लक्षणावृत्तिः

डा. एन् .आर्. रङ्गनाथताताचार्यः
सहायकाचार्यः, व्याकरणविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः

                  सामान्यतया लोके तावत् शब्देन अर्थप्रतीत्यै वृत्तिज्ञानमावश्यकं भवति। वृत्तिश्च सामर्थ्यरूपः शब्दव्यवहारः। शब्दव्यापारोऽयम् अभिधा, लक्षणा, व्यञ्जनाभेदैः त्रिधा भवति। यद्यपि शाब्दिकैः शाब्दबोधीयकार्यकारणभावादौ लाघवात् लक्षणावृत्तिर्न स्वीक्रियते, तथापि अप्रसिद्धशक्तिरूपतया तस्याः स्वीकारः अस्त्येव। तदुक्तं शेखरकारेण परमलघुमञ्जूषायाम् – “तथा हि – शक्तिः द्विविधा प्रसिद्धा अप्रसिद्धा च” इति। पुंयोगादाख्यायाम्(पा. सू. 4/1/48) इति सूत्रे गौणीवृत्या इयं वृत्तिः पाणिनिना स्वीकृता। सादृश्यसम्बन्धमूलकलक्षणायाः एव गौणीत्वव्यवहारः। लक्षणा हि शक्यतावच्छेकारोपात्मिका, तत्र सादृश्यसम्बन्धः यत्र मूलं तत्रैव लोके गौणीति व्यवहार इति तात्पर्यम्। शक्यसम्बन्धो लक्षणा। गङ्गायां घोषः इत्यादौ गङ्गापदस्य प्रवाहरूपघोषस्यान्वयानुपपत्तिः, तात्पर्यानुपपत्तिर्वा यत्र प्रतिसन्धीयते तत्र लक्षणया तीरस्य बोधः। सा च शक्यसम्बन्धरूपा। तथा हि — प्रवाहरूपशक्यार्थसम्बन्धस्य तीरे गृहीतत्वात् तीरस्य स्मरणम्। ततः शाब्दबोधः। एवमेव काकेभ्यो दधि रक्ष्यतामित्यादौ काकपदस्य दध्युपघातके लक्षणा। सर्वेभ्यः दधिरक्षायाः तात्पर्यविषयत्वात्। एवं यष्टीः प्रवेशय इत्यादौ यष्टिपदेन यष्टिधराणां ग्रहणं लक्षणया। अतः एतादृशस्थलेषु सर्वत्रापि शक्त्या अनिर्वाहात् लक्षणाख्या वृत्तिः स्वीकारणीयेति नैयायिकाः। मीमांसका अपि लक्षणामाश्रयन्ति। तेषां मते स्वज्ञाप्यसम्बन्धो लक्षणा। न तु शक्यसम्बन्धः। तथा सति वाक्ये लक्षणा न संभवति तत्र शक्तेरभावात्। स्वज्ञाप्यसम्बन्धो लक्षणा इत्युक्तौ तु वाक्यार्थस्यापि वाक्यज्ञाप्यत्वात् तत्र लक्षणा सिद्ध्यति। तथा हि स्वं = पदं, वाक्यं वा। तज्ज्ञाप्यो योऽर्थः तत्सम्बन्धेन उद्बुद्धो यः शक्तिजन्यः संस्कारः ततो यत्र बोधः तत्र लक्षणेति व्यवहारः इत्यभिप्रयन्ति। एवञ्च एतेषामपि मते लक्षणावृत्तिरस्त्येव।

         वैयाकरणास्तु — लक्षणां वृत्त्यन्तरतया नैवाङ्गीकुर्वन्ति। तथा हि — आरोपितशक्यतावच्छेदकरूपेण शक्त्यैव तत्पदवाच्यत्वेन प्रसिद्धान्यव्यक्तिबोधे, व्यक्तिविशेषबोधे वा लक्षणेति व्यवहारः।

         एवञ्च सामीप्यादि सम्बन्धमूलकशक्यतावच्छेदकारोप एव लक्षणा। तथा च गङ्गायां घोषः इत्यत्र गङ्गापदशक्यतावच्छेदकप्रवाहविशेषत्वस्य तीरे आरोपात् तीरस्यापि प्रवाहविशेषत्वेनैव बोधः। एवं छत्रिणो यान्तीत्यादौ अच्छत्रिषु साहचर्यात् छत्रित्वारोपः। काकेभ्यो दधि रक्ष्यतामित्यत्र दध्युपघातकमात्रे काकत्वारोपः।

