वैदिक-संशोधन-मण्डलस्य हस्तलिखितसूचिपत्रेषूपलब्धानां कूटशब्दानां समीक्षणम्
विषयविभागः – इतिहासः पुरातत्त्वविद्या पाण्डुलिपिविद्या च।
— कृष्णा भगवान माळी
सम्पादकः,वैदिक-संशोधन-मण्डलम्
(आदर्श-संस्कृत-शोध-संस्था) , पुणे।
भ्रमणभाषक्रमाङ्कः – ७८७५९७२२५३
ईमेलसङ्केतः- krushnamali211@gmail.com
शोधनिबन्धसारांशः
पुण्यपत्तनस्थे वैदिक-संशोधन-मण्डलस्य हस्तलिखितसंग्रहालये प्रायः १८००० हस्तलिखितानां संग्रहो विद्यते। तेषु हस्तलिखितेषु ८९१८ हस्तलिखितांनां नव सूचिपत्राणि मण्डलेन प्रकाशितानि अद्ययावत्। तत्र सूचिपत्रेषु विवरणावसरे केषाञ्चिद्धस्तलिखितानां एकादशक्रमाङ्ककस्य अन्यविवरणम्(Other details) इति तालिकायां कूटशब्दानामुल्लेख उपलभ्यते। तत्र ३५ स्थलेषु Code words(कूटशब्दाः) इति शीर्षकान्तर्गततयोल्लिखिताः सन्ति कूटशब्दाः। तेषां कूटशब्दानामध्ययनं कृतमस्ति शोधपत्रेऽस्मिन्।
तत्रोपलब्धाः त्रिप्रकारकाः कूटशब्दाः। विपरीताक्षराणां प्रयोगेण साधिताः कूटशब्दाः, मिताक्षरा/गूढलिपिः बैठपरिभाषा च। सूचिपत्रसम्पादनावसरे सम्पादकैः केषुचित्स्थलेषु कूटशब्दाः इति साक्षादुल्लिखिताः कुत्रचित्कूटशब्दाः सङ्कलिताः किन्तु कूटशब्दतया नोल्लिखिताः। तत्र कूटशब्दैः ज्ञायमानाः विषयाः—
१. हस्तलिखितस्य लेखकानां नामनिर्देशः।
२. हस्तलिखितस्य स्वामिनामनिर्देशः।
३. हस्तलिखितसंरक्षणोपयुक्तसूचनानां निर्देशः।
कूटशब्दैः एवं बोधः कथं भवति? कूटशब्दैः एवंविध निर्देशस्य किं प्रयोजनं भवितुमर्हति? इत्येतेषां विषयाणां समीक्षणं शोधपत्रेऽस्मिन् विद्यते। समीक्षणेनानेन तेषु तेषु सूचीपत्रेषु न्यस्तुं नैकाः नूतनोपलब्धयः सम्प्राप्ता। अनेन प्रकारेण अन्यत्रापि तेषु तेषु संग्रहालयेषूपलब्धानां हस्तलिखितानां पुष्पिकावाक्यगतानां कूटशब्दानामध्ययनेन नैकाः नूतनोपलब्धयः भविष्यन्तीति विश्वस्य विरम्यते।
*****
वैदिक-संशोधन-मण्डलस्य हस्तलिखितसूचिपत्रेषूपलब्धानां कूटशब्दानां समीक्षणम्
— कृष्णा भगवान माळी, सम्पादकः,
वैदिक-संशोधन-मण्डलम्
(आदर्श-संस्कृत-शोध-संस्था) , पुणे।
भ्रमणभाषक्रमाङ्कः – ७८७५९७२२५३
ईमेलसङ्केतः- krushnamali211@gmail.com
प्रास्ताविकम्-
वैदिक-संशोधन-मण्डले(वै.सं.मण्डले) प्रायः १८०००(अष्टादशसहस्र) संख्याकानि हस्तलिखितानि सन्ति। तेषु हस्तलिखितेषु ८९१८(अष्टादशोत्तरनवशताधिकाष्टसहस्र) संख्याकानि हस्तलिखितानि वै.सं.मण्डलेन सूचिबद्धानि एवं च ईसवीयस्य १९७४(चतुःसप्तत्यधिकैकोनविंशतितम) वर्षादारभ्य नवसु खण्डेषु प्राकाश्यं नीतानि। नवानां खण्डानां विवरणमग्रे तालिकायां निर्दिष्टं विद्यते। तत्र Descriptive Catalogue of Sanskrit Manuscripts Vol. I Veda And Vedic, इत्यस्य सम्पादकैः डा. त्र्यम्बक-नारायण-धर्माधिकारिवर्यैः प्रस्तावनायाम् एवोल्लिखितमस्ति यत् तैः ईसवीयस्य १९६३(त्रिषष्ट्यधिकैकोनविंशतिशततमे) वर्षे भारतसार्वकारस्य शिक्षामन्त्रालयेन प्राकाशितायां डा. राघवन्महाभागैः लिखितायां “Manuscripts, Catalogues, Editions” नामिकायां विवरणिकायां प्रदत्तानि निर्देशानि तथैवाचरितानि सम्पादनावसरे। अपरानामष्टानामपि खण्डानां सम्पादकैः सैव रीतिराचरिता तत्तत्सम्पादितखण्डेषु।
