॥ श्रीश्रीरामकृष्णकथामृतगतदृष्टान्तानां वेदान्तदृष्ट्या परिशीलनापेक्षा ॥
Aneek Kumar Das,
Research Scholar,
Ramakrishna Mission Vivekananda Educational and Research Institute,
Belur Math, Howrah, West Bengal, India, 711202.
Contact No. : 7384165253
Email : aneekkumardasvedvid@gmail.com
Abstract
शास्त्रेषु दृष्टान्तानां माहात्म्यं तु सर्वजनविदितमेव। श्रीश्रीरामकृष्णकथामृतग्रन्थश्च विविधलौकिक-शास्त्रीयदृष्टान्तैः समृद्धः। तत्र च परमहंसस्य श्रीश्रीरामकृष्णस्य वचनानि संगृह्य प्रकाशितानि इति तेषां वचनानां, तदुक्तदृष्टान्तानाञ्च प्राधान्यं तात्पर्यञ्च विशिष्टम् इति तु निश्चितमेव। तदत्रास्मिन् शोधपत्रे विविधदर्शनेषु दृष्टान्तानां तात्पर्यं, श्रीश्रीरामकृष्णकथामृतग्रन्थस्य परिचयः, पौरुषेयत्वेऽपि कथामृतस्य अपौरुषेयज्ञानप्रतिपादकत्वम्, तथा च तत्रोक्तानां दृष्टान्तानां विचारापेक्षतादिकं विस्तरेण वर्णितम्।
- भूमिका
सर्वजनविदितस्य श्रीश्रीरामकृष्णपरमहंसोक्तवाणीसंग्रहरूपे श्रीश्रीरामकृष्णकथामृतग्रन्थे समुपलभ्यमानानां दृष्टान्तानां वेदान्तशास्त्रसिद्धान्तानां च कश्चन सम्बन्धः अस्त्येव इति तु सामान्यावलोकनेनैव स्पष्टं ज्ञायते। किन्तु सः सम्बन्धः कीदृशः इति विषये परिशीलनापेक्षा अस्तीति भावयामि। ईशाद्युपनिषत्सु, श्रीमद्भगवद्गीतायां, ब्रह्मसूत्रे, प्रस्थानत्रयभाष्येषु, सर्वत्र अनिर्वचनीयं वेदान्ततत्त्वं विभिन्नाकारदृष्टान्तैः विभिन्नैर्भाष्यकारैः स्वस्वदर्शनानुकूलतया बोधितम्। तच्च श्रीश्रीरामकृष्णपरमहंसवाक्यैः संगच्छते न वा इति चिन्तनस्य बीजं तावत् रामकृष्णपरमहंसदेवः न कस्यामपि वैदिकपरम्परायां कस्यापि गुरोस्सकाशात् वेदशास्त्राद्यध्ययनं चकार। किन्तु अद्वितीयं ब्रह्म बोधयति इत्येतत् तस्य अवतारपुरुषस्य सामर्थ्यमिति तद्भक्तैः व्याख्यायते। किन्तु अवतारपुरुषत्वमात्रमारोप्य तदीयवाक्यश्रवणं सर्वेषामिष्टं स्यादेव इति मम न भाति। अतः तेषामपि प्राप्तः भ्रमः रामकृष्णपरमहंसदेवबोधिते अद्वैतबोधे निवर्तितः स्यादिति हेतोः विषयोऽयं परिशीलनीय इति भावयामि।
- वेदान्तवाङ्मयप्रमुखग्रन्थेषु दृष्टान्तोपयोगः
अवलोकयामश्चेत् स्पष्टं ज्ञायते यत्- ईशावास्योपनिषदि “हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्”[1] इत्यादि, केनोपनिषदि “ब्रह्म ह देवेभ्यो विजिज्ञे, तस्य ह ब्रह्मणो विजये देवा अमहीयन्त”[2] इत्यादि, कठोपनिषदि नाचिकेतोपाख्यानम्, “मृत्युर्यस्योपसेचनम्”[3], “आत्मानं रथिनं विद्धि[4]” इति रथरूपकम्, “पुरमेकादशद्वारमजस्यावक्रचेतसः”[5] इत्यारभ्य “न तत्र सूर्यो भाति न चन्द्रतारकम्”[6] इति पर्यन्तम्, “ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः”[7] इत्यादि, प्रश्नोपनिषदि पिप्पलादसंवादे “आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च”[8] इत्याद्याख्यायिका, मुण्डकोपनिषदि यथा “यथोर्णनाभिः सृजते गृह्णते च”[9], “यथा सुदीप्तात् पावकात् विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः”[10], “द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते”[11], “यथा नद्यः स्यन्दमानाः समुद्रे”[12] इत्यादयः प्रायः सर्वत्र उपनिषत्सु आख्यायिकाः दृष्टान्ताश्च उपयुक्ताः। एवं ब्रह्मसूत्रेऽपि “प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्”[13] इत्यादिषु बहुषु सूत्रेषु दृष्टान्तदार्ष्टान्तिकसमन्वयमुखेन विषयः प्रस्तुतः। गीतायां तु “धूमेनाव्रियते वह्निर्यथादर्शो मलेन च, यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्”[14] इत्यादयः दृष्टान्ताः मुहुर्मुहुः उपयुक्ताः।
