श्रीमद्भागवते धर्मातीतस्थितेः परिकल्पना

सामवेदं वि.के.एल्.नरसिंहाचार्युलु
शोधच्छात्रः,पुराणेतिहासविभागः,
राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः
svklncharyulu@gmail.com
Contact Number – 7386780027

श्रीमद्भागवते मुक्तिलाभोपायः विशेषतः विवृतः। मुक्तिलाभः एव मनुष्यजीवनस्य मुख्योद्देश्यः। किन्तु अस्मिन् मायाविरचिते संसारे मुक्तिलाभः आयासेन भवितुं नार्हति। कालबद्धः मायाबद्धः जीवः सर्वदैव मायया परिचालितः भवति, जगति सुखभोगः एव सर्वोत्कृष्टः इत्यस्मिन् विषये सर्वेषां जीवानामनुभवः समानः एव। धर्मशास्त्रमार्गे गर्भसंस्कारादारभ्य  मृत्युपर्यन्तं ये संस्काराः प्रोक्ताः ते भगवत्प्राप्तेः मार्गं दर्शयन्ति। अतः मनुष्यः चतुराश्रमान् अवश्यं परिपालयेत्। किन्तु चतुराश्रमस्य कश्चनः नियमः वर्तते, तस्य परिपालनं न सर्वदा सम्भवति। अन्येषु मार्गेष्वपि सर्वेषामधिकारः न वर्तते। तर्हि भगवत्प्राप्तये न कश्चन मार्गः अवशिष्टः इति चेन्न। भक्तिमार्गः। भक्तिमार्गेण भगवत्प्राप्तिः एवं ततः मुक्तिलाभः इति विषयः भागवतपुराणे वरीवर्ति। आयासेन विविधदृष्टान्तद्राष्टान्तिकोपायेन बद्धजीवं मुक्तेः मार्गं प्रदर्शयति। नारदीयभक्तिसूत्रे “त्रिसत्यस्य भक्तिरेव गरीयसी भक्तिरेव गरीयसी[1]” इत्युक्तम्। भगवत्प्राप्तर्थे शास्त्रेषु यानि साधनानि प्रोक्तानि तेषु भक्तिरेव सुगमः सर्वश्रेष्ठः उपायः। अत उच्यते – भक्तिप्रियो माधवः। अन्येषु शास्त्रेषु प्रोक्तः उपायः कठिनः, साधारणानामधिकारः अपि कदाचित् तत्र न भवति। अतः भक्तिमार्गः एव कश्चित् मार्गः यत्र आर्द्रभावेन भगवतः आह्वानं क्रियते तदा भगवान् स्वयं भक्तस्य हृदये आविष्टः भवति। या सिद्धिः युगयुगान्तरेण योगसाधननेन न सम्भवति भक्त्या क्षणे सम्भवति। अतः नारदमुनिना भक्तिः मुक्तौ सर्वोत्कृष्टमार्गः इति प्रोक्तः।

नारदभक्तिसूत्रानुसारेण भक्तिः एकादशधा भवति। अतोच्यते – “गुणमाहात्म्यासक्ति-रूपासक्ति -पूजासक्ति- स्मरणासक्ति- दास्यासक्ति- सख्यासक्ति- कान्तासक्ति – वात्सल्यासक्ति-  आत्मनिवेदनासक्ति – तन्मयासक्ति -परमविरहासक्ति-रूपैकधाप्येकादशधा भवति।[2]

यः यमिच्छति, सः तस्य सकलचेष्टादिकं प्रीणाति। तथैव भक्तः भगवति सर्वप्रकारेण आसक्तः भवति। तथापि केषाञ्चन भक्तानां भगवतः विशेषभावे आसक्तिः भवति। यथा -परीक्षितः, नारदमुनिः, हनुमान्। एते भगवतः गुणमाहात्म्ये आसक्ताः आसन्। राजा पृथुः पूजासक्तः, प्रह्लादः स्मरणासक्तः, अक्रूरः दास्यासक्तः, अर्जुन-सुग्रीव-उद्धव-कुबेर-सुबल-श्रीदामादयः सख्यासक्ताः, व्रजगोपिकाः कान्तासक्ताः, नन्द-यशोदा-कौशल्या-दशरथादयः वात्सल्यासक्ताः, बलिः आत्मनिवेदनासक्तः । यद्यपि साधनया भगवान् ब्रह्मा, विष्णुः, शिवः नारायणः इत्येतेषां रूपं द्रष्टुं शक्यते। किन्तु भक्त्या भगवतः सर्वोत्कृष्टरूपं द्रष्टुं शक्यते। भगवतः प्रियतमरूपस्य वर्णनमेवं कृतं वर्तते –“प्रेयो वित्तात्प्रेयः पुत्रात्प्रेयोऽन्यस्मात् सर्वस्मादान्तरतरं तदयमात्मा।”