सूचीपत्रेषूपलब्धाः कूटशब्दाः-
वै.सं.मण्डलस्य सूचिपत्राणां निरीक्षणावसरे प्रथमखण्डादारभ्य बहुत्र नैकानां हस्तलिखितानां विवरणावसरे एकादशक्रमाङ्कस्य तालिकायां code words(अर्थात् कूटशब्दाः) इत्युल्लिख्य किमपि अनावबोधकं टिप्पणकं विद्यते। तत्र ३५(पञ्चत्रिंशत्) स्थानेषु कूटशब्दाः इत्युल्लिख्य कूटशब्दाः प्रदत्ताः सन्ति। प्रत्येकं सूचिपत्रमुपलब्धानां कूटशब्दानां संख्याविवरणं एवं प्रकारेण विद्यते—
| भागः | विषयः | संपादकः | प्रकाशनवर्षम् | कूटशब्दाः | कुलहस्त-लिखितानि |
| १ | Veda And Vedic | डा. त्र्यं. ना. धर्माधिकारिः | १९७४ | द्वयोः स्थानयोः | १६९३ |
| २ | Śrauta Prayogas | डा. त्र्यं. ना. धर्माधिकारिः | १९७८ | द्वयोः स्थानयोः | १६६० |
| ३ | Upādhye Collection | डा. त्र्यं. ना. धर्माधिकारिः | १९८५ | चतुर्विंशतिस्थानेषु | १००० |
| ४ | Veda And Vedic II | डा. भाग्यलता पाटसकर, डा. सुनंदा अभ्यंकर | २००६ | त्रिषु स्थानेषु | १०२२ |
| ५ | Vyākaraṇa, Abhidhāna & Ṣaḍdarśanas | सरजू रथ | १९९८ | नोपलब्धाः | ६५१ |
| ६ | Praāyaścitta and Śānti | डा. भाग्यलता पाटसकर | २००६ | एकस्मिन् स्थाने | ६५६ |
| ७ | Deśapāṇḍe Collection | डा. भाग्यलता पाटसकर | २००८ | नोपलब्धाः | १००१ |
| ८ | Rāmāyaṇa, Mahābhārata and Purāṇa | डा. भाग्यलता पाटसकर | २००८ | नोपलब्धाः | ५६५ |
| ९ | Jyotiṣa and Āyurveda | डा. भाग्यश्री भागवतः | २०१० | त्रिषु स्थानेषु | ६७० |
| कुलसंख्या | ३५ स्थानेषु | ८९१८ | |||
एतानि ३५(पञ्चत्रिंशत्) स्थानानि विहायान्यत्रापि कूटशब्दाः इत्यनुल्लिख्य साक्षात्कूटशब्दाः निर्दिष्टाः सन्ति। यथा— ऐतरेयब्राह्मणस्य विवरणावसरे[1] लिखितम्— Bad letters(दुष्टाक्षराणि) . Colophon(पुष्पिकावाक्यम्) –
काछहेसेकिप्शुतमानअमाषाश अघचाप्नडहिय्हमोफम सिगिपं।
आठवेले इत्युपनामक नाराय कखङटात्मज विश्वनोथ(नाथे) न लिखितं।
एतादृशानि स्थानानि शोधनिबन्धेऽस्मिन् न विचारितानि, तत्तत्खण्डानां सम्पादकैः कूटशब्दाः इत्यन्तर्गततया ते शब्दाः न निर्दिष्टा इत्यस्मात्।
तत्र त्रिप्रकारकाः कूटशब्दाः उपायोजिताः सन्ति-
१) अक्षराणां विपरीतक्रमः(Reverse order arrangement of the letters) –
दर्शपूर्णमासब्रह्मत्वप्रयोगः[2] इत्यत्र— Col. तंखिलिदमिस्यवशकेस्यकवोडवा। शाके चक्षुं वसुं रसं भू(1682) …। Scb- Vāḍavoka keśava.
