उपनिषत्सु रसाः भावाश्च

आचार्यः चक्रवर्ती रङ्गनाथन्
साहित्यविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः
तिरुपतिः

उपोद्घातः

“समष्टिस्सर्वशास्त्राणां साहित्यमिति कथ्यते” इति विख्यातोक्त्या ज्ञायते यत् समेषामपि शास्त्राणां तत्त्वानि साहित्ये सुलभ्यन्त एव। किञ्च यथा साहित्ये सर्वशास्त्रस्पर्शोऽनुभवसिद्धस्तथैव साहित्यतत्त्वानि शास्त्रसमुद्रे रत्नानीव समुपलभ्यन्ते। सर्वेष्वपि शास्त्रेषु साहित्यतत्त्वानि यथा अलङ्कारः गुणः रीतिः रसः इत्यादयः संप्राप्यन्ते।  

तथा च वेदाः एव सर्वस्य प्रथमं प्रमाणमिति विदुषां सिद्धान्तः। साहित्यशास्त्रभूरपि वेद एव इति साहित्यशास्त्रस्य मूलग्रन्थे नाट्यशास्त्र इत्थं स्पष्टं प्रदर्श्यते

जग्राह पाठ्यमृग्वेदात् सामभ्यो गीतमेव च।

यजुर्वेदादभिनयान् रसानाथर्वनादपि॥

वेदोपवेदैः संबद्धो नाट्यवेदो महात्मना।[1]

अतो वेदेषु साहित्यशास्त्रतत्त्वानि सुप्रकाशितानि इत्यत्र नास्ति विप्रतिपत्तिः। तत्र वेदपुरुषस्य शिरोरूपेण निगूढवेदान्ततत्त्वानां प्रकाशिकाः भवन्ति उपनिषदः। तत्र यद्यपि सर्वे साहित्यविषयाः विद्योतन्ते। तथापि सर्वैः विद्वद्भिः सुविज्ञातमेवैतत् यत् साहित्यशास्त्रस्य प्राणभूतं तत्त्वं भवति रसः। सः रसः कथमुपनिषत्सु प्रकटीकृतः भावाश्च कथं विलसन्ति इति पत्रेऽस्मिन् प्रस्तूयते।

रससिद्धान्तः

रस-शब्दः नानार्थेषु प्रयुज्यते। यथा पदार्थेषु रसो नाम – मधुरः आम्लः इत्यादयः, आयुर्वेदेऽपि रसः निर्दिष्टो
साहित्ये रसस्तु सुविज्ञात एव।

एवमेव उपनिषत्सु अपि रसशब्दः ईश्वरस्य वा ब्रह्मणः पर्यायत्वेन प्रयुक्तः –“रसो वै सः। रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति।”[2] इति।

एतदनुसारेण काव्येऽपि आत्मानन्दरूपेण रसशब्दस्य प्रयोगः प्रवृत्तो दृश्यते। यथा ब्रह्म सच्चिदानन्दात्मकं त्रयाणाम् ऐक्यरूपं भवति, तथैव काव्ये ब्रह्मानुभव एव रस इति प्रतिपद्यते।

रस-सिद्धान्तस्य आदिप्रवर्तकत्वेन भरतमुनिः अभिमतः। तस्य नाट्यशास्त्रे

विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः” [3] इति

रसविषयकं सूत्रं प्रसिद्धम्। तदनन्तरं भट्टलोल्लटः, श्रीशङ्कुकः, भट्टनायकः, अभिनवगुप्तश्च—एते चत्वारः आचार्याः भरतसूत्रस्य प्रसिद्धा व्याख्यातारः अभवन्। एते स्वस्वसम्प्रदायानुसारं सूत्रे प्रयुक्तयोः संयोग  तथा निष्पत्ति इत्येतयोः शब्दयोः व्याख्यां चक्रुः। एतेषां मध्ये आचार्यस्य अभिनवगुप्तस्य मतं सर्वोत्कृष्टं निर्दुष्टं च स्थिरतां प्राप्तम्। अत एव हेतोः उत्तरवर्तिनः साहित्यशास्त्रमर्मज्ञाः अपि तस्यैव मतं स्वीचक्रुः। आचार्य-मम्मटः अभिनवगुप्तस्य मतमनुसृत्य रसस्य परिभाषाम् एवम् आह –