एतेषु वेदान्तवाङ्मयप्रमुखग्रन्थेषु यथा दृष्टान्तमुखेन विषयः उपदिष्टः तद्वत् अवतारवरिष्ठः भगवान् श्रीरामकृष्णः स्वशिष्यान् प्रति सदृष्टान्तानि तत्त्वानि उपदिदेश। किन्तु ज्ञानिनः मितभाषिणः इति विद्वद्वचनानां गूढार्थाः न सुलभतया सर्वजनवेद्याः। अतः तेषां स्वतस्सिद्धानामेव दृष्टान्तानां सामान्यजनानां बोधसौकर्याय दृढम् अवधारणाय च शास्त्रसम्बन्धसत्त्वाऽसत्त्वम् आविष्कर्तुं यत्नः स्यात्। प्रस्थानत्रयं तद्भाष्यञ्चाऽन्येऽपि वेदान्तपरिभाषादिशास्त्रीयग्रन्थाः, तत्त्वप्रदीपिका-अद्वैतसिद्ध्यादिवादग्रन्थाः अत्र प्रामाणिकत्वेन कल्पयितुं शक्यन्ते।
- दृष्टान्तपरिचयः
सादृश्यकथनेन सिद्धान्तोपस्थापनं दृष्टान्तसामान्यलक्षणम्। स च दृष्टान्तः लौकिकं शास्त्रीयञ्चेति द्विविधसिद्धान्तोपस्थापकत्वात् द्विविधः। दृष्टान्तालंकारेति साहित्यशास्त्रेषु दृष्टान्तस्य अलंकाररूपत्वमपि प्रसिद्धम्। दृष्टान्ते सादृश्यम् उपमा भवति, न्याये सः दृष्टान्तत्वेन परिचितः। सादृश्यकथनेन रसबोधः जायते चेत् तत्सादृश्यम् उपमेत्युच्यते। उपमैव काव्यस्यालङ्कारत्वेन प्रयुज्यते चेत् सा उपमालङ्कारत्वं भजते। सादृश्येन दृष्टान्तेन सह दार्ष्टान्तिकभूतस्य सिद्धान्तस्य सामञ्जस्यम् उच्यते चेत् सः दृष्टान्तपदवाच्यः। लौकिकघटनायां सादृश्यमुपलक्ष्य प्रसङ्गान्तरे तस्योल्लेखेन आशयस्य स्पष्टीकरणं न्याय इत्युच्यते। अनुमाने तावत् पञ्चावयववाक्येषु उदाहरणवाक्यं दृष्टान्तकथनाय व्यवस्थापितः। लोकसम्बद्धः इह संसारे सुप्रसिद्धः सामान्यजनविदितः दृष्टान्तः लौकिकदृष्टान्तः। कस्यचित् लौकिकविषयस्य स्पष्टतया प्रतिपादनार्थं यदा विषयान्तरस्य कस्यचिद् अन्यवस्तुनः सादृश्यं लोकतः शास्त्रतो वा निरूप्यते तादृशसादृश्यवत् वस्तु लौकिकदृष्टान्तत्वेन अभिधीयते। यथा मातृविहगो अण्डानामुपरि उपविष्टः सन् नाममात्रम् पुरस्तात् पश्यन् भवति, किन्तु वस्तुतः तस्य मनः अण्डेष्वेव वर्तते तद्वत् योगीपुरुषस्य मनः अपि सर्वदा ईश्वरे परमात्मनि एव निमग्नम् भवति, लौकिकव्यवहारः सर्वोऽपि निर्लिप्तः भवति इति। अत्र विहगदृष्टान्तेन योगिनः चित्तस्वभावः निरूपितः। अथवा माधवः युधिष्ठिरः इव सत्यभाषी। अत्र माधवस्य सत्यभाषित्वं युधिष्ठिरदृष्टान्तेन सुस्पष्टम् यत् सः कदापि कस्यामप्यवस्थायाम् असत्यभाषणं न करोतीति। शास्त्रीयदृष्टान्ताः अग्रे क्रमशः प्रतिपाद्यन्ते।
- दृष्टान्तदार्ष्टान्तिकसङ्गतिः
सर्वेऽपि दृष्टान्ताः निश्चयेन दार्ष्टान्तिकसङ्गत्यर्थाः भवन्ति। अन्यथा सः दृष्टान्तः मूर्खप्रलापवत् भवति। दार्ष्टान्तिकविषयानुगुणं दृष्टान्ताः संगृह्यन्ते। किन्तुसर्वदा दृष्टान्तस्य पूर्णांशेन सङ्गमनं न भवति, तद्भूषणम् एव। यावदंशेन साम्यम् इष्टं तावत् दृष्टान्तदार्ष्टान्तिकयोः उभयोः वर्तमानं चेत् सः समीचीनः दृष्टान्तः इति वक्तुं शक्यते। साक्षात् दार्ष्टान्तिकविषयस्यैव विस्तारेण सरलरीत्या वोधयितुं शक्यत्वेऽपि किमर्थम् आचार्याः ग्रन्थकाराः दृष्टान्तम् आश्रयन्ति इति आक्षेपः कदाचित् स्यात्। तत्रोच्यते, शिष्यः लोकप्रसिद्धेन उदाहरणेन यथा सारल्येन आचार्यहृद्गतभावम् अवगच्छति तथा न कयाऽपि अन्यया रीत्या सम्भवति। दृष्टान्तानां कारणतः दार्ष्टान्तिकावगमे सौलभ्यवर्णनपरकाः बहवः श्लोकाः सुभाषितानि च वर्तन्ते।