यदि “तंखिलिदमिस्यवशकेस्यकवोडवा” इत्येतेषाम् अक्षराणां क्रमविपर्ययः क्रियते चेत् “वाडवोकस्य केशवस्य मिद(इदं) लिखितं” इति उपलभ्यते। अत्र लेखकेन स्वस्य नामनिर्देशाय एषा पद्धतिः स्वीकृता।
२) बैठ परिभाषा–
ऋग्वेद पदपाठ[3], इत्यत्र अन्ते उपलब्धानां कूटशब्दानाम् उल्लेखः एवं प्रकारेणोपलभ्यते— “यज्ञायज्ञान्वाधोकुडौण्येशीतेर्यूफचाझीरुपुति(?) शैवीषान्वीस्लुतति(?) न्युकुषाधुगीग्योण्यौ फ्रीढिपाङि.श्रु॥”
अस्मिन् शोधपत्रे विषयेऽस्मिन् नोच्यते यतो हि डा. भाग्यलतापाटसकरवर्याः, निदेशकचराः वैदिक-संशोधन-मण्डलं पुणे, संशोधनं कृत्वा पुस्तकरूपेण तत्प्रकाशितवती।[4]
३) मूलदेवीया/मिताक्षरा/गूढलिपिः[5]– ३३ कूटशब्दानां कृते उपायोजिता ‘मूलदेवीया’ अपरनाम ‘गूढलिपिः’ ‘मिताक्षरा’ चेति। तस्याः परिभाषा भवति–
अकौ खगौ घङौ चैव चटौ तपौ परस्परौ।
यशौ रषौ लसौ चैव ळक्षौ स्यातां तथा क्रमात्॥
कः सर्वेषामचः स्थाने।
१. अवर्णस्य स्थाने कवर्णो भवति कवर्णस्य स्थाने अवर्णो भवति।
२. ख्-वर्णस्य स्थाने ग्-वर्णो भवति ग्-वर्णस्य स्थाने ख्-वर्णो भवति।
३. घ्-वर्णस्य स्थाने ङ्-वर्णो भवति ङ्-वर्णस्य स्थाने घ्-वर्णो भवति।
४. चवर्गस्य स्थाने टवर्गो भवति टवर्गस्य स्थाने चवर्गो भवति। यथा— च्-छ्-ज्-झ्-ञ्-इत्येतेषां वर्णानां स्थाने क्रमशः ट्-ठ्-ड्-ढ्-ण्-वर्णाः भवन्ति तथैव ट्-ठ्-ड्-ढ्-ण्-इत्येतेषां स्थाने क्रमशः च्-छ्-ज्-झ्-ञ्-वर्णाः भवन्ति।
५. तवर्गस्य वर्णांना परिवर्तनं प-वर्गीयेषु वर्णेषु भवति एवं च पवर्गीयानां वर्णानां परिवर्तनं त-वर्गीयेषु वर्णेषु भवति। तद्यथा- त्-थ्-द्-ध्-न्-वर्णानां परिवर्तनं क्रमेण प्-फ्-ब्-भ्-म्-वर्णेषु भवति क्रमशः। तथैव प-फ-ब-भ-मवर्णानां परिवर्तनं क्रमेण त-थ-द-ध-नवर्णेषु भवति।
६. य्-वर्णस्य परिवर्तनं शवर्णेन भवति एवं श्-वर्णस्य परिवर्तनं य्-वर्णेन भवति।
७. र्-वर्णस्य परिवर्तनं षवर्णेन भवति एवं ष-वर्णस्य परिवर्तनं र्-वर्णेन भवति।
८ ल्-वर्णस्य परिवर्तनं सवर्णेन भवति एवं स-वर्णस्य परिवर्तनं ल्-वर्णेन भवति।
९. ळ्-(वर्णस्य परिवर्तनं क्ष्-इति संयुक्तवर्णेन भवति एवं क्ष्-वर्णस्य परिवर्तनं ळ्-वर्णेन भवति।
१०. स्वतन्त्रः स्वरः क्-वर्णेन युक्तो भवति। यथा— अ = क, आ = का, इ = कि इत्येवम्।
अत्र परिभाषायां वहौ वर्णौ नोल्लिखितौ। वहौ परस्परं स्याताम् इति परिशेषाद्वयं ज्ञातुं शक्नुमः।
व-(वर्णस्य परिवर्तनं ह-वर्णेन भवति एवं ह-वर्णस्य परिवर्तनं व-वर्णेन भवति।
कानिचन उदाहरणानि—
(१) सत्याषाढश्रौतसूत्र।(अभिगमनसंख्या ४५९४) – प्रथमे सूचिपत्रे- अनुक्रमांकः १५१३-
End- किबंयुस्दतुल्पअंआयिमाफाप्नडदासस्सल्श॥ Scb-Lalla Bābūbhaṭṭa.
