नारदपुराणे मुहूर्तविचारः
ईश्वरमूर्तिभट्टः
शोधच्छात्रः
कर्नाटकसंस्कृतविश्वविद्यालयः, बेङ्गलूरु
नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चिनारायणशङ्करात्मने ॥
अस्मिन् जगति मानवः सर्वोत्कृष्टः मन्यते । तस्य जीवनस्य उद्देश्यम् आत्मसाक्षात्कारः वर्तते । विधिपूर्वकं संस्कृतः मानवः ज्ञानम् अर्जयित्वा आत्मसाक्षात्कारं कर्तुं प्रभवति । मानवस्य सम्पूर्णजीवनं संस्काराणां बलादेव प्रवर्तते । संस्काराणां प्रमुखं लक्ष्यं शरीरस्य शुद्धिः पवित्रता च अस्ति । अतः स्मृतिकारैः मानसिकबौद्धिकशुद्ध्यर्थं संस्कारविशेषाः निर्दिष्टाः । अस्य आधुनिककाले प्रसक्तिविषये संशयः एव न सङ्गच्छते । यतो हि सर्वोत्कृष्टभावम् अवाप्तुं सर्वैः सदा प्रयत्नः क्रियते एव । सर्वोत्कृष्टता तु नियमेन विधिपूर्वकेन सम्यक्कालेन कृतस्य कर्मणः फलवेशेषः वर्तते । नियमः, विधिः, सम्यक्कालः इत्युक्ते शास्त्रे विहिताः शुभमुहूर्तादयः भवन्ति । अतः आधुनिककाले वर्तते अस्य ज्येतिषशास्त्रस्य महद्वैशिष्ट्यं तथा प्रासङ्गिकता च ।
जातकगोलनिमित्तप्रश्नमुहूर्ताख्यगणितनामानि ।
अभिदधतीह षडङ्गानि आचार्या ज्योतिषे महाशास्त्रे ॥[1] इति ।
प्रश्नमार्गे ज्योतिश्शास्त्रस्य षडङ्गानि उक्तानि । तेषु एकम् अङ्गं भवति मुहूर्तम् । शुभकार्याणि कर्तुं कालस्य गुणदोषविचिन्तनं मुहूर्ताङ्गे प्रतिपादितं वर्तते ।
सुखदुःखकरं कर्म शुभाशुभमुहूर्तजम्।
जन्मान्तरेऽपि तत् कुर्यात् फलं तस्यान्वयोऽपि वा ॥[2] इति ।
‘क्षणो मुहूर्तः’ इति भास्कराचार्यैः मुहूर्तस्य लक्षणमुक्तम् । क्षणः नाम त्रिंशत् कलार्क्षी घटिका क्षणः अथवा नाडीद्वयं अर्थात् घटिकाद्वयम् । एकस्यां घटिकायां चतुर्विशंति निमेषाः भवन्ति । घटिका द्वयमित्युक्ते अष्टचत्वारिंशत् निमेषाः भवन्ति । एकस्मिन् अहोरात्रे त्रिंशत् मुहूर्ताः भवन्ति । शुभकर्मणां मुहूर्तनिर्धारणस्य अयं सामान्यः नियमः भवति यत् शुभा तिथिः स्यात् पुनः शुभवासरः इत्युक्ते सोम-बुध-गुरु-शुक्रवासरः स्यात् ।
नारदपुराणस्य संहितास्कन्धः बहुविशेषणपूरितः वर्तते । यतो हि अस्मिन् मुहूर्तस्यापि उल्लेखः लभ्यते । वराहमिहिराचार्यैः बृहत्संहितायां मुहूर्तस्य विषये न उल्लिखितः । नारदीयसंहितायां बहुविस्तारेण मुहूर्तविचारः प्रतिपादितः । नारदपुराणस्य आधारेण मुहूर्तः द्वेधा विभक्तुं शक्यते । संस्कारीयमुहूर्ताः दैनन्दिनकार्योपयोगीमुहूर्ताश्चेति ।
संस्कारीयमुहूर्ताः
मलिनं वस्तु प्रक्षाल्य शुद्धं, पवित्रं च क्रियते, तथा च सुवर्णः अग्नौ तापयित्वा शुद्धः क्रियते, तथैव संस्कारैः जन्मजन्मान्तरेभ्यः सञ्चिताः मलरूपिणः निकृष्टकर्मसंस्काराः दूरीभवन्ति । भरतीयसंस्कृतेः संरक्षाः सम्पोषयितारः भवन्ति एते संस्काराः ।