- कतिपयप्रसिद्धदृष्टान्तानां वेदान्तसंगतिनिरूपणम्।
- श्रीमद्भगवद्गीतायाः द्वितीयाध्याये भगवान् पुरुषस्य आत्मस्वरूपत्वं तथा शरीरानित्यत्वं वर्णयन् गाति – वासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोऽपराणि, तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही इति। अत्र भगवान् अर्जुनसदृशपण्डितस्य कृतेऽपि अत्यन्तं व्यवहारिकमिमं दृष्टान्तम् उपादिशत्। यथा वस्त्रेषु पुरातनेषु जीर्णेषु तान् परित्यज्य वयं नवानि अन्यानि वस्त्राणि धरामः तद्वदेव शरीरे जीर्णे सति जीवात्मा पुरातनं जीर्णं शरीरं परित्यज्य नूतनं शरीरं स्वीकरोति। प्रकृतप्रसङ्गे एतादृशं लौकिकदृष्टान्तं विना “जीवात्मनः मरणं नास्ति” इति तत्त्वस्य अवगमः न सरलः। एतद्दृष्टान्तप्रभावात् अत्यन्तं सुलभतया तत्त्वावगमः जातः।
- वेदान्तेषु सर्वाधिकप्रसिद्धदृष्टान्तः तावत् रज्जुसर्पदृष्टान्तः। जगतः मिथ्यात्वम् अथवा प्रतीयमानं सत्यत्वं निरूपयितुं प्रायः सर्वत्रापि वेदान्तशास्त्रे रज्जुसर्पदृष्टान्तः शुक्तिरजतदृष्टान्तः च उच्यते। प्रकृते रज्जुः ब्रह्म, सर्पः च जगत्। भ्रमवशात् रज्जौ यथा सर्पबुद्धिः तद्वत् ब्रह्मणि जगद्बुद्धिः। एवं सत्यत्वेन प्रतीयमानं जगत् न जगद्रूपेण सत्यम्, अपि तु तद् ब्रह्मरूपेण सत्यम् इति तात्पर्यम्। एतद्धि वेदान्तस्य चरमतत्त्वम्। एतादृशं गभीरतत्त्वं लौकिकरज्जुसर्पदृष्टान्तसामर्थ्यात् झटित्येव अवगम्यते। दृष्टान्तं विना तु इदं बोद्धुं सुदुष्करम्।
- ब्रह्मणः अभिन्ननिमित्तोपादानकारणतां वर्णयन् श्रीसदानन्दयोगीन्द्रसरस्वती लूतातन्तुदृष्टान्तम् उदाहरति।यथा लूता तन्तुकार्यं प्रति स्वप्रधानतया निमित्तं स्वशरीरप्रधानतयोपादानञ्च भवति इति। लूताकीटः तन्तुना जालं निर्माति। अतः तत् जालरूपकार्यं प्रति लूता निमित्तकारणम्। अपि च लूताकीटः येन तन्तुना जालं निर्माति तं तन्तुं स्वशरीरेण निर्माति। अतः तन्तुरूपोपादानत्वात् जालकार्यं प्रति लूता उपादानकारणम् अपि भवति। एवं लूताकीटः अभिन्ननिमित्तोपादानकारणं भवति। एवमेव ब्रह्म आधारीकृत्य भ्रमात् जगतः उत्पत्तिः इत्यतः उपादानकारणं ब्रह्म। तथैव ब्रह्म विहाय नास्य जगतः अन्यः कश्चन कर्ता विद्यते इत्यतः निमित्तकारणमपि ब्रह्मैव। अत्रापि अत्यन्तं सूक्ष्मतत्त्वसमृद्धं विषयं लोकप्रसिद्धेन दृष्टान्तेन सरलरीत्या उपवर्णितम्।
- शास्त्रेषु दृष्टान्ततत्त्वम्
- न्यायशास्त्रे दृष्टान्तस्वरूपम्
महर्षिः गौतमः दृष्टान्तस्वरूपनिरूपणाय सूत्रं प्रणिनाय –“लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः”[15] इति। अत्र लौकिकास्तावत् बोद्धारो वादिनो वा। परीक्षकाः च वोधयितारः प्रतिवादिनो वा । यत्रार्थे पक्षप्रतिपक्षयोः समाना बुद्धिरस्ति स दृष्टान्तो भवति। लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्त इति गौतमसूत्रेण दृष्टान्तवस्तुनः सुस्पष्टं स्वरूपं समुपलभ्यते। यत्र विषयज्ञानरहितानां तथा तद्विषयज्ञानां मतसाम्यम् कस्मिंश्चिद् विषयान्तरे भवति तदा स दृष्टान्तो भवति। यथा युधिष्ठिर सत्यभाषी इत्येतस्मिन् विषये सर्वेषां मतसाम्यं भवत्यतो युधिष्ठिरः इति दृष्टान्तत्वेन स्वीकृतः। लौकिकाः बोद्धारः सर्वशास्त्रज्ञानहीनाः स्युरिति तु न युज्यते। अपि तु तत्तत्शास्त्रज्ञाः शास्त्रान्तरज्ञानहीनत्वात् तत्र लौकिकाः भवन्ति। अत्र तु न्यायशास्त्रे प्रविविक्षुः लौकिकः। तथा न्यायशास्त्रज्ञाः अत्र परीक्षकाः। अथवा लौकिकशब्देन प्रतिपक्षमतानुसारी तथा परीक्षकशब्देन पक्षमतानुसारी