पाराशरोपपुराणे अद्वैतसिद्धान्तानुरोधेन मायायाः जगदुपादनत्वविचारः

शक्तिप्रसादः महापात्र
शोधच्छात्रः
राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः

शोधसारः

दर्शनीयतमे शास्त्रे वेदान्तदर्शने प्रतिपादितेषु सिद्धान्तेषु मायायाः जगदुपादानकारणसिद्धान्तः अन्यतमः। मायासहितं ब्रह्म जगदुपादानकारणमिति सर्वविद्वत्सम्मतसिद्धान्तः। सोऽयं सिद्धान्तः उपनिषदां तात्पर्यं सम्पादयितुम् अतीव आवश्यकः। यदा तु वेदाध्ययनमेव दुस्साध्यं तदा उपनिषदां तात्पर्यावगमः कथं वा पर्यवस्येत। अतः तदधिगमे साह्यं सिद्ध्यतु इति महर्षिभिः व्यासादिभिः पुराणानि उपपुराणानि संरचितानि सन्ति। तथा च वेदान्तशास्त्रस्य अङ्गभूतानां विवर्त-अध्यास-अपवाद-जगदुपादानकारणादि-सिद्धान्तानां प्रतिपादनार्थं पुराणग्रन्थराशिरपि बहुधा उपकरोति। तादृशग्रन्थरत्नसमुदाये राराजते इदमपि उपपुराणं पाराशरनामकम्। अस्मिन्नपि उपपुराणे दर्शनतत्त्वविचारपूर्वकं प्रबोधनमपि अत्यन्तं सुचारुतया द्रष्टुं शक्नुमः। तादृशस्य सिद्धान्तस्य विचारः एव अयं पाराशरोपपुराणे अद्वैतसिद्धान्तानुरोधेन मायायाः जगदुपादानत्वविचारः। सोऽयं विचारः यथानुसन्धानं प्रस्तूयते।

प्रमुखशब्दाः

पुराणप्रसङ्गः, अद्वैतसिद्धान्तः, माया, जगत्, उपादानकारणम्, ब्रह्म

पुराणप्रसङ्गः –

उपपुराणेषु अन्यतमम् इदम् उपपुराणं पाराशरोपपुराणम्। पाराशरोपपुराणे आहत्य अष्टादशाध्यायाः सन्ति। तेषु दार्शनिकविचाराः वैविध्येन निरुपिताः दृश्यन्ते। इदं शिवतत्त्वप्रतिपादकं शैवपुराणम् इत्यपि प्रसिद्धम्। अद्वैततत्त्वनिरूपणपराः नैके श्लोकाः मुनिना निवेशिताः। येषाम् अध्ययनेन वेदान्ततत्त्वानाम् अधिगमः सुगमः स्यात्। तेषु अध्यायेषु विशिष्टश्च अध्यायः द्वितीयाध्यायः। अत्र शास्त्रस्य संक्षेपः कारिकाभिः प्रदर्शितः अस्ति महर्षिणा पराशरेण।

पारमार्थिकचैतन्यं, परमः पुरुषार्थः, तत्प्राप्तिः, तत्प्राप्तिमार्गे अपेक्षितानि साधनानि, तदन्तर्गतः विवेकः, विवेकविषयाः वेदान्तसिद्धान्ताः इत्येवमादीनां विमर्शः कृतः दृश्यते। तेषु विचारेषु अन्तर्गते सिद्धान्ते विषयभूतः अयं मायायाः जगदुपादानकारणत्वम्।

तेषु अन्यतमोऽयं सिद्धान्तः मयायाः जगदुपादानकारणसिद्धान्तः। यतो वा इमानि……[1]इतितैतरीयश्रुतिवाक्यम् अनुकरोत्ययं सिद्धान्तः। नित्य-बुद्ध-मुक्त-सत्यस्वभावं सच्चिदानन्दस्वरूपं ब्रह्म मायासहितं जगत् सृजति। अयं च विचारः वेदान्तदर्शने औपनिषदे साहित्ये राराजते।

एवं पुराणे प्रथमं ब्रह्मणः परमार्थस्वरूपं निरूप्यते—“एकं हि ब्रह्म सत्तत्त्वं नान्यदस्ति परं पुनः, स एव विश्वं स जीवः स यज्ञः स तपोऽखिलम्” इति। अस्य वचसः सारः अयम् – ब्रह्म एवैकं परमार्थसत्यम्, अन्यत् सर्वं तद्भ्रमकल्पितमेव। छान्दोग्योपनिषदि “सर्वं खल्विदं ब्रह्म”[2] इति, बृहदारण्यके “नेह नानास्ति किञ्चन”[3] इति च प्रतिपादितं तदेव अत्र समर्थ्यते।

