संस्कृतशिक्षणे शिक्षणसूत्राणां तात्त्विकं मनोवैज्ञानिकं च परिशीलनम्

Prof. Pralhad R Joshi
Department of Education
Rashtriya Samskrit Vidyapeetham, Tirupati
joshiprtpty@gmail.com

सारांशः

अस्मिन् विस्तीर्णे शोधलेखे संस्कृतशिक्षणक्षेत्रे उपयुज्यमानानां शिक्षणसूत्राणां तात्त्विकं मनोवैज्ञानिकं च विशदं विवेचनं क्रियते। शिक्षणसूत्राणि नाम तानि मार्गदर्शकसिद्धान्ताः ये अध्यापकस्य अध्यापनक्रियायाः नियामकरूपेण कार्यं कुर्वन्ति तथा छात्राणां बौद्धिक-विकासे, भाषाज्ञानवृद्धौ, चिन्तनशक्तिविस्तारे च सहायकाः भवन्ति। ‘अल्पाक्षरमसन्दिग्धं सारवत् विश्वतोमुखम्’ इति सूत्रलक्षणस्य आदर्शं मनसि निधाय यथा शास्त्रेषु सूत्ररचना क्रियते, तथैव शिक्षायां छात्रसुलभबोधनार्थं शिक्षणसूत्राणि विनिर्मीयन्ते। ज्ञातात् अज्ञातं प्रति, सरलात् कठिनं प्रति, स्थूलात् सूक्ष्मं प्रति, विश्लेषणात् संश्लेषणं प्रति, मूर्तात् अमूर्तं प्रति इत्यादीनि सूत्राणि संस्कृताध्यापने विशेषमहत्त्वं वहन्ति। एतेषां सूत्राणां यथोचितप्रयोगेन संस्कृतशिक्षणं न केवलं बौद्धिकप्रक्रिया, अपि तु जीवनोपयोगी, चिन्तनप्रवर्तकं, स्वाध्यायप्रेरकं च भवति।

उपोद्घतः

शिक्षणं नाम केवलं विषयस्य संप्रेषणम् न, किन्तु छात्रस्य अन्तःशक्तीनां जागरणप्रक्रिया। अध्यापकः यदि अनियोजितरीत्या पाठयति तर्हि शिक्षणं शुष्कं, अरुचिकरं, क्लिष्टं च भवति; किन्तु यदि सः शिक्षणसूत्राणां आधारेण नियोजितरूपेण अध्यापनं करोति तर्हि तदेव शिक्षणं छात्रान् प्रेरयति, बोधयति, सशक्तयति च। संस्कृतभाषा प्राचीनसमृद्धपरम्परायुक्ता अस्ति। अस्याः शिक्षणे विशेषसावधानता अपेक्ष्यते, यतो हि अद्यतनछात्राणां संस्कृतं प्रायः मातृभाषा नास्ति। अतः शिक्षणसूत्राणां प्रयोगः अत्र अत्यावश्यकः भवति। शिक्षणसूत्राणि मनोवैज्ञानिकाधारयुक्तानि सन्ति; तानि छात्रस्य पूर्वज्ञानम्, अनुभवम्, इन्द्रियग्राह्यता, चिन्तनक्षमता, जिज्ञासा च अवलम्ब्य प्रगत्यनुगुणं मार्गदर्शनं कुर्वन्ति। अधोलिखितानि प्रमुखानि शिक्षणसूत्राणि संस्कृतशिक्षणे कथं योजनीयानि इति विस्तरेण निरूप्यते।

