सम्‍बोधने चेत्यस्य भर्तृहरिदिशा क्रियाविशेषणत्वविचारः

निमाइमण्डलः
शोधच्छात्रः, व्याकरणविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः
Mob: -8509576769
Email – mondalnimai966@gmail.com

सारांशः प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रेण प्रातिपदिकार्थमात्रे, लिङ्गमात्राद्याधिक्ये च प्रथमा विभक्तिः विहिता। तत्र सम्बोधनार्थे तु अनेन सूत्रेण प्रथमाविभक्तिः नोक्ता। अतः तत्रापि प्रथमाविभक्तिसिद्ध्यर्थं भगवता पाणिनिना सम्बोधने च  इति सूत्रमारब्धम्। अस्मिन् सूत्रे अभिमुखीभवनानुकूलो व्यापारः सम्बोधनपदार्थः। सम्बोधनविभक्त्यन्तपदस्य फलं प्रवृत्तिर्वा निवृत्तिर्वा। यथा – देवदत्त ! गामानय! सम्बोधने च इति सूत्रेण सम्बोधनेऽर्थे प्रथमाविभक्तिः विधीयते। अत्र सम्बोधनपदार्थनिरूपणे सन्ति मतभेदाः। तत्र च भर्तृहरेराशयं स्वीकृत्य नागेशसिद्धान्तो भवति क्रियासु विनियोगफलकः अभिमुखीभावः सम्बोधनमिति। स एव विचारः सम्‍बोधने चेत्यस्य भर्तृहरिदिशा क्रियाविशेषणत्वविचारः इति शीर्षकेण मया विलिख्यते।

विशेषशब्दाः– कारकम्, सम्बोधनम्, विशेषणत्वम्, प्राचीनाः, नागेशः, भर्त्तृहरिः इत्यादयः।

कारकमिति पदं कृधातोः निष्पन्नम्। तनादिगणीयात् कृधातोः ण्वल्तृचौ इति सूत्रेण ण्वुल्प्रत्यये कारकशब्दो निष्पन्नः। कारकं नाम किमिति जिज्ञासायां वैयाकरणैः बह्व्यः संज्ञाः प्रणीताः। तत्र भट्टोजिदीक्षितैरुक्तम् क्रियान्वयि कारकम् इति। तत्र नागेशेन क्रियाजनकत्वं कारकत्वमिति कारकस्य स्वरूपमुक्तम्। महाभाष्यकारेण पतञ्जलिना करोति, क्रियां निष्पादयतीति व्युत्पत्तिप्रदर्शनात् क्रियाजनकत्वमेव युज्यते इति नागेशस्याशयः।

वाक्यानां निर्माणे कारकाणां ज्ञानं नितरामपेक्षते। यतः कारकाणां ज्ञानं विना विभक्तेः प्रयोगः कर्तुं न शक्यते। यतः कर्मकारकं कुत्र भवतीति ज्ञानं नास्ति चेत् कर्मणि द्वितीया इति या द्वितीया विधीयते सा कथं वा प्रयोक्तुं शक्यते। अतः अन्येषामपि कारकाणां विषये तथैव। तथा च सम्बोधने च इति सूत्रेण सम्बोधनेऽर्थे प्रथमाविभक्तिः विधीयते। अत्र सम्बोधनपदार्थनिरूपणे सन्ति मतभेदाः। तथा हि-

१) सम्बोधनम् अभिमुखीभावः इति केचन वदन्ति।

२) सम्बोधनं नाम सम्यक् ज्ञापनमिति इतरे वदन्ति।

३) अभिमुखीकृत्य अज्ञातार्थज्ञापनानुकूलव्यापारानुकूलव्यापारः सम्बोधनमिति अपरे वदन्ति।

प्रथमायाः सम्बोधनमपि अर्थः इत्यत्र प्रमाणं भवति प्रातिपदिकार्थेलिङ्गवचनपरिमाणमात्रे प्रथमेति सूत्रे मात्रग्रहणम। प्रातिपदिकार्थसूत्रे मात्रग्रहणात् सम्बोधनाधिक्ये न प्राप्नोति इति एतत्सूत्रारम्भः। तत्र सम्बोधनपदार्थः वाक्यपदीये स्पष्टः। तथा हि –