भक्तियुक्तानां भगवतः विषये अधिकप्रीतिः इति तु ज्ञायते, किन्तु तत्रापि आचारादिकं शिष्यते। किन्तु यदा भगवद्विषये अतीवभक्तिः संभवति तदा शास्त्रोक्ताचारादिकानां परिपालनस्य स्थितिरपि न भवति। अत एव उच्यते “अतीव भक्तियुक्तानां न शास्त्रं न च क्रमः”। अर्थात् यदा भक्तेः पराकाष्ठां प्राप्नोति तदा शास्त्रे प्रोक्तविषयाः तेषां कृते व्यर्थाः भवन्ति। उदाहरणस्वरूपेण श्रीरामकृष्णपरमहंसदेवः। यद्यिप स जात्या ब्राह्मणः आसीत् तथापि स यज्ञोपवीतं त्यक्तवान्, आमीषभक्षणं शास्त्रे निषिद्धं किन्तु तस्य जीवनशैलीविचारेण ज्ञायते यत् शास्त्रोक्तविषयाणां परिपालनं तेन न कृतम्। शास्त्रोक्तविषये तेषां रूचिरेव नास्ति।  परमात्मनि सर्वदैव लीनः भवति। परब्रह्म एव सत्यम् अन्यत् सर्वमसत्यमिति तेषां विचारः। लौकिकाचारे तेषां मतिः न प्रविशति। एषा अवस्था एव अवधूतावस्था  इति प्रोच्यते।

अवधूतावस्था –

श्रीमद्भागवतपुराणे विविधस्थानेषु अवधूतावस्थायाः वर्णनं लभ्यते। का नाम अवधूतावस्था इत्यस्मिन् विषये प्रोच्यते अवधूतगीतायाम् –

रथ्याकर्पटविरचितकन्थः पुण्यापुण्यविवर्जितपन्थः।

शून्यागारे तिष्ठति नग्नो शुद्धनिरञ्जनसमरसमग्रः।। [3]

अर्थात् यस्य रसस्य अथवा आनन्दस्य कदापि नाशः न भवति, स सर्वदा परमानन्दे लीनः भवति स अवधूतः। यः रथ्याकर्पटविरचितकन्थः भवति अपि च पुण्यपापविवर्जितमार्गात् विच्छिन्नः सन् शून्यमन्दिरे नग्नः अवधूतः तिष्ठति। यतो हि सः शुद्धचित्तयुतः एवं मायया अबद्धः भूत्वा स तिष्ठति।

अवधूतवस्थायाः वर्णनं भागवते एवं प्रोक्तं – “एवमनुशास्यात्मजान् स्वयमनुशिष्टानपि लोकानुशासनार्थं महानुभावः परमसुहृद्भगवानृषमापदेश उपशमशीलानामुपरतकर्मणां महामुनीना भक्तिज्ञानवैराग्यलक्षणं परमहंस्यधर्ममुपशिक्षमाणः स्वतनयशतज्येष्ठं परमभागवतं प्रकीर्णकेश आत्मन्यारोपिताहवनीये ब्रह्मावर्तात्प्रवव्राज।[4]” अर्थात् स्वयमनुशिष्टान् हेयोपादेयविभागज्ञानमप्यात्मजान् लोकानुशासनार्थं लोकस्य विविच्य ज्ञापनार्थमेवमनुशास्य स महाप्रभावः सर्वभूतसुहृद्भगवान् ऋषभ इत्यपदेशो व्यवहारो यस्य सः परमहंसाः ब्रह्मविदः तेषां धर्म भक्त्यादिरूपमुपशिक्षयिष्यन् भरतं भूमण्पालनायामभिषिच्य ब्रह्मावर्तात् स्वदेशात्प्रवव्रजे। केषामुपशिक्षयिष्य न् मुनीनां शुभाश्रयमननशीलानां कथम्भूतानाम् उपरतकर्मणां निवृत्तप्रवृत्तिधर्माणामुपशमशीलानां बाह्यान्तःकरणनियमशीलानां कथंभूतं भरतं स्वस्थ तनयानां पुत्राणां शतज्येष्ठं भगवज्जनाः भागवतास्त एव परायणाः भजनीयाः यस्य तं अत एव परमभागवतं भागवतश्रेष्ठं भगवद्भक्तेः भागवतपर्यन्तत्व एव पूर्तेः, स्वयं कथम्भूतः प्रवव्राज गृहमेव उर्वरितः शिष्टः शरीरमात्रपरिग्रहो यस्य सः परित्यक्तवस्त्रभूषमादिदेहानुबन्धः इत्यर्थः, उन्मत्त इवोपलक्षितः गगनमाकाश एव परिदानं यस्य सः दिगम्बर इत्यर्थः। प्रकीर्णाः विक्षिप्ताः केशा येन सः आत्मन्यारोपितः आहवनीयो वैदिकोऽग्निर्यः सः। उन्मत्त इवेत्यादिना शास्त्रातिलङ्घित्वमुच्यते, किन्तु “जनेनावमतो योगी योग सिद्धिं च विन्दति” इति न्यायेन योगवर्द्धकावमानादिफलकव्रतविशेषा उच्यन्ते।