         इदं युज्यत एव। अन्यथा गङ्गायां मीनघोषौ स्तः इत्यत्र द्वन्द्वस्य साधुता कथं स्यात्? तथा हि — देवदत्ते अजाधनत्वस्य, यज्ञदत्ते अविधनत्वस्य चान्वयतात्पर्येण अजाविधनौ देवदत्तयज्ञदत्तौ इति प्रयोगो न प्रामाणिकः। एवं नीधात्वर्थे व्यापारे अजायाः संयोगे ग्रामस्य चान्वयतात्पर्येण अजाग्रामौ नयति इति प्रयोगोऽपि न प्रामाणिकः। अनयोश्च प्रयोगयोः प्रामाण्यवारणार्थं द्वन्द्वार्थस्य एकधर्मावच्छिन्नान्वये एव द्वन्द्वस्य साधुत्वमिति नियमः स्वीकरणीयः। एवञ्च गङ्गायां मीनघोषौ स्तः इत्यत्र गङ्गाशब्दात् लक्षणया तीरत्वेन तीरबोधे, मीनस्य गङ्गात्वावच्छिन्नेन, घोषस्य तीरत्वावाच्छिन्नेन चान्वयात् द्वन्द्वार्थस्य एकधर्मावच्छिन्नान्वयाभावात् द्वन्द्वस्य साधुता न स्यात्। गङ्गात्वेनैव तीरस्यापि बोधे तु उभयोरपि द्वन्द्वार्थयोः गङ्गात्वरूपैकधर्मावच्छिन्नान्वयात् समाससाधुत्वं सिद्ध्यति।

         ननु लक्ष्यस्यापि शक्यतावच्छेदकरूपेणैव बोधस्वीकारे “शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा” इत्यभियुक्तोक्तिविरोधः इति चेत् न। तादृशोक्तेः प्रामादिकत्वात्। तस्याः प्रामाणिकत्वाभिनिवेशे शक्यादन्येन रूपेण ज्ञाते = शक्यतावच्छेदकभिन्नरूपत्वेन गृहीते तीरत्वविशिष्टतीरादौ लक्षणा = शक्यतावच्छेदकारोप इति तदर्थस्वीकारेणाविरोधात्।

         महाभाष्यकारोऽपि ईदृशं बोधमनुमन्यते। “पुंयोगादाख्यायाम्” इति सूत्रे भाष्ये “चतुर्भिः प्रकारैः अतस्मिन् सः इत्येतद्भवति, तात्स्थ्यात्, ताद्धर्म्यात्, तत्सामीप्यात्, तत्साहचर्यात्। मञ्चा हसन्ति, सिंहो माणवकः गङ्गायां घोषः यष्टीः प्रवेशय” इत्युक्तेः। कैयटोऽपि स्पष्टमेवारोपमाह — “आरोप्यते ताद्रूप्यं न तु मुख्यम्। बालेषु मञ्चत्वारोपात् मञ्चपदप्रवृत्तिः हसन्तीति पदान्तरप्रयोगात् विज्ञायते” — इति।

         न्यायसूत्रकारो गौतमोऽपि — “सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारण-सामीप्य-योग-साधनाधि-पत्येभ्यो ब्राह्मण-बाल-कट-राज-सक्तु-चन्दन-गङ्गा-शकटान्न-पुरुषेष्वतद्भावेऽपि तदुपचारः= तच्छब्दव्यवहारः इत्यर्थः। स च तद्धर्मारोपेण। आरोपनिमित्तानि च सहचरणादीनि। यष्टीः प्रवेशय इत्यादीनि उदाहरणानि। यष्टित्वारोपो ब्राह्मणे साहचर्यात्। मञ्चत्वारोपो बालेषु तात्स्थ्यात्। गङ्गायां तीरधर्माधारत्वारोपः तत्सामीप्यात्।

         एवञ्च शक्यार्थप्रवाहेण अत्यन्तसामीप्ये गङ्गायां तीरधर्मं घोषाधारत्वमारोप्य गङ्गायां घोष इति प्रयोगः। व्यवहितसामीप्ये तु तीरे गङ्गात्वमारोप्य प्रयोगः। गौतमसम्मतोऽप्यारोपः पतञ्जलिसम्मतः। “स्वरितेनाधिकारः“(पा.सू. 1/3/1) इति सूत्रे भाष्ये तथाविधारोपस्य दृष्टत्वात्। तत्र हि स्वरितेनाधिकं कार्य‘मित्युपक्रम्य ‘गङ्गायां गावः’ इत्युक्तम्। अत्र गङ्गायाम् आरोपिताधिकरणत्वेऽपि सप्तमी।

         न्यायवार्तिककारोऽपि — “साहचर्यं नाम यष्टिकया सम्बन्धः, तत्सम्बन्धात्तु यष्टिकावानित्येव स्यात् न तु यष्टिका इति। यष्टिकावान् इति तु मुख्य एव। तस्मादुपचारबीजमन्यद् वक्तव्यम्। उच्यते, यष्टिकायां तावदयं यष्टिकाशब्दः यष्टिकात्वजातिनिमित्तकः। तत्र संयुक्तसमवेतां जातिं ब्राह्मणे समवायेनाध्यारोप्य ब्राह्मणं ‘यष्टिका’ इत्याह” इति सहचरणसूत्रव्याख्यानावसरे शक्यतावच्छेदकरूपेण लक्ष्यार्थबोधमङ्गीकरोति।