कारणान्यथ कार्याणि सहकारीणि यानि च ।

रत्यादेः स्थायिनो लोके तानि चेन्नाटचकाव्ययोः ॥

विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः ।

व्यक्तः स तैविभावाद्यैः स्थायिभावो रसः स्मृतः ॥[4]

एतदनुरूपमेव आचार्यः विश्वनाथः रसस्य परिभाषां ददाति।

विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा ।

रसतामेति रत्यादिः स्थायिभावः सचेतसाम् ।।[5]

रसगङ्गाधरकारः पण्डितराजः जगन्नाथः रसस्य स्वरूपं विशदीकुर्वन् रसविषयकानां एकादशानां मतानाम् उल्लेखं विदधाति। परन्तु तान् तिरश्चकार। ततो रसविषये स्वमतं एवं विशदयति

शकुन्तलादिभिरालम्बनकारणः, समुचितललितसंनिवेशचारुणा काव्येन सर्मापतैः सहृदयहृदयं प्रविष्टं-स्तदीयसहृदयतासहकृतेन भावनाविशेषमहिम्ना विगलितदुष्यन्तरमणीत्वादिभिर-लौकिकविभावानुभावव्यभिचारिशब्वव्यपदेश्यैः चन्द्रिकादिभिरुद्दीपनकारणः, अश्रुपातादिभिः कार्यः, चिन्तादिभिः सहकारिभिश्च, संभूय प्रादुर्भावितेनालौकिकेन व्यापारेण तत्कालनिवतितानन्दांशावरणज्ञानेनात एव प्रमुष्टपरिमितप्रमातृत्वादिनिजधर्मेण प्रमात्रा स्वप्रकाशतया वास्तवेन निजस्वरूपा-नन्देन सह गोचरीक्रियमाणः प्राग्विनिविष्टवासनारूपो रत्यादिरेव रसः ।[6]

पण्डितराजस्य रसविषयकं एतद् विवेचनमपि अभिनवगुप्तस्य मतमाधृत्य प्रवर्तते।
वस्तुतस्तु विचार्यमाणे आचार्य-अभिनवगुप्तानन्तरं रसस्य न काचिदपि नूतना व्याख्या प्रवृत्ता। प्रकारान्तरेण सर्वेऽपि आचार्याः तस्यैव मतं स्वस्वशब्दैः प्रतिपादयन्तो बभूवुः । एतावदेव तु सत्यं यत् भरतमुनितः आरभ्य पण्डितराज-जगन्नाथपर्यन्तं “रसो नाम कः ” इति विषये पण्डितेषु कश्चन वादस्सततं प्रवृत्त एव।

आचार्यः विश्वनाथः रसस्य काव्यात्मत्वस्य प्रबलः समर्थकः। सः रसात् अतिरिक्तं ध्वनिमपि काव्यस्य आत्मत्वेन स्वीकर्तुं न सिद्धः। अत एव रसध्वनौ तस्य काचिदपि असहमतिर्नास्ति, परन्तु वस्तुध्वनेः अलङ्कारध्वनेश्च काव्यात्मकतायां सः आपत्तिं दर्शयति। अत एव तस्य परिनिष्ठितं काव्यलक्षणम्—
वाक्यं रसात्मकं काव्यम्।”

रसविश्लेषणम्

रसपदेन न केवलं शृङ्गारः, करुणः, वीर इत्यादयः रसाः एव सङ्गृह्यन्ते, अपि तु रसशब्देन भावः, रसाभासः, भावाभासः, भावोदयः, भावसन्धिः, भावशान्तिः, भावशबलता इत्यष्टावपि गृह्यन्ते उक्तं च साहित्यदर्पणे