सिद्धस्याभिमुखीभावमात्रं सम्बोधनं विदुः।

प्राप्ताभिमुख्यो ह्यर्थात्मा क्रियासु विनियुच्यते॥[1]

अस्यार्थः – सिद्धस्य = सम्बोध्यतावच्छेकरूपेण सिद्धस्य। अनेन अनुवाद्यविष्यत्वमस्य बोधितम्। अभिमुखीभावः=अनभिमुखः अभिमुखः सम्पद्यते तथा भावोऽभिमुखीभावः–सम्मुखाभाव इत्यर्थः। तच्च प्रयोक्तृवचनार्थग्रहणे सादरत्वभवनम्। तद्व्यञ्जकम च मुखपरावृत्त्यादि। मात्रपदेन सम्यज्ज्ञापनं सम्बोधनमिति मतान्तरव्यावृत्तिः। तत्सम्बोधनं विदुः इति कारिकापूर्वार्धस्यार्थः। परार्धांशेन सम्बोधनस्य फलं प्रदर्श्यते। प्राप्ताभिमुख्यः = प्राप्तम् आभिमुख्यं सम्मुखता योन मुखपरावृत्त्यादिना तादृशः। अर्थात्मा = अर्थपूर्ण आत्मा इति शाकपार्थिवादित्वात्समासः। प्रयोक्तृवचनार्थज्ञानवान् इत्यर्थः। क्रियासु = प्रयोक्तृज्ञाप्यक्रियासु विनियुज्यते = प्रेर्यते। अनेन प्रवर्ताविषयक्रियासम्बन्धोऽस्यास्तीति बोधितम्। तथा च क्रियासु विनियोगफलकः अभिमुखीभावः सम्बोधनमिति फलितम्।

      एवञ्च हे राम मां पाहि इत्यस्मात् वाक्यात् अभिमुखीभवद्रामोद्देश्यकप्रवर्तनाविषयो मत्कर्मकं रक्षणमिति बोधः। इह सम्बोधनं प्रकृत्यर्थं प्रति विशेष्यं, क्रियां प्रति विशेषणमिति सिद्धान्तः। उक्तञ्च –

सम्बोधनपदं यच्च तत् क्रियायां विशेषणम्।

व्रजानि देवदत्तेति निघातोऽत्र तथा सति॥[2]

एतन्मूलिकैव वैयाकरणमतोन्मज्जनकारिकापि सम्बोधनान्तस्य क्रियाऽन्वय एव साधुत्वं ज्ञापयति। व्रजानि देवदत्त इत्यादौ जानीहि इति क्रियायाः अध्याहारः वाक्यैकदेशन्यायेन। मध्यपुरुषैकवचने युष्मदर्थसामानाधिकरण्य-नियमात् त्वमिति कर्तृपदस्य अध्याहारः। तस्य च देवदत्त इति सम्बोध्यमानेन सह अभेदः। अतः देवदत्त अहं व्रजानि इति त्वं जानीहि इति वाक्यं सम्पद्यते। तथा च देवदत्तस्यैव कर्तृत्वमागतम्। एतन्मूलकमेव संबोधनस्य कर्तृकारकत्वव्यवहारो वृद्धानाम्। तथा च सम्बोधनविभक्तेरपि क्रत्रर्थकत्वात् क्रियायामेवान्वय इति कारकत्वं निर्बाधम्। अत एव तिङ्समानाधिकरणे प्रथमा इति वार्तिकमते प्रथमासिद्धिः संबोधने।  

यत्र सम्बोध्यतावच्छेदकरूपेण सम्बोध्यस्य सिद्धिः तत्रैव सम्बोधनविभक्तिः प्रवर्तते। अतः सम्बोधनविभक्तिः अनुवाद्यविषयः एव। अत एव यत्र राजत्वस्य सिद्धिर्नास्ति तत्र सम्बोधनविभक्तेरभावात्  राजन् भव युद्ध्यस्व इति प्रयोगः न भवति किन्तु राजावस्थायामेव राजन् युद्ध्यस्व इति प्रयोगः[3]