         ननु ‘गङ्गायां घोषः’ इत्यादौ आरोपितगङ्गात्वेन तीरस्य बोधेऽपि तस्य ज्ञानस्य भ्रमत्वात् शास्त्रज्ञानवतां सर्वथा भ्रमत्वेन ग्रहाच्च तद्बोधात् गङ्गागतशैत्यपावनत्वादिप्रतीतिरूपं फलं न सिध्यतीति चेत् न। ‘गङ्गायां घोषः’ इति वाक्यात् प्रथमं प्रवाहवृत्तिर्घोष इति शाब्दबोधो जायते। ततस्तत्रानुपपत्तिप्रतिसन्धानम्। ततः सादृशबोधे वक्तृतात्पर्यविषयत्वज्ञानम्। ततश्च गङ्गात्वेन लक्ष्यतीरशाब्दबोधः। ततो व्यञ्जनया तीरे मुख्यगङ्गाऽभेदप्रतीतिः। तथा च उक्तप्रयोजनं सिद्ध्यति। बाधग्रहश्च व्यञ्जनाजन्यबोधेऽप्रामाण्यज्ञानं न जनयति। वस्तुतस्तु, बाधग्रहः शाब्देऽनुपपत्तिमूलकारोपितार्थबोधेऽप्रामाण्यज्ञानं न जनयतीति स्वीक्रियते। तथा च मध्ये गङ्गाऽभेदप्रतीतेरनङ्गीकारेऽपि न क्षतिः। लक्ष्यार्थबोधेऽप्रामाण्याज्ञानानुदयात् तेनैव पूर्वोक्तप्रयोजनस्य सिद्धेः।अतः शक्यतावच्छेदकारोपो लक्षणा इत्यत्र न काचिदनुपपत्तिः। किञ्च अर्थभेदात् शब्दः भिद्यते न वेति विचारणावसरे वाक्यपदीये वाक्यकाण्डे —

एकमाहुरनेकार्थं शब्दमन्ये परीक्षकाः।

निमित्तभेदादेकस्य सार्थक्यं तस्य भिद्यते॥ इत्युक्तम्।

         तत्रायं भावः — अन्ये परीक्षकाः=वैयाकरणाः, अनेकार्थं शब्दम् एकमाहुः। निमित्तभेदात् = अर्थप्रकरणरूपात् शब्दान्तरेण संबन्धरूपाद् वा, सार्थक्यम् = सर्वार्थबोधकत्वं भिद्यते = नानाविधं भवति इति।

         एवं तत्रैव —

सर्वशक्तेस्तु तस्यैव शब्दस्यानेकधर्मणः।

प्रसिद्धभेदाद्गौणत्वं मुख्यत्वं चोपचर्यते॥

         इति चोक्तम्। तत्र, ‘सर्वशक्तेस्तु तस्यैव’ इत्यस्यैव व्याख्यानम् अनेकधर्मण इति। शब्दस्य प्रसिद्धभेदात् = प्रसिद्ध्यप्रसिद्धिभ्यां मुख्यत्वं, गौणत्वं च उपचर्यते = उच्यते इति भावः। एक एव गोशब्दः अनेकार्थान् बोधयति। अतः सः शब्दः सर्वशक्तिमान्। किन्तु गोत्वविशिष्टोऽयं गौः इत्यस्मिन्नर्थे स शब्दः प्रसिद्धः। बाहीकाद्यर्थप्रतिपादने च तादृशी प्रसिद्धिः नास्ति। अतः तादृशार्थेषु गोशब्दः गौणः। एवं रीत्या भिन्नार्थकत्वेऽपि शब्दस्तु एक एव। स च शब्दः अभिधावृत्त्यैव मुख्यार्थं, गौणार्थं च बोधयति। एवं गङ्गायां घोषः इत्यत्रापि गङ्गाशब्दस्य मुख्यार्थः प्रवाहः, गौणोऽर्थः तीरमिति सिध्यति। अतः लक्षणाख्यस्य वृत्त्यन्तरस्य स्वीकारावश्यकता नास्ति, लक्षणा शक्त्यन्तरैवेति शम्।

परिशीलितग्रन्थसूची –

  1. परमलघुमञ्जूषा
  2. वैयाकरणसिद्धान्तलघुमञ्जूषा
  3. महाभाष्यम्
  4. अष्टाध्यायी
  5. प्रौढमनोरमा
  6. प्रौढमनोरमाव्याख्या – शब्दरत्नं, भैरवी
  7. न्यायभाष्यं, न्यायवर्तिकम्