रसभावौ तदाभासौ भावस्य प्रशमोदयौ ।

सन्धिः शबलता चेति सर्वेऽपि रसनाद् रसाः ।।[7]

रसानां सङ्ख्यानिर्धारणे विविधानामाचार्याणां मतभेदः परिद्रुश्यते। तत्र साहित्यस्य प्रथम आचार्यः नाट्यशास्त्रस्य कर्ता भरतमुनिः अष्टौ  रसाः इति प्रोवाच। यथा

शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।

बीभत्साद्‌भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥[8]

आचार्यमम्मटेन तु

निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः ।[9]

इति उक्त्वा नवमः शान्तरसः अपि स्वीकृतः। परवर्तिभिः आचार्यैः वात्सल्यरसः, भक्तिः इत्यादयः अन्येऽपि रसाः स्वीकृताः, तथा च रासानां सङ्ख्यायां क्रमशः वृद्धिरभवत्।
यत्र एकस्मिन् पक्षे रसस्य सङ्ख्याया विस्तारः प्रवृत्तः, अन्यस्मिन् पक्षे केचन आचार्याः सङ्ख्यासङ्कोचमपि चक्रुः। भोजराजस्तु —

रसोऽभिमानोऽहंकारः शृङ्गार इति गीयते

योऽर्थस्तस्यान्वयात् काव्यं कमनीयत्वमश्नुते

विशिष्टादृष्टजन्मायं जन्मिनामन्तरात्मसु ।

आत्मा सम्यग्गुणोद्‌भूतेरेको हेतुः प्रकाशते ।।[10]

इत्युक्तदिशा शृङ्गारमेव मुख्यं रसं मन्यते, अन्ये तु सर्वे रसाः तस्यैव विस्ताररूपा इति स्वीकरोति। एवमेव विश्वनाथस्य पूर्वजः नारायणः ‘अद्भुत’मेव प्रधानं रसं मन्यते। आचार्यः अभिनवगुप्तः मोक्षस्य परमपुरुषार्थत्वात् शान्तरसं मुख्यं रसं स्वीचकार।

उपनिषत्सु रसाः

उपनिषदां प्रतिपाद्यो विषयः ब्रह्मज्ञानं मोक्षश्च। अतः तासु प्रमुखतया शान्तरसः विद्यते। परन्तु ब्रह्मणः अज्ञेयता, सर्वव्यापकत्वं, शक्तिमत्त्वं, वैलक्षण्यं, सर्वनियन्तृत्वम् इत्यादीनां विचित्ररूपेण प्रतिपादनात् उपनिषत्सु अद्भुतरसस्यापि प्रवेशः दृश्यते। अङ्गरूपेण क्वचिद् क्वचिद् शृङ्गारोऽपि दृश्यते। ऋषेः अग्निसूर्यादिदेवतासु रतेः दर्शनात्, रसातिरिक्तः उपनिषत्सु भावोऽपि दृश्यते।

कठोपनिषदि शान्तरसः

यद्यपि रसदृष्ट्या उपनिषत्सु शान्तरसस्य साक्षात् विश्लेषणं कर्तुं न शक्यते; किन्तु मोक्षविषयकस्य आत्मविषयकस्य च विवेचनस्य कारणात् उपनिषत्सु शान्तरसस्य अभिव्यक्तिः दृश्यते।
अस्मिन् विषये काश्चन उपनिषदः द्रष्टव्याः।

कठोपनिषदि ऋषिणा यमनचिकेतसोः संवादेन संसारस्य अनित्यत्वं ब्रह्मज्ञानस्य च आवश्यकता च चित्रिता। नचिकेतसः एते वचनानि उद्दीपनविभावत्वेन उपयुक्तानि सन्ति—

श्वो भावा मर्त्यस्य यवन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः ।

अपि सर्वं जीवितमल्पमेव  तवैव वाहास्तव नृत्यगीते ।।[11]