निर्दिष्टौ । तेन दृष्टान्तस्य लक्षणार्थस्तावत् यस्मिन् विषये पक्षप्रतिपक्षयोः बुद्धिसाम्यं स दृष्टान्त इति। अयञ्चार्थः साक्षाद् गौतमसूत्रादेवोपलभ्यते। किन्तु न्यायभाष्यवार्तिकादिष्वस्यार्थविस्तारः अर्थपार्थक्यञ्च उपलभ्येते। अनुमानावसरे बोद्धुः बोधयितुश्च दृष्टान्तज्ञानं प्रत्यक्षेण भवेत्। अनुमितिः दृष्टान्ताश्रिता भवति इति हेतोः प्राक् दृष्टान्तज्ञानं स्यात्तदुत्तरञ्चानुमितिः शक्यते। किन्तु दृष्टान्तः सर्वदा प्रत्यक्षविषयो भवेदिति नियमो नास्ति अतीन्द्रियपदार्थानामपि दृष्टान्तत्वात्। अत एव भाष्यकाराः यद्यपि पूर्वं “प्रत्यक्षविषयोऽर्थो दृष्टान्त” इति प्रोचुः, तथापि एतत्सूत्रव्याख्यानावसरे लिखन्ति “यत्र लौकिकपरीक्षकाणां दर्शनं न व्याहन्यते”[16] इति। तात्पर्यटीकाकाराणां मतं तावत्- न हि सर्वः प्रत्यक्षविषयो दृष्टान्तो भवति, न वा सर्वो दृष्टान्तः प्रत्यक्षविषयो भवतीति। कदाचिदप्रत्यक्षीकृतानाम् आगमादिनां अपि दृष्टान्तत्वं परिलक्ष्यते। तथा च यः प्रत्यक्षविषयो भवति स दृष्टान्तो भवेदेवेति नियमो नास्ति।
- योगशास्त्रे
पृथक्तयोपमानप्रमाणं नाङ्गीक्रियते किन्तु अनुमानप्रमाणे दृष्टान्तस्योपयोगः क्रियते। अन्यथा दृष्टान्तं विना अनुमितेः अनुपपत्तिः स्यात्। अनुमेयस्य पदार्थस्य सामान्यजातीयेषु अनुवृत्तस्तथा भिन्नजातीयेषु व्यावृत्तः सम्बन्धोऽनुमानप्रमाणमिति व्यासभाष्ये उच्यते। तत्रानुमानस्योदाहरणं प्रोक्तं यथा देशान्तरप्राप्तेः गतिमञ्चन्द्रतारकं चैत्रवत्, विन्ध्यश्चाप्राप्तिरगतिः इति। चैत्रवत् इत्यत्र दृष्टान्तत्वं प्राप्यते। विन्ध्यपर्वतो व्यतिरेकदृष्टान्तः। अपि च चैत्रस्य गतिमत्त्वे तथा देशान्तरप्राप्तित्त्वे बोद्धवोधयित्रोः समाना बुद्धिरस्ति। अतो लौकिकपरीक्षकाणामिति न्यायोक्तलक्षणं दृष्टान्ते युज्यते।
- सांख्यशास्त्रे
सांख्यमते दृष्टान्तो नाम – येन दृष्टोऽर्थात् प्रत्यक्षीकृतः स दृष्टान्तः। अथवा सिद्धान्तः स्पष्टतया ज्ञायते वर्ण्यते येन स दृष्टान्तः। सांख्यकारिकायां तथा तद्व्याख्यायां कौमुद्यां पवन्धदृष्टान्तः प्रसिद्धो वर्तते। तत्र पङ्गुना सह पुरुष उपमितस्तथा चान्धेन सह प्रधानमुपमितम्। पङ्गुः स्वयं न गन्तुमर्हति किन्तु पश्यति तस्मादन्यं प्रति मार्गं प्रदर्शयति, अपि चान्धः स्वयं न पश्यति किन्तु गन्तुमर्हति, स्कन्धाभ्यां चान्ये नेतुं शक्नोति। तथा सांख्यपुरुषः केवलं पश्यति, न किमपि करोति किन्तु प्रधानं कर्तुं प्रवर्तते, न तु पश्यति। अतः पङ्घन्धौ परस्परसाहाय्येन गन्तव्यं स्थानं यथा गन्तुमर्हतस्तथा प्रधानपुरुषौ परस्परसाहाय्येन कैवल्यं स्वेष्टं साधयतः।
पङ्ग्वन्धदृष्टान्त इत्यस्य स्थाने पङ्ग्वन्धन्याय इति कथनं वरं भाति। यत्र तु पदार्थमात्रमाश्रित्य धर्ममात्रमाश्रित्य वा विषयः प्रतिपाद्यते तत्र दृष्टान्तकथनं युक्तम्। अथवा व्याप्तिमाश्रित्य यत्र विषयः प्रतिपाद्यते तत्र दृष्टान्त इत्युच्यते। यत्र पुनः प्रसिद्धघटनाया विशेषांशमधिकृत्य विषयः प्रतिपाद्यते तत्र न्याय इत्युच्यते। अत्रापि पङ्ग्वन्धदृष्टान्तापेक्षया पङ्ग्वन्धन्याय इति विशेषतया युक्तियुक्तं भाति। पङ्ग्वन्धयोः परस्परसाहाय्यरूपघटनामश्रित्यैव प्रधानपुरुषयोः परस्परसाहाय्यं प्रतिपाद्यते। अर्थाद्यत्र घटनासाम्यं तत्र न्यायत्वं, यत्र च धर्मसाम्यं तत्र दृष्टान्तत्वम्। तत्रैव सांख्यकारिकायां प्रदीपवच्चार्थतो वृत्तिरित्युक्तम्। अतः प्रदीपवदिति दृष्टान्तोऽथवा न्याय इति विचारणीयः। प्रदीपे तैलादिपदार्था अङ्गभूता भवन्ति, तथा च ते पदार्थाः परस्परसहायकतया प्रदीपप्रज्वलने उपयोगिनोऽपि। अतोऽङ्गपदार्थत्वोपयोगिपदार्थत्वयोर्व्याप्तिर्विद्यते। तस्मादृष्टान्त इति वक्तुं शक्यते। दार्शन्तिकं तु प्रधानं भवति। तत्रापि अनयोर्व्याप्तिः साध्यते। प्रधाने सत्त्वरजस्तमांसि पदार्था अङ्गभूताः, तेषां साम्यावस्था प्रधानस्य प्रधानत्वे कारणं भवत्यतस्ते पदार्था उपयोगिन इति साध्यते।