अत्र प्राचीनाः

सम्बोधनं नाम सम्यक् ज्ञापनम्। सम्बोध्यपदघटितवाक्यस्य प्रयोगः क्रियते। सम्बोधनस्य फलं प्रवृत्तिः अथवा निवृत्तिः। अत्र ज्ञापने सम्यक्त्वं नाम – मया यदुक्तं तत् भवता अवश्यं कर्तव्यम् इत्याद्यर्थविषयकं यत् प्रयोज्यनिष्ठं ज्ञानं तदनुकूलत्वम्। तादृशज्ञापनानुकूलो व्यापारो नाम सम्बोधनविभक्त्यन्तपदघटितवाक्यप्रयोग एव इति।

एवं स्थितेऽत्र सम्यक्त्वपदार्थं केचन अन्यथा निरूपयन्ति। तद्यथा – प्रयोक्तुः इच्छाविषयकत्वं ज्ञाने सम्यक्त्वम् इति। अत्र एवं समन्वयः – प्रयोक्तुः = सम्बोधनविभक्त्यन्तपदघटितवाक्यस्य प्रयोक्तुः चैत्रादेः, या इच्छा = ‘देवदत्तः जलमानयतु’ इत्यादिरूपा इच्छा, तत्र यो विषयः = देवदत्तकर्तृकं जलानयनम्, सः विषयो यस्य तादृशविषयकत्वम्। सम्बोधनञ्च सम्यक् ज्ञापनम् इति लक्षणे ज्ञापने सम्यक्त्वञ्च मया यदुक्तम् अवश्यं कर्तव्यमिति अवश्यकर्तव्यत्वादि तत् विषयकज्ञापनानुकूलत्वम्। तादृशज्ञापनानुकूलव्यापारश्च सम्बोध्यविभक्त्यन्त-पदघटितवाक्यप्रयोग एव। अचेतनेष्वपि चेतनत्वारोपेण सम्बोधनं लाक्षणिकं भवति – इति वदन्ति। उदाहरणम् हे अशोक! त्वया अहं सशोकः कृतः। अनया रीत्या सम्बोधनपदार्थः प्राचीनैः निरूपितः।

सम्बोधनञ्च अनभिमुखम् अभिमुखीकृत्य अज्ञातार्थज्ञापनानुकूलव्यापारानुकूलव्यापारः। अत्र समन्वयः अज्ञातः योऽर्थः गवानयनरूपः। तद्विषयकं यज्ज्ञानं गवानयनं मया कार्यमित्याकारकं  प्रयोज्यनिष्ठं ज्ञानम्। तदनुकूलो यो व्यापारः  देवदत्त! गामानय इति वाक्यप्रयोगरूपः व्यापारः। अभिमुखीकरणञ्च स्ववचनार्थग्रहणे सादरत्वकरणमिति वदन्ति।

अत्र भर्तृहरेः सिद्धान्तः –

सिद्धस्याभिमुखीभावमात्रं सम्बोधनं विदुः। प्राप्ताभिमुख्यो ह्यर्थात्मा क्रियासु विनियुज्यते[4] इति हरिग्रन्थविरुद्धमिदम्। अभिमुखीभावमात्रम् इत्युक्तत्वेन क्रियासु विनियोगफलकोऽभिमुखीभाव एवात्र सम्बोधनपदार्थः। न तु सर्वं पूर्वोक्तलक्षणम्। ‘सिद्धस्य’ इत्यनेन सम्बोधनविभक्तेः अनुवाद्यविषयत्वं स्पष्टं भवति। एवञ्च सम्बोधनविभक्तेरनुवाद्यविषयतया अनुवाद्यस्य च विधेये एवान्वयेन विधेयतयाश्च क्रियानिष्ठत्वेन सम्बोधनविभक्त्यन्तार्थस्य क्रियायामेव अन्वयः सिध्यति। एवञ्चोपर्युक्तदिशा अभिमुखीभाव एव सम्बोधनपदार्थः, न तु प्राचीनोक्तरीत्या अभिमुखीकृत्य अज्ञातार्थज्ञानानुकूलव्यापारानुकूलव्यापारः। अत एव कर्तृकारकत्वं सम्बोधनान्तस्येति वृद्धोक्तं सङ्गच्छते। सम्बोधनान्तस्य क्रियायामन्वयः अङ्गीक्रियते। अत्र च

