्यत्र एकाच्त्वनिबन्धनद्वित्वसिद्धिः –
‘इण्’गतौ इत्यस्माद्धातोः “परोक्षे लिट्”[18] इति सूत्रेण लिटि प्रथमपुरुषैकवचनविवक्षायां तिपि, “परस्मैपदानां णलतुसुस्थलतुसणल्वमाः”[19] इति सूत्रेण तिपः णलादेशेऽनुबंधलोपे, इ+अ इति जाते “लिटिधातोरनभ्यासस्य”[20] इति सूत्रेण द्वित्वे, इ+इ+अ इत्यवस्थायां “पूर्वोभ्यासः”[21] इति सूत्रेण पूर्वस्येकारस्य अभ्याससंज्ञायाम् “अचोञ्णिति”[22] इति सूत्रेण वृद्धौ इ+ऐ+अ इति जाते “एचोऽयावायावः”[23] इति सूत्रेण आयादेशे इ+आय्+अ इति जाते इवर्णोवर्णान्तस्य अभ्यासस्य असवर्णे अचि इयङुवङ्विधायकेन “अभ्यासस्यासवर्णे”[24] इति सूत्रेण अभ्यासस्येवर्णस्य इयङादेशे इयाय इति सिद्ध्यति।
परन्त्वत्र शङ्का जायते इ+अ इत्यवस्थायां यदा द्वित्वमिष्टं तदा अत्र इकाररूपस्य अचः एकस्यैव सत्वात् “एकाचो द्वे प्रथमस्य”[25] इति द्वित्वप्रकरणे अधिकारसूत्रे एकाच् इति बहुव्रीहेराश्रयणाच्च नायमिकाररूपः अच् कस्यापि अल्समुदायस्य अवयवः। तथा सति कथमत्र द्वित्वम् ? इत्याशङ्कायां परिभाषयाऽनया असहाये इकारे यत्किञ्चित्समुदायनिरूपितैकाच्त्वरूपाशास्त्रीयधर्मस्याप्यतिदेशात् द्वित्वसिद्धिः।
(ख) द्वितीयं “भवति” इत्यादौ ‘भू’ इत्यस्य अङ्गत्वसिद्धिः –
‘भू’ सत्तायामित्यस्माद्धातौ “वर्तमाने लट्”[26] इति लटि प्रथमपुरूषैकवचनविवक्षायां तिपि, तिपः “तिङ्सित्सार्वधातुकम्”[27] इत्यनेन सार्वधातुकसंज्ञायां “कर्तरि शप्”[28] इत्यनेन शपि, शपः शित्त्वात् सार्वधातुकसंज्ञायां भू+अ+ति इत्यवस्थायाम् इगन्तस्याङ्गस्य गुणः स्यात् सार्वधातुकार्धधातुकयोः परयोः इत्यर्थकेन “सार्वधातुकार्धधातुकयोः”[29] इत्यनेन भकारोत्त्वर्तिनः ऊकारस्य गुणे ओकारे, तस्य “एचोऽयावायावः”[30] इति अवादेशे भवति इति सिध्यति।
अत्र शङ्का भवति यत् भू+अ+ति इत्यवस्थायां इगन्ताङ्गस्य गुणे कर्तव्ये “यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्”[31] इत्यनेन विधीयमाना अङ्गसंज्ञा यस्मात् प्रत्ययो विहितः तदादिशब्दस्वरूपं तत्प्रत्यये परेऽङगं भवतीत्यर्थकरणात् ‘भू+अ’ इति विकरणविशिष्टस्य न तु भूमात्रस्य। परन्तु भू+अ इत विकरणविशिष्टः न इगन्तः, यस्तु इगन्तः ‘भू’ इति न तदङ्गम्। अतः प्रकृतपरिभाषया भू’मात्रे प्रत्ययपरकत्वाभावेऽपि अशास्त्रीयातिदेशात् अङगत्वं प्रसाध्य गुणो विधीयते।
(ग) तृतीयम् “इयान्” इत्यादौ ‘तद्धितान्तत्वनिबन्धनप्रातिपदिकत्वसिद्धिः’ –