सूचीपत्रे उपलब्धम्- “किबंयुस्दतुल्पअंआयिमाफाप्नडदाहसस्सल्श॥”
संशोधितम्-“किबं युस्दतुल्पअं आयिमाफाप्नडदाह(दू) सस्सल्श॥”
उपलब्धिः- लेखकेन स्वस्य नामोल्लेखः कूटशब्दैः विना “बाबूलल्लोलिखत्स्वयं” अत्र कृत एव। तदनन्तरं पुनः कूटशब्दैः “इदं शुल्बपुस्तकं काशिनाथात्मजबाबूलल्लस्य” इति लिखितम्।
तस्मादुपलब्धिः— काशिनाथात्मज इत्युपलब्धम्।
(२) आश्वलायनगृह्यसूत्र।(अभिगमनसंख्या ४६३७) – प्रथमे सूचिपत्रे- अनुक्रमांकः १५७४-
Colophon- दिवाकराह्वविप्रार्यस्तनुना वैधुवनारायणेन विप्रेण कृतेयं वृत्तिरीदृशौ.See next entries. Scb- Bābu Lalla. Post Colophon- किबतुल्यअंआंयिमाफाप्नडेमदादूसस्सेंमसिगिपं ल्हाष्पं तषाष्फंटं॥
सूचीपत्रे उपलब्धम्- “किबतुल्यअंआंयिमाफाप्नडेमदादूसस्सेंमसिगिपं ल्हाष्पं तषाष्फं टं(ट) ॥”
संशोधितम्- “किब(बं) तुल्यअं आं(आ) यिमाफाप्नडेम दादूसस्सें(स्से) म सिगिपं ल्हाष्पं तषाष्फं टं(ट)॥”
उपलब्धिः- लेखकेन स्वस्य नामोल्लेखः कूटशब्दैः विना “नारायणो लीलिखत्॥ काशिनाथसुतः शिवैकनिरतो लल्लोपनामा” अत्र कृत एव। तदनन्तरं पुनः कूटशब्दैः “इद(दं) पुस्तकं कां(का) शिनाथात्मजेन बाबूल्लें(ल्ले) न लिखितं स्वार्थं परार्थं चं(च)” इति लिखितम्।
तस्मादुपलब्धिः— लेखनप्रयोजनं स्वार्थं परार्थं चेति लब्धम्।
(३) मृगारेष्टिप्रयोगः।(अभिगमनसंख्या ४६५३) – द्वितीये सूचिपत्रे- अनुक्रमांकः ५५४-
Scb- Lalla Bābu. Acc. to BauśS. Code Syllables at the end किबं तुल्यअं दादूसस्सेम सिगिपं। ल्हाष्फंतष्पाष्फंट॥
सूचीपत्रे उपलब्धम्- “किबंतुल्यअंदादूसस्सेमसिगिपं। ल्हाष्फंतष्पाष्फंट॥”
संशोधितम्- “किबं तुल्पअं दादूसस्सेम सिगिपं। ल्हाष्फं तष्पा(षा) ष्फं ट॥”
उपलब्धिः- लेखकेन स्वस्य नामोल्लेखः कूटशब्दैः विना “बाबूललो व्यलीलिखत्” अत्र कृत एव। तदनन्तरं पुनः कूटशब्दैः “इदं पुस्तकं बाबूलल्लेन लिखितं। स्वार्थं पर्ता(रा) र्थं च” इति लिखितम्।
तस्मादुपलब्धिः— लेखनप्रयोजनं स्वार्थं परार्थं चेति लब्धम्।
(४) अग्निचयनकारिका।(अभिगमनसंख्या ४६९४) – द्वितीये सूचिपत्रे- अनुक्रमांकः १४४१-
Col- इति त्रिकाण्डमण्डने महाग्निचयनकारिका समाप्ता। Bears resemblance with the kārikās by Gaṇeśa Somayājī. Also contains Cāturmāsya-vihāra-kārikās. Codewords at the end- य्षाहभेयु असतळेटटपुष्बय्शाफधौनए। कध्शं अषोतमान्माट आयीमाफल्शलूमुमा॥ लबायीहे