- मीमांसाशास्त्रे
विश्वजिन्न्यायः मीमांसाशास्त्रे प्रसिद्धः वर्तते। यदा कस्यचिद्यागस्य फलमनुक्तं भवति तदा स्वर्गफलं स्वीकृतं भवति विश्वजिन्न्यायेन। अपि च तत्प्रख्यन्यायो मीमांसाशास्त्रे एवागच्छति। यथाग्निहोत्रं जुहोति स्वर्गकाम इत्यत्र संशयो विद्यते यद्वाक्यमिदं विधिवाक्यमथवा नामधेयवाक्यमिति। यस्य विधानमन्यत्र विद्यते तस्य तत्प्रख्यन्यायेन वाचकत्वमन्यत्र। न्यायोक्तं दृष्टान्तलक्षणं पञ्चावयवयुतानुमानप्रयुक्तदृष्टान्ते सहजतयान्वेति। अन्यत्रापि अन्वयो भवति किन्तु किञ्चिद्विमर्शपूर्वकम् अन्वयः कर्तव्यः। तथापि लौकिकपरीक्षकाणामित्यादिद्वितीयलक्षणस्यान्वयो भवत्यत्र। विश्वजिन्न्यायो लौकिकपरीक्षकज्ञातः। अतो विश्वजिन्न्यायविषये बुद्धिसाम्यं तयोः। तस्मादृष्टान्तत्वं विश्वजिन्यायस्यापि। तथा च यदा तत्प्रख्यन्यायविषये लौकिकपरीक्षकयोर्बुद्धिसाम्यं तद तत्प्रख्यस्यापि दृष्टान्तत्वम् ।
- व्याकरणशास्त्रे
व्याकरणे दृष्टान्तस्वरूपविषये लक्षणप्रकथनपुरस्सरं वर्णनं नोपलभ्यते। यद्यपि तत्र दृष्टान्तानाम् उपयोगः भूयशः दृश्यते। एतेन अनुमातुं शक्यते यत् न्यायशास्त्रोक्तस्य दृष्टान्तस्वरूपलक्षणस्य व्याकरणे अपि समानता। सूत्रव्याख्यानशैलीनिर्वचनावसरे पतञ्जलिमहर्षिणा उच्यते व्याख्याने उदाहरणं प्रत्युदाहरणं वाक्याध्याहारश्च आवश्यकः इति। प्रयोगरत्नमालायां व्याख्यानविषये उच्यते-
उदाहृतिः पदकृतिः पदार्थानां विवेचनम्।
तन्त्राणां त्रिविधा व्याख्या शिशूनां शीघ्रबोधनी॥ इति।
वाक्यपदीये प्राप्यते- “अरणिस्थं यथा…”[17] इत्यादिवाक्यम्। बुद्धिस्थः शब्दः श्रुतौ कारणम्, अरणिरथज्योतिर्यथा प्रकाशस्य कारणं भवतीत्यर्थः। अरणिस्थज्योतिर्मन्थनात् परं बहिरागत्य प्रकाशं करोति तथैव बुद्धिस्थः शब्दः श्रोतृजनानां श्रवणेन्द्रियेण बुद्धिं प्राप्यार्थज्ञानं जनयति। अरणिस्थज्योतिर्विषये बुद्धिसाम्यं भवत्यतो दृष्टान्तत्वं तस्य। अपि च प्रासादवासिन्यायो” महाभाष्ये प्राप्यते। अनुनासिकवर्णा मुखसहितनासिकया उच्चार्यमाणा भवन्तीति ज्ञापयितुं महामुनिः पतञ्जलिरस्य न्यायस्य प्रयोगं कृतवान्। यथा ये उभयवासिनस्ते प्रासादवासिग्रहणेन भूमिवासिग्रहणेन च गृह्यन्ते। तथैव अनुनासिकवर्णा उभयवचनास्तस्मात्ते मुखवचना नासिकावचनाश्च भवन्ति। अत्र प्रासादवासीति दृष्टान्तो लौकिकपरीक्षकाणां बुद्धिसाम्यात्।
- साहित्यशास्त्रे
साहित्यदर्पणे उच्यते “साम्यं वाच्यमवैधर्म्य वाक्यैक्य उपमा द्वयोः”[18] इति। अर्थादेकस्मिन् वाक्ये द्वयोः पदार्थयोः (उपमानोपमेययोः) वैधर्म्यं विना केवलं साम्यकथनमुपमेति। तत्रैवोक्तं कविराजेन मुखमित्युपमेयपदार्थस्तथा चन्द्र इति उपमानपदार्थः। चन्द्र इव मुखमिति वाक्ये सादृश्यमात्रमुच्यते, तेन मुखस्य प्रशंसापि क्रियते। अपि चोपमानोपमेययोर्वैधर्म्य नोक्तम्। अत उपमालङ्कारः। काव्यप्रकाशे प्राप्यते यत्र उपमानोपमेयसाधारणधर्माणां निश्चयो दृष्टः सः दृष्टान्तः इति। तथा च रसगङ्गाधरे समानम् एव दृष्टान्तत्वम् उक्तं साधारणधर्मः प्रतिबिम्बितो भवतीति।