  • ज्ञातात् अज्ञातं प्रति

अस्य सूत्रस्य मूलभावः अयं यत् छात्रस्य पूर्वज्ञानं नवीनज्ञानस्य आधारभूतं भवति। छात्राः शून्यपट्टिकावत् न भवन्ति; तेषां मनसि पूर्वानुभवाः, मातृभाषाज्ञानं, दैनन्दिनजीवनसम्बद्धाः संस्काराः च सन्ति। अध्यापकः यदि तेषां ज्ञातविषयान् आधारीकृत्य अज्ञातविषयं प्रस्तौति, तर्हि शिक्षणं स्वाभाविकरूपेण प्रसरति। उदाहरणतः मातृभाषायां वर्णानां ज्ञानं सर्वेषां छात्राणां भवति; तस्य आधारेण संस्कृतवर्णमालायाः परिचयः सुलभतया कर्तुं शक्यते। तथैव संख्यावाचकशब्दाः, केचन धातुरूपाणि, सामान्यपदानि च पूर्वज्ञानाधारेण बोधनीयानि। एतेन सूत्रेण छात्रेषु आत्मविश्वासः वर्धते, यतो हि ते अनुभवन्ति यत् नवीनविषयः तेषां पूर्वज्ञानात् सर्वथा पृथक् नास्ति। तथापि अध्यापकः सावधानः भवेत् यत् पूर्वज्ञानं सम्यक् अस्ति वा इति परीक्षेत्; अन्यथा भ्रान्त्याधारेण नवीनज्ञानं अपि विपर्यस्तं भवेत्।

  • सरलात् कठिनं प्रति

अयं सूत्रः शिक्षणस्य क्रमबद्धतां सुनिश्चितं करोति। सरलविषयानां स्पष्टबोधनात् परं क्रमशः कठिनविषयानां प्रस्तुतीकरणं क्रियते। संस्कृतव्याकरणे उदाहरणतः “अस्ति” “नास्ति” इत्यादीनि लघुवाक्यानि आदौ बोधनीयानि; ततः “जलम् कुत्र अस्ति?” इति प्रश्नरूपेण सप्तमीविभक्तेः परिचयः दातव्यः। तथैव अकारान्तशब्दरूपाणां पाठनानन्तरं इकारान्त-उकारान्त-ऋकारान्तशब्दानां परिचयः दातव्यः। लकारेषु लट्-लङ्-लोट्-विधिलिङादीनां क्रमशः विवेचनम् अनेन सूत्रेण सुसंगतं भवति। एतेन छात्राणां मनसि क्लेशः न जायते; ते क्रमशः जटिलरचनासु निपुणतां प्राप्नुवन्ति। किन्तु यदि शिक्षकः कठिनविषयं शीघ्रमेव प्रस्तौति तर्हि छात्राणां उत्साहभङ्गः सम्भवति।

  • स्थूलात् सूक्ष्मं प्रति (From Macro to Micro)

अस्य शिक्षणसूत्रस्य मूलभावः अयं यत् छात्राणां कृते आदौ समग्ररूपेण विषयस्य अवबोधनं क्रियते, ततः क्रमशः तस्य सूक्ष्मांशानां विवेचनं भवति। यदा छात्रः प्रथमं व्यापकदृष्ट्या विषयं पश्यति, तदा तस्य मनसि तस्य विषयस्य एकं स्पष्टं रूपं निर्मीयते। उदाहरणार्थं गद्यपाठे आदौ सम्पूर्णकथायाः भावार्थः कथनीयः, ततः पदानां, व्याकरणतत्त्वानां, अलङ्काराणां वा विश्लेषणं करणीयम्। एतेन छात्राः न केवलं अंशान्, अपि तु तेषां परस्परसंबन्धं अपि ज्ञातुं शक्नुवन्ति। साहित्यशिक्षणे अयं विशेषोपयोगी, यतो हि काव्यस्य रसग्रहणं स्थूलबोधेन एव प्रारभ्यते। यदि शिक्षकः आरम्भे एव सूक्ष्मव्याकरणे निमज्जति, तर्हि छात्राः विषयात् विमुखाः भवन्ति। अतः स्थूलदर्शनं ज्ञानस्य द्वारम्, सूक्ष्मविवेचनं तस्य गाम्भीर्यम् इति मन्तव्यम्।