अवधूतावस्थायां जीवनं कथं भवेत् अथवा कथं जीवनं यापयेत् तस्मिन् विषये प्रोच्यते – “जडान्धमूकबधिरपिशाचोन्मादकावदवधूतवेषोऽभिभाष्यमाणोऽपि जनानां गृहीतमौव्रतस्तूष्णीं बभूव।” अर्थात् अभिभाष्यमाणः सन्नपि जनानां मध्ये, जडोऽज्ञश्च अन्धो नेत्रविकलश्च बधिरः श्रोत्रविकलश्च पिशाचः पिशाचाविष्टश्च उन्मादकश्चित्तविकलश्च स इवेति तद्वत्। अवधूतः सर्वपरिभाव्यस्तस्येव वेषो यस्य सः, गृहीतं मौनव्रतं येन  सः, इत्थंभूतः सन् तूष्णीं बभूव। बालबोधिन्यां अस्यावस्थायाः वर्णनमेवं कृतम् – “एवं पारमहंस्यधर्मशिक्षार्थं गृहान्निस्सृतस्य साङ्ख्यमार्गाचरणं दर्शयति – जडान्धेत्यादिना। अवधूतस्येव मृदाद्यवगुण्ठितो वेषो यस्य सः। जनानां मध्ये जडादिवद्वर्त्तमानस्तैर्भाष्यमाणो वाच्यमानोऽपि गृहीतमौनव्रततूष्णीमेव बभूवेत्यन्वयः।”

अवधूतावस्थायां स्थितिः –

तत्र तत्र पुरादिष्वनुपदं मार्गे मार्गे अवनिचरापसदैः दुर्जनैस्तर्जनादिभिः परिभूयमानः मक्षिकाभिर्वनगज इव तदविगणयन्नव एकचरः एकाकी सन्पृथिवीं परिबभ्रामेत्यन्वयः। ततर् पुरं वत्तनं ग्रामो हट्टरहितः आकरः खऩिः खेटः कृषीवलग्रामः खर्वटः निषादादिग्रामः वाटी पुष्पादिवाटिका शिविरं सेनाया आवसस्थानं व्रजो गोनिवासस्थानं घोघो गोपानामावासस्थानं सार्थो यात्रिकजनसङ्घातः आश्रमः ऋषीणामाश्रमस्थानं तर्जनं भयजनकव्यापारः ताडनं प्रहारः मेहनमुपरिमुत्रणं निष्ठीवन खात्कृत्य श्लेष्मप्रक्षेपणं ग्राव्णां पाषाणानां शकृतो मलस्य रजसश्च क्षेपः पूतिवातोऽपानवायुः दुरुक्तं शापः एतैः अविगणने दृष्टान्तः मक्षिकाभिरिव वनगज। तत्रैव हेतुः असत्संस्थाने सततपरिणामिनोऽचिद्द्रव्यस्य परिणामरूपे सन्निवेशे देहोपलक्षणे देहाकारे सदपदेशे देहात्मभ्रान्तिमतामात्मत्वव्यपदेशविषये शरीर इत्यर्थः, उभयानुभवः स्वात्मपरमात्मयाथात्म्यानुभवः स्वरूपेण स्वमहिम्नः अवस्थानेन स्वस्य स्वात्मनो महिमा स्वभावः तस्मिन्नवस्थानेन उभयानुभयरूप एव ह्यात्मनः स्वस्वभावत्वेनावस्थितिरित्येवमुक्तं स्वमहिमावस्थानेन हेतुना देहे तदनुबन्धिनि चानारोपिताहं ममाभिमानो येन तस्य भावस्तत्त्वं तस्माद्देहविलक्षणस्वात्मयाथात्म्यानुभवरूपभावास्थित्या निरस्तदेहात्माभिमानत्वादित्यर्थः, अत एवाखण्डितमनाः सर्वात्मब्रह्मसाक्षात्कारेणैकरूपा मतिर्यस्य।। अतोच्यते भागवतपुराणे – “तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरव्रजघोषसार्थ- गिरिवनाश्रमादिष्वनुपथमवनिचरापसदैः परिभूयमानो मक्षिकाभिरिव वनगजस्तर्जनताडनावमेहनष्ठी- वनग्रावशकृद्रजःप्रक्षेपपूतिवातदूरुक्तैस्तदविगणयन्नेवासत्संस्थान एतस्मिन् देहोपलक्षणे सदपदेश उभयानुभवस्वरूपेण स्वमहिमावस्थानेनासमारोपिताहं ममाभिमानत्वादविखण्डितमनाः पृथिवीमेकचरः परिबभ्राम।।[5]