कविराजविश्वनाथः रामादिवत्प्रवर्तनीयं न रावणादिवदिति कृत्याकृत्यज्ञानं काव्याद्भवतीति कथनावसरे सादृश्यप्रयोगं कृतवान्। रामादिवदर्थाद्यथा रामादीनां सज्जनानां प्रवृत्तिस्तथास्माकं प्रवृत्तिर्भवेत्। न तु रावणादिवदर्थाद्रावणादिधूर्तजनानां यथा प्रवृत्तिस्तथा प्रवृत्तिरस्माकं न भवेदिति व्यतिरेकदृष्टान्तः।
अलङ्कारशास्त्रे दृष्टान्त इति कश्चनालङ्कारोऽपि भवति। दर्पणकारो वदति दृष्टान्तो नाम सधर्मस्य वस्तुनः प्रतिबिम्बनम्। तत्रोदाहरणं प्रदत्तम् अविदितगुणापीत्यादिश्लोकः। अर्थाद्यथा मालतीमाला सुगन्धज्ञानरहितस्यापि जनस्य दृष्टिं हरत्येव तथा सुकविकृतकाव्यं गुणज्ञानरहितस्य कर्णे मधुधारां किरत्येवेति। अत्र सुकवेर्भणितिः बिम्बरूपा भवति तथा तस्याः प्रतिबिम्बरूपा भवति मालतीमाला।
साहित्यदर्पणे प्रोक्तं कटुकौषधेत्यादिवाक्यम्। कटुकौषधमथवा सितशर्करा लोकप्रसिद्धावेव विषयौ। तस्मात्तस्य वाक्यस्य लौकिकपरीक्षकाणामित्यादिदृष्टान्तलक्षणेन दृष्टान्तत्वमस्ति। एवमेव प्रोक्तश्चन्दनस्पर्शज्ञानदृष्टान्तः। एकस्मिन् समये कारणज्ञानकार्यज्ञानयोर्युगपत्सद्भावो न सम्भवतीति ज्ञापयितुं प्रयुक्तो दृष्टान्तः।
- वेदान्तशास्त्रे
न हि दृष्टान्तदार्शन्तिकयोरत्यन्तसाम्येन भवितव्यमिति नियमोऽस्तीति, न च द्रव्यस्य द्रव्यमेवोदाहर्तव्यमिति, सर्वसारूप्ये हि दृष्टान्तदाष्र्शान्तिकभावोच्छेद एव स्याद् इति च शङ्कराचार्यों ब्रह्मसूत्रभाष्ये प्रोक्तवान्, तथा च श्रीमद्भगवद्गीतायाम् अपि। अर्थादृष्टान्तदार्ष्टान्तिकयोः सर्वधर्मसमानताया आवश्यकता न भवति किन्त्वेकदेशसादृश्यस्य अपेक्षास्ति। यदि स्थूलाः पृथिव्यादयो दृष्टान्ताः स्युस्तर्हि दार्शन्तिकोऽपि सर्वदा स्थूलो भवेदिति नियमो नास्ति। विवक्षितार्थे समानता आवश्यकी। यथा दार्शन्तिकस्य ब्रह्मणो देवा दृष्टान्ता भवन्ति यद्यपि बहवो भेदाः सन्ति। देवाः शरीरवन्तो भवन्ति किन्तु ब्रह्मणः शरीरं नास्ति। तथाप्यनयोः दृष्टान्तदाष्र्शन्तिकभाव उपपद्यते। यतो हि विवक्षितांशे समानता विद्यते एव। सा च समानता यथा कार्यारम्भे देवादयः बाह्यं साधनं नापेक्षन्ते तथा ब्रह्मापीति। अद्वैतसिद्धौ मधुसूदनाचार्यश्च प्रोक्तवान् सर्वसाम्यस्य दृष्टान्तत्वाप्रयोजकत्वादिति। अर्थात् शङ्कराचार्यसमानमतमेवानूक्तं तेन। तत्रैव तेनैव चोक्तम् उभयवादिप्रतिपन्नस्य दृष्टान्तस्य लाभाच्चेति। न्यायशास्त्रे यदुक्तं वादिप्रतिवादिनां यत्रार्थे बुद्धिसाम्यं स दृष्टान्त इति तदेवात्रापि प्रोक्तमुभयवादिप्रतिपन्नस्येति।
यद्यपि दृष्टान्तलक्षणं न्यायशास्त्रे प्राप्तं तथापि समन्वयः शास्त्रान्तरेषु प्राप्यते । तस्मात्सम्यगेवोक्तं यत्, न्यायशास्त्रं सर्वशास्त्रोपकारकमिति । दृष्टान्तविषये यल्लक्षणमुक्तं लौकिकपरीक्षकाणामिति तदेव युक्ततमं भाति। साध्यसाधर्म्यादित्यत्र तूदाहरणलक्षणमुक्तम्। तस्मादुक्तञ्च उद्योतकारेण साध्यसाधर्म्यादित्यादिलक्षणसूत्रे दृष्टान्तपदम् उदाहरणपदविशेषणं भवतीति। तेन तस्य लक्षणस्य उदाहरणविषयत्वमुक्तं भवति। तर्हि किं तावत् दृष्टान्तलक्षणमिति चेल्लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः इति।
- पौरुषेयत्वेऽपि कथामृतस्य अपौरुषेयज्ञानप्रतिपादकत्वम्