सूचीपत्रे उपलब्धम्– “य्षाहभेयु अस[6]तळेटटपुष्बय्शाफधौनए। कध्शं अषो तमान्माट आयीमाफल्शलूमुमा॥ लबायीहे”
संशोधितम्- “य्षाहञे युअसतळे ट टपुष्बय्शाफ धौनए। कध्शंअषोतमान्मा ट आयीमाफल्श लूमुमा॥ लबायीहे”
उपलब्धिः- लेखकेन आदौ शके १७०८(अष्टोत्तरसप्तदशशततमे वर्षे) पराभवसंवत्सरे इति कालनिर्देशः कृतः। तदनन्तरं “श्रावणे शुक्लपक्षे च चतुर्दश्याथ भौमके। अभ्यंकरोपनाम्ना च काशीनाथस्य सूनुना॥सदाशीवे”। इति कूटशब्दैः लिखितम्।
अर्थादुपलब्धिः—
१.हस्तलिखितस्य लेखकः- काशीनाथ सदाशीव अभ्यंकर इति।
२. मासः- श्रावणः ३. पक्षः- शुक्लः
४. तिथिः- चतुर्दशी ५. वासरः- भौमवासरः(मङ्गलवासरः)।
निरीक्षणानि–
१. ३५(पञ्चत्रिंशत्सु) हस्तलिखितेषु २५(पञ्चविंशति) संख्याकानां हस्तलिखितानां लेखनकालः निर्दिष्टो दृश्यते।
२. तेषु सर्वेषु प्राचीनतमं वर्तते अमरकोषः, अभिगमनसंख्या(Accession number) १२६९५, लिखितम्- शके १६७५(पञ्चसप्तत्यधिकषोडशशत) तमे वर्षे अर्थात् ईसवीयस्य १७५३(त्रिपञ्चाशदधिकसप्तदशशत) तमे वर्षे एवं च नवीनतमं विद्यते शालग्रामलक्षणः, अभिगमनसंख्या १२३७९, लिखितम् अस्ति शके १७८४(चतुरशीत्यधिकसप्तदशशत) तमे वर्षे अर्थात् ईसवीयस्य १८६२(द्वाषष्ट्यधिकाष्टादशशत) तमे वर्षे।
३. द्वयोः हस्तलिखितयोः स्वामिनो नाम(Owners name) लेखनाय कूटशब्दानां प्रयोगः दृश्यते। मुहूर्ततत्त्वम्(अभिगमनसंख्या ४७८०) and संक्रान्तिफलादेशः(अभिगमनसंख्या ४७७०)
४. दशसु स्थानेषु लेखकानां केवलं नाम्ना निर्देशो दृश्यते।
५. एकविंशतिस्थानेषु लेखकानां पूर्णनामनिर्देश उपलभ्यते।
६. कुत्रचित् लेखनप्रयोजनम्, अन्त्यमङ्गलं चोपलभ्यते।
शोधपत्रेऽस्मिन् केवलं चतुर्णामुदाहरणानां प्रस्तुतीकरणं विद्यते किन्तु निरीक्षणं तु प्राप्तानां सर्वेषाम् उदाहरणानां कृतमस्ति। अनेन प्रकारेण यदि हस्तलिखितेषूपलब्धानां कूटशब्दानां विषयेऽध्ययनं क्रियते चेत् निश्चयेन तत्र तत्र निरूपितं सर्वं ज्ञात्वा यथापेक्ष्यं सूचिपत्रेषु, शोधनिबन्धेषु, शोधविषयेषु वा योजयितुं शक्नुमः। अध्ययनेनानेन भविष्यन्ति नूतनोपलब्धयः संशोधनोपकारकाः इति विश्वस्य विरम्यते।
Bibliography
1. Dharmadhikari, Dr. T. N., ed. Descriptive Catalogue of Sanskrit Manuscripts(Veda And Vedic) . 1st ed. Vol. I. Pune, Maharashtra, India: Vaidika Samshodhana Mandala, 1974.