अस्याशयः स्पष्टीक्रियते पदरत्नावल्याम् –

“गृहात्संन्स्तस्य उत्तरस्थितिप्रकारं कथयति तत्र तत्रेति खर्पटं वस्त्रोत्पादनस्थलं कुविन्दाश्रयः व्रजो गोकुलं गोष आभीरपल्ली सार्थः परिषज्जनः अवनिचरापसदैः भूमिचरेषु दुर्वृत्तैर्नीचैरित्यर्थः, निष्ठीवनं थूत्कारः पूतिवातोऽधोवायुः तत्तर्ज्जनादिकर्माविगणयंस्तृणप्रतिप्रत्तिमपि अकुर्वन्नेव स्थित। कुत इति तत्राह असदिति। असताममङ्गलानां क्लेशानां संस्थानं यस्मिस्तस्मिन्नेतस्मिन् देहोपलक्षणे असन्नस्वतन्त्र इत्यपदेशः शब्दो यस्य स तथा तस्मिन् जडशब्दवाच्ये देहे अभयानुभवस्वरूपेण सर्वभूयशून्यज्ञानस्वरूपेण स्वमहिमावस्थानं यस्मिस्तेनासमवरोपिताहं ममाभिमानत्वात्त्यक्ताहं ममाभिमानत्वादखण्डितः अपरिच्छिन्न इति यस्मादिति शेषः। यद्वा असतो ब्रह्मणः संस्थानं यस्मिस्तथा तस्मिन्, तर्हि देहदेहिनोर्भेदापत्त्या “नेह नानास्ति किञ्चन” इति श्रुतिव्याकोपः स्यादत्राह असदिति। असद्ब्रह्मेत्यपदेशो यस्य देहस्य स तथा देहोऽपि ब्रह्म एवेत्यर्थः “विज्ञानमानन्दं ब्रह्म” इति श्रुतिः। अस्मिन् अत्रैव तदभेदः सूच्यत इत्याह समवरोपितेति। समवरोपितः सम्यक् ज्ञातः अहम्ममाभिमानस्तस्य भावः समवरोपिताहम्ममाभिमानत्वं तस्मात् “तद् ब्रह्म वेदाहं ब्रह्मास्मि” इति श्रुतिश्च त्रहि स्वपरिच्छेद्यत्वेन खण्डितत्वमत्राह अखण्डित इति। अखण्डितस्य खण्डितत्वेन ज्ञानान्न तत्र तर्कावसर इत्यर्थः। एकचर इत्यनेनादावन्ते चाप्येक एव चरतीत्यर्थोऽपि गृह्यते इत्यभिप्रायेणोक्तमिति ज्ञायते।।”

अवधूतावस्थायां का स्थितिर्भवति, इत्यस्मिन् विषये भागवते एवं प्रोक्तं वर्तते यत् स भूमिं पर्यटन् विगूढस्मितं यद्वदनं तस्य महोत्सवेन विभ्रमेण पुरवनितानां मनसि कुसुमशरासनं काममुपदधानः उद्दीपयन्नपि अवधूतमनादृतं अत एव मलिनं निजशरीरं तेन ग्रहगृहीतः पिशाचाद्याविष्ट इवादृश्यतेत्यन्वयः। पुराङ्गनानां कामोद्दीपकहेतुगर्भाणि विशेषणान्तराण्या – अतिसुकुमाराणि करचरणोरस्स्थलानि विपुलानि बाह्वसयुगलानि च वदनं च एते येऽवयवास्तेषां विशिष्टो न्यासः सन्निवेशो यस्य सः, तथा प्रकृत्यैव सुन्दरः तथा स्वभावसिद्धो यो हासस्तेन शोभनं मुखं यस्य सः तथा सदृशा अन्यूनाधिकाः सुभगाश्च कपोलकर्णकण्ठनासा यस्य सः। पराक् पुरतोऽवलम्बमानाश्च ते कुटिलाः वक्राश्च ते जटिलाश्च ते कपिशाः पिशङ्गाश्च ये केशास्तेषां भरिभारो यस्य सः। एवं साङ्ख्यमार्गस्य ज्ञानप्रधानस्याचारो दर्शित इति बोध्यम्। अतोच्यते भागवतपुराणे – “अतिसुकुमारकरचरणोरःस्थलविपुलवाह्वंसगलवदनाद्यवयवविन्यासः प्रकृतिसुन्दरस्वभावहाससुमुखो नवनलिनदलायमानशिशिरतारारुणणायतनयनरुचिरः सदृशसुभगकपोलकर्णकण्ठनासो विगूढस्मितवदनमहोत्सवेन पुरवनितानां मनसि कुसुमशरासनमुपदधानः परागवलम्बमानकुटिल- जटिलकपिशकेशभूरिभारोऽवधूतमलिननिजशरीरेण ग्रहगृहीत इवादृश्यत।”