श्रीरामकृष्णकथामृतग्रन्थः अद्यत्वे आध्यात्मिकक्षेत्रे सुप्रसिद्धः। बङ्गभाषामूलत्वेपि संस्कृताङ्गलमाराठ्यादिषु नैकासु भाषासु ग्रन्थस्यास्य भावानुवादः कृतः विद्वद्भिः। मयाऽप्ययं ग्रन्थः भूयशः पठितः। अत्र सामान्यतो अवलोक्यमाने कस्यचित् महापुरुषस्य साधकस्य जीवनचरितं, वाणी, उपदेशः सङ्कलितः इति दृश्यते। किन्तु अत्र को विशेषः येन एतद्विषये जनानां एतादृशी श्रद्धा। किं वा अत्र सामान्यजीवनचरितम् अतिरिच्य वर्तते येन वैदेशिकानामपि कथामृतविषये एतादृशं कुतूहलम्। किं वा अस्मिन् ग्रन्थे तादृशं विशिष्टं तत्त्वं वर्तते येन एतदाधारेण नैकानि शोधकार्याणि सञ्जातानि। श्रीरामकृष्णपरमहंसाः लौकिकपुस्तकायत्तविद्यार्जनं विनैव शास्त्रनिहितनिगूढतत्त्वसमृद्धोपदेशं चक्रुरिति आश्चर्यमिदम्। अपि च कथं ग्रन्थाध्ययनं विना शास्त्रं सम्भवति इत्यादीनां बह्वीनां जिज्ञासानां समाधानाय कथामृतदुग्धस्य मन्थनमेव पन्था।
श्रीरामकृष्णवचनानां प्रामाण्ये श्रीरामकृष्णाऽननुगामिनां जनानां, सम्प्रदायविशेषाणां वा ये आक्षेपाः ते किं वस्तुतः शास्त्रयुक्तिसमृद्धाः उत भगवतः श्रीरामकृष्णस्य ब्रह्मज्ञानित्वात् लोकायत्तविद्यां विनापि “ब्रह्म वेद ब्रह्मैव भवति”[19], “यः सर्वज्ञः स सर्वविद्”[20] इत्यादिश्रुत्यनुसारं सर्वज्ञत्वे सिद्धे तद्वचनानाम् अपि प्रामाण्यम् इत्यादिसंशयनिरसनार्थमपि तदुक्तवचनानां परिशीलनम् आवश्यकम्। ब्रह्मवित्त्वादेव ज्ञानस्वरूपत्वात् दृष्टान्तकथनमपि ज्ञानरूपमेव अतः ज्ञानरूपवेदाभिन्नमिति व्यवस्थापने यत्नः स्यात्। एवञ्च यद्यपि श्रीश्रीरामकृष्णकथामृतग्रन्थः श्रीश्रीरामकृष्णपरमहंसलीलास्वरूपवर्णनपरः श्रीमहेन्द्रनाथमहोदयेन विरचितः पौरुषेयः ग्रन्थः अथापि एतन्निहिततत्त्वानि तु अपौरुषेयब्रह्मबोधकानि इति विशेषोऽस्य ग्रन्थस्य।
- श्रीरामकृष्णपरमहंसवचनानां गूढतत्त्वनिहितत्त्वात् सामान्यजनदुर्बोध्यत्वात् च तेषां बोधार्थं शास्त्रयुक्तिपुरस्सरम् अर्थविन्यासः अपेक्षते। तदर्थं कश्चित् तथाभूतः शोधः अपेक्षते येन समेषां बोधसौकर्यं स्यात्।
- शास्त्राणि तत्त्वभूरिष्ठानि भवन्तीति तेषां बोधः न सर्वेषां तथा सुकरो भवति। अतः शास्त्रकाराः बोधसौकर्याय स्पष्टप्रतिपत्तये च आवश्यकस्थलेषु यथायथं दृष्टान्तम् उदाहृत्य दार्ष्टान्तिके शास्त्रीयविषये समन्वयं प्रदर्शयन्ति। एवं श्रीरामकृष्णपरमहंसोपदिष्टदृष्टान्तानां कथं शास्त्रीयतत्त्वैः समन्वयः इति जिज्ञासायाः शमनम् अपि एतत्परिशीलनद्वारा एव भवितुमर्हति।
- कथामृतग्रन्थाधारेण इतः प्राक् यानि शोधकार्याणि सम्पन्नानि तेषु दृष्टान्तानां तथा प्राधान्यम् नास्ति। अतः विशेषतः दृष्टान्तान् आधारीकृत्य वेदान्तदृष्ट्या परिशीलनम् आवश्यकम् इति मे मतिः।
- आधुनिकचिन्तनानुगुणं चार्वाकादियुक्तिसमृद्धं तथाकथितं विज्ञानं समाश्रित्य विचारे क्रियमाणे तु श्रीरामकृष्णपरमहंसोक्ताः दृष्टान्ताः सर्वेऽपि न सप्रासंगिकतां शास्त्रीययुक्तिसिद्धतां वा आपाततः भजेरन्। भगवतः श्रीरामकृष्णपरमहंसस्य दृष्टान्तप्रकथनस्य का शैली, कथं समानमेव विषयं बोधयितुम् अधिकारिभेदेन भिन्नतराः दृष्टान्ताः चिताः, कथं प्रत्येकस्मिन् वाक्ये सामान्यार्थान् अतिरिच्य शास्त्रतत्त्वानि निहितानि भवन्ति इत्येतत्सर्वम् अविचार्य एव यदि रामकृष्णशास्त्रे दोषापत्तिः कल्प्यते चेत् सः बालिशव्यवहारः। अतः कथामृते प्रयुक्तानां दृष्टान्तानां विशिष्टाध्ययनेन तेषां स्वरूपम्, अधिकारिभेदे विषयभेदे च तेषां भिन्नता इत्यादिविषयकः विचारः अवश्यं स्यात् येन श्रीश्रीरामकृष्णपरमहंसानां दृष्टान्तप्रणयनस्य शैली तात्पर्यञ्च निर्धारयितुं शक्यम्।