  • विश्लेषणात् संश्लेषणं प्रति (From Analysis to Synthesis)

अस्मिन् सूत्रे प्रथमं विषयस्य विभिन्नाः अंशाः पृथक् पृथक् परीक्ष्यन्ते, ततः तेषां समुचितसंयोजनेन समग्रबोधः उत्पाद्यते। उदाहरणार्थं सन्धिपाठने छात्राः आदौ स्वर-सन्धि, व्यञ्जन-सन्धि, विसर्ग-सन्धि इत्यादीनां पृथगध्यानं कुर्वन्ति। ततः वाक्येषु तेषां प्रयोगं पश्यन्ति, येन तेषां संश्लेषणात्मकबुद्धिः विकसिताः भवति। अयं उपायः तार्किकचिन्तनस्य विकासे अत्यन्तं सहायकरूपेण कार्यं करोति। छात्राः अंशज्ञानात् आरभ्य तेषां परस्परसम्बन्धं ज्ञातुं शक्नुवन्ति। व्याकरणे, समासेषु, धातुरूपेषु च एषः पद्धतिः विशेषफलप्रदा। विश्लेषणेन सूक्ष्मता लभ्यते, संश्लेषणेन पूर्णता इति अस्य सूत्रस्य सारः।

  • विशेषात् सामान्यं प्रति (From Particular to General)

अस्य सूत्रस्य आशयः अयं यत् उदाहरणेभ्यः सामान्यनियमस्य प्रतिपादनं क्रियते। अध्यापकः आदौ छात्राणां सम्मुखे कतिपयानि दृष्टान्तानि स्थापयति, ततः तेषां आधारपर्यालोचनेन नियमं निष्कर्षरूपेण प्रकाशयति। उदाहरणार्थं “रामः पठति”, “सीता गच्छति”, “बालकः खेलति” इत्यादीनि वाक्यानि दत्त्वा लट्-लकारस्य सामान्यरूपं बोधयितुं शक्यते। एतेन छात्राः स्वयमेव चिन्तनं कुर्वन्ति, नियमं स्वानुभवेन अवगच्छन्ति। अयं आगमनप्रधानः उपायः बौद्धिकस्वातन्त्र्यं वर्धयति। छात्रेषु अन्वेषणवृत्तिः, तर्कशक्ति, निष्कर्षग्रहणक्षमता च विकसिताः भवन्ति। विशेषज्ञानं सामान्यज्ञानस्य आधारः भवति इति अस्य सूत्रस्य मुख्यसिद्धान्तः।

  • मूर्तात् अमूर्तं प्रति (From Concrete to Abstract)

अयं सूत्रः मनोवैज्ञानिकदृष्ट्या अत्यन्तं समीचीनः अस्ति, यतो हि बालकाः आदौ मूर्तवस्तूनि सुलभतया अवगच्छन्ति। अमूर्तभावाः यथा प्रेम, धैर्य, क्रोध, करुणा इत्यादयः प्रत्यक्षेन्द्रियगोचराः न भवन्ति; अतः तेषां बोधनाय मूर्तदृष्टान्ताः आवश्यकाः भवन्ति। उदाहरणतः “कठोरता” इत्यस्य बोधनाय “पाषाणस्य कठोरता” इति दृष्टान्तः उपयुक्तः। एतेन छात्राणां मनसि अमूर्तभावस्य स्पष्टप्रतिमा निर्मीयते। साहित्यपाठने अपि अयं उपायः फलदायकः, यतो हि काव्यस्य भावार्थः मूर्तचित्रणेन सुगमः भवति। अनेन सूत्रेण शिक्षणं जीवनसंगतं भवति, तथा छात्राणां कल्पनाशक्ति अपि विस्तारं प्राप्नोति।

  • दृष्टात् अदृष्टं प्रति (From Seen to Unseen)