यमराजः नचिकेतसं विविधैः प्रलोभनैः पुनः पुनः मोहम् उपजनयन् एवमाह।

शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यमश्वान् ।

भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छ‌सि ।।

एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च।

महाभूमौ नचिकेतस्त्वमेधि कामानां त्वां कामभाऊं करोमि ।।

ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामांश्छन्दतः प्रार्थयस्व ।

इमा रामाः सरथाः सतूर्या नहीदृशा लम्भनीया मनुष्यैः ।[12]

परन्तु नचिकेतसः उपरि एतस्य प्रलोभनस्य कश्चिदपि प्रभावो न लक्ष्यते, यतः सः जानाति यत् एते सर्वे पदार्थाः नश्वराः सन्ति। सः एवम् ब्रवीति

अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् ।

अभिध्यायन् वर्णरतिप्रमोदानतिवीर्घ जीविते को रमेत ।।[13]

नचिकेताः तु स्वस्य तृतीयवरे एव दृढनिश्चयेन स्थितः यत् तस्मै मृत्युरहस्यं ज्ञातव्यं शाश्वतं च ब्रह्मज्ञानं प्राप्तव्यम्।

एवं प्रकारेण अत्र सांसारिकपदार्थानां क्षणभङ्गुरत्वज्ञानात् उत्पन्नस्य निर्वेदभावस्य परिपुष्टेः कारणात् शान्तरसः विद्यते। नचिकेतसः तृष्णा क्षीणा जाता; तस्मिन् शमस्य प्रादुर्भावः अभवत्। सः ब्रह्मानुभूतेः मोक्षस्य च अधिकारी जातः। अत एव यमराजः तस्मै मृत्युरहस्यं व्याख्याति। अयं सम्पूर्णः प्रसङ्गः उपनिषत्सु विद्यमानस्य  शान्तरसस्य दृष्टान्तो भवति।

अस्मिन् सन्दर्भे रौद्ररसस्यापि मध्ये उन्मेषः दृश्यते, यदा नचिकेतसः पिता तस्मिन् रुष्टः सन् वदति— अहं त्वां यमराजाय ददामि।” परन्तु अयं क्रोधः केवलं उद्बुद्धो भवति, मुख्यशान्तरसस्य अङ्गरूपेण तस्य पोषकत्वेन एव स्थितः। अस्य क्रोधस्य स्वतन्त्रं परिपोषणं नाभवत्।

बृहदारण्यकोपनिषदि शान्तरसः

एवमेव बृहदारण्यकोपनिषदि अपि याज्ञवल्क्यमैत्रेयीसंवादे शान्तरसो अभिव्यक्तः दृश्यते। यथा

नवा अरे पुत्राणां कामाय पुनाः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया अवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति। न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति।[14]

अस्मिन् मन्त्रे सांसारिकपदार्थानां तुच्छतां निरूप्य आत्मतत्त्वस्य श्रेष्ठता प्रतिपादिता। अत्रापि वित्तं, माता, पुत्रः इत्यादयः सर्वे लौकिकपदार्थाः हेयाः इति प्रदर्श्य निर्वेदस्य वा तृष्णाक्षयमूलकस्य शान्तरसस्य एव परिपोषणं क्रियते।

अत्र तु दिङ्मात्रनिर्देशार्थं द्वे एव उदाहरणे उपन्यस्ते। वस्तुतः सम्पूर्णे उपनिषत्साहित्ये शान्तरसः स्रक्सूत्रन्यायेन अनुस्यूतः अस्ति।

केनोपनिषदि अद्भुतरसः

केनेषितं पतति प्रेषितं मनः, केन प्राणः प्रथमः प्रैति युक्तः ।

केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ।।[15]

अत्र उपनिषदां ऋषिः विस्मयाविष्टः भवति। सः एतस्य रहस्यस्य उद्घाटनं कर्तुमिच्छति—कस्मात् प्रेरितं मनः इष्टवस्तुनि प्रवर्तते? मुख्यः प्राणः केन विशेषेण युक्तः सन् सञ्चरति? कस्य प्रेरणया जनाः वाचं वदन्ति? चक्षुः च केन देवेन कर्मसु नियोज्यते?