ततः माया निरूप्यते—“माया नाम महाशक्तिर्ज्ञानावरणरूपिणी, सा ब्रह्मणः सखी नित्यं संसारं जन्महेतुकम्” इति। अत्र माया ब्रह्मणः सन्निधौ उपाधिरूपेण स्थित्वा आत्मज्ञानस्य आवरणं करोति, विक्षेपशक्त्या च संसारप्रपञ्चं कल्पयति। श्वेताश्वतरोपनिषदि अपि “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्”[4] इति स्पष्टमुक्तम्। ईशोपनिषदि च “अविद्यया मृत्युं तीर्त्वा विद्यया अमृतम् अश्नुते”[5] इत्युक्त्या मायाया: अनाद्यविद्यारूपत्वं दर्शयति।

मायायाः स्वरूपम् –

पराशर-उपपुराणे मायाया: स्वरूपं ‘अविद्याशक्तिः’ इति निर्दिष्टम्। एषा शक्तिः सृष्टेः प्रत्येकतले सक्रियते, यत्र जीवः स्वकर्मफलभोगं अनुभवति। मायाया: लक्षणं द्वैधम् – सृष्टिसंरक्षणशक्तिः च, भ्रमजन्यशक्तिः च। जीवः यदि आत्मबोधं न कुर्वन् चेत्, तर्हि सः मायायाः चक्रे बध्नाति। पराशर-उपपुराणे स्पष्टं कथितम् यत् मायायाः प्रभावः केवलं शरीरवस्तुनिर्माणे न, किन्तु मानसिकसंसारस्य अनुभवने अपि प्रत्यक्षः। उदाहरणार्थं, लोभः, मोहः, द्वेषः इत्यादयः भावाः जीवस्य मानसिकस्थितिमध्ये मायायाः प्रभावेन उत्पन्नाः। एवमेव, भक्तिः, प्रेम, विवेक, ज्ञान च मायाया: प्रभावं नियंत्रयति। अतः मायां न केवलं शक्ति इति, अपितु मार्गदर्शकशक्तिः इति अत्र उपपुराणे स्पष्टं निर्दिष्टम्।

मयायाः अङ्गीकरणप्रयोजनम् –

सच्चिदानन्दस्वरूपंब्रह्म। तच्चनित्यं, शुद्धम्, बुद्धम्, मुक्तं भवति इति वेदान्ते प्रसिद्धिः। तदेव ब्रह्म जगतः उत्पत्ति-स्थिति-लयकारणम् इत्यपि प्रसिद्धमेव। यत्सच्चिदानन्दस्वरूपं ब्रह्म तत्सङ्गरहितम्। अतः तत्साक्षात्जगत्कारणम् इति कथनं न युज्यते। उत्पन्नं च जगत् अनित्यम्, मिथ्या इति च प्रतिपाद्यते। अतः ब्रह्मविवर्तस्य मिथ्याभूतस्य जगतः कारणं किम् इति संशये जाते यत्किञ्चित्कारणं वक्तव्यम् इति धिया ज्ञानिनः मायायाः जगत्कारणत्वम् अङ्गीकृतवन्तः। तथा सत्यपि केवला जडात्रिगुणात्मिकामाया जगतः कारणं भवितुम् अशक्यम्। केवलं चैतन्यमपि सङ्गरहितत्वात्जगत्कारणं भवितुं नार्हति।अतः मायासहितं ब्रह्मजगत्कारणमिति सिद्धान्तः स्वीकर्तव्यः। तस्मात्ब्रह्मणः कारणत्वे वक्तव्ये मायायाः स्वीकारः अवश्यं कर्तव्यः।

अपि च सृष्टौ मायायाः प्रभावः प्रत्यक्षं दृष्टव्यः। पुराणेऽस्मिन् वर्णितं यत् पंचभूतानि – पृथ्वी, जल, अग्नि, वायु, आकाश – मायायाः प्रभावेन सक्रियाः। एषा शक्तिः पदार्थसृष्टेः प्रत्येकस्मिन् स्थाने विद्यमाना, यत्र जीवः स्वकर्मफले बध्नाति। उदाहरणार्थं, यदि व्यक्ति रजोगुणसम्पन्नः भवति, तर्हि सः भावनात्मक, संघर्षशील, लोभी च भविष्यति; यदि सत्त्वगुणसम्पन्नः, तर्हि सः ज्ञानसंपन्नः, धर्मपरायणः च भविष्यति। मायाया: प्रभावः एव जीवनस्थितेः प्रत्येकपटलं परिवर्तयति। उपपुराणे एव स्पष्टं कथितम्, यत् साधकः यदि सत्संग, धर्म, भक्ति, ज्ञान, तपः च अनुसरति, तर्हि मायाया: प्रभावं न्यूनं करि आत्मबोधं प्राप्नोति।