संस्कारशब्दस्य व्याख्यनं बहुभिः बहुधा कतम् । तस्यैव उल्लेखः अत्र क्रियते –
‘जन्मना जायते शूद्रः संस्कारात् द्विज उच्यते ।’ इति ।
‘संस्कारो हि गुणान्तराधानम् उच्यते’[3]
‘संस्कारो हि नाम संस्कार्यस्य गुणाधानेन वा स्यात्, दोषापनयनेन वा ।’[4]
‘वैदिकैः कर्मभिः पुण्यैः निषेकादिर्द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥’[5]
के ते संस्काराः इति जिज्ञासायां कथ्यते –
गर्भहोमैर्जातकर्मनामचौलोपनायनैः ।
स्वाध्यायैस्तद्व्रतैश्चैव विवाहस्नातकव्रतैः ।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ इति ।[6]
व्यासस्मृतौ −
गर्भाधानं पुंसवनं सीमंतो जातकर्म च ।
नामक्रिया निष्क्रमणेऽन्नाशनं वपनक्रिया ॥
कर्णवेधो व्रतादेशो वेदारम्भक्रियाविधिः ।
केशान्तः स्नानमुद्वाहो विवाहाग्निपरिग्रहः ॥
त्रेताग्निसङ्ग्रहश्चेति संस्काराः षोडशः स्मृताः ।[7] इति ।
सर्वैः स्मृतिकारैः आदृतः षोडशसंस्काराः प्रमुखाः भवन्ति । तेषां फलमपि कथितम् –
निषेकादीनि कर्माणि यः करोति यथाविधि ।
सम्भावयति धर्मेण स विप्रो गुरुरुच्यते ॥[8] इति ।
एते संस्कारा वस्तुतः गर्भस्याधानादेव प्रारभन्ते । बहुषु गृह्यसूत्रेषु गर्भाधानादेव संस्काराणां प्रारम्भं दृश्यते । वेदमूलत्वात् वैदिकैः पुण्यैः शुभैः मन्त्रप्रयोगादिभिः कर्मभिः द्विजातीनां गर्भाधानादिः शरीरसंस्कारः कर्तव्यः । यतो हि एष शरीरसंस्कारः न केवलम् इहलोके परलोके चापि पुनाति । एवम् उक्तप्रकारेण गर्भाधानादिभिः संस्कारकर्मभिः पापं शमं याति ।
शुभाशुभमुहूर्तस्य फलमुच्यते नारदीये –
दोषाल्पत्वं गुणाधिक्यं बहु संततमिष्यते ।
दोषाद्दुष्टो हि कालस्तमपि मार्ष्टुं पितामहः ॥
अप्यशौचतुणाधिक्यं दोषान्यत्ते ततो हि ते ॥[9] इति ।
मुहूर्ते दोषस्य अल्पता गुणस्य अधिकता भवति चेत् कृतं कार्यं सततं शुभफलं प्रयच्छति । दोषाधिककाले कृतस्य फलम् अनिष्टमेव भवति । एतं फलम् अनुभोक्तव्यमेव ब्रह्मणापि किमपि कर्तुं न शक्यतेति उक्तम् ।
गर्भाधान-पुंसवन-सीमन्तोनयन-नामकरण-अन्नप्राशन-चूडाकर्म-उपनयन-विवाहसंस्काराणां मुहूर्तविषये नारदीये उच्यते ।
गर्भाधानम्
आद्या निशाश्चतस्रस्तु त्याज्या ह्यपि समाः परैः ॥[10]
रात्रेः प्रथमः यामः पनश्च चतुर्थः यामः गर्भाधाने त्याज्यः इत्यारभ्य गर्भाधानादिसंस्कारविषयाणां मुहूर्ताः विचार्यन्ते । अन्येषां मतस्य विरोधः नास्ति समन्वयः वर्तते । यः विशेषविचारः वर्तते स एव अत्र सम्प्रति विलिख्यते ।
पुंसवनम्
प्रसिद्धे प्रथमे गर्भे तृतीये वा द्वितीयके ।
मासे पुंसवनं कार्यं सीमंतं च यथा तथा ॥[11]