सम्बोधनान्तं कृत्वोऽर्थाः कारकं प्रथमो वतिः।

धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनञ्॥

तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयम्।

साधुत्वमष्टकस्यास्य क्रिययावैवावधार्यताम्॥[5]

इति कारिका प्रमाणतया स्वीकृता। एवञ्च सिद्धस्य अभिमुखीभावः एव सम्बोधनपदार्थः, न तु सम्यग्ज्ञापनं सम्बोधनमिति प्राचीनोक्तः यौगिकार्थः इति नागेशाशयः।

परिशीलितग्रन्थसूची

  1. अष्टाध्यायीपाठ महर्षिपाणिनिः ज्ञानभारती 2009 (दीक्षितपुष्पासम्पादिता) पब्लिकेशन्स, दिल्ली
  2. पदवाक्यरत्नाकरः श्रीगोकुलनाथ उपाध्यायः सं.सं.वि.वि., वाराणसी 1998
  3. प्रौढमनोरमा (शब्दरत्नसंहिता) श्रीमद्भट्टोजिदीक्षितः वाणीविलास प्रकाशन, 2012 वाराणसी
  4. महाभाष्यम् (प्रदीपोद्योतसहितम्) महर्षिपतञ्जलिः रा०सं०सं०, नई 2006 दिल्ली
  5. लघुशब्देन्दुशेखरः (भैरवीसहिताः ) महामहोपध्याय सं०सं०वि०वि०, 2002 नागेशभट्टः वाराणसी
  6. लघुशब्देन्दुशेखरः (सदीपकः) महामहोपध्याय चौखम्भा संस्कृत वि०सं० नागेशभट्टः संस्थान 2053
  7. लघुशब्देन्दुशेखरः महामहोपाध्यायनागेश चौखम्भा सुरभारती 2013 (वरवर्णिनीसमलङ्कृतः) भट्टः प्रकाशन, वाराणसी
  8. वैयाकरणसिद्धान्तकौमुदी श्रीमद्भट्टोजिदीक्षित चौखम्भा विद्याभवन, 2008 वाराणसी
  9. वैयाकरणसिद्धान्तकौमुदी श्रीमद्भट्टोजिदीक्षितः रा०सं०सं० भोपाल 2009 (सिद्धान्तरत्नाकरसहिता) परिसरः सङ्केताक्षरः पा० पाणिनिः संo संख्या सू०
  10. वैयाकरणसिद्धान्तलघुमञ्जुषा श्रीनागेशभट्टः चौखम्भा संस्कृत 2012 (द्वितीयोभागः) सीरीज आफिस, बनारस
  11. व्युत्त्पत्तिवादः (जयाटीकासहितः) श्रीमद्गदाधरभट्टाचार्यः वाणी विकास 2016 प्रकाशन, वाराणसी

[1] वा..प.३ समु.१६३,

[2] वा.प.३ का. साधनसमुद्देश पृ९२

[3] देवदत्त त्वं गच्छ’ इत्यादौ अभिमुखीभवद्देवदत्ताभिन्नयुष्मग र्योद्देश्यकप्रवर्तनादिविषयो गमनमिति बोधः ।] क्तियान्वयिनी चेति बोध्यम् । तेन ‘राजा भव , युध्यस्व, इन्द्रशत्रुर्वर्धस्व’ इत्यादौ न सम्बोधनविभक्तिः, इदानीमपि राजत्वस्यासिद्धत्वेनानुवाद्यत्वाभावात् । अत एव ‘राजन् युध्यस्व’ इत्यस्य कुमारावस्थायाम् ; ‘राजाभव, युव्यस्व’ इत्यस्य च राजावस्थायां न प्रयोगः । हेशब्दादिकञ्च सम्बोधनतात्पर्यग्राहकम् । अचेतने तु चेतनात्वारोपेण गौणः प्रयोगः । लघुमञ्जुषा-सुबर्थनिर्णयः

[4] वा..प.३ समु.१६३,

[5] भूषणसारकारिका – १६-१७