मयायाः जगदुपादानत्वम् –

       सेयमनिर्वाच्या माया अविद्यादिशब्दवाच्या प्रपञ्चस्य उपादानम्। तत्र च प्रमाणं श्रुतिः एव। “मायान्तुप्रकृतिंविद्यात्”[6]इत्याद्या हि श्रुतिः मायायाः जगदुपादानत्वं स्पष्टमेव ब्रवीति। तच्च उपादानत्वं स्वयोग्यमसत्यमेव भवति। न हि मायायाम् असत्यायां सत्यां तदुपादानत्वं सत्यमिति आख्यातुं शक्यते। नापि तज्जन्यः प्रपञ्चः सत्यः भवितुमर्हति। न हि शुक्तिरूप्येण असत्येन सत्यस्य आभरणस्य कर्तुं शक्यता अस्ति।अतः सर्वः प्रपञ्चः अविद्यावत् एव असत्यः अनिर्वाच्यः च इति सिद्धं भवति।

       अत्र च “यतो वा..”[7]इत्यादि श्रुति वशात्ब्रह्मणः एव जगदुपादानत्वमिति शङ्कायाः समाधानमविरोधेन ब्रह्ममाययोः मायासहितस्य मायाविशिष्टस्य वा ब्रह्मणः उपादानत्वमिति पूर्वमेव प्रदर्शितम्। विशेषतः विवरणे एवमभिहितम् त्रैविध्यमत्रसम्भवति। रज्जवाः संयुक्त सूत्रद्वयवत्मायाविशिष्टं ब्रह्मकारणमिति वा देवात्मशक्तिस्वगुणैः निरूढाम्[8] इतिश्रुतेः मायाशक्तिमत्ब्रह्म कारणमिति वा जगदुपादानमायाश्रयतया ब्रह्मकारणमिति[9] वाइति। तस्मात्केवलायाः मायायाः जगदुपादानत्वं वा भवतु ब्रह्मणः वा जगदुपादानत्वं भवतु उभयमपि मायां विना न सम्भवति इति कृत्वा माया एव अस्य संसाररूपस्यअनर्थस्यकारणम्।

अतः एव पञ्चपादिकायामुक्तम्सा प्रत्यक्चितिब्रह्मस्वरूपावभासं प्रतिबध्नाति। अहङ्‌काराद्यतद्रूपप्रतिभासनिमित्तं च भवति। सुषुप्तादौ च अहङ्‌कारादिविक्षेप संस्कारमात्रावशेषं पुनरुद्भवतिपञ्चपादिका[10]इति।

संसाररूपस्य अनर्थभूतस्य मूलकारणत्वेन प्रतिष्ठितायाः मायायाः द्वे शक्ती विद्येते, एते – आवरणशक्ति: विक्षेपशक्तिश्च। तयोः आवरणशक्त्या ब्रह्मस्वरूपस्य प्रकाशो न भवति, स्वात्मतत्त्वज्ञानस्य अनभिव्यक्तिः जायते। विक्षेपशक्त्या तु अहंकारप्रभृतिषु निखिलेषु अतात्विकेषु भेदप्रपञ्चेषु भ्रान्तिनामरूपात्मकानाम् उत्पत्तिः सञ्जायते। यथा दर्पणस्य निर्मलेऽपि पटले धूल्यावरणे यथार्थरूपस्य प्रतिबिम्बः न प्रकाशते, तथा ब्रह्मणि आवरणशक्त्युपहिते स्वस्वरूपज्ञानस्य अभावः प्रादुर्भवति। पुनश्च विक्षेपशक्त्या स्वात्मस्वरूपे अविद्यया प्रक्षिप्तं नानारूपमिदं जगत् अनुभवगम्यम् इव प्रतितिष्ठति।