‘इदम्’शब्दात् ‘इदं परिमाणमस्य’ इत्यर्थे “किमिदम्भ्यां वो घः”[32] इति सूत्रेण वतुप्प्रत्यये अनेनैवसूत्रेण वस्य घादेशे इदम्+घत् इति दशायां “आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्”[33] इत्यनेन घस्य इयादेशे इदम्+इयत् इति जाते “इदङ्किमोरीश्की”[34] इत्यनेन इदम्’शब्दस्य ईशादेशे (शित्वात् सर्वोदेशोऽयं) ई+इयत् इति जाते “यचि भम्” इत्यनेन भत्वे, “यस्येति च” इत्यनेन ईकारलोपे, इयत् इत्यस्य तद्धितान्तत्वात् प्रातिपदिकत्वे सौ “उगिदचां सर्वमानस्थानेऽधातोः”[35] इत्यनेन नुमागमे इयन् त्+स् इति जाते “सर्वनामस्थाने चाऽसम्बुद्धौ”[36] इत्यनेन उपधादीर्घे इयान् त्+स् इति जाते सकारस्य हल्ङ्यादिलोपे, तकारस्य च संयोगान्तलोपे इयान् इति सिद्ध्यति।
अत्र एवं शङ्कोदेति यत् ‘इयत्’ इति प्रत्ययमात्रं तस्य तद्धितान्तत्वाभावात् कार्यकालपक्षे प्रातिपदिकसंज्ञा कथं स्यात् ? प्रकृते प्रकृत्यंशस्य पूर्णतः लोपे प्रत्ययमात्रांशस्य तदन्तत्वाभावात्। अतः प्रकृतपरिभाषया कार्यकालपक्षे ‘तद्धितान्ततदादित्व’रूपाशास्त्रीयस्यातिदेशे प्रातिपदिकत्वसिद्धिः।
‘इयाय’ इत्यादिस्थले कैयटमतम् –
कैयट एवमभिप्रैति यद् योऽर्थवान् तत्र अर्थस्य त्यागोपादानाभ्यामेकाज्व्यपदेशो यथा इयाय इत्यादौ अर्थवतः धातोरयं वर्णरूपः एकोऽज् इति। अस्य कैयटोक्तस्यायमभिप्रायः यत् धातोः फलं व्यापारश्चार्थद्वयम्। तादृशशब्दार्थोभयवृत्तिरूपधातुना शब्दार्थयोः समुदायः उच्यते तेन तादृशस्य समुदायस्य अयमेकः वर्णः अवयवः। तत्र द्वित्वे कर्तव्ये “एकाचो द्वे प्रथमस्य” इति सूत्रे एकः अच् यस्येति अन्यपदार्थस्य विवक्षा भवति तदा अन्यपदार्थः शब्दार्थोभयवृत्तिसमुदायरूपधातुः भवति इति अन्यपदार्थविवक्षायामर्थस्य उपादानं क्रियते। अनेन ‘इ’शब्दस्य तस्यार्थस्य च एकः समुदायः सम्पन्नः। एतादृशकल्पितसमुदायस्य अवयवस्य द्वित्वं कान्तारतरणन्यायेन अर्थं परित्यज्य केवलस्य शब्दमात्रस्य द्वित्वं क्रियते। “कान्तारतरणन्यायस्य अयमर्थः – यदा कश्चित् वनं पारं गन्तुमिच्छति तदा तं पारं गमयितुं केचन तेन सह गच्छन्ति। तस्य पारगमनानन्तरं तं परित्यज्य ते प्रत्यायान्ति।” अत्रापि द्वित्वे कर्तव्ये अन्यपदार्थविवक्षायामर्थस्य उपादानं कृत्वा द्वित्ववेलायाम् एकाज्मात्रस्य द्वित्वमिति कृत्वा अर्थस्य त्यागः क्रियते। एतादृशरीत्या इयायेत्यादौ एकाच्त्वव्यपदेशात् व्यपदेशिवद्भावः साध्यः इति।
‘इयाय’ इत्यादिस्थले कैयटमतखण्डनम् –
