श्रीः

वेदः – विशिष्टाद्वैतवेदान्तः

डा चक्रवर्तिराघवन्
आचार्यः, विशिष्टाद्वैतवेदान्तविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः
तिरुपतिः

  1. वेदानां गभीरता –

वेदाः ज्ञानभाण्डागाराः[1]। वयं वेदानां महतीं आदरं दद्मः। स च वेदः किं कथयति? अस्मान् किं करोति? किं वयं तत् जानीमः? तस्य शिक्षणार्थं बहवः नियमाः सन्ति। न तस्यार्थः सम्पूर्णतया ज्ञातुं शक्यते। भट्टभास्कर-विद्यारण्येत्याद्याचार्यैः वेदानां कृते सुगमशैल्या पाठः लिखितः अस्ति। स च पाठः लोकभाषायां मुद्रित अपि। एतावता साहाय्येन अपि अस्माकं देशे कति जनाः वेदार्थं जानन्ति? न जाने, केनापि तस्य अर्थस्य सारांशः लिखितः अस्ति वा।

  • वेदभाषा –

कल्पसूत्रलेखकाः ऋषयः वेदोक्तं यज्ञविधिं वर्णयन्ति। एतान्यपि अवश्यं ज्ञातव्यानि। तेषां व्याख्यनामानि अपि संस्कृते लिखितानि सन्ति। अतः ये तां संस्कृतभाषां न जानन्ति, तेषां कृते ते उपयोगिनः न भवन्ति शास्त्राणि। अतः वयं अत्र सुलभतरशैल्या लिखामः, येन सर्वे वेदेषु उल्लिखितान् श्लोकान् अप्रयत्नेन ज्ञातुं शक्नुवन्ति।

  • पूर्वमीमांसा शास्त्रं, वेदोक्तकर्मजिज्ञासा च –

वेदोक्तकर्माणि ज्ञातव्यानि। तैः कर्मभिः पूजितः भगवान् अपूर्वफलं ददाति। अस्माकं धर्मे सर्वे देवा यथा भास्वतः शरीरं, स एव सर्वम् आत्मानं नियुङ्क्ते, तेषां कर्मानुगुणं फलं ददाति च।

कर्तव्यं श्रुतितो वदन्ति मनुजाः कृत्वा लभन्ते सुखं,

निर्दुष्टा श्रुतिरेव मानमपरं तत्सम्मतं मन्यते।

मुक्तौ साधनमिष्टकामरहितं कर्माग्निहोत्रादिकं,

नो ईशे न च चित्तवृत्तिरमला ज्ञानं न मीमांसकाः [2]।।

सिद्धान्तेऽस्मिन् ज्ञेयं कर्तव्यम्, ततः परं तदनुरोधेनान्यत् सर्वम्। विहितकर्तव्यसमर्थोऽधिकारी ज्ञाता। स्वस्मिन् कर्तव्यविधानासामर्थ्यभावनम् अज्ञानस्य स्वरूपम्। तन्मूलको मनस्तापः दुःखम् । कर्तव्यविधानभावना ज्ञानम् । तन्मूलिका मानसीशान्तिः दुःखध्वंसस्य वा मोक्षस्य वा स्वरूपं भवति।

अपौरुषेयो वेदः, तदनुसारि प्रत्यक्षमनुमानञ्च प्रमाणम्। अपौरुषेयाद्वेदात् कर्तव्यं ज्ञात्वा, तेन कर्तव्याचरणेन दुःखनिस्तारः मोक्षश्च भवति। सोऽपि निष्कामकर्माचरणेनैव साध्यते। यतः सकामकर्मणा अदृष्टं जायते। तददृष्टं दुःखस्य कारणं भवति। अतः निष्कामकर्माचरणात् अदृष्टाभावे दुःखनाशो भवतीति सिद्धान्तः ।

  • उत्तरमीमांसादर्शनम् (वेदान्तदर्शनम्) –

मातुमिच्छा मीमांसा। पूर्वमीमांसापदेन कर्मज्ञानं लक्ष्यते। उत्तरमीमांसापदेन ब्रह्मज्ञानं लक्ष्यते। इयमुत्तरमीमांसा वेदान्त इति नाम्ना ख्यायते। वेदान्त इति पदे भागद्वयमस्ति। वेद + अन्त इति। वेद इति पदेन ऋग्यजुस्सामाथर्वणवेदाश्चत्वारो गृह्यन्ते।