अवधूतावस्थायाः वर्णनमितोऽपि वर्णितं भागवते यत् स ऋषभो भगवान् यर्हि लोकं जनं योगस्य अद्धा साक्षात्प्रतीपमिवाचक्षाणः पश्यन् बभूव तत्तस्य लोकस्य प्रतिक्रियाकरणं च बीभत्सितं कर्हितमित्याचक्षाणः तदा आजगरं व्रतमास्थितः सन् शयान एव भोजनं करोति पिवति च खादति चणकादीनां चर्वणं करोति अवमेहति मूत्रयति हदति पुरीषमुत्सृजति उच्चरिते पुरीषे चेष्टमानो विलुण्ठन् तेनैवादिग्धा उद्देशाः शरीरावयवा यस्य सः अवधूतः। अस्यैव वर्णनं भागवते पञ्चमस्कन्धे कृतमेवम्- “यर्हि वाव स भगवान् लोकमिमं योगस्याद्वा प्रतीपमिवाचक्षाणस्तत्प्रतिक्रिया कर्म बीभत्सितमिति व्रतमाजगरमास्थितः शयान एवाश्नाति पिबति खादत्यवमेहति हदति स्म चेष्टमान उच्चरित आदिग्धोद्देशः।।[6]

अपि च, एवं गवादिचर्यया पानादिकमपि करोति स्म। एवं गौर्वृषभश्च मृगो हरिणश्च काको वायसश्च तेषां चर्चा विचरणादिरीतिस्तया गच्छन् तिष्ठन्नवस्थानं कुर्वन्, अपविशन्, शयनमाचरन्सन्, काकश्च मृगश्च गौश्च ते,मिवान्यदपि चरितं वृत्तिर्यस्य  स तथाभूतः संश्च पिवति खादति अवमेहति स्म। इतीत्थं नाना योगचर्याचरणः योगिभिरेवं कर्तव्यमिति प्रदर्शनाय नानाविधयोगव्रतानि सम्यक्कुर्वाणः कैवल्यपतिर्मोक्षैकाधिपतिः, अवरतः अखण्डितः परममहान्सर्वोत्तमः आनन्दानुभवः स्वस्वरूपानुभवो भगवान् ऋषभः आत्मन् स्वात्माशरीरके, तथा सर्वेषां भूतानां आत्मभूते भगवति वासुदेवे आत्मनः अव्यवधाननन्तरोदरभावः, व्यवधानाभावजो भेदाभावः आचरितः। सिद्धाः स्वतः सिद्धिं प्राप्ताः ये समस्ता अर्थास्तैः परिपूर्णः, अत व यदृछ्छया अनिच्छयापि, उपगतानि योगप्रभावादेवनुषङ्गिकतया संप्राप्तान्यपि, वैहायसं खेचरत्वं च मनोजजवो मनस इव वेगश्च अन्तर्धानं तरोभवनं च पकायप्रवेशः च देशान्तर्तपतितवस्तुन उपादानं द्रष्टुं समर्थः भवति।

श्रीमद्भागवते पञ्चमस्कन्धे अयं विषयः एवं प्रतिपादितः –

“तस्य ह यः पुरीषसुरभिसौगन्ध्यवायुस्तं देश दशयोजनं समन्तात् सुरभि चकार।। एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः शयानः काकमृगगोचरितः पिबति खादत्यवमेहति स्म।। इति नानायोगचर्याचरणो भगवान् कैकव्लयपतिर्ऋषभोऽविरतपरममहान्दानुभव आत्मनि सर्वेषां भूतानामात्मभूते भगवति वासुदेव आत्मनोऽव्यवधानानन्तरोदनभावेन सिद्धसमस्तार्थपरिपूर्णो योगैश्वर्याणि वैहयसमनोजवान्तर्धानपरकायप्रवेशदूरग्रहणादीनि यदृच्छयोपगतानि नाञ्जसा नृप हदयेनाभ्यनन्दत्।।[7]