उपर्युक्तरीत्या कैयटेन यन्मतं प्रदर्शितम् तस्य भाष्यविरुद्धत्वात् तन्न स्वीकार्यम्। कैयटेन अर्थस्य त्यागोपादानाभ्यामित्यादिमार्गेणात्र व्यपदेशिवद्भावः साध्यते। परन्तु अनया रीत्या उच्यमाने स मुख्यव्यवहार एव न तु तत्र व्यपदेशिवद्भावः। तत्र भाष्येऽपि ‘एकपदा ऋक्’ इत्यादिस्थले भाष्यकारेण अर्थस्य त्यागोपादानाभ्यां मुख्यव्यवहारः एव स्वीकृतः, नतु तत्र व्यपदेशिवद्भावः इति। यजुर्वेदे “यत्, तत्” इत्याद्यः ऋचः सन्ति तासां वाचकः ‘एकपदा’ इति शब्दः। अत्र संशयो जायते यत् अत्र एकपदा इति व्यवहारः कथं सङ्गच्छते ? यतः इदमेकं पदं स्वतः अस्ति। एकं पदं यस्यामृचि इति बहुव्रीहौ एकपदा इति। परन्तु अत्र कः अन्यपदार्थः यस्मिन् इदमेकं पदं वर्तते ? इत्याशङ्कायां भाष्याकारेणोक्तं यदत्र एकं पदं स्वस्मिन्नैव, अतः नात्र व्यपदेशिवद्भावोऽपेक्षितः। कथनस्यायमभिप्रायः वर्तते यत् ऋक्त्वं नाम शब्दार्थोभयवृत्तिरूपधर्मः। अतः शब्दार्थोभयरूपसमुदायस्य शब्दमात्रमेकं पदम्। तस्मात् तादृशसमुदायस्य इदमेकं पदमिति मुख्यव्यवहार एवायमिति समाहितं भाष्ये। यदि एकपदा इत्यत्र भाष्यकारेण शब्दार्थोभयवृत्तिरूपधर्ममादाय मुख्यव्यवहारं स्वीकृत्य व्यपदेशिवद्भावः नाङ्गीकृतस्तर्हि तुल्यया रीत्या इयायेत्यादौ एकाच्त्वरूपधर्मस्यापि धातोः शब्दार्थोभयवृत्तित्वात् तत्रापि मुख्यव्यवहारेणैव कार्यसिद्धौ इयायेत्यादौ कण्ठतः व्यपदेशिवद्भावस्स्वीकारः भाष्यकारस्यासङ्गतं स्यात्। अतः भाष्यविरुद्धत्वात् कैयटमतं न युक्तम्।
एकाच्त्वादिव्यवहारे लोकन्यायसिद्धत्वम् –
भाष्यकारेण एकाच्त्वादिव्यवहाराय व्यपदेशिवद्भावः स्वीकृतस्तदपि लोकन्यायसिद्धम्। यथा लोके एकपुत्रे एव तत्तज्ज्येष्ठत्वादिधर्मारोपेण ज्येष्ठत्वकनिष्ठत्वादिव्यवहारः, अथवा “शिलापुत्रकस्य शरीरम्” इत्यादौ अचेतनायां शिलायां यद्यपि प्राणिनिष्ठबाल्याद्यवस्थायाः सम्बन्धः नास्ति। तथापि तत्र बाल्याद्वस्थाविशिष्टशरीरसमुदायत्वारोपेण ‘शिलापुत्रकस्य शरीरम्’ इत्याद्यवयवावयविभावसम्बन्धरूपव्यवहारः क्रियते। तद्वत् इयाय इत्यादौ एकाच्त्वस्थलेपि अच्समुदायत्वरूपधर्मारोपेण एकः अच् अस्य इत्यादिव्यवहार उपपद्यते।
असहाये एव अस्याः प्रवृत्तौ ‘भवती’त्यत्र दोषापादनम् –
अधुना शङ्कते यत् असहाये एव एतस्याः प्रवृत्तौ ‘भवति’ इत्यादौ भू+अ+ति इत्यवस्थायां भू इत्यस्य अङ्गसंज्ञा न स्यात्। यतः भू इति तत्र न असहायः अपितु ससहायः। “यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्” इति सूत्रेण प्रत्यये परे तदादिशब्दस्वरूपस्यैव अङ्गत्वविधानात् प्रकृते शपा सहोच्चारितत्वात् भू+अ इति समुदायस्य तत्र सत्वाच्च। तथा सति भू’इत्यस्य अङ्गत्वाभावे भवति इति न सिद्ध्येत्।