एतद् रहस्यं ततोऽपि गभीरतरं भवति, यदा ऋषिः एवम् वदति

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः

न विद्मो न विजानीमो यथैतदनुशिष्यात् ।।

अन्यदेव तद् विदितादयो अविवितादधि ।[16]

तत् रहस्यमयं तत्त्वं न चक्षुः गच्छति, न पाणिना  प्राप्यते, न च मनः अधिगच्छति। तद्विषये कथं कस्यचित् उपदेशं कर्तुं शक्नुमः? वयं न जानीमः, न अवगच्छामः; यतः तत् ज्ञातात् भिन्नमेव, अज्ञातात् अपि परं विलक्षणं च अस्ति।
अत एव तत् परमं रहस्यं उद्घाटयितुम् अत्यन्तं दुष्करं भवति, यतः तत्—

श्रोत्रस्य श्रोत्रं मनसो मनो यद, वाचो ह वाचं स उ प्राणस्य प्राणः ।[17]

सः कर्णस्य कर्णः, मनसो मनः, नूनं वाचो वाचः, सः प्राणस्य प्राणः, चक्षुषश्च चक्षुः।
कथं सः ज्ञेयः?

आत्मतत्त्वस्य इन्द्रियातीतसूक्ष्मतां निर्देशयितुम् ऋषिणा अत्र विस्मयभावः उद्बोधितः। तत् तत्त्वं कीदृशं यत् वयं द्रष्टुं न शक्नुमः, श्रोतुं न शक्नुमः, तथापि तत् तत्त्वम् अस्मासु एव समाहितम् अस्ति। एवं प्रकारेण आत्मतत्त्वस्य श्रोत्रातीतता, प्राणातीतता इत्यादीनां वर्णनात् अत्र अद्भुतरसस्य परमः परिपोषः अभवत्।

प्रश्नोपनिषदि अद्भुतरसः

एवमेव प्रश्नोपनिषदि अपि सूर्यप्राणादीनां वर्णने सर्वत्र अद्भुतरसस्य अभिव्यक्तिः दृश्यते। यथा

विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।

सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुख्यत्येय सूर्यः ।॥[18]

तथा

प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे ।

तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठति ।।[19]

उपनिषत्सु भावः

रसातिरिक्तं उपनिषत्साहित्ये भावस्यापि सुष्ठु निष्पत्तिः दृश्यते। आचार्यः विश्वनाथः प्रधानभूतसञ्चारिणः, देवादिविषयिकायाः रतेः, तथा उद्बुद्धमात्रस्य च स्थायिनः —एतेषां त्रयाणां भावसंज्ञां प्रायच्छत्।

अस्माल्लक्षणात् उपनिषत्सु ऋषेः देवादिविषयकरतिरूपभावस्य दर्शनं भवति। यथा—

अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।

युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥[20]

अस्मिन् मन्त्रे ऋषेः अग्निविषयकरतेः वर्णनात् भावः विद्यते।

तथैव –

स तस्मिन्नेवाऽऽकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीम् ।[21]

अस्मिन् मन्त्रे उमायाः लावण्यवर्णनेन रतेः उद्बोधः आरभ्यते, परन्तु अनन्तरं विभावानुभावादीनां योजना न भवति, अतः तस्य परिपोषणं न जातम्। एवं प्रकारेण अत्र केवलं रतिस्थायीभावस्य आलम्बनरूपेण उमायाः वर्णनेन रतेः उद्बोधमात्रं जातम् इति कारणात् अत्र भावः एव विद्यते।