अस्य सूत्रस्य आधारः अनुभवः अस्ति। यत् छात्रैः प्रत्यक्षतया दृष्टं, अनुभूतं वा भवति, तस्य आधारेण अदृष्टविषयस्य बोधनं क्रियते। उदाहरणार्थं यदि छात्राः क्तप्रत्ययस्य प्रयोगं ज्ञातवन्तः, तर्हि क्तवतुप्रत्ययस्य बोधनं तस्मादेव सरलतया कर्तुं शक्यते। प्रत्यक्षज्ञानं दृढं भवति, अतः अदृष्टज्ञानस्य आधारभूतं भवति। विज्ञानशिक्षणे, व्याकरणे, भूगोलादिषु च अयं सूत्रः अत्यन्तोपयोगी। एतेन छात्राणां जिज्ञासा वर्धते, यतो हि ते ज्ञातविषयात् नवीनविषयं प्रति स्वाभाविकतया गच्छन्ति। दृष्टज्ञानं बीजम्, अदृष्टज्ञानं तस्य विकासः इति अत्र भावः।

  • आगमनात् निगमनं प्रति (From Inductive to Deductive)

अनेन सूत्रे प्रथमं उदाहरणाधारेण नियमप्रतिपादनं (आगमनम्) क्रियते, ततः नियमात् उदाहरणप्रयोगः (निगमनम्) दर्श्यते। अध्यापकः आदौ केचन उदाहरणानि प्रस्तुत्य छात्रान् चिन्तनाय प्रेरयति; ततः सामान्यनियमं निर्दिशति। अनन्तरं तस्य नियमस्य आधारेण अन्येषां उदाहरणानां समाधानं कारयति। सन्धिपाठने आगमनपद्धतिः विशेषोपयोगी, यतो हि छात्राः उदाहरणेभ्यः नियमं स्वयमेव ज्ञातुं शक्नुवन्ति। छन्दःपाठने वा सूत्राध्ययने निगमनपद्धतिः अपि आवश्यकाभवति। एतेन छात्रेषु तर्कशक्ति, व्यवस्थितचिन्तनम्, नियमप्रयोगदक्षता च विकसिताः भवन्ति। आगमनं जिज्ञासां जनयति, निगमनं स्थिरज्ञानं ददाति—एषः अस्य सूत्रस्य समन्वितः लाभः।

उपसंहारः

संस्कृतशिक्षणे शिक्षणसूत्राणि अध्यापकस्य पथप्रदर्शकदीपाः इव सन्ति। एतेषां सम्यगनुसरणेन शिक्षणं क्रमबद्धं, मनोवैज्ञानिकसंगतं, जीवनोपयोगि च भवति। संस्कृतभाषा यदि जीवन्मूल्ययुक्ता, व्यवहारक्षमाश्च स्थापनीया, तर्हि शिक्षणसूत्राणां समन्वितप्रयोगः अनिवार्यः। अतः अध्यापकः केवलं पाठ्यपुस्तकपर्यन्तं न तिष्ठेत्, किन्तु एतेषां सूत्राणां साहाय्येन छात्राणां अन्तर्निहितशक्तीनां विकासं कुर्यात्—एष एव संस्कृतशिक्षणस्य परमलक्ष्यम्।

References

  • एच् विश्वासः, कौशलबोधिनी, बेङ्गलूरु, संस्कृतभारती, झण्डेवाला, नवदेहली, 2006
  • उनियाल इन्द्रदत्त. संस्कृत शिक्षण. विश्वेश्वरान्द वैदिक शोध संस्थान, होश्यारपुर 2008
  • सातवलेकर श्रीपाद दामोदर, संस्कृत स्वयं-शिक्षक, राजपाल एण्ड सन्स, देहली गेट, 1984
  • शर्मा, रामनाथ. संस्कृत शिक्षण की विधियाँ. मेरठ: विनोद पुस्तक मन्दिर, 2011
  • पाण्डेय, रामशकल. भाषा शिक्षण के सिद्धान्त. आगरा: विनोद पुस्तक मन्दिर, 2014