लोकन्यायेन ससहायत्वं सजातीयमेवेति दोषवारणम् –
अनया रीत्या भू’इत्यस्य ससहायत्वमापाद्य अङ्गसंज्ञाऽप्रसक्तिरूपदोषं परिहर्त्तुं लोकन्यायेन समादधाति ग्रन्थकारः – ससहायत्वं चात्र परिभाषायां सजातीयमेव स्वीक्रियते, न तु विजातीयमपि। यथा लोके विजातीयकन्यादिसत्त्वेऽपि एकस्मिन् पुत्रे ज्येष्ठत्वादिव्यवहारो दृश्यते। तद्वत् प्रकृतेऽपि तिब्निरूपिताङ्गत्वे कार्ये भू’इत्यस्य ससहायत्वेऽपि शब्निरूपिताङ्गत्वे कर्तव्ये तु भू’इत्यस्य न ससहायत्वम्। यतः शब्निरूपिताङ्गसंज्ञायां क्रियमाणायां ‘भू’ न केनापि सजातीयेन ससहायः।
‘निजौ चत्वार एकाच’ इति भाष्यासङ्गतिरूपदोषः –
असहाये एव एतत्प्रवृत्तौ अपरं दोषमापादयति यदीयं परिभाषा असहाये एव प्रवर्तेत तर्हि “एकाचो द्वे प्रथमस्य” इति सूत्रभाष्यस्थं “निजौ चत्वार एकाच” इति वचनमेवासङ्गतं स्यात्। यतः निज्-धातौ त्रयः एव अचः सम्भवन्ति निज्, इज्, नि इति। ‘इ’मात्रे एकाज्व्यवहारः व्यपदेशिवद्भावं विना न सम्भवति। परन्तु इकारस्य तत्र वर्णान्तरैः समभिव्याहृतत्वात् ससहायत्वे एकाच्त्वव्यपदेशः कर्तुं न शक्यते। तथा सति भाष्यकारेण कथं ‘निजौ चत्वार एकाच’ इत्युक्तम् ? असहाये एव एतत्प्रवृत्तौ तद्भाष्यासङ्गतिरिति।
तद्भाष्यस्य एकदेश्युक्त्या दोषवारणम् –
‘निजौ चत्वार एकाच’ इति भाष्यस्य अपर्यालोचनया प्रवर्तितत्वात् तद्भाष्यम् एकदेश्युक्तिरिति न कुत्रापि विरोधः। तस्मात्त्रयाणामापत्तौ एव तद्भाष्यतात्पर्यमिति सिद्धान्तः।
‘अर्थवता व्यपदेशिवद्भावः’ इति प्रसङ्गात् निरूपणम् –
तत्र “तास्यनुदात्तेत्”[37] इति सूत्रे भाष्ये ‘अर्थवता व्यपदेशिवद्भावः’ इति वचनं पठितं भाष्यकारेण। तत्र कैयटेन अर्थवता इति प्रतीकमादाय “यः शब्दोऽअर्थवान् सोऽर्थस्य त्यागोपादानाभ्यां भेदं प्रतिपद्यते। यथा इयाय इत्यत्रेण् धातुस्ततश्चैकाजिति व्यपदिश्यते” इत्युक्तम्। एतन्मूलकतयैव इयायेत्यादौ एकाच्त्वनिबन्धनद्वित्वसिद्धिः इत्यादिरीत्या अन्यथैव व्याख्यातम्।
परन्तु भाष्यकृतः नात्र तात्पर्यं तस्य वचनस्य। अर्थवता व्यपदेशिवद्भावः इत्यस्मिन् वचने अर्थवत्पदेन असहायत्वमेवोपलक्षितम्। अर्थबोधकेन शब्देन व्यपदेशिसदृशो भावः कार्यं लभते इति तदर्थः। प्रायः असहाये एव अर्थवत्वात्। यथा वासुदेववाचकः असहायः अकारः अर्थवान्, दक्षशब्दे तु न अकारमात्रमनर्थक एव तत्र समुदायस्यैव अर्थवत्त्वात्।