एवमेव –

अथ हैनं गार्गी वाचक्नवी पप्रच्छ—याज्ञवल्क्येति होवाच। यदिदं सर्वम् अप्स्वोतं च प्रोतं च, कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति? वायौ गार्गीति। कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति? अन्तरिक्षलोकेषु गार्गीति। कस्मिन्नु खल्वन्तरिक्षलोकाः ओताश्च प्रोताश्चेति? गन्धर्वलोकेषु गार्गीति। कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रोताश्चेति? आदित्यलोकेषु गार्गीति। कस्मिन्नु खल्वादित्यलोका ओताश्च प्रोताश्चेति? चन्द्रलोकेषु गार्गीति। कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति? ब्रह्मलोकेषु गार्गीति। कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति? स होवाच—गार्गि! माऽतिप्राक्षीः, मा ते मूर्धा व्यपपत्। अनतिप्रश्न्यां वै देवतामतिपृच्छसि। गार्गि! माऽतिप्राक्षीरिति।[22]

अत्र गार्ग्याः वितर्कः—अन्ततोगत्वा एतत् सर्वं कस्मिन् ओतं प्रोतं च अस्ति, एतेषां सर्वेषां अधिष्ठाता कः इति—प्रधानरूपेण अञ्जितः। अत एव अत्र वितर्कभावस्य सुन्दरी अभिव्यक्तिः दृश्यते।

एवमेव—

युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः।
वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः॥[23]

अयं मन्त्रः भावरूपः, यतः अत्र ऋषेः सवितृविषयकाया रतेः स्पष्टा अभिव्यक्तिः दृश्यते।

तथैव—

या ते रुद्र शिवा तनूरघोराऽपापकाशिनी।
तया नस्तनुवा शंतमया गिरिशन्ताभिचाकशीहि॥[24]

अस्मिन्नपि मन्त्रे रुद्रविषयकाया रतेः अभिव्यक्तेः कारणात् भावः एव विद्यते।

एवमेव श्वेताश्वतरोपनिषदि २.१७, ३.१ तथा ३.४ इत्येषु मन्त्रेषु अपि देवविषयकरतेः उपस्थितेः भावः स्वीकरणीयः।

उपर्युक्तैः उदाहरणैः स्पष्टं भवति यत् उपनिषत्साहित्ये शान्तरसः, अद्भुतरसश्च, तथा भावाश्च पदे पदे विद्योतन्त एव तथापि स्तोकमिह प्रस्तुतं विद्यते इति दिक्।

सन्दर्भग्रन्थसूची

  1. नाट्यशास्त्रम्
  2. साहित्यदर्पणः
  3. काव्यप्रकाशः
  4. तैत्तरीयब्रह्मानन्दवल्ली
  5. रसगङ्गाधरः
  6. शृङ्गारप्रकाशः
  7. बृहदारण्यकोपनिषद्
  8. श्वेताश्वतरोपनिषत्
  9. केनोपनिषत्
  10. प्रश्नोपनिषत्
  11. कठोपनिषत्

[1] नाट्यशास्त्रम् – 1- 17-18

[2] तैत्तरीयब्रह्मानन्दवल्ली 7

[3] नाट्यशास्त्रम् – 6-

[4] काव्यप्रकाशः – 4- 27-28

[5] साहित्यदर्पणः – 3 -1

[6] रसग्ङ्गाधरः – चौखम्बा – पृ – 80

[7] साहित्यदर्पणः – 3-259

[8] नाट्यशास्त्रम् – 6 – 16

[9] काव्यप्रकाशः – 4- 35

[10] शृङ्गारप्रकाशः 5 – 1-2

[11] कठोपनिषत् – 1- 26

[12] कठोपनिषद् – 1- 23- 25

[13] कठोपनिषत् – 1- 26

[14] ब्रुहदारण्यकोपनिषत् – 2.4.5

[15] केनोपनिषत् – 1.1

[16] केनोपनिषत् – 1.304

[17] केनोपनिषत् – 1.2

[18] प्रश्नोपनिषत् – 1.8

[19] प्रश्नोपनिषत् 2.8

[20] ईश. 18

[21] केनोपनिषत् – 3.12

[22] बृहदारण्यकोपनिषद् ३.६.१

[23] श्वेताश्वतरोपनिषत् २.४

[24] श्वेताश्वतरोपनिषत् 3.5