- न क्वापि शास्त्रे सर्वशास्त्रगतं दृष्टान्ततत्त्वम् एकत्र समुपलभ्यते। वस्तुतस्तु न्यायशास्त्रं विना न कुत्रापि तथा स्पष्टतया विस्तारेण दृष्टान्तविषये विचार्यते। श्रीरामकृष्णपरमहंसानां तत्त्वभूरिष्ठान् दृष्टान्तान् अवगन्तुं कस्मिन् स्तरे तात्पर्यार्थः अन्वेषणीयः येन दृष्टान्तदार्ष्टान्तिकयोः सम्बन्धः यथावत् अवगम्येत इति प्रकृतदृष्टान्तानां परिशीलनापेक्षा वर्तत एव। तदैव परमहंसप्रयुक्तदृष्टान्तानां प्रयोगस्वारस्यम् अवगम्यते।
निष्कर्षः –
रामकृष्णपरमहंसदेवस्य समग्रं वाङ्मयमवलोक्य ममेदं प्रतिभाति यत् शाङ्कराद्वैतिनामेव तत्त्वं यथा दक्षिणदेशे रमणमहर्षिः प्रतिपादितवान्, शाङ्करं मतमपठित्वा एव तथैव भगवान् रामकृष्णदेवः अपि शाङ्करं मतमेव निरूपितवान् इति। यतो हि शाङ्करं मतमिति अधुना प्रसिद्धमद्वैतदर्शनं न खलु शङ्करभगवत्पादप्रणीतम्, अपि तु ते स्वीयप्रस्थानत्रयभाष्यव्याख्यानेन लोके विनष्टप्रायस्य वेदमार्गस्य पुनःस्थापनार्थं वेदान्तस्य प्रचारमेव कृतवन्तः। तस्मात् गीतासु उक्तप्रकारेण “एवं परम्पराप्राप्तमिमं राजर्षयो विदुः, स कालेनेह महता योगो नष्टः परंतप”[21] इति सर्वदा विद्यमान एवाऽयं योगः शिष्याणां बुद्धिशुद्धये आधुनिकानाम् अवगमाय च कालेन नष्टः आधुनिकानां बोधानुकूलया शैल्या रामकृष्णदेवेन निरूपितः इति अस्मन्मतम्। तत्र लोकभाषाप्रभावात् लौकिकाः दृष्टान्ताः अधिकाः सन्ति इति च अवगच्छामः। एतच्च मतं शास्त्रसम्मतम् इति निश्चयावधारणार्थं तथा लोककल्याणार्थम् एतद्ग्रन्थोक्तदृष्टान्तानां वैदान्तिकदृष्ट्या परिशीलनम् अत्यन्तमावश्यकम् इति शम्।
आश्रितग्रन्थसूची(Bibliography)
॥ संस्कृतपुस्तकानि ॥
- श्रीश्रीरामकृष्णकथामृतम्॥ Ramakrishna Math & Ramakrishna Mission॥ Trio Process। Kolkata। 700014॥1st Edition। 4th August 2015॥
- शास्त्री। जगदीश॥ ब्रह्मसूत्रशांकरभाष्यम्॥ मोतीलाल बनारसीदास। कोलकाता। 6th Reprint । 2018॥
॥ हिन्दीपुस्तकानि॥
- ईशादि नौ उपनिषद्॥ गीताप्रेस। गोरखपुर। 12th Edition। 2017॥
॥ बङ्गीयपुस्तकानि ॥
- বিশ্বরূপানন্দ।স্বামী॥ বেদান্তদর্শন॥ উদ্বোধন কার্যালয়।কলকাতা।700030॥ November 2008॥
- শ্রীশ্রীরামকৃষ্ণকথামৃত॥ রামকৃষ্ণ মঠ ও মিশন॥ উদ্বোধন কার্যালয়।কলকাতা।রমা আর্ট প্রেস।700030॥ june 2022॥
- ভূতেশানন্দ। স্বামী॥ শ্রীশ্রীরামকৃষ্ণকথামৃতপ্রসঙ্গ॥ উদ্বোধন কার্যালয়। কলকাতা। 700030॥ October 2021॥
॥ आन्तर्जालीयतथ्यसूत्राणि ॥
- अद्वैतशारदा – https://advaitasharada.sringeri.net/
- Archive – Internet Archive: Digital Library of Free & Borrowable Books, Movies, Music & Wayback Machine
- Gita Supersite – https://www.gitasupersite.iitk.ac.in/
- विकीस्रोतः – विकिस्रोतः (wikisource.org)
- Sanskrit Document Sanskrit Documents Collection : Home Page
सन्दर्भाः
[1]. (ईश- 15)
[2]. (केन- खण्ड 3, मन्त्र 1)
[3]. (कठ- वल्ली 2, मन्त्र 25)
[4]. (कठ- वल्ली 3, मन्त्र 3)
[5]. (कठ- वल्ली 5, मन्त्र 1)
[6]. (कठ- वल्ली 5, मन्त्र 15)
[7]. (कठ- वल्ली 6, मन्त्र 1)
[8]. (प्रश्न- 2, मन्त्र 2)
[9]. (मुण्डक 1, खण्ड 1, मन्त्र 7)
[10]. (मुण्डक 2, खण्ड 1, मन्त्र 1)
[11]. (मुण्डक 3, खण्ड 1, मन्त्र 1)
[12]. (मुण्डक 3, खण्ड 2, मन्त्र 8)
[13]. (ब्रह्मसूत्रम् – 1.4.23)
[14]. (गीता – 3.38)
[15]. (न्यायसूत्रम् – १.२५)
[16]. (न्यायसूत्रम् – १.१.२५)
[17]. (वाक्यपदीयम् – 1.46)
[18]. (साहित्यदर्पणम् – १०.१४)
[19]. (मुण्डकोपनिषत् – ३.२.९)
[20]. (मुण्डकोपनिषत् – २.२.७)
[21]. (गीता – 4.2)