प्रथमगर्भे द्वितीये तृतीये मासि पुंसवनं कार्यम् । विज्ञाते गर्भे इति पुंसवनम् इत्यपि सूत्रकारैः निर्धारितं वर्तते । अत्र नक्षत्रस्य उल्लेख न प्रदर्शितः । प्रायः सूत्रकाराः प्रथमगर्भे पुंसवनम् इति अभिप्रयन्ति । प्रथमसंस्कारेण आगामि सर्वेऽपि गर्भाः संस्कृताः स्युः इति तेषाम् आशयः स्यात् ।
सीमन्तोन्नयनम्
चुतुर्थे, षष्ठे, अष्टमे वा मासे सीमन्तोयनं कार्यम् ।
जातकर्म
तस्मिञ्जन्ममुहूर्तेऽपि सूतकान्तेऽपि वा शिशोः ।
जातकर्म प्रकर्तव्यं पितृपूजनपूर्वकम् ॥[12] इति ।
शिशोः जननात् अनुक्षणमेव जातकर्म कुर्यात् । अथवा सूतकान्ते नान्दिश्राद्धं कृत्वा कुर्यात् ।
नामकरणम्
अत्र नामकरणस्य विशेषता दृश्यते । तद्यथा –
सूतकान्ते नामकर्म विधेयं तत्कुलोचितम् ।
नामपूर्वं प्रशस्तं स्यान्मङ्गलैः सुसमीक्षितैः ॥[13] इति ।
सूतकान्ते नामकरणं कुर्यात् इति उक्तम् । ‘द्वादशे अहनि पिता नाम कुर्यात्’ इति प्रसिद्धं वचनम् । लोके सामन्यतः एकादशे अहनि नामकरणसंस्कारः विधीयते । शिशोः नाम कथं स्यात् चेत् स्वकुलोचितं स्यात् । जातस्य नाम कथं भवेत् इति नियमः क्रियते – मङ्गलसूकः, सुममीक्षितः, प्रशस्तश्च भवेदिति । स्वेच्छया कुत्रचित् दृष्ट्वा वा नामकरणं न कार्यम् । सम्यक् विचार्यैव कर्तव्यमिति सुष्ठप्रतिपादितम् । कारणवशात् एतस्मिन् निर्धारिते समये नामकरणं न शक्तं चेत् कालन्तेरे कर्तुम् अवकाशः प्रकल्पितः । तद्यथा −
अनस्तगे भृगावीज्ये तत्कार्ये चोत्तरायणे ॥[14] इति ।
उत्तरायणे इति अयं विशेषतः उक्तः । गुरुशुक्रास्ते तावत् शुभकर्माणि न क्रियन्ते ।
चौलोपनयनसंस्करायोः विशेषमाह –
शुभदं जन्मनक्षत्रमशुभं त्वन्यकर्मणि ॥[15]
चौले तथा उपनयनने संस्कार्यस्य जन्मनक्षत्रं शुभदं भवति । अन्यत्र कार्ये जन्मनक्षं निन्द्यः, वर्जनीयसश्च । परं संस्कारेऽस्मिन् प्रशस्तः भवति ।
गृहे मङ्गलकर्येषु तोरणध्वजादिनां स्थापनाय शुभदिनानि निर्दिष्टानि वर्तन्ते नारदपुराणे ।
नवमे सप्तमे वापि पञ्चमे दिवसेऽपि वा ॥
तृतीये बीजनक्षत्रे शुभवारे शुभोदये ॥[16]
मङ्गलकार्यास्य पूर्वं प्रक्तनेषु तृतीय-पञ्चम-नवमेषु दिवसेषु तोरणध्वजादीनां बन्धनं कर्तव्यम् ।
अभिजित् लग्नस्य प्रशंसा –
अभिजित्सर्वदेशेषु मुख्यो दोषविनाशकृत् ॥[17]
मध्यंदिनगते भानौ मुहूर्तोऽभिजिदाह्वयः ॥
नाशयत्यखिलान् दोषान् पिनाकी त्रिपुरं यथा ॥[18] इति ।
यथा शिवः त्रिपासुरं हन्ति तथैव अजित् लग्नः सर्वान् दोषान् हन्ति इति ।
विवाहमण्टपनिर्माणविधानम् –
हस्तोच्छ्रितां चतुर्हस्तैश्चतुरस्रां समंततः ।
स्तम्भश्चतुर्भिः सुश्लक्ष्णैर्वामभागे तु सन्नताम् ।
समण्डपां चतुर्दिक्षु सोपानैरतिशोभिताम् ॥