सुषुप्त्यवस्थायां यद्यपि प्रत्यक्षविक्षेपः नोपलभ्यते, तथापि संस्कारमात्ररूपेण अविद्या तत्रावशिष्यते। सा एव पुनरपि जाग्रदवस्थायां प्रबुद्धा नाना विक्षेपान् उत्पाद्य संसारभ्रमस्य पुनरावृत्तिं जनयति। एवं रूपेण आवरणविक्षेपरूपशक्तिसंयुक्ता माया एव संसारस्य कारणं, अविद्या एव सर्वस्य उपादानम् इति स्पष्टतया दार्शनिकाशयः प्रकटितः।

ननु न निखिलस्यापि संसारस्य माया वा अन्यत्वा उपादानं भवितुमर्हति तत्र अनादेः अपि वस्तुनः सत्वात्–

जीवःईशःविशुद्धाचित्तथाजीवेशयोःभिदा।
अविद्यातच्चितोःयोगःषडस्माकमनादयः॥इति

       अभियुक्तोक्तेः इति चेत्। सत्यं – परन्तु अनादिष्वपि एषु शुद्धां चितं परित्यज्य अन्यत्सर्वम् अज्ञानाधीनमेव। जीवः तावत् अविद्याविच्छिन्नं चैतन्यं वा अविद्या प्रतिबिम्बितं चैतन्यं वा उभयथा अपि अविद्याधीनः एव। एवं मायिनं तु महेश्वरम्”[11]इति श्रुत्या ईश्वरः अपि मायाधीननिरूपणः एव। जीवेशयोः भेदः अविद्याकृतः इति कृत्वा सः अपि आविद्यकः एव। अविद्या चैतन्य सम्बन्धः अपि अविद्यां विना वक्तुमशक्यः इति कृत्वा तत्प्रयुक्तः एव स्वीकर्तव्यः। एवञ्च सर्वः अपि अनादिः अविद्या प्रयुक्तः एव। सादिश्च सर्वः अविद्याकार्यः एव इति अविद्याप्रयुक्तत्वकार्यत्वान्यतरत्संसारे अस्ति इति न कश्चित्विशेषः।

तदिदमज्ञानं संसारकारणमिति सुरेश्वराचार्यैः एवं प्रतिपादितम् –

बुध्यादिष्वपिसूक्ष्मेषुयत्सूक्ष्मतममुच्यते।

बुध्यादिकारणंनित्यमात्माविद्याइतिभण्यते।

अपिकूटस्थवपुषःप्रतीचःसङ्गकारणम्।

तत्वमस्यादिवाक्योत्थज्ञानबाध्यंचयद्विदुः॥

यन्निमित्तंचसाक्षित्वंकारणत्वंतथाआत्मनः।

सर्वकार्यविनाशेअपियत्बीजमवशिष्यते॥

आत्माज्ञानमतःप्रत्यक्चैतन्याभासवत्सदा।

आत्मनःकारणत्वादेःप्रयोजकमिहेष्यते॥[12]इति।

       अत्र च अविद्यया एव बुद्धादेः संसारस्य उत्पत्तिः भवति। न केवलं संसारस्य उत्पत्तिः अपि तु संङ्गरहितस्य आत्मनः संसारित्वमपि तेनैव भवति। तच्चसंसारित्वमात्मनः बहुविधमस्ति साक्षित्वकारणत्वादिरूपेण। तत्र सर्वत्राऽपि अज्ञानमेव कारणं भवति इति प्रतिपादितमस्ति।

समीक्षा –

यथा रज्जुस्वरूपेण सर्पभ्रान्तिर्भवेत्क्वचित्, तथा ब्रह्मणि मायायां विश्वसृष्टिर्निरूप्यते” इति। यथा रज्जुस्तमसा आवृत्ता सर्परूपेण भ्रान्तिं जनयति तथैव ब्रह्मणि मायोपहिते जगत्सृष्टिः आभासरूपेण प्रतीयते। ईशोपनिषदि भाष्ये च “आत्मन एवेदं सर्वम्”[13] इत्युक्त्या परमार्थतः ब्रह्मणः एव सर्वात्मभावं दर्शयति, गीता च “दैवी ह्येषा गुणमयी मम माया दुरत्यया”[14] इत्युक्त्या मायायाः प्रबलत्वं निरूपयति।