विष्णोः कलेवरत्यागो भूत्यागोऽन्यो न विद्यते।

कलेवरत्यागोऽन्येषां पञ्चत्वं समुदीरितम्।। इति

वचनात्स भगवान् स्वकलेवरं स्वाधीनं पृथिवीं जिहासुः त्यक्तुमिच्छन्नुपरराम वितव्यापारो बभूवेत्यन्वयः। कलेवरशब्दस्य प्रतीत एवार्थः किं च स्दित्याशङ्क्य वक्ष्यमाणानां विशेषणानां प्राकृतपुरुषेऽसम्भवादुक्त एवार्थः। अखिललोकपालानां ललामश्चूडामणि अनेनाप्रकृतत्वं कथमवगतमित्यत उक्तं विलक्षण इति। लोकविपरीतलक्षणः “अस्थूलमनण्वह्रस्वमि”त्यादेः, कथं तर्हि तस्य प्रभावो न लक्ष्यते अतोच्यते उक्तं जडवदवधूतेति। किमतः प्रोयजनमत उक्तं योगिनामिति। साम्परायविधिमोक्षसाधनप्रकारम् उपहितस्यास्य शिक्षा कथं मोक्षोपयोगिनी स्यादित्यत उक्तमात्मनीति। आत्मानं स्वस्वरूपमात्मनि ब्रह्मणि अनर्थान्तरभावेन भिन्नो नास्मीति मनसा असंव्यवहितं व्यवधानरहितमन्वीक्षमाणोऽनुभवन्तु परतानुवृत्तिः निवृत्तविषयानुवृत्तिः निवृत्तमुक्त्यन्यवस्थो वा। इदानीं हरेर्देशः सच्चिदानन्दत्वेन तदभिन्न इति दर्शयितुं तस्य सञ्चरमप्रकारं वक्ति। एकदर्षभस्य देह इमां जगतीं विचचारेति। मुक्तलिङ्गस्य वर्णाश्रमादिलक्षणरहितस्य बौतिकशरीररहितस्य वा योगमाया योगसामर्थ्यं तस्यावसानं काष्ठोत्कर्षो यस्य स तथा देहस्य जडस्य सञ्चरणं कथं घटत इत्यत उक्तमभिमानाभासेनेति। अभितो ज्ञानप्रकाशेन चङ्क्रममाणः पुनः पुनः पादक्षेपं कुर्वाणः ज्ञानात्मकत्वात् गमनादिक्रियां कुर्वाणः। अनेन देहदेहिनोरभेदोऽपि सूचित इति कस्मात् कान् देशानुद्दिश्य गमनमित्यत उक्तं कोङ्कटकर्णाटकादीति। इदानीं तस्य देहत्यागव्याजेन दावाग्निनिविष्टस्य जगत्संहारप्रकारमाह समीरवेगेन विधुता अन्योन्यमाकम्पिताये वेणवः वंशास्तेषां निकर्षान्निष्पेषणाज्जातो यो दवनलोज्ज्वलज्जिह्वया दिवमालेलिहानस्तेनाग्निना साधनेन सह भगवांस्तदुपवनं ददाहेत्यन्वयः। अत्र प्रतीतमनङ्गीकृत्यान्यार्थाङ्गीकारे किं प्रमाणमत्रोच्यते –

“ज्ञानानन्दात्मको देह ऋषभस्य महात्मनः।

तादृशेनैव मनसा क्रमंश्च कुटचाचले।।

दावाग्निमनुविश्याथ तत्रस्थः प्रादहज्जगत्।” इति।

कालान्तरभाविनो विश्वसंहारस्येदानीमयं कर्तेति कथं युज्यत इति चेन्न, तद्देहित्वेनाग्नेरभिव्यज्य तत्र स्थितस्य तस्य योगान् “एवमग्नेरभिव्यक्तस्तस्थौ विष्णुः सनातनः।” इति न केवलंविश्वक्षयपर्यन्तमेव स्थितं किन्तु पश्चादपि मतं तर्हि स्वमाहात्म्यं किं न प्रकटितमिति चेन्न, भूमाववातरस्य देवशिक्षणार्थंत्वेन धर्माणामप्राकट्यस्य स्वधर्मत्वात् ऋषभत्वेन सङ्गार्थधर्मानद्यापि तत्रगः आस्ते स “वासुदेवात्मा वासुदेवोऽहमित्यजः सदा स्थितः” इत्यनेन स्वरूपज्ञानस्य कदापि तिरोभावो नास्तीति सूचितं, निर्लेपेन सर्वज्ञेन सर्वोत्तमेन हरिणां किं प्रयोजनमकारीति चेन्न।

अतोच्यते भागवतपुराणे –

अथैवमकिललोकपालललामोऽपि विलक्षणैर्जडवदवधूतवेषभाषाचरितैरविलक्षित- भगवत्प्रबावो योगिनां साम्परायविधिमनुशिक्षयन् स्वकलेवरं जिहासुरात्मन्यात्मानम् असंव्यवहितमनार्थान्तरभावेनान्वीक्षमाण उपरतानुवृत्तिरुपरराम। तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावासनया देह इमां जगतीमभिमानाभासेन संक्रममाणकोङ्कवेङ्ककुटकान्दक्षिण- कर्णाटकान्देशान् यदृच्छयोपगतः कुटकाचलोपवन आस्यकृताश्मकवल उन्माद इव मुक्तमूर्धजोऽसंवीत एव विचचार। अथ समीरवेगविधूतवेणुविकर्षणजातोग्रदावानलस्तद्वनमालेलिहानः सह तेन ददाह।[8]