प्रायः असहाये एव अर्थवत्त्वमित्यस्य फलं प्रदर्श्यते – ‘कुरुते’ इत्यादौ तप्रत्ययस्थाकारः अचां मध्ये अन्त्यः, स आदिर्यस्येति व्यवहारे असहायः एव। तत्र तस्य अनर्थकत्वेऽपि असहायत्वात् “अचोऽन्त्यादि टिः” इति टिसंज्ञा सिद्ध्यति।
अनया रीत्या परिभाषेयं समालोचिता तत्तत्परिभाषेन्दुशेखरग्रन्थतट्टीकासमालोचनेनेति शम्।
परिशीलितग्रन्थसूची –
- परिभाषेन्दुशेखरः, पण्डितदण्डिभट्ल विश्वनाथशास्त्रिविरचितचन्द्रिकाव्याख्यया आचार्यश्रीपादसत्यनारायणमूर्तिविरचितबालबोधिनीव्याख्यया च सहितः, राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः, 2004
- परिभाषेन्दुशेखरः, पेरि वेङ्कटेश्वरशास्त्रिविरचितनागेशगूढार्थदीपिकासहितः, आन्ध्रविश्वकलापरिषद्, राजमहेन्द्रीवरम्, 1955
- परिभाषेन्दुशेखरः, तत्त्वप्रकाशिका-समलङ्कृतः भूतिविभूषितः, सम्पा. पं. श्रीगोविन्दशर्मा, चौखम्बासुरभारतीप्रकाशनम्, वाराणसी, 2001
- व्याकरणमहाभाष्यम् (भाष्यप्रदीपोद्द्योतसहितम्), नवाह्निकभागः(प्रथमः खण्डः), संशोधकः श्रीभार्गवशास्त्रिजोशी, चौखम्बासंस्कृतप्रतिष्ठानम्, देहली, 2004
- वैयाकरणसिद्धान्तकौमुदी (1-4 भागाः), बालमनोरमा-तत्त्वबोधिनीविभूषिता, सम्पा. डॉ. शिवप्रसादशर्मा, चौखम्बा विद्याभवन, वाराणसी, 2008
[1] परिभाषेन्दुशेखरः परिभाषा 29
[2] पा. सू. 1-1-72
[3] पा. सू. 4-1-95
[4] पा. सू. 1-4-18
[5] पा. सू. 6-4-148
[6] पा. सू. 7-2-117
[7] परिभाषेन्दुशेखरः परिभाषा 30
[8] पा.सू. 5-1-114
[9] पा.सू. 5-1-115
[10] पा.सू. 1-1-21
[11] महाभाष्यम् आद्यन्तवदेकस्मिन् 1-1-21 सूत्रे भाष्ये पृ.सं. 294
[12] स्पष्टमिदं परिभाषेन्दुशेखर-चन्द्रिका-बालबोधिनीव्याख्ययोः पृ.सं. 164-167
[13] पा.सू. 4-3-144
[14] पा.सू. 1-1-73
[15] पा.सू. 3-3-56
[16] पा.सू. 8-3-11
[17] परिभाषेन्दुशेखरबालबोधिन्याम् पृ.सं. 169
[18] पा.सू. 3-2-115
[19] पा.सू. 3-4-82
[20] पा.सू. 6-1-8
[21] पा.सू. 6-1-4
[22] पा.सू. 7-2-115
[23] पा.सू. 6-1-75
[24] पा.सू. 6-4-78
[25] पा.सू. 6-1-1
[26] पा.सू. 3-2-123
[27] पा.सू. 3-4-113
[28] पा.सू. 3-1-68
[29] पा.सू. 7-3-84
[30] पा.सू. 6-1-75
[31] पा.सू. 2-4-13
[32] पा.सू. 5-2-40
[33] पा.सू. 7-1-2
[34] पा.सू. 6-3-89
[35] पा.सू. 7-1-70
[36] पा.सू. 6-4-8
[37] पा.सू. 6-1-186