जीवब्रह्मसम्बन्धे अपि मायाया: भूमिका स्पष्टा—“बुद्ध्याद्युपाधिसंयुक्तं जीवत्वं प्राप्य वर्तते, उपाधिविनिर्मुक्तं ब्रह्मैव स्याद्विनिश्चयः” इत्युक्तेः। जीवः स्वरूपतः ब्रह्म एव, किन्तु उपाधिभेदेन कर्तृत्वभोक्तृत्वाभिमानं प्राप्य संसारं अनुभूयते। उपनिषत्सु “अहं ब्रह्मास्मि”[15] “तत्त्वमसि”[16] इत्यादीनि महावाक्यानि अस्यैव सत्यस्य बोधकारकानि भवन्ति। गीता अपि “ममैवांशो जीवलोके जीवभूतः सनातनः”[17] इति वदति।

अद्वैतवेदान्ते माया न सत्, न असत्, अपि तु अनिर्वचनीया। यदि सत् स्यात् तर्हि न निवर्तेत, यदि असत् तर्हि अनुभवो न स्यात्। केनोपनिषदि “यद्वाचा अनभ्युदितं येन वागभ्युद्यते”[18] इति वचनेन अस्याः अनिर्वचनीयत्वं द्योतयति। शाङ्करभाष्ये अपि “सदसद्भ्यामनिर्वचनीया माया” इत्युक्तं प्रसिद्धम्।

  • सा न सती — यतः ब्रह्मणः तुल्यसत्तासिद्धिः नास्ति।
  • नापि असती — यतः विश्वरूपेण अनुभवगम्या।
  • अनिर्वचनीया — यतः तर्केण न निर्णीयते, केवलं अनुभवाद्वारा ग्रहीतव्या।

पाराशरोपपुराणे सूचितम् —

न रूपं तस्य संज्ञेयं न च नाम किंचन।

निर्गुणं ब्रह्म तत्सर्वं ध्यानागम्यं हि केवलम्॥”

अत्र मायोपहितं रूपनामकम् अवास्तविकं, ब्रह्म तु निर्गुणं इत्युक्तम्।

मोक्षे मायाया: निवृत्तिः स्वाभाविकी। पुराणे उक्तम्—“यस्य नास्ति स्वपरभेदबुद्धिर्देहिनः क्वचित्, स जीवन्मुक्त एव स्यात्सर्वभेदनिवृत्तिमान्” इति। उपनिषदः अपि “यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति… यत्र तु सर्वमात्मैवाभूत् तत्केन कं पश्येत्”[19] इत्युक्त्या आत्मैकत्वदर्शनमेव मोक्षलक्षणं निरूपयति। गीता अपि “विद्या विनयसम्पन्ने ब्राह्मणे गवि हस्तिनि, शुनि चैव श्वपाके च पण्डिताः समदर्शिनः” इत्युक्त्या समदर्शनं मुक्तस्य लक्षणं वदति।

एवं भागवतपुराणे, विष्णुपुराणे च “मायां तु प्रकृतिं विद्यात् मायिनं तु महेश्वरम्” इत्यादिना माया ईश्वरस्य अधीनत्वेन उपादानकारणत्वेन च निरूपिता। पराशरोपपुराणे तु अद्वैतवेदान्तदृष्ट्या सूक्ष्मतरं विवेचनं प्रदत्तं, यत्र ब्रह्मणः परमार्थसत्यत्वं, मायाया: उपाधिकारणत्वं, जगन्मायिकत्वं, जीवब्रह्मैक्यं च प्रतिपादितम्।

अतः निष्कर्षतः द्रष्टुं शक्यते यत् पाराशरोपपुराणे अद्वैतसिद्धान्तः न केवलं अनुमोदितः, अपि तु विस्तरेण दार्शनिकरूपेण निरूपितः। ब्रह्मैव सत्यं, जगन्मिथ्या, जीवब्रह्मैक्यमिति त्रिसूत्र्याः समर्थनं, मायाया: जगदुपादनत्वविचारः च अत्र विशेषतया प्रतिपादितम्।

उपसंहारः –

पराशर-उपपुराणानुसारं माया जगत्संरचनायाः मूलशक्तिः इति विशिष्टा दृश्यते। सा केवलं आभासीशक्तिः न, अपि तु प्रत्येक सृष्टिस्थरे सक्रियशक्तिः भवति, यत्र जीवः स्वकर्मफलभोगे प्रवेशति। उपपुराणे स्पष्टं कथितम् यत् माया द्वैधस्वरूपा – सृष्टिसंरक्षणशक्तिः च, भ्रमजन्यशक्तिः च अस्ति। जीवः यदि आत्मबोधं न करोति चेत्, तर्हि सः मायायाः प्रभावे बध्नाति।किन्तु यदि सत्संगः, ज्ञानं, भक्तिः, तपः च अनुसरति, तर्हि मायाया: प्रभावः न्यूनो भविष्यति।