 “तस्य भगवत ऋषभस्यैवं मुक्तलिङ्गस्य त्यक्तदेहाभिमानस्यापि देहो योगमायावासनयाऽभिम्मनाभासेन इमां जगतीं पृथिवीं अभिचङ्क्रममाणः पर्यटन् कोङ्कादिदेशान् यदृच्छयोपमतः सन् आस्ये कृत अस्मकवलो येन सः मुक्ता मूर्धजा यस्य स असंवीतः नग्नः एव उन्मादः वातादिना विक्षिप्त इव कुटकाचलस्योपवने विचचारेत्यन्वयः। यथा भ्रामणसंस्करावशेन कुलालचक्रं भ्राम्यति तथा त्यक्ताभिमानस्यापि येनांशेन देहः प्रचलति सोऽभिमानाभासः स च जीवन्मुक्तानां जीवानामविद्यावासनया भवति, अस्य तु भवदवतारत्वात् योगमायावसनया लीलेच्छासंस्कारेणेति विशेषः। मुखे पाषाणस्थापनं तु “तावज्जितेन्द्रियो न स्यान्निर्जितान्येन्द्रियः पुमान्। न जयेद्रसनं यावज्जितं सर्वं जिते रसे”इति सिद्धान्ताद् मुमुक्षुभी रसनाजयार्थं प्रयतितव्यमिति सूचनार्थम्।”

अवधूतवस्थायां ये चरन्ति तेषां प्रति भगवतः अशेषकृपा भवति। ते सर्वेषां नमस्य भवन्ति।  अतोच्यते भागवतपुराणे –

नमो महद्भ्योऽस्तु नमः शिशुभ्यो नमो युवभ्यो नम् आवटुभ्यः।

ये ब्राह्मणा गामवधूतलङ्गाश्चरन्ति तेभ्यः शिवमस्तु राज्ञाम्।।

अर्थात् ज्ञानिनः केन रूपेण चरन्तीत्यज्ञानात्सर्वान्नमस्करोति, महद्भ्यो नमः तत्रापि शिशुरूपेभ्यो नमः ये युवानस्त्वादृशास्तेभ्योऽपि नमः आबटुभ्यः बटुपर्यन्तेभ्यः बटुर्माणवकः बटुवत्स्वमाहात्म्यानाविष्करणशीलपर्यन्तेभ्यः इत्यर्थः। ज्ञानिनो हि स्वमाहात्म्यानाविष्कारेण तिष्ठन्ति “तस्माद्ब्राह्मण पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्” इति श्रुत्यानुसारेण पाण्डित्यं नाम ज्ञाननिष्ठां निर्विद्य बाल्येन तिष्ठासेदित्यर्थः। ये तादृशा ब्राह्मणा अवधूतवेषाः गां भूमिं चरन्ति तेभ्यः सकाशाद्राज्ञां मादृशानां कृतागसां शिवमस्तु महतां निग्रहो मा भूदिति इति भगवतः इच्छा भवति।

अवधूतगीतायां भगवान् दत्तात्रेयः अवधूतावस्थां एवं वर्णयति –

लक्ष्यालक्ष्यविविर्जितलक्ष्यो युक्तायुक्तविवर्जितदक्षः।

केवलत्त्वनिरञ्जनपूतो वादविवादः कथमवधूतः।।[9]

लक्ष्यः एक एव भवति, अन्यत् सर्वं अलक्ष्यमेव। यस्मिन् वस्तुनि जिज्ञासु चित्तं निवेशयति तदेव लक्ष्यं भवति, यस्मिन् चित्तवृत्तिः न निविष्टा भवति तत् अलक्ष्यं भवति। यः केवलं आत्मतत्वे लीनः भवति, मायारहितः भवति स पवित्र अवधूतः भवति। सः लक्ष्यालक्ष्ययोः उपरि भवति। यः योगेन युक्तः भवति स अयुक्तः, यः योगेन युक्तः न भवति सोऽपि अयुक्तः। अवधूतः युक्तायुक्तयोः ऊर्द्धे भवति। स चतुरः भवति, अतः कथं वा वादविवादः सम्भवति।

अपि च,

आशापाशविबन्धनमुक्ताः शौछाचारविवर्जितयुक्ताः।

एवं सर्वविवर्जितसन्तस्तत्त्वं  शुद्धनिरञ्जवन्तः।।[10]

अवधूतः जीवन्मुक्तः आशापाशात् विमुक्तः, बन्धनरहितः, वहिस्थशौचाद्याचाररहितः भवति। यतो हि स आत्मनि निष्ठः भवति। शरीरस्य सम्पूर्णत्ते तस्य अध्यायः नास्ति। सः शुद्धः मायामलरहितः भवति। देहविदेहविचारशून्यः स भवेत्, अतोच्यते –

कथमहि देहविदेहविचारः कथमिह रागविरागविचारः।

निर्मलनिश्चगगनाकारं स्वयमिह तत्त्वं सहजाकारम्।।[11]

यः अवधूतावस्थां प्राप्तवान् तस्य मते शरीरमेव नास्ति, परन्तु एवं रागविरागविचारः कथम् आगच्छति? अतएवोच्यते नर्मलनिश्चगगनाकारं स्वयमिह तत्वं जहजाकारम्।