केचित्तु अथर्ववेदस्य ऋग्वेदान्तर्गतत्वमाशङ्क्य त्रयो वेदा इति वदन्ति। ‘ऋक् सामयजुषी इति वेदास्त्रयः”[3] इति वेदानां त्रिसंख्यात्वमुक्तममरकोशे। अत एव वेदानां त्रयीति व्यवहारो दृश्यते।

मन्त्र-ब्राह्मणयोर्वेदनामधेयम्[4] इति चोक्तत्वात् ऋक्यजुस्सामाथर्वणां मन्त्रसंहिताभागः, ब्राह्मणभागश्च वेदशब्देनोच्यत इति ज्ञायते। अन्तो जघन्यं चरममन्त्यप्राच्यत्वपश्चिमम्[5] इति कोशवाक्येन अन्तशब्दस्य अन्त्य इत्यर्थस्वीकरणे वेदानामन्तः वेदानां रहस्यं वा वेदान्तशब्दार्थो भवतीति वक्तुं शक्यते।

तादृशः वेदान्तिमो भागः उपनिषदेव। वेदान्तो नामोपनिषत्प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि च इति सदानन्दयोगीन्द्रेण वेदान्तसारे उक्तम् । एवमुपनिषदां ब्रह्मसूत्राणां च वेदान्तशब्दप्रयोगो भवतीति ज्ञायते।

उपनिषच्छब्दः उप-नि-इत्युपसर्गद्वययोगात् षद्ल विशरण-गत्यवसादनेषु इति धातोः निष्पद्यते। उप समीपे निषीदन्ति स्थापयन्तीति व्युत्पत्त्या जीवान् ब्रह्मसमीपे गमयन्तीति उपनिषच्छब्दार्थस्सिद्ध्यति।

एतादृशीनामुपनिषदाम् अनुसारेणेव प्रवर्तितानि भवन्ति ब्रह्मसूत्राणि। एतान्यपि जीवात्मानं परमात्मानमधिगमयन्ति इति तेषां वेदान्तव्यवहारः। एतादृशानां वेदान्तसूत्राणां कर्ता व्यासमहर्षिः।

वेदान्तसूत्रभाष्येष्वन्यतमो भवति श्रीभाष्यग्रन्थः। स च भगवद्रामानुजाचार्यैरारचितः। विशिष्टाद्वैतसिद्धान्तनाम्नालोके प्रथितः।

  • सम्पूर्णवेदार्थज्ञापकः रामानुजसिद्धान्तः –

नित्यं हेयगुणावधूननपरो नैर्गुण्यवादश्श्श्रुतौ,

स्पष्टार्थास्सगुणोक्तयश्शुभगुणप्रख्यापनाद् ब्रह्मणः ।

अद्वैतश्रुतयो विशिष्टविषया निष्कृष्टरूपाश्रया,

भेदोक्तिस्तदिहाखिला श्रुतिहितं रामानुजीयं मतम् ।।[6]

सिद्धान्तेऽस्मिन् ज्ञेयं भवति सर्व दृश्यमदृश्यं चेश्वरभूतं जगत्। ज्ञाता चेतनावानणुः । विषयेषु ममत्वभावनाऽज्ञानस्य स्वरूपम्। नानाविधो मनस्तापः दुःखस्य स्वरूपम्। ईश्वरो नित्यासंख्यमङ्गलगुणवानिति भावना ज्ञानम्। भगवतः कृपया दुःखस्यापुनरावृत्तिः तत्सान्निध्यं च मोक्षः। प्रमाणानि च प्रत्यक्षानुमानशाब्दाः ।।

एतादृशोऽयं विशिष्टाद्वैतसिद्धान्तः भेदाभेदघटकश्रुतीनामपि समन्वयात्मको भवतीति विशेषः।


[1] विद् – ज्ञाने, चुरादिः

[2] द्वादशदर्शमसोपानावलिः – पृ.264

[3] अमरकोशः, शब्दादिवर्गः- श्लो.3

[4] ऋग्वेदभाष्यभूमिका – पृ.11

[5] अमरकोशः, स्वरवर्गः- श्लो.5

[6] द्वादशदर्शमसोपानावलिः – पृ.129