प्रागुदक्प्रवणां रंभास्तंभैर्हंसशुकादिभिः ।
विचित्रितां चित्रकुंभैर्विविधैस्तोरणांकुरैः ॥
श्रृङ्गारपुष्पनिचयैर्वर्णकैः समलंकृताम् ॥[19] इति ।
चतुर्हस्तोन्नतः, समचतुरस्रः, नयनमनोहरचतुभिः स्तम्भयुक्तः, चतस्रुषु दिक्षु सोपानयुक्तः, पूर्वे उत्तरे वा बृहद्द्वारयुक्तः, रम्भस्तस्तम्भैरलङ्कृतः, हंसशुकाद्याकृतिभिः सुशोभितः, विवाधाकारैः कृततोराणाद्यङ्कारयुक्तः, पुन्नाग-जाजि-मल्लिका-वेवन्तिका-बकुल-चम्पकादिपुष्पैः समलङ्कृतः वैभवोपेतः मण्डपः भवेत् । अर्थात् नयनरञ्जकानि यानि यानि उपायाः सन्ति तानि सर्वाणि कार्याणि इति ।
अधुना नारदपुराणे परिदृश्यमानः द्वितीयः प्रकारकः दैनन्दिनकार्योपयोगीमुहूर्तः इति विषये विचारः स्थूलरूपेण लिख्यते । तत्र पुनः विभागः कर्तुं शक्यते यथा – देवताप्रतिष्ठा, यात्रा, शकुनम्, दिनोपयोगी च इति ।
कृतत्रेताद्वापरकलियुगेषु क्रमेण धर्मस्य ह्रासः भवतीति सर्वैर्विदितमेव । तथापि यत्नतः धर्मस्य परिपालं शास्त्राधारेण शुभाभमुहूर्तादिकं सम्यक् अवलोक्य क्रियते चेत् धर्मस्य संरक्षणन्तु भवत्येव, पुनश्च कर्मसाफल्यद्वारा जीवनोत्कर्षः अपि साधितः भवति ।
‘स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्’[20] इति भगवद्वाक्यं स्मरन् धर्माचरणम् अतिशयेन भवत्विति शम् ॥
उपयुक्तग्रन्थसूची
- प्रश्नमार्गः − कब्याडि श्रीनिवासाचार्यः, कब्याडि पर्कळ, २०१०
- चरकसंहिता − निर्णयसागरयन्त्रालयः, मुम्बई, १९३३
- ब्रह्मसूत्रभाष्यम् − श्रीश्रीजगद्गुरुशङ्कराचार्यमहासंस्थानं, दक्षिणाम्नायश्रीशारदापीठं, शृङ्गेरी, २०२१
- मनुस्मृतिः − परिमल पब्लिकेशन् , दिल्ली, १९९२
- महाभारतम् − गीताप्रेस् गोरखपुरम् , १९९५
- बृहन्नारदीयपुराणम् − चौखम्बा कृष्णदास अकादमी, वाराणासी, २०२२
- श्रीमद्भगवद्गीता − श्रीश्रीजगद्गुरुशङ्कराचार्यमहासंस्थानं, दक्षिणाम्नायश्रीशारदापीठं, शृङ्गेरी, २०१८
- संस्कारमहोदधिः − अनन्तप्रकाशनं, बेङ्गलूरु, २००९
[1] प्रश्नमार्गः १.६
[2] प्रश्नमार्गः १.१०
[3] चरकसंहिता ३.१.२
[4] ब्रह्मसूत्रभाष्यम् १.१.४
[5] मनुस्मृतिः २.२६
[6] महाभारतम् १४.११०.५३
[7] व्यासस्मृतिः १.१३-१५
[8] मनुस्मृतिः २.१४२
[9] नारदीयपुराणं पूर्वार्धम् ५६.३११
[10] नारदपुरणं पूर्वार्धम् ५६.३१८
[11] नारदपुराणं पूर्वार्धम् ५६.३२०
[12] नारदपुराणं पूर्वार्धम् ५६.३२६
[13] नारदपुराणं पूर्वार्धम् ५६.३२७
[14] नारदपुराणं पूर्वार्धम् ५६.३२८
[15] नारदपुराणं पूर्वार्धम् ५६.३३८
[16] नारदपुराणं पूर्वार्धम् ५६.३३४
[17] नारदपुराणं पूर्वार्धम् ५६.५१३
[18] नारदपुराणं पूर्वार्धम् ५६.५१४
[19] नारदपुराणं पूर्वार्धम् ५६.४९१-४९४/१
[20] श्रीमद्भगवद्गीता २.४०