2. Dharmadhikari, Dr. T. N., ed. Descriptive Catalogue of Sanskrit Manuscripts(Śrauta Prayogas) . 1st ed. Vol. II. Pune, Maharashtra, India: Vaidika Samshodhana Mandala, 1978.
3. Dharmadhikari, Dr. T. N., ed. Descriptive Catalogue of Sanskrit Manuscripts(Upādhye Collection) . 1st ed. Vol. III. Pune, MAHARASHTRA, India: Vaidika Samshodhana Mandala, 1985.
4. Pataskar, Dr. Bhagyalata , and Dr Sunanda Abhyankar, eds. Descriptive Catalogue of Sanskrit Manuscripts(Veda And Vedic II) . 1st ed. Vol. IV. Pune, Maharashtra, India: Vaidika Samshodhana Mandala, 2006.
5. Rath, Saraju. Descriptive Catalogue of Sanskrit Manuscripts(Vyākaraṇa, Abhidhāna & Ṣaḍdarśanas) . 1st ed. Vol. V. Vaidika Samshodhana Mandala, 1998.
6. Pataskar, Dr. Bhagyalata A, ed. Descriptive Catalogue of Sanskrit Manuscripts(Praāyaścitta and Śānti) . 1st ed. Vol. VI. Pune, Maharashtra, India: Vaidika Samshodhana Mandala, 2006.
7. Pataskar, Dr. Bhagyalata , ed. Descriptive Catalogue of Sanskrit Manuscripts(Deśapāṇḍe Collection) . 1st ed. Vol. VII. Pune, Maharashtra, India: Vaidika Samshodhana Mandala, 2008.
8. Pataskar, Dr. Bhagyalata, ed. Descriptive Catalogue of Sanskrit Manuscripts(Rāmāyaṇa, Mahābhārata and Purāṇa) . 1st ed. Vol. VIII. Pune, Maharashtra, India: Vaidika Samshodhana Mandala, 2008.
9. Bhagwat, Dr. Bhagyashree , ed. Descriptive Catalogue of Sanskrit Manuscripts(Jyotiṣa and Āyurveda) . 1st ed. Vol. IX. Pune, Maharashtra, India: Vaidika Samshodhana Mandala, 2010.
10. पाटसकर डा. भाग्यलता, ed. पदमुष्टिः. 1st ed. The Director, Adarsha Sanskrit Shodha Samstha(Vaidika Samshodhana Mandala) , 2018.
11. Pataskar, Dr. Bhagyalata, ed. Padamuṣṭiḥ. 1st ed. Pune: Adarsha Sanskrit Shodha Samstha(Vaidika Samshodhana Mandala) , 2020.
12. Pataskar, Dr. Bhagyalata, ed. Ekākṣarī Baiṭhaparibhāṣā with the Commentary Along with Translation & Notes. 1st ed. Pune, Maharashtra, India: The Director, Adarsha Sanskrit Shodha Samstha(Vaidika Samshodhana Mandala) , 2014.
13. Dharmadhikari, Dr. T. N., ed. A Manual On Manuscriptology And Textual Criticism. 1st ed. Pune, MAHARASHTRA, India: Upendra T. Dharmadhikari, 2011.
[1] Vol. I, Sr. No. 383, Acc. no. 87.
[2] Vol. III, Sr. No. 250, Acc. no.12172
[3] Vol. III, Sr. No. 68, Acc. no.11995
[4] Pataskar, Dr. Bhagyalata, ed. Ekākṣarī Baiṭhaparibhāṣā with the Commentary Along with Translation & Notes. 1st ed. Pune, Maharashtra, India: The Director, Adarsha Sanskrit Shodha Samstha (Vaidika Samshodhana Mandala), 2014.
[5] एषा कूटशब्दानां पद्धतिः विभिन्नेषु स्थानेषु भिन्न-भिन्नाभिधानेन निर्दिष्टा दृश्यते। तद्विषये अत्र न चिन्त्यते।
[6] तत्र हस्तलिखिते अ इति वर्णेन स-वर्णो संयुक्तो दृश्यते। अस्मिन् परिभाषायां अ इति चिह्नेन कध्वनिः दर्श्यते तस्मात् स्वररहितः ककारः दर्शनीयः चेत् अकारस्य चिह्नम्= अ हलन्त्यसदृशः दर्शितः हस्तलिखिते किन्तु अत्र तद्दर्शितुम् अवकाशो नास्तीति अस इति दर्शितम्।