दर्शनानुसारं, माया अविद्याशक्तिः – मिथ्याज्ञानजन्यः भ्रमः, यः जीवस्य मानसिकानुभवेषु, गुणेषु, तथा कर्मफलप्राप्तौ स्पष्टं दृश्यते। रजोगुणे जीवः क्रोधं, मोहं, लोभं अनुभवति, सत्त्वगुणे ज्ञानं, विवेकं, धर्मपरायणता विकसिते, तमोगुणे आलस्यम्, अभिमानः, अज्ञानं च उत्पद्यते। मानवजीवने माया लोभं, मोह, क्रोध, भय इत्यादि भावान् उत्तेजयति, यः यदि साधकः विवेकं धत्ते तर्हि शिक्षाप्रदशक्तिः भवति। माया केवलं भ्रमजनकशक्तिः एव न, किन्तु जगत्सृष्टेः प्रत्येकस्मिन् भागे सक्रियतां धत्ते, जीवस्य अनुभवक्षेत्रं सृजति, तथा मोक्षमार्गे मार्गदर्शकशक्तिः अपि भवति।

अतः पराशर-उपपुराणे माया जगत्संरचनां, जीवकर्मफलं, मानसिकभावं, तथा मोक्षमार्गे मार्गदर्शनम् इत्यत्र विशिष्टतया स्वरूपेण निरूप्यते, यत्र साधकः यदि विवेकपूर्वकं साधनां करोति, तर्हि मायाया: प्रभावं अतीत्य आत्मज्ञानं च मोक्षं च प्राप्नोति।

सहायकग्रन्थसूची –

  1. ईशोपनिषद् – गोबिन्दभवन-कार्यालय, गीताप्रेस, गोरखपुर, २७३००५ चतुर्विशति संस्करण  २०५३
  2. केनोपनिषद् – गोबिन्दभवन-कार्यालय, गीताप्रेस, गोरखपुर, २७३००५ विंशति संस्करण  २०५३
  3. छान्दोग्योपनिषद् – गोबिन्दभवन-कार्यालय, गीताप्रेस, गोरखपुर, २७३००५ अष्टम संस्करण  २०५२
  4. तैत्तिरीयोपनिषद् – प्रकाशक घनश्यामदास जालान, गीताप्रेस, गोरखपुर, २७३००५, तृतीयसंस्करण  ३०००
  5. पराशरोपपुराणम् – व्यासविरचितम्, डा. कपिलदेव त्रिपाठि  संपूर्णानन्दसंस्कृतविश्वविद्यालयः वारणसी – २२१००२,प्रथम संस्करणम् – १९९०
  6. पञ्चपादिकाविवरणम् – MADRAS GOVERNMENT ORIENTAL SERIES, Published under the authority of The Government of Madras, 1958 General Editor T.CHANDRASEKHARAN, M.A, L.T, printed at BHARATI VIJAYAM PRESS Madras-5
  7. बृहदारण्यकोपनिषद् – गोबिन्दभवन-कार्यालय, गीताप्रेस, गोरखपुर, २७३००५ नवम संस्करण  २०५८
  8. मुण्डकोपनिषत् – गोबिन्दभवन-कार्यालय, गीताप्रेस, गोरखपुर, २७३००५ सप्तदश संस्करण  २०५३
  9. श्वेताश्वेतरोपनिषद् – गोबिन्दभवन-कार्यालय, गीताप्रेस, गोरखपुर, २७३००५ चतुर्दश संस्करण  २०५२

* * * * *


[1] तै.उ – ३-१-७

[2] छा.उ – ३-४-४

[3] बृ.उ – ४-५-१५

[4] श्वे.उ – ४-१०

[5] ई.उ – ११म

[6] श्वे.उ – ४-१०

[7] तै.उ – ३-१-७

[8] श्वे.उ – १-२

[9] प.वि – सू-१.व-१-पृ-६२

[10]सूत्रम् -२, वर्णकम्-५, पृष्ठम् – ५३२

[11] श्वे.उ – ४-१०

[12]बृहदारण्यकोपनिषत्भाष्यवार्तिकम् अध्यायः– ४, ब्राह्मणम् -३, श्लोकः – ३४८,३४९,३५०,३५५

[13] ई.उ,भा – १म

[14] भ.गी – ७-१४

[15] बृ.उ – १-४-१०

[16] छ.उ – ६-८-७

[17] भ.गी – १५-७

[18] के.उ – १-४-२

[19] बृ.उ – २-४-१४