परन्तु कथं गगनसदृशव्यापकाकारस्य समावेशः सम्भवति इति चेत् प्रोच्यते –

कथमिह तत्त्वं विन्दति यत्र रूपमरूपं कथमिह तत्र।

गगनाकारः परमो यत्र विषयीकरणं कथमिह तत्र।।[12]

अवधूतावस्थायां ब्रह्मणि रूपारूपयोः किमपि तत्त्वं न ज्ञायते किन्तु गगनवत् व्यापकपरमतत्त्वरूपं भवति, तस्यामवस्थायां विषयीकरणव्यावहारः न भवति।

ब्रह्म आकाश इव सर्वव्यापकः, आत्मरूपः निर्लिप्तः, हंसस्वरूपः। एवं प्रकारेण आत्मनः स्थितिः भवति चेत् भिन्नविभिन्नम्, बन्धविबन्धविकारविभिन्नम् रूपं भवति। आत्मतत्तमेव सर्वव्यापकः भवति, तस्मिन् संयोग-वियोगः किमपि न भवति। संसारे उत्पत्तिकाले संयोगः एवं मरणकाले वियोगः इत्युभयोः साम्यं तेषां अनुभवः। एतत् सर्वं कल्पनामात्रम् अतः संयोगवियोगविषये अभिमानमनुचितम्। केवलमात्मतत्त्वमेव मायामलरहितं, आकाशवत् निरन्तरशुद्धञ्च। आत्मनि सत्सङ्गः, विरुद्धे कुसङ्गः भवति। आत्मा एव सत्यम्। आत्मतत्त्वे मग्न योगी संयोगवियोगरहितः भवति। योगी योगरहितोऽपि सहितोऽपि एवंप्रकारेण योगी आत्मानन्दे लीनः भवति।

अतोच्यते अवधूतगीतायाम् –

गगनाकारनिरन्तरहंस्तत्त्वविशुद्धनिरञ्जनहंसः।

एवं कथमहि भिन्नविभिन्नं बन्धविबन्धविकारविभिन्नम्।।

केवलतत्त्वनिरन्तरसर्वयोगवियोगौ कथमिव गर्वम्।

एवं परमनिरन्तरसर्वमेवं कथमिह सारविसारम्।।

केवलतत्त्वनिरञ्जनसर्वं गगनाकारनिरंतरशुद्धम्।

एवं कथमिहि संगविसङ्गं सत्यं कथमिह रंगविरङ्गम्।।

योगवियोगौ रहितो योगी भोगविभोगैरहितो भोगी।

एवं चरति हि मन्दं मन्दं मनसा कल्पित सहजानन्दम्।।[13]

धर्मशास्त्रे अथवा मीमांसादिशास्त्रे धर्मप्रस्थापनार्थं बहुविधविचारः कृतः वर्तते। मुख्यतया धर्मशास्त्रे ये संस्कारादयः विरारिताः सन्ति ते सर्वे आत्मप्राप्तये परोक्षोपायः एव। शुद्धाचारेण केवलं देशशुद्धिः भवति। किन्तु अवधूतवस्था लौकिकाचारणात् उर्द्धे भवति। तस्यामवस्थायां देहशुद्धादिविषयाः न सङ्गच्छते। आत्ममात्र शुद्धं, विभुः, नित्यम् इति प्रतीतिः भवति। अतः अवधूतावस्थायां शास्त्रोक्तधर्मविषयाः निष्फला एव। अस्यावस्थायाः प्रतिपुष्टिं करोति अयं श्लोकः – “अतीवभक्तियुक्तानां न शास्त्रं न च क्रमः”। अर्थात् अवधूतवस्थायां सर्वं सत्यमेव भाति, योगवियोगः, आचारादिः लीनः भवति। तस्यामवस्थायां वाह्यशुचेः निष्प्रयोजनमेव वक्ति। परमात्मनिनीलः अवधूतः वाह्यविषयज्ञानरहितः भवति, अतः प्रंशसादिविषये न वा तेषां रूचिः भवति न वा लीप्ता।

भगवान् दत्तात्रेयः अवधूतगीतायां अस्याः अवस्थायाः वर्णना कृता, अपि च भागवतपुराणेऽपि अस्य प्रसङ्गः दृश्यते। अवधूतवस्थायाः विशदवर्णनमपि तत्र भागवतपुराणे लभ्यते।


[1] ना.भ.सू – 81

[2] ना.भ.सू – 82

[3] अव.गीता. – 7.1

[4] भा.पु.- 5.5.29

[5] भा.पु.5.5.30

[6] भा.पु. 5.5.32

[7] भा.पु. – 5.5.33-35

[8] भा.पु. 5.6.6-8

[9] अव.गी. – 7.2

[10] अव.गी. 7.3

[11] अव.गी. – 7.4

[12] अव.गी. 7.5

[13] अव.